पूर्वकालामृतम्

सप्तमो विन्दुः | Saptamo Vinduh

मिश्रप्रकरणम्

सकलदेवता प्रतिष्ठाकाल:

वारेष्वेव कविज्ञजीवशशिनां श्रोणत्रये चोत्तरा
          मैत्रादित्यकरद्वयान्त्यशशभृद् दस्रप्रजेशेडुषु।
भद्रापूर्णजयासु चोदगयने शुक्रेज्ययोर्व्यपक्तयोः
          कुर्यात्कामदिनं विहाय च कुहूं देवप्रतिष्ठां शुभाम्।।1।।

पशुबन्धनकालः

आर्द्राजैकपदान्त्यमूलशशभृत्तोयाग्निभेष्वर्थदं
          शस्तं स्यात् पशुबन्धनं गुरुभृगुब्रध्नाख्यवारेष्वपि।
त्यक्त्वा त्वृष्टजनार्दनोत्तरविधीन् दर्शं कलिं चाष्टमीं
          चान्द्रं वा पशुजन्मवारमपि तच्छेषा तिथिः शोभनाः।।2।।

पैतृकविषयाः

यावन्त्यो घटिका दिने विघटिकाः सर्वाश्च कुर्यात्समं
          कालं पञ्चविधं क्रमाच्च गणना प्रातस्ततः सङ्गवः।
मध्याह्नोऽप्यपराहण इत्यथ भवेत्सायन्तनो मासिके
          दर्शे चाब्दिक एव वा पितृतिथिः सा सर्वकाला यदि।।3।।

मासिकादीनां विशेषः

कार्या सा द्व्यपराह्णयोः समधिका साम्या तु पूर्वाह्णयोः
          पूर्वा सा यदि न द्वयोरथपरा प्रागस्तकालाद् रवेः।
सा नो चेत् त्रिमुहूर्त्तगा पितृतिथिः सायन्तनी चेद् द्वयोः
          स्यादेवात्र पराऽऽब्दिके विधिरयं दर्शेऽथवा मासिके।।4।।

महालयनिर्णयः

कुर्याद् भाद्रपदे प्रमीतपितृकस्तत्कृष्णपक्षादितः
          पक्षश्राद्धमथाश्विनप्रतिपदा युक्तं च पक्षादितः।
पक्षादौ यदि सूतकादिसहितस्तत्पञ्चमी वाऽष्टमी
          यद्वा स्याद्दशमी तदादिषु तदा तत्पक्षशेषेषु वा।।5।।

सकृन्महालयकालनिर्णयः

पञ्चम्यादिषु चेच्छुभेषु दिवसेष्वेव प्रकुर्यात्सदा
          द्वादश्यां यदि पैतृकं कलिदिने शस्त्रैर्हतानां पुनः।
वर्ज्येय कामदिनेऽपि पैतृभयुते हस्तान्विते भास्करे
          स्यात्सङ्कल्पविधिश्च पार्वणविधिर्यद्वा पितृप्रीतिद:।।6।।

कारुण्यान्विितपैतृकं शुभदिने तत्पक्षएवाचरेत्
          कन्यायां यदि भास्करेऽप्यगतिकः कन्यादिमासद्वये।
यावद् वृश्चिकदर्शनात् स्मृति बलादेकं च वा पैतृके
          कामत्वाच्च सकृन्महालयदिनं शुद्ध्यायुतं चेच्छुभम्।।7।।

योग्यतिथिवारनक्षत्रनिर्णय:

वर्यािवन्येक महालये जननभं नन्दाश्च कामः कलिः
          शुक्रार्कार्यदिनानि सूतकदिनं पत्नी रजोदूषितम्।
ताराः सप्तदश स्युरेव शुभदा विष्णुत्रयार्कत्रया
          ह्यार्द्रा मित्रचतुष्टयाद्यशशभृद् भाग्यार्ययाम्याभिधाः।।8।।

