।।श्रीजानकीवल्लभो विजयते।।
अथ सुधाकरभाष्यसहितम्

ऋग्वेदाङ्गज्योतिषम् ।

श्रीरामं सीतया सार्धं रत्नसिंहासनस्थितम्।

नत्वा कुरु मन: कार्यं सफलं सकलं किल।।

निर्विघ्नार्थमादौ मङ्गलमाचरति

पञ्चसंवत्सरमय-युगाध्यक्षं प्रजापतिम्।

दिनर्त्त्वयनमासाङ्गं प्रणम्य शिरसा शुचि:।।1।।

अस्य भाष्यं याजुषज्यौतिषप्रथमश्लोकवदिति स्फुटम्।।1।।

प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम्।

कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मन:।।2।।

शिरसा कालं कालपुरुषं रविं प्रणम्य सरस्वतीमभिवाद्य अभिवन्द्य लगधस्य महात्मनो महर्षि: कालज्ञानमहं शुचि: प्रवक्ष्यामि वच्‍मीति। लगध: कश्चित् प्राचीनो महर्षिस्तेन पञ्चवर्षात्मके युगे यथा कालानां रविचन्द्रसावनदिनादीनां ज्ञानं कृतं तथा तदानयनमहं शुचिर्वच्मीत्यर्थ:।।2।।

इदानीं किं ब्रवीमीत्याह।

ज्योतिषामयनं कृत्स्नं प्रवक्ष्याम्यनुपूर्वश:।

विप्राणां सम्मतं लोके यज्ञकालार्थसिद्धये।।3।।

ज्योतिषां सूर्यचन्द्रनक्षत्राणामयनं चलनं कृत्स्नं सकलं विप्राणां ज्योतिर्विदां सम्मतं स्वीकृतमनुपूर्वशो यथाक्रमं लोके संसारे यज्ञकालार्थसिद्धये वक्ष्यामीति स्फुटम्। याजुषात् कि‍ञ्चित् पाठभेद:।।3।।

