ब्रह्मक्षत्रविशामुपनयनयोग्यकालः
ब्रह्मक्षत्रविशामथोपनयनं वक्ष्ये वसन्ते क्रमाद्
          ग्रीष्मर्तौ शरदीह वर्णनियते तत्रापि साधारणाः।
मासा माघमुखास्तु पञ्चजननाद्वा गर्भतोऽब्देऽष्टमे
          नित्ये विप्रशिशोः क्रमान्नृपविशोरेकादेश द्वादशे।।1।।
गृहनिर्माणयोग्यप्रदेशः
क्षेत्राणां वसतिः शुभा कलियुगे श्रीवेंकटेशाज्ञया,
          विन्ध्याख्याचलदक्षिणावनितटे श्रीगौतमीसन्निधौ।
सम्पूर्णाध्वरवेदशास्त्रसहिते स्वर्गादिभोगप्रदे,
          ब्रह्मज्ञानिभिरन्वितेऽतिशुभदे मुक्तिदपदे स्थायिनाम्।।1।।
राजभृत्यावर्णम्
सेवायां प्रभुनामभादि गणयेद् भृत्याख्यधिष्ण्यान्ततः,
          तत्कृत्वाऽथ चतुर्गुणं प्रविभजेच्छैलैश्च शिष्टं धनम्।
तद्वत्पूर्वविपर्ययागतमृणं ज्ञेयं तु राज्ञस्त्विदं,
          भृत्यस्यैव तु भृत्यभादि गणयेदर्धाधिको राज्यकृत्।।2।।
ग्रामार्वणम्
साध्याख्या प्रथमाक्षरोक्त गणनां संलिख्य तद्वामतः,
          तद्वत्साधकनाम च प्रविभजेन्नागैश्च शिष्टं धनम्।
तादृक्पूर्वविपर्ययागतमृणं द्रव्याधिकं भोगदं,
          साम्यं चेत्समतान्यदन्नरहितं वैराख्यधामार्तिकृत्।।3।।
क्षेत्रावर्णम्
क्षेत्रस्याकचटाः क्रमात्तपयशा वर्गाः स्युरष्टौ स्थिताः,
          प्रगादौ खगराड्-डिल-मृगराट्श्वाह्याखुनागाः शशः।
स्याद्वर्गाद् यदि पञ्चमोऽरिरथ-दिग् वार्गेषु योनिस्त्वयं,
          द्वौ द्वौ दिक्षु विदिक्षु चैकमखिलं मेषादिपूर्वादितः।।4।।
एकस्मिन् यदि पञ्चमे च नवमे स्याद्वन्धुसंरक्षको,
          नाशः स्याद् द्वितये च षष्ठदशमे चेन्नामराश्यादितः।
तार्तीये यदि सप्तमे परजनैः पोष्यस्तथैकादशे,
          चातुर्थे च स धातुको गृहपतिः स्थाय्यष्टमे द्वादशे।।5।।
नामनक्षत्रादिषु युक्तानि कार्याणि
संग्रामव्यवहारधामनगरग्रामेषु मन्त्रार्वणे,
          जाते सत्यपि जन्मभे च सततं नामर्क्षजं स्यात्फलम्।
अज्ञातं जननोडु यस्य फलदं स्यान्नामभं तस्य तु,
          त्रिंशद्वत्सरतः परं फलदमित्याहुः परे नामभम्।।6।।
गृहभूमेः फलनिर्णयः
ईषत्पश्चिमदक्षिणोन्नतमही लक्ष्मीप्रदा नेतरा,
          सम्यग्गन्धसमन्विता कनकदा दुर्गन्धयुक्तार्तिदा।
क्षेत्रं श्वेतमथाल्परक्तमखिलं पीतं च कृष्णं क्रमाद्,
          विप्रादेर्मधुरं भवेच्च कटुकं तिक्तं कषायं शुभम्।।7।।
खात्वा गर्तमरत्निमात्रमथ तां मृत्स्नां पुनः पूरयेन्,