श्राद्धादीनां फलम्

नो कुर्याद्यदि पक्षमेकदिवसं वानल्पमल्पं च वा
          दासरिद्र्यं बहुदुःखमत्र च परे दौर्गत्यमेवात्मनः।
दातुः पुत्रधनं भवेदिह परे स्वर्गादिपञ्चाद्भवेद्
          इत्युक्त्वा स्वगृहं विसृज्य पितरः स्वं स्वं विशेयुः पदम्।।9।।

षण्णवतिश्राद्धस्वरूपः

मन्वाद्याश्च महालया युगदिनान्यादित्यसंक्रान्तयो
          दर्शाश्च व्यतिपातवैधृदनान्यन्वष्टकाः पैतृके।
कालाः षण्णवतिः स्मृताश्च सततं दातुः सुपुत्रार्थदा
          वायं तोयवने रिपूरिपुबकालोकारिपुस्तत्क्रमात्।।10।।

मन्वादियुगेषु श्राद्धफलम्

कृष्णाभाद्रपदेऽष्टमी यदि नभो दर्शश्च शेषाः सिताः
          आषाढ़े दशमी त्विषे च नवमी सा कार्तिके द्वादशी।
ज्येष्ठे फाल्गुनचैत्रयोरपि शुचावूर्जे तिथिः पूर्णिमा
          माघे मास्यथ सप्तमी शुभफला पौषे सितैकादशी।।11।।

चैत्रे भाद्रपदे च मासयुगले ज्ञेयास्तृतीया तिथिः
          मन्वाद्याश्च चतुर्दशैव तिथयः पुण्या युगाद्याश्चतुः।
शुक्लोर्जेर् नवमी सितैव शुभदा राधे तृतीया तिथिः
          माघे दर्श तिथिर्नभस्य बहुले कामः कृताद्या इमाः।।12।।

अष्टकाश्राद्धतिथिनिर्णयः

पौषे फाल्गुनसौम्ययोरपि तथा माघेऽन्त्यपक्षेषु चेत्
          सप्तम्यत्र तथाष्टमी च नवमी तिस्रोऽष्टका द्वादशी।
षष्ठे मासि महालयान्तर्गतास्तिस्रोऽष्टकास्तर्हि नो
          दर्शाद्यास्तदनु प्रसिद्धदिवसाः श्राद्धे पितृप्रीतिदम्।।13।।

गयाश्राद्धफलम्

पित्रादेर्बहुदानकर्मफलदं तृप्तिप्रदं स्वर्गदं
          सायुज्यप्रदमेव वा तदपि यत्किञ्चिद्गयापार्वणम्।
सा यात्राऽप्यथवा महासुखकरी दैवाच्च कर्तुर्मृतिः
          स्यादत्रैव हि मुक्तिदैव सह तत् कर्त्रा पितृणां भवेत्।।14।।

सांवत्सरिकादि निर्णयः

नित्यश्राद्धविधिः स्वकालबलवान् एकं विना सूतकं
          कुर्यात्सूतकनिर्गमेऽथ दिवसे कार्यं तथैवाब्दिकम्।
ताराचन्द्रबलं विनापि यदि वा पत्नी रजोदूषिता
          यद्वा दुष्टतिथिश्च सा पितृतिथिः कार्यैव नित्या यदि।।15।।

एकादशाहविधिनिर्णयः

आद्यं षोडशसंयुतं मृततिथेरेकादशाहे तथा
          दाहादेरथं यज्वनां त्वनुगतस्त्रीणां तु भर्तृक्षयात्।
कुर्याद्रुद्रगणान्वितं वृषपरित्यागानुयुक्तं क्रमान्
          नग्नश्राद्धमथादिमेऽह्नि विषमे शुद्धे द्वितीयेऽथवा।।16।।

श्राद्धसंख्या अस्थिसञ्चयनकालश्च

षट कुर्युर्विषमेषु षट्स्वपि नव श्राद्धादि चैकैकशः
          सर्वाण्येकदिनेऽप्यशक्तविषये पञ्चैव ह्यन्ये जगुः।
अस्थ्नां सञ्चयनं भवेन्मृतिदिनादाद्ये द्वितीये दिने
          कुर्याद्वा विषये शुभेऽह्नि यदि वा केषां चतुर्थे मतम्।।17।।

