पूर्वकालामृतम्

पञ्चमो विन्दुः | Panchnmo Vinduh

ब्रह्मक्षत्रविशामुपनयनयोग्यकालः

ब्रह्मक्षत्रविशामथोपनयनं वक्ष्ये वसन्ते क्रमाद्
          ग्रीष्मर्तौ शरदीह वर्णनियते तत्रापि साधारणाः।
मासा माघमुखास्तु पञ्चजननाद्वा गर्भतोऽब्देऽष्टमे
          नित्ये विप्रशिशोः क्रमान्नृपविशोरेकादेश द्वादशे।।1।।

यात्राप्रकरणम्

प्रष्टुर्जातकमीक्ष्य तस्य गमनं चायुष्मतस्संवेदत्
          प्रष्टा विस्मृतजातको यदि भवेत्तस्यापि कृच्छ्राद्वदेत्।
तल्लग्ने ग्रहदृष्टिचारुशकुनैरन्यैर्निमित्तैश्शुभै-
          स्ताराचन्द्रबलान्वितो ग्रहमखं कृत्वा शुभेऽह्नि व्रजेत्।।1।।

यात्राप्रश्नफलम्

षष्ठाष्टव्ययगश्शशी शुभखगैर्न प्रेक्षितो भङ्गकृत्
          क्रूरो लग्नगतोऽष्टगोऽप्यशुभकृत्तत्प्रश्नलग्नाद्बली
एको लग्नगतश्शुभस्तु धनदो द्वौ लग्नगौ चेच्छुभौ
          रत्नस्त्रीपशुभूमियानसुखदौ यातुर्बलिष्ठौ यदि।।2।।

यात्राप्रश्नगृहस्य सप्तमगता मार्गेऽर्थदा द्वित्रिगाः
          कन्याबन्धुसहायदास्सुतगता यातुश्च मित्रार्थदाः।
बन्धुस्थाः शुभदाः शुभा गगनगास्सत्कर्मदाः धर्मगाः
          क्षेमायुष्यपशुप्रदाश्च सकला रुद्रे तु पूर्णार्थदाः।।3।।

यात्राप्रश्नगृहं चरं शुभगतिस्यात्प्रश्नलग्नं स्थिरं
          नास्त्यैवास्य गतिर्विमिश्रफलदं चेद्द्विस्वभावं गृहम्।
वक्री लग्नगतो ग्रहो नहि गतिर्यद्यस्तपो लग्नगो
          हानिः स्यादथवास्तगोऽप्यशुभकृत्तत्प्रश्नलग्नेश्वरः।।4।।

यात्रातिथिवारनक्षत्रनिर्णयः

रिक्तापर्वदिनादि विष्टितिथयः षष्ठ्यष्टमी द्वादशी
          वर्ज्या भूमिजभानुपुत्रदिनकृद्वाराश्च यात्राक्षणे।
हस्तादित्यहरिद्वयान्त्यशशभृद्दस्रार्यमित्राह्व्याः
          शस्ताः मध्यमतारकाश्शताभिषङ् मूलप्रजेशोत्तराः।।5।।

वारनक्षत्रशूलनिर्णयः

शूलाख्येष्वथ वारभेषु गमनं यातुर्भवेद्रीगकृच्
          चन्द्रार्कात्मजवारयोस्सुरपभे प्राचीं नागच्छेद्दिशम्।
जीवेऽजाङ्घ्रिभ एव चान्तदिशं शुक्रार्कयोः स्रष्टृभे
          पश्चादर्यमभे कुजज्ञदिनयोर्याता च सौम्यां दिशम्।।6।।

परिघादण्डचक्रलक्षणम्

अग्नेयानिलकोणयोश्च विलिखेदेकां च रेखां चतु-
          ष्कोणे प्राग्लिखिते प्रसिद्धपरिघादण्डाख्यचक्रे शुभे।
तत्प्रागादिषु सप्तसप्तगमने वह्न्यादितारालिखे-
          दष्टविंशति संख्ययैव परिघादण्डो न लंघ्योऽध्वगैः।।7।।

नक्षत्रराशीनां