          न्यूना हानिकरा समा तु समदा वृद्धिस्तु वृद्धिप्रदा।
तोयं रात्रिमुखे प्रपूर्य खनने तत्रैव हित्वा मृदं,
          तत्प्रातः सुखदं जल त्वनशनं पङ्को रजो मृत्युकृत्।।8।।
जलगमन-कूपखननदिङ्निर्णयः
अन्यक्षेत्रजलं स्वधामगमनं हानिश्च कोलाहलः,
          प्रागीशानकुबेरदेशगलितं स्वक्षेत्रतोयं शुभम्।
सौम्यप्राग्जलधीशकूपखननं कर्त्तुश्च लक्ष्मीप्रदं,
          पाषाणादि लभेत्सुखं च खनने स्यादस्थितलाभो मृतिः।।9।।
गृहकर्णिकाचक्रलक्षणम्
चक्रं स्याद् गृहकर्णिकाह्वमिदं संलिख्य लिङ्गत्रयं,
          रेखास्तत्र चतस्र एव विलिखेत्तिर्यक्च दस्रादितः।
एकैकस्य हि तारका नव नव प्राग् लिङ्ग वामाधराद्,
          ऊर्ध्वयस्था अपि चोर्ध्ववगा शुभफला निन्द्यास्त्वधो देशगाः।।10।।
रेखायां च तिरश्च तत्र गृहिणः स्तम्भप्रतिष्ठागमे,
          सूर्येणाग्निभयं कुजेन सहितो मृत्युं बुधेनामयम्।
दौर्भाग्यं गुरुणा सितेन कलहं मन्देन चैरागमं,
          दारिद्र्यं तमसा ध्वजेन चलनं कुर्याच्छशी तद्गृहे।।11।।
क्षेत्रस्य नववर्णगणितक्रमम्
आयामेन विशालमेव गुणयेत् क्षेत्रीकृतं यत्पदं,
          नागार्कैः स्वमृणं भवेत् त्रिकरिभिर्वारोऽङ्कशैलैर्दिनम्।
षट्त्रिंशेन भमष्टभैर्नवगजैरायोऽङ्कखार्कैर्वय-
          स्त्वंशः षण्णवभिस्तदेव विभजेदायुर्गजैर्दिक्पतेः।।12।।
फलविचारः
क्षेत्रे पूर्वपदं पुनश्च गुणयेन्नागादि वाक्याद्यया,
          तद्वाक्यान्तिमसंख्ययैव विभजेद् द्रव्यादि शेषैर्लभेत्।
कर्तुश्चेदधिकं धनं शुभमृणाद्यद्यल्पमर्थोऽशुभं,
          यद्यायो विषमः शुभः शुभफला वाराः शुभानां यदि।।13।।
गृहनक्षत्रफलनिर्णयः
आत्मर्क्षाद् गृहभान्तमेव गणयेद्यद्वच्च ताराबलं,
          चात्मर्क्षं गृहभं यदेकमशुभं तार्तीयभं स्वक्षयः।
दुःखं स्याद् यदि पञ्चमं निधनदं कतुर्भवेत्सप्तमं,
          क्षेत्रे पुत्रकराः सदा गृहपतेरेवतरास्तारकाः।।14।।
गृहराश्यन्तगणनायां फलनिर्णयः
राश्यन्तं गणयेद् गृहस्य गृहिणो राश्यादि तत्तत्फलं,
          निःसन्तानकरं त्रिकोणनिलयं द्विर्द्वादशोऽनर्थकृत्।
षष्ठाष्टाख्य गृहं सदा कलहदं चान्ये शुभा राशयो,
          दम्पत्त्योरपि यत्फलं परिणये कर्तुगृहे तत्फलम्।15।।
तिथ्यादीनां फलम्
रिक्ताः शून्यकरा अमा निधनदा मासादिरार्तिप्रदा,
          तच्छेषास्तिथयः शुभा गृहपतेरंशस्य चेदं फलम्।