इदानीं पर्वगणानयनमाह।

निरेकं द्वादशाभ्यस्त द्विगुणं गतसंयुतम्।

षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते।।4।।

याजुषत्रयोदशश्लोकोऽयमतस्तदेव भाष्यादिकं स्फुटम्।।4।।

इदानीं युगादिमाह।

स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ।

स्यात् तदादियुगं माघस्तप: शुल्कोऽयनं ह्युदक्।।5।।

याजुषस्य षष्ठश्लोकोऽयमतस्तद्भाष्यमेव द्रष्टव्यम्।।5।।

इदानीमयनयोरादिमाह।

प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक्।

सार्पार्धे दक्षिणाऽर्कस्य माघश्रावणयो: सदा।।6।।

याजुषसप्तमश्लोकेन सर्वं स्फुटमिति।।6।।

इदानीं दिनरात्रिमानमाह।

घर्मवृद्धिरपां प्रस्थ: क्षपा हास उदग्गतौ।

दक्षिणेतौ विपर्यास: षण्मुहूर्त्त्ययनेन तु।।7।।

याजुषाष्टमश्लोकेन भाष्यादिकं स्फुटम्।।7।।

इदानीमयनाद्यमाह।

प्रथमं सप्तमं चाहुरयनाद्यं त्रयोदशम्।

चतुर्थं दशमं चैव द्विर्युग्मं बहुलेऽप्यृतौ।।8।।

याजुषनवमश्लोकभाष्यादिना स्फुटम्।।8।।

इदानीमयनादिनक्षत्रदेवता ऋतुभानयनं चाह।

वसुस्त्वष्टा भवोऽजश्च मित्र: सर्पोऽश्विनौ जलम्।

अर्यमा कोऽयनाद्या: स्युरर्धपञ्चमभस्त्वृतु:।।9।।

याजुषदशमश्लोकभाष्यादिना सर्वं स्फुटम्‌।।9।।

इदानीमभीष्टपर्वणि चन्द्रभांशानयनमाह।

भांशा: स्युरिष्टका: कार्या: पक्षा द्वादशकोद्गता:।

एकादशगुणाश्चेन्दो: शुक्लेऽर्धं चैन्दवा यदि।।10।।

याजुषपञ्चदशश्लोकभाष्यादिना सर्वं स्फुटम्।।10।।

इदानीं पर्वणि भांशकलानयनमाह।

कार्या भांशाष्टकास्थाने कला एकान्नविंशति:।

ऊनस्थाने द्विसप्ततिमावपेदिनसंयुताम्।।11।।

याजुषैकोनविंशश्लोकभाष्यादिना सर्वं स्फुटम्।।11।।

इदानीं नक्षत्रसंबन्धिभूदिनान्याह।

त्र्यंशो भशेषो दिवसस्य भाग-

श्चतुर्दशस्याप्यपनीय भिन्नम्।

भार्धेऽधिके वाऽल्पगते परोऽशो

द्यावुक्तमेतन्नवकैर्भवेद्य:।।12।।

याजुषसप्तविंशश्लोकभाष्यदिना सर्वं स्फुटम्।।12।।

      इदानीं तिथिनक्षत्रे संस्कारविशेषमाह।

पक्षात् पञ्चदशाच्चोर्ध्वं तद्भुक्तमिति निर्दिशेत्।

नवभिस्तूदगतोऽश: स्याद्युक्तांशो द्व्यद्रिकेन तु।।13।।

      पक्षात् पञ्चदशात् पञ्चदशतिथ्यात्मकादूर्ध्वं शुक्लपक्षावसाने इत्यर्थ:। याजुषविंशश्लोकप्रकारेण योऽशस्तिथिभांश: समागत: स नवभिरंशैरुद्गतो वर्धनीयस्‍तदा युक्तांशो वास्तवभांश: स्यात्। तद्भांशमानं च भुक्तमिति निर्दिशेत् कथयेद्गणक इति शेष:। यदि नक्षत्रवशेन सावनदिनमपेक्षितं तदा तु द्व्यद्रिकेन द्युना एकेन कुदिनेन तथाऽद्रिकेन सप्तकलामितेन प्रतिनक्षत्रसंबन्धिकुदिनं ज्ञेयमिति। अत्र याजुषविंशश्लोकत्रुटिर्वा प्रसिद्धत्वादत्र स श्लोक उपेक्षित आचार्येण। 

अत्रोपपत्ति: ससप्तैकमिति याजुषैकोनचत्वारिंशश्लोकोपपत्त्या तथा "नवकैरुद्गतोऽश: स्याद्युक्त: सप्तगुणो भवेत्"- इति याजुषषोडशश्लोकभाष्यादिना स्फुटेति।।13।।

इदानीं लाघवेन नक्षत्रनामान्याह।

जौ द्रा ग: खे श्वे ही रो षा -

श्चिन्मूषक्ण्य: सू मा धा ण:।

रो मृ (म्रे) घा: स्वापो ज: कृ ष्यो

ह ज्येष्ठा इत्यृक्षा लिङ्गै:।।14।।

  याजुषाष्टादशश्लोकभाष्यादिना सर्वं स्फुटम्।।14।।

इदानीं भांशतो नक्षत्रानयनं पर्वणि विशेषं चाह।

जावाद्यंशै: समं विद्यात् पूर्वार्धे पर्व तूत्तरे।

भादानं स्याच्चतुर्दश्यां द्विभागेभ्योऽधिके यदि।।15।।

याजुषसप्तदशश्लोकभाष्यादिना स्फुटम्।।15।।

इदानीं नाडिकादिपरिभाषा आह।

कला दश च विंशा स्याद् द्वे मुहूर्त्तस्य नाडिके।

तत्त्रिंशद् द्यु कलानां तु षट्शती त्र्यधिका भवेत्।।16।।

दशकला विंशा च एककलाविंशतिभागाधिका इत्यर्थ:। शेषं याजुषाष्टत्रिंशश्लोकभाष्येण स्फुटम्।।16।।