वपनविधि निर्णयः

कर्त्तैव प्रथमेऽह्नि तेन सह वा संवापयेत्सप्तमा-
          दर्वाक् चेद्दशमे प्रमीतपितृको ज्ञातिः कनिष्ठो यदि।
पूर्वाह्णे सकलामदानमथवा मध्याह्न काल भवेद्
          अन्नश्राद्धमथादिमेऽह्नि तु नव श्राद्धं विनास्तादधः।।18।।

तिलोकवासोदकनिर्णयः

कर्तारोऽप्युदकाञ्जलीन् तिलयुतान् त्रीन् दद्युराद्ये दिने
          चैकैकोत्तरवृद्धि चादशदिनात् तृप्त्यै शिलायां पितुः।
मृत्स्नानं त्रितयं भवेत् प्रतिदिनं तत्रवस्त्रोदकानां त्रयं
          पिण्डस्त्वैक इहा कृतं यदि पितुर्दद्युर्दशाहेऽखिलम्।।19।।

तिलोदकानां निषिद्धकालः

दर्शः स्याद्दशमाहमध्यदिवसे यद्यापतेत्संक्रमो-
          ऽप्यन्येषां तु समाप्यपिण्डमुदकं देयं पितृभ्यां विना।
पित्रोश्चेव समापयेन् त्रिदिनतः स्याच्चेत्परे तद्द्वयं
          पूर्वं चेन्न समापयेत् त्रिदिनतः स्यात् स्नानमात्रं सदा।।20।।

ज्ञात्याशौच

त्यक्त्वा बान्धवसूतके तु सकलं चाद्यादि पश्चाच्चरेत्
          कार्यं तल्लघुसूतके तु विहितं चाद्यादि यच्चोदितम्।
सापिण्ड्यार्थमथापकृष्यमखिलं श्राद्धं परित्यज्य तत्
          सापिण्ड्याद् विहितोदकुम्भमथवाप्यूनं व पश्चाच् चरेत्।।21।।

त्रैपक्षिकादि श्राद्धकालः

त्रिष्वाद्यासु च त्रिपक्षविषये मासे त्रिमासेऽथवा
          षाण्मासे नवमाख्यमासविषये एकादशे वत्सरे।
कार्यं तत्र सपिण्डनं दशसु तत् कालेषु शुद्धे दिने
          स्यात् त्रैपक्षिक कर्मपञ्चसु दिनेष्वेव त्रिपक्षदिषु।।।22।।

ऊनत्रयनिर्णयः

नित्यं द्वादशवासरे मृतिदिनादूनं तु सर्वस्व तत्
          नो चेन्मास तृतीयभागविषमे शुद्धेऽह्नि कार्यं पुनः।
ऊनं मध्यमपञ्चके शुभदिने पक्षे तथा द्वादशे-
          ऽप्यूनं चान्तिमपञ्केऽन्यदपि तत्पक्षे चतुर्विंशके।।23।।

ऊनत्रयवर्ज्यतकालः

नन्दा दर्शचर्तुदशी भृगुशनिष्वग्नित्रिपूर्वासुरे-
          षूनान्येव न हि त्रिपुष्करदिनेष्वन्येषु वर्ज्येेष्वपि।
कुर्यादुत्तरमासिकेन सह तत् प्राङ्मासिकं चाकृतं
          न त्रैपक्षिकमून कर्म च तथा पश्चाच्चरेदेव तत्।।24।।

सङ्क्रान्तिपुण्यकालनिर्णयः

त्रिंशत्कर्कटके तु पूर्वमयने नाड्यः परे विंशतिः
          दैत्यार्यघ्रिषु नाडिका नृपमिता मेषे तुलायां दश।
षष्टिश्चैव परेषु पुण्यफलदाः स्नानं न दानं पितुः
          श्राद्धं कार्यमिनाब्जयोर्ग्रहणयोस्तद्वत् पितृप्रीतिदम्।।25।