नाशो वृद्धिकरः शुभश्च निलये दाहो मृतिस्तस्करः,
          पुत्रो गोधनमिष्टपुष्टिरनिशं गेहे नवांशः क्रमात्।।16।।
आयुर्दिक्पतीनां फलनिर्णयः
आयुः षष्ट्यधिकं शुभं गृहपतेर्हीनं तु हानिप्रदं,
          सौभाग्यं सुरराट् गृहस्य दहनं वह्निर्यमोऽमङ्गलम्।
धान्यं यक्षपतिः शिवः शिवमिदं स्याद् दिक्पतीनां फलम्।।17।।
चैत्रादीनां फलनिर्णयः
चैत्राद्याः क्रमशश्शुभं बहुधनं मृत्युं च गोनाशनं,
          गोलाभं सुतनाशनं त्वनशनं सम्पूर्णसौख्यं सदा।
धान्यं वह्निभयं जयं बहुसुखं स्तम्भप्रतिष्ठागमे,
          कुर्युस्तद्गृहिणः शुभोऽप्यशुभकृन्मासो मलाख्यो यदि।।18।।
चरराश्यादिगतसूर्यफलम्
तिग्मांशुश्चरराशिगः स्थिरगतो वाप्यर्थकृत्सर्वदा,
          मृत्युः स्याद् द्विराशीरगो गृहपतेः स्तम्भप्रतिष्ठागमे।
वारावारदिनेशयोरनलदौ क्षीणः शशी शोककृत्,
          पूर्णः पुत्रकृदर्थदौ गुरुभृगू ज्ञः स्थैर्यकृत् भानुजः।।19।।
लग्न फलनिर्णयः
सूर्याङ्गारकलग्नवर्गरहितं सर्वं स्थिरं शोभनं,
          लग्नं वा द्विशरीरमत्र गृहिणो लग्नं चरं चञ्चलम्।
सूर्याङ्गारकलग्नमप्यथ शुभं सौम्यग्रहैः संयुतं,
          सौम्यैर्वा यदि विक्षितं सुबलिभिः क्रूरास्त्रिषष्ठायगाः।।20।।
नक्षत्रतिर्यगादिमुखत्वम्
पौष्णादित्यकरत्रयाद्यशशभृन् मित्रद्वयाख्याः शुभाः,
          स्तुस्तिर्यङ्मुखतारका गृहविधौ मुख्या नवाधोमुखाः।
कूपादौ तु पितृद्विदैव दनुजाह्यग्नि त्रिपूर्वान्तकाः,
          शेषास्तूर्ध्वृमुखाभिधा नव शुभा वृक्षादि संस्थापने।।21।।
स्तम्भप्रतिष्ठाने नक्षत्र फलनिर्णयः
नासत्यादितिरेवतीकरगुरुश्रोणत्रयेन्दूत्तरा
          मित्रत्वष्ट्रविधातृभेषु सुतदा स्तम्भप्रतिष्ठार्थदा।
यन्निषर्माणगृहेशदेशविवरे स्तम्भप्रतिष्ठां शुभां,
          कृत्वा तद्गृहसंयुतान्यभवनं कार्यं तथा तद्युतम्।।22।।
वास्तुपुरुषस्थितिः
मासेषु क्रमाशस्त्रिषु त्रिषु सदा प्राची नभस्यादितः,
          स्वोपादेयमहीषु वास्तुपुरुषस्तद्वामशायी भवेत्।
त्यक्त्वा तच्चरणेक्षणस्थ ककुभौ तत्पृष्ठमूर्ध्व्स्थदिक्,
          शालास्वेव विनिक्षिपेत्तदुदरे शङ्कुं यथोक्तं सुधीः।।23।।
शङ्कुलक्षणम्
तच्छङ्कुं त्रिविधं विभज्य समश्श्चोर्वासुदिभागत्रये-
          ऽप्यष्टास्स्रं चतुरस्रमव्रणमृजुं चानस्रमेवं विधम्।
सर्वेषां च वितस्तिमात्रमवधिः स्वर्णादिरत्नान्वितं,