पुन: परिभाषान्तरमाह।

नाडिके द्वे मुहूर्त्तस्तु पञ्चाशत्पलमाढकम्।

आढकात् कुम्भिका द्रोण: कुडवैर्वर्धते त्रिभि:।।17।।

द्वे नाडिके एको मुहूर्त्तो भवति। आढकं तु पञ्चाशत्पलं भवति। आढकात् प्रसिद्धप्राचीनपरिभाषया कुम्भिका घटिका ज्ञेया। द्रोणश्च कुम्भिकातस्त्रिभि: कुडवैर्वर्धतेऽर्थात् कुम्भिकाप्रमाणात् त्रिभि: कुडवैरधिकं द्रोणप्रमाणं भवति। अतो द्रोणस्त्रिभि: कुडवैर्हीनो घटिका वा नाडिका भवतीति याजुषैकोनचत्वारिंशश्लोकभाष्येण सर्वं स्फुटम्।।17।।

इदानीं चन्द्रसूर्यैकनक्षत्रे भूदिनान्याह।

ससप्तैकं भयुक् सोम: सूर्यो द्यूनि त्रयोदश।

नवमानि च पञ्चाह्न: काष्ठा पञ्चाक्षरा स्मृता।।18।।

याजुषैकोनचत्वारिंशश्लोकभाष्यादिना स्फुटम्।।18।।

इदानीं लग्नानयनं चन्द्रर्त्तुसाधनं चाह।

श्रविष्ठाभ्यो गणाभ्यस्तान् प्रागविलग्नान् विनिर्दिशेत्।

स्वार्क्षान्मासान् षडभ्यस्तान् विद्याच्चान्द्रमसानृतून्।।19।।

गणो भगण: सप्तविंशतिस्तेन श्रविष्ठोदयतो ये इष्टकालभगास्तेऽभ्यस्ता गुणनीयास्तान् भांशान् श्रविष्ठाभ्यो धनिष्ठाभ्यो गणयित्वा प्राक् प्राग्दिशि विलग्नान् भांशान् विनिर्दिशेत् कथयेद्गणक इति शेष:। स्वार्क्षान् स्वानाक्षत्रान् मासानेव षडभ्यस्तान् षड्गुणितान् चान्द्रमसान् चन्द्रसम्बन्धिनो गणकऋतून् विद्याज्जानीयादिति।

अत्रोपपत्ति:। अत्रैकस्य नक्षत्रस्य चतुर्विंशत्यधिकशतभागा: कृतास्तेऽशा नक्षत्रांशा वा भांशा उच्यन्ते। एवं भदिनस्यापि चतर्विंशत्यधिकशतमिताभागास्ते भदिनभागांशा: कथ्यन्ते। श्रविष्ठातो नाक्षत्रा ये इष्टकालभवा अंशा भागास्त एवेष्टकालांशा ज्ञेया:। एकस्मिन् भदिने वा चतुर्विंशत्यधिकशतसमेषु भदिनभागेषु भचक्रैकभ्रमणेन प्राग्दिशि सर्वेषां नक्षत्राणां वा 27×124 भांशानामुदयोऽयोऽनुपातो यदि 124 भदिनभागेषु 27×124 नक्षत्रभागानामुदयास्तदेष्टभदिनभागेषु किं लब्धा: श्रविष्ठातो भांशाइभदिभां= 27×इभदिभां। अत उपपन्नं लग्नानयनम्‌। अत्र बार्हस्पत्यादीनां व्याख्यानं न साधु। कुत्रापि-अभ्यस्तपदेन योगो न गृह्यत इति। चन्द्रैकभगणकालो हि नक्षत्रमास इति याजुषैकत्रिंशश्लोकेन स्फुटम्। एकस्मिन् चन्द्रभगणकाले च तत्षड्ऋतवोऽतो नक्षत्रमासा: षड्गुणास्तदृतवो भवन्तीति सर्वं निरवद्यम्।।19।।

इदानीं तिथिमानमाह

अतीतपर्वभागेभ्य: शोधयेद्द्विगुणां तिथिम्।

तेषु मण्डलभागेषु तिथिमिष्टां गतो रवि:।।20।।

याजुषद्वाविंशश्लोकभाष्यादिना स्फुटम्।।20।।

इदानीमिष्टतिथिसमे नक्षत्रे भकला आनयति।

या: पर्वभादानकलास्तासु सप्तगुणां तिथिम्।

प्रक्षिपेत् तत्समूहं तु विद्याद्भादानिका: कला:।।21।।

याजुषैकविंशश्लोकभाष्यादिना सर्वं स्फुटम्। अत्र कि‍ञ्चित्पाठभेदो नार्थान्तरकर इति।।21।।