अखण्डतिथिनक्षत्रनिर्णयः

सम्पूर्णा यदि ताराकाश्च तिथयः स्युस्ता अखण्डाभिधा
          अप्यर्कोदयसंयुता न शुभदाः सर्वव्रतानामपि।
यद्वार्कोदयगा इनास्त सहितास्ता अप्यखण्डाः परे
          प्राहुर्या दिनखण्डमप्यतिगता स्ता अप्यखण्डा इति।।26।।

अखण्डतिथिनक्षत्राणां व्रतनिर्णयः

शुक्ले भाद्रपक्षे चतुर्थदिवसे भूपुत्रवारान्विते
          चित्राधिष्ण्ययुतेऽप्यखण्डतिथिभे सिद्धेशपुत्रव्रतम्।
कुर्याद् भाद्रपेदे सिते कलिदिनेऽनन्तव्रतं श्रीप्रदं
          भाद्रे पञ्चदशेप्यखण्डदिवसे कुर्यादुमेशव्रतम्।।27।।

अभ्यङ्गननिषेधकालः

श्रीशार्द्रादिमशक्रभेषु निशि चेत् पातेऽष्टमी द्वादशी
          नन्दापर्वचतुर्दशीव्रतपितृश्राद्धेषु दीक्षाष्वपि।
यात्राहे मृतसूतके कुजकविब्रध्नार्यवारेषु वा
          नाभ्यङ्गं शिशुवृद्धरोगिषु यदि द्रव्यान्तरस्थं शुभम्।।28।।

निषिद्धदिनेषु अभ्यङ्गनविधिः

अभ्यङ्गं शुभमत्र दुष्टसमयेप्याद्यन्तयोर्वा शुभे
          स्वातीयुक्तदिने त्विषे च बहुले त्रिष्वेव भूतादिषु।
पूर्वस्मिन् दिवसे रवौ मृगायुते ह्याशौचपूर्णे दिने
          वर्षादौ भृगुवासरोत्तरदले चेदर्थकामी भवेत्।।29।।

युद्धाय तिथिवारादीनां निर्णयः

आर्द्राग्नेयमघासुरेन्द्रभरणी पूर्वाम्बुनाथोरग-
          स्वातीत्वष्टृहयेषु कृष्णविजयारिक्तासु विष्ट्यामपि।
माहेयामरपूज्यमन्ददिनकृद्वारर्क्षलग्नांशके
          यः कुर्यात्समरं स जैत्रविभवः स्याद्वीरकर्मा चिरम्।।30।।

यमकण्टकगुलिकार्धप्रहाराः

भानौ बाणनगाब्धयः शशिदिने तोयर्तुशैला कुजे
          रामेष्वक्षि बुधेऽक्षिसागरशराजीवे क्षितित्र्यष्टमाः।
शुक्रे शैलदृगग्नयः शनिदिने त्वष्टैकषष्ठाः क्रमाद्
          यामार्धं यमकण्टकाख्यगुलिकाख्यार्धप्रहाराभिधाः।।31।।

अवमात्रिद्युस्पृगादिकम्

एकस्मिन्नपि वार एव तिथयो व्याप्तास्त्रयः साऽवमा
          त्रिद्युस्पृक् त्रिषु वासरेषु च तिथिश्चैकातिनिन्द्या शुभे।
प्रत्यक्षा नवमी प्रयाणनवमी कार्येषु सर्वेषु वा
          यात्राधिष्ण्य पुनः प्रवेशनवमी तिस्रश्च मृत्युप्रदाः।।32।।

पादच्छायया गतघटिकानिर्णयः

यावन्त्यश्चरणप्रभाः प्रतिदिनं मेषादिषट्स्वेव षट!
          योज्याश्चैव तुलादि षट्सु जलधित्रिद्व्यक्षिरामाब्धयः।
अर्धीकृत्य निप्रमाणघिटकाः सप्ताहता नाडिकाः
          तावन्त्योऽपरपूर्वयोः स्थिगता यत्पूर्वसंख्याभिधाः।।33।।

विष्टिदिनानि

त्यक्त्वाऽर्कान्वितभादिसप्तनिशि चेद्यावन्ति मध्यह्नभा-
          न्यैकैकस्य तु नाडिका द्वयमिदं चोर्वा्तङ्घ्रियुक्तक्रमात।
लग्नानामपि षट्कमेव नियतं सूर्योदयाद्यालयात्
          सूर्यस्यास्तमयादि चेन्निशि तथा लग्नानि षट् च क्रमात्।।34।।