          गन्धाद्यैरभिपूजितं शुभदिने शङ्कुं न्यसेन्मङ्गलैः।।24।।
शङ्कुस्थापने फलनिर्णयः
वापीकूपतटाकसेतुपरिखास्वेतासु भित्तेरधो,
          भित्तीनामपि बाह्यदेश निकटे सर्वत्र देवालये।
भित्तीनामपि चान्तेर च निलये नृणां पशूनां सदा,
          तावत्कालगृहस्थितिर्गृहपतेर्यावच्च शङ्कुस्थितिः।।25।।
गृहे शुभाशुभवृक्षविचारः
कारञ्जार्जुनसालनीपकुटजाः पारादमन्दारकाः
          बैल्ववैणवयुग्मपत्रखदिरा वृक्षाः शुभाः सद्मसु।
त्वज्या दग्ध बिभीतकास्नुहिवटानिम्बाश्च ये कण्टकाः,
          अश्वत्थाम्रकपित्थतालबकुलप्लक्षा अगस्यादयः।।26।।
गृहदिङ्नर्णयः
प्राच्यां स्नानगृहं च पाकसदनं वह्नौ तु सुप्त्यालयो,
          याम्यायामथ शस्त्रसद्मदनुजे भुक्त्यालयः पश्चिमे।
वायव्यां पशुमन्दिरं शुभकरं भण्डारवेश्मोत्तरे,
          शैवे देवगृहं प्रशस्तमखिलं स्वस्वास्थ्यकार्यं सदा।।27।।
राज्ञां स्थाननिर्णयः
इन्द्राग्न्योरथ मन्थनस्य सदनं त्याज्यं यमाग्न्योर्गृहं,
          दैतेयान्तकयोः पुरीषसदनं विद्यागृहं मध्यमे।
रक्षो वारुणयोश्च रोदनगृहं तोयेशवायव्योः,
          मध्ये कामगृहं कुबेरमरुतोः कुर्यात्सदा भूपतिः।।28।।
कौबेरीश्वरयोश्च वैद्यभवनं शाक्रेशयोः सौतिकं,
          ज्येष्ठभ्रातृ पितृव्य मातृभवनं स्वस्माद्यमे पश्चिमे।
शालानामुपरिस्थितेषु भवनेष्वेवं विचिन्त्यं बुधैः,
          अत्युच्चं न हि नातिनीचमथवा साम्यं गृहं कारयेत्।।29।।
ध्वजाद्यष्टायानां फलनिर्णयः
आयाः स्युर्ध्वनजधूमसिंहशुनका उक्षा खाराख्यो गजः,
          काकोऽष्टौ हि कृतार्थतां च मरणं शश्वज्जयं चामयम्।
राज्यं दुःखकरं सदा शुभकरं तन्निष्फलं च क्रमात्,
          प्रागादिष्वपि संयुता गृहपतेर्दद्युर्ध्वकजाद्याः फलम्।।30।।
ध्वजाद्यायाः
पादाधिक्यसमो ध्वजो यदि गजः पादेन हीनः समः,
          पादोनो विषमो हरिस्तु विषमः सांघ्रिर्वृषायो भवेत्।
ध्वांक्षायस्तु भवेच्च केवल समः सार्धोऽसमायः खरः,
          श्वायः स्याद् विषमस्तु सार्धसुसमो धूमः स्वदिक्ष्वर्थदा।।31।।
गजतुरङ्गादिशालानां आयनिर्णयः
उष्ट्राणामपि दन्तिनां च भवनं कार्यं ध्वजे वा गजे,
          ह्यश्वानां सदनं ध्वजे च वृषभे यद्वा पशूनामपि।
स्त्रीशय्यासन यन्त्र कर्मभवनं सिंहे ध्वजे वा वृषे,
          सर्वेषामपि सर्वकर्मसु सदा कार्या ध्वजायोऽर्थदः।।32।।
गृहनिर्माणे निषिद्धकालः