इदानीं दिनमानमाह।

यदुत्तरस्यायनतो गतं स्या -

च्छेषं तु यद्दक्षिणतोऽयनस्य।

तदेकषष्ट्या द्विगुणं विभक्तं

सद्वादशं स्याद्दिवसप्रमाणम्।।22।।

याजुषचत्वारिंशश्लोकभाष्यादिना सर्वं स्फुटम्।।22।।

इदानीमृतुशेषमधिशेषं वाऽऽह।

यदर्धं दिनभागानां सदा पर्वणि पर्वणि।

ऋतुशेषं तु तद्विद्यात् संख्यया सह पर्वणाम्।।23।।

याजुषैकच्त्वारिंशश्लोकभाष्यादिना सर्वं स्फुटम्।।23।।

इदानीं बेधोपायमाह।

इत्युपायसमुद्देशो भूयोऽप्येवं प्रकल्पयेत्।

ज्ञेयराशिं गताभ्यस्तं विभजेज्ज्ञानराशिना।।24।।

याजुषद्विचत्वारिंशश्लोकभाष्यादिना सर्वं स्फुटम्।।24।।

इदानीं नक्षत्रदेवता आह।

अग्नि: प्रजापति: सोमो रुद्रोऽदितिबृहस्पती।

सर्पाश्च पितरश्चैव भगश्चैवार्यमाऽपि च।।25।।

सविता त्वष्ठाऽथ वायुश्चेन्द्राग्नी मित्र एव च।

इन्द्रो निऋतिरापो वै विश्वेदेवास्तथैव च।।26।।

विष्णुर्वसवो वरुणोऽज एकपात् तथैव च।

अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च।।27।।

नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि।

यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम्।।28।।

            याजुषस्य 32-34 श्लोकभाष्ये सर्वं स्फुटम् ।।25-28।।

इदानीमुपसंहारमाह।

इत्येतन्मासवर्षाणां मुहूर्त्तोदयपर्वणाम्।

दिनर्त्त्वयनमासानां व्याख्यानं लगधोऽब्रवीत्।।29।।

याजुषोपन्तिमश्लोकभाष्येण स्फुटम्।।29।।

इदानीं फलस्तुतिमाह।

सोमसूर्यस्तृचरितं लोकं लोके च सन्ततिम्।

सोमसूर्यस्तृचरितं विद्वान वेद विदश्नुते।।30।।

याजुषत्रिचत्वारिंशश्लोकभाष्येण स्फुटम्। अत्र पूर्वात्तरार्धयोर्वैपरीत्यं लेखकदोषत इति स्पष्टम्।।30।।

इदानीमिष्टविषुवति तिथ्यानयनमाह।

विषुवत् तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणम्।

यल्लब्धं तानि पर्वाणि तदर्धं सा तिथिर्भवेत्।।31।।

याजुषत्रयोविंशश्लोकभाष्यादिना सर्वं स्फुटम्। अत्र किञ्चित्पाठभेदस्तदर्थस्यैव दातेति न दोषाय।।31।।

इदानीं कस्य युगस्य कालज्ञानमित्यशङ्क्याह।

माघशुक्लप्रवृत्तस्य पौषकृष्णसमापिन:।

युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते।।32।।

याजुषपञ्चमश्लोकभाष्येण स्फुटम्। अत्र किञ्चित्पाठभेदो न दोषायेति।।32।।

इदानीं दशसु विषुवत्सु तिथीनाह।

तृतीयायां नवम्यां च पौर्णमास्यां त्रिकद्विके।

द्वादश्यां विषुवान् प्रोक्तो द्वादश्यां दशमं भवेत्।।33।।

31 श्लोकोक्तक्रियाया उदाहरणरूपोऽयं श्लोक:। यथा यदि विषुवत्=1। तदा तदुक्तप्रकारेण सपर्वतिथिमानम्।