भद्रकरणदिननिर्णयः

राका पूर्वदलेऽष्टमीति दिनयोर्विष्टिः सिते मृत्युदा
          सैकादश्यपि मृत्युकृत् परदले विष्टिः चतुर्थी तयोः।
सप्तम्यत्र चतुर्दशीति दिनयोः जाता तु पूर्वा तयोः
          विष्टिः स्याद् दशमी तयोः परदले कृष्णे तृतीया सदा।।35।।

हलचक्रम्

स्याच्चक्रं हलनामकं समचुष्कोणं लिखेत् चेत् क्रमाद्
          ईशान्यं रविमुक्तभादिविलिखेद् धिष्ण्यानि दिक्ष्वष्टसु।
गङ्गागाणगमागुरुश्च सततं ज्ञेयं महादिक्षुभं
          दद्यात् पूर्णफलं विदिक्षु विफलं भूमिप्रवेशे कृषौ।।36।।

कृषिभूमिप्रवेश तिथ्यादिनिर्णयः

मैत्रार्कत्ररोहिणी वसुमघा दस्रोत्तरान्त्यासुरे-
          ष्वार्यारज्ञकवेर्दिनेषु शुभदो मध्यस्त चान्द्रे दिने।
त्यक्त्वा रिक्तदिनादिदग्धदिवसान् दर्शावमावैधृति-
          व्याघातव्यतिपातविष्टिदिवसान् शेषाः कृषौ शोभनाः।।37।।

बीजफणिचक्रम्

बिन्दूनामपि सप्तविंशतिमृजुं संलिख्य बिन्द्वग्रतो
          रेखाभिस्तिसृभिः पुनः पुनरधश्चोर्वंद् च तन्मूलतः।
तस्याग्रे तु लिखेद् विलोमत इह स्वर्भानुभाद्गण्यते
          नक्षत्रेष्वपि नित्यचक्रचलनाद् राहोर्गतर्क्षादि वा।।38।।

चक्रफलनिर्णयः

चक्रं बीजफणिं विलिख्य फणिभात्तमूर्ध्निस नाशं त्रयं
          कण्ठे त्रीण्यपि कज्जलं च जठरे भानि क्रमाद् द्वादश।
दद्युश्चान्नसमृद्धिमत्र कृषितो निस्तण्डुलत्वं त्रयं
          पुच्छे त्वीतिभयं बहिस्तु षडपि प्राग्बीजसंस्थापने।।39।।

बीजवापनमन्त्रविधिः

ज्येष्ठायामथ मूलभे शुभगृहे लग्ने विशुद्धेऽष्टमे
          सम्पूज्याखिलदेवताः कृषिभुवं संस्पृश्य सन्मङ्गलैः।
ऊँ विश्वे महिते नमो भगवतीत्येतेन सम्मन्त्रितां
          बीजावापनमाद्यमेवफलदं कुर्यात्सुतारासु वा।।40।।

तिथिवारादिः

रिक्ता पर्वविषप्रदोषरहिते वारे शुभानां गृहे
          क्षिप्रस्वातिमृदुध्रुवासुरमघाविष्णुत्रयाख्योडुषु।
बीजावापनमाद्यमेवफलदं स्यात्पूर्वसस्ये परे
          यद्वर्णग्रहवासरेषु यदि वा तद्वर्णबीजं वपेत्।।41।।

लग्नफलनिर्णयः

मेषे चेत् पशुनाशनं बहुजलं चेत कर्कटे चेद्धटे
          कुर्यात्प्राणहृतिं च सस्यहरणं लग्ने मृगे सर्वदा।
सिंहे चोरभयं घटे बहुभयं बीजाप्तिराद्या शुभा
          कन्यागोझषयुग्मवृश्चिकधनुष्वेतेषु धान्यप्रदा।।42।।

।। सप्तमो विन्दुः समाप्तः ।। 7 ।।

।। कालामृतस्य पूर्वभागः सम्पूर्णः ।