अर्के पावकधिष्ण्यगे च भरणीधिष्ण्योत्तरार्धान्विते,
          ब्रह्मर्क्षादिमपादगेऽपि यदि वा चन्द्रेऽग्निधिष्ण्यान्विते।
भौमे चाग्निमघान्त्यभाग्यसवितृ क्रव्यादपुष्यान्विते
          स्याद्दुःखं बहुदह्यते च भवनं स्तम्भप्रतिष्ठागमे।।33।।
मित्रेन्द्रानिलभाजपाद्द्वययमेष्वेतेषु संस्थे शनौ,
          तत्सद्माशु निगृह्यते सुबलिभिर्दैतेय यक्षादिभिः।
एकः शत्रुगृहस्थितो दशमगो द्यूनस्थितो वा ग्रहः,
          तद्गेहं परहस्तगं खलु भवेन्निर्माणलग्नाबलात्।।34।।
गृहनर्माणे मुख्यकालः
चित्राद्यार्यमहस्तचन्द्रविधिषु स्थायी बुधः श्रीपदो,
          ब्रह्यार्येन्द्वहि वैष्णवोत्तरजलेष्विज्यः स्थितः पुत्रदः।
रुद्रादित्यवसुद्विदैवजलराट् चित्रास्थितो धान्यदः,
          शुक्रः सप्तम एव चेद् गृहगतः स्तम्भप्रतिष्ठागमे।।35।।
स्तम्भप्रतिष्ठापनलग्नस्य ग्रहस्थितिफलम्
पापेषु त्रिभवारिगेषु बलिषु स्तम्भप्रतिष्ठालयात्,
          केन्द्रद्वित्रिभवत्रिकोणसहितेष्वार्यज्ञकाव्येन्दुषु।
स्वोच्चस्वालयमित्रराशिसहितेष्वर्कादिषु द्रव्यदं,
          कार्यं सद्म गुरौ भृगौ रिपुगते नीचस्थिते वार्तिदम्।।36।।
स्तम्भप्रतिष्ठापन लग्नस्य राजयोगाः
लग्ने कर्कटके यदा गुरुदिने जीवेन्दुसंस्थेऽथवा,
          निर्माणे भवनेऽपि जातपुरुषो राजा भवेत्सर्वदा।
लग्ने चापगृहे झषे गुरुदिने शुक्रार्यसंस्थे तदा,
          निर्माणे भवनेऽपि जातपुरुषो भूपोऽथवा तत्समः।।37।।
लग्नग्रहबलादायुनिर्णयः
आयुष्यं शतवर्षमिज्यसहिते तद्वच्च शुक्रान्विते,
          तस्यार्धं बुधसंयुते सुबलिभिः सौम्यैस्त्रिभिः संयुते।
लग्ने निर्मितसद्मनस्तु बहवः संवत्सराः स्युः शुभाः,
          तद्गेहे वसतो नरस्य बहवो भोगा भवेयुः सदा।।38।।
क्षणिकवास्तुस्वरूपम्
एकद्वित्रिचतुष्टयेष्वनुदिनं यामेषु सूर्योदयात्,
          सौम्यप्राग्यमपश्चिमेषु दिवसे तद्वत् क्षपायामपि।
वास्त्वीशो भुवि संविशेत् प्रथमतो यद्वच्च तद्वत् क्रमात्,
          विज्ञेयं क्षणवास्तु नाम तदिदं स्तम्भप्रतिष्ठागमे।।39।।
गृहप्रवेशविधानम्
कृत्वा वास्तुमहात्मनां च विधितः पूजां सहोमां सुरान्,
          अभ्यर्य्ु स्वपितृग्रहान् गणपतिं दत्त्वां बलिं भोजनम्।
तद्गेहं सुकपाटगोपनयुतं भित्यन्वितं संविशेद्,
          वादित्रध्वजमङ्गलैः शुभदिने पुण्याङ्गनाभिर्द्वितजैः।।40।।