=6(2×1-1) प+(2×1-1) ति=6 पर्वाणि+3 तिथय:। पर्वणां प्रयोजनभावात् तृतीया तिथिरेव पठिता। एवमन्यास्तिथय: समायान्ति। अतस्तृतीयायां प्रथमो नवम्यां द्वितीय: पौर्णामास्यां तृतीयस्त्रिकद्विके षष्ठयां चतुर्थो द्वादश्यां पञ्चमश्च विषुवान् प्रोक्तआचार्यैरिति शेष:। एवं पुनस्तृतीयादावन्यानि विषुवन्ति भूत्वा द्वादश्यां तिथौ दशमं विषुवद्भवेदिति। अत्र बार्हस्पत्यादिव्याख्यानं न रूचिकरं तथात्र "तृतीयां नवमीं चैव पौर्णमासीं त्रयोदशीम्"-इत्यादिपाठोऽपि न साधुरिति।।33।।

इदानीं कदा चतुर्दश्यां यज्ञार्थमुपवास: कार्य इति कथयति।

चतुर्दशीमुपवसथस्तथा भवे -

द्यथोदितो दिवसमुपैति चन्द्रमा:।

यथोदितश्चन्द्रमाश्चतुर्दशीं दिवसमुपैति तथोपवसथो भवति। अत्रैतदुक्तं भवति। यथा शुक्लद्वितीयादे: क्रमेणोदितश्चन्द्रश्चतुर्दशदिनं प्राप्नोति तथा सा चतुर्दशी यज्ञार्थं वेदोक्तविधिनोपवसथो यागपूर्वदिवसो भवति। अत्र मन्मते श्लोकोत्तरार्धस्य त्रुटि:। अत्र परम्परात उत्तरार्धस्यानुष्टुप्छन्दोऽर्धेन पूर्त्तिरिति न युक्तं छन्दसोर्भेदादिति सुज्ञैर्भृशं विचिन्त्यमिति।

इदानीं द्वितीयवर्षप्रवेशकालमाह।

माघशुक्लाह्निको भुङ्क्ते श्रविष्ठायां च वार्षिकीम्।।34।।

माघशुक्लाह्निको द्वितीयमाघशुक्लप्रतिपत्तिथावाह्निक: कर्मकर्त्ता श्रविष्ठायां धनिष्ठायां सर्वां वार्षिकीमेकवर्षसंबन्धिना यज्ञक्रियां भुङ्क्तेऽश्नुते। तस्माद्दिनादन्यवर्षारम्भोऽतो द्वितीयवर्षाह्निकक्रियारम्भो भवतीत्यर्थ:। अत्रापि मन्मते पूर्वार्धश्लोकस्य त्रुटिरिति वैदिकैर्भृशं विचिन्त्यमिति।।34।।

इदानीं गणितप्रशंसामाह।

यथा शिखा मयूराणां नागानां मणयो यथा।

तद्वद्वेदाङ्गशास्त्राणां ज्यौतिषं मूर्धनि स्थितम्।।35।।

याजुषचतुर्थश्लोकभाष्येण स्फुटम्। अत्र 'गणितं' स्थाने 'ज्योतिषम्' इति पाठो न विशेषार्थप्रद इति।।35।।

इदानीं ज्यौतिषस्य वेदाङ्गत्वे सद्युक्तिमाह।

वेदा हि यज्ञार्थमभिप्रवृत्ता:

कालानुपूर्वा विहिताश्च यज्ञा:।

तस्मादिदं कालविधानशास्त्रं

यो ज्यौतिषं वेद स वेद यज्ञान्।।36।।

याजुषतृतीयश्लोकभाष्येण सर्वं स्फुटम्‌।।36।।

गुणरसाङ्कधरामितवत्सरेऽकृत निरीक्ष्य मतान्तरसंग्रहम्।

असिततपौषदलाद्यसिते वरं रघुवरस्य बलेन सुधाकर:।।

 

इति सुधाकरभाष्यसहितमार्चज्यौतिषं समाप्तम्।