गृहप्रवेशमासफलम्
वैशाखे बहुपुत्रदश्च शुभदो ज्येष्ठेऽर्थदः फाल्गुने,
          माघे धान्यसुखप्रदो गृहपतेर्मासे प्रवेशो भवेत्।
आदित्ये मकरादिषट्सु सहिते कुम्भाख्य मासं विना,
          सर्वाभीष्टद इत्यथाहुरपरे शेषैष्वयं दुःखदः।।41।।
गृहप्रवेशवारफलम्
वारेऽर्कस्य सुदुःखदः कलहदः क्षीणेन्दुवारऽर्थदः,
          पूर्णेन्दौ कुजवासरे दहनदः सौम्ये तु धान्यप्रदः।
जीवाहे पशुपुत्रदो भृगुदिने कल्याणसौख्यप्रदो,
          मन्दाहे स्थिरदश्च चोरभयदो वेश्मप्रवेशो भवेत्।।42।।
गृहप्रवेश वर्ज्यचकालः
रिक्तां दग्धतिथिं च विष्टिमवमं षष्ठीं च कृष्णाष्टमीं,
          मासान्ते दिनपञ्चकं प्रतिपदं शुक्लां प्रदोषानपि।
षड्वर्गं च कुजस्य भानुशशिनोर्दृष्टिं शशिस्थालयं,
          त्यक्त्वा दक्षिणसम्मुखे स्थितमिनं शुक्रं च गेहं विशेत्।।43।।
गृहप्रवेशनक्षत्रफलम्
चित्रामित्रवसूत्तरान्त्यवरुणब्रह्मेन्दु तारा दश,
          श्रेष्ठाः स्युर्निलयप्रवेश उडुषु स्यान्मध्यमं पुष्यभम्।
तद्गेहं परहस्तयातमदितिस्वात्यर्कदस्राच्युते,
          रुद्राग्नी ज्वलनप्रदौ च गृहिणः शेषास्तु दुःखप्रदाः।।44।।
गृहाणां द्वारनिर्णयः
कृत्वादौ नवधा स्वनिर्मितगृहक्षेत्रं नवस्वेव तत्,
          भागेष्वर्कमुखान् नवप्रतिदिशं संस्थाप्य तत्सद्मसु।
मर्या्कमर्य््चतुष्पदां कविगुरुज्ञांशेषु कुर्युः क्रमाद्,
          द्वारणीश्वरवह्निराक्षसमरुत्कोणादि रव्यादिषु।।45।।
पक्षान्तरेण द्वारनिर्णयः
सर्वेषामथवा यथारुचिगृहद्वाराणि कुर्युः कवे-
          राचार्यस्य बुधस्य वा प्रतिदिशं भागे समस्तालये।
अष्टस्वष्टसु वा त्रिषु त्रिषु गृहे कार्येषु भागेषु तन्,
          मध्ये वाधिकधामभागसहितं वामे कपाटान्वितम्।।46।।
राशिभेदेन द्वारनिर्णयः
प्राग्द्वारं झषकर्कटालिगृहिणां द्वारं तु याम्यं शुभं,
          युग्मस्त्री मृगसद्मनां घटतुलागोवेश्मनां पश्चिमम्।
द्वारं तूत्तरमर्थदं हरिधनुर्मेषालयानां नृणां,
          यद्वैकैकमजादि च प्रतिदिशं प्रागादि तद्गेहिनाम्।।47।।
गृहप्रवेशफलम्
संवेशः शुभदः स्वजन्मनि गृहे लग्ने चतुर्थालये,
          ताभ्यां चोपचये क्रमात्फलमिदं कर्तुः स्वजन्मादिषु।
निर्व्याधिं च दरिद्रकीर्तिसुहृदो निष्पुत्र निःशत्रुतां,
          निर्जायं निधनामयं स्थिरधनद्वेष्यान् प्रदद्यात्सदा।।48।।
गृहप्रवेशे पापाष्टमचन्द्रदोषाः
पापः पापयुतेक्षितोऽष्टमगतः पापालयस्थोऽथवा,
          वर्षाच्चेच्छुभवीक्षितोऽष्टागुणितो हन्याद् गृहस्वामिनम्।
क्षीणेन्द्रुश्च षडष्टरिःफगृहगश्चेत्सन्निवेशालयाद्,
          हन्यात् कर्तृकलत्रमाशु निविशेल्लग्ने विशुद्धेऽष्टमे।।49।।
ग्रहाणां दृष्टिनिर्णयः
पादाख्यो दशमे तृतीयभवने दृष्टिर्ि्ुद्पादाभिधा,
          खेटाद्या नवमे च पञ्चमगृहे राशौ चतुर्थेऽष्टमे।
दृष्टिः स्यात् त्रिपदाऽथ सप्तमगृहे सम्पूर्णदृष्टिः क्रमाद्,
          एकद्वित्रिचतुष्पदेषु बलिनो मन्दार्यभौमाः परे।।50।।
गृहप्रवेशलग्ने ग्रहस्थितिफलम्
एकश्चेत्परभागगो दशमगो जायास्थितो वा ग्रह-
          स्तद्गेहं परहस्तयातमथवा तत्सद्मवेशालयात्।
क्रूरा लाभरिपुत्रिगाः शुभफलाः केन्द्रत्रिकोणस्थिताः,
          सौम्याः सौम्यनिरीक्षिते स्थिरगृहे रात्रौ दिवा वा विशेत्।।51।।
ग्रहदृष्टिनिर्णयः
अष्टौ मेषकुलीरचापधटगो कुम्भालिमीनाः क्रमाज्,
          ज्ञेया याम्यदिगादयः प्रतिदिशं त्वेकैकराशिर्भवेत्।
तत्तद्राशिभवस्य तद्दिशि गृहं मृत्युप्रदं नो विशेत्,
          ब्रह्मस्थानगृहं तु केसरिमृगस्त्रीयुग्मजानां तथा।।52।।
वृषभचक्रलक्षणम्
यस्मिन् भेऽर्कयुतस्तदादिगणयेच्चन्द्रान्वितर्क्षान्ततः,
          कुर्यान्मृत्युमुडुत्रयं शिरसि च प्राक्पादयोर्दुर्दशाम्।
चत्वार्येव तु पश्चिमाङ्घ्रियुगले स्थैर्यं च चत्वारि तत्,
          पृच्छे तु भ्रमणं त्रयं चतुरथो वामे तु पार्वेत्वऽर्थहृत्।।53।।
धान्यं दक्षिणपार्व्तके चतुरथो पृष्ठे त्रयं सम्पदं,
          वक्त्रे भत्रितयं पशून् प्रकुरुते चक्रं वृषाख्यं त्विदम्।
द्वन्द्वाख्येऽग्निभयादिके च नृपतेर्यात्रानिवृत्तौ पुनः,
          संवेशे च विधिः स्वनिर्मितगृहे सर्वं विचिन्त्यं बुधैः।।54।।
कलशचक्रलक्षणम्
चक्रं स्यात्कलशस्वरूपमथ तत् संलिख्य मूर्यैुधकभं,
          प्रागाद्यासु चतुश्चतुः प्रतिदिशं चत्वारि तन्मध्यमे।
कण्ठे त्रीणि गुदे त्रयं च विलिखेद् भानां क्रमात् तत्फलं,
          वक्ष्येऽर्कान्वित भादितश्च गणयेत्संवेशधिष्ण्यान्ततः।।55।।
शीर्षच्छेमथ प्रवासमभयं धान्यं ततो निर्धनं,
          गर्भस्रावमथ श्रियं गृहपतेर्दद्याच्छतायुः सदा।
संग्रामाखिलदुर्गशैलनगरप्रासाददेवालय-
          क्षेत्रारामगृहप्रवेशसमये ज्ञेयं हि चक्रं त्विदम्।।56।।
।। षष्ठो विन्दुः समाप्तः ।। 6 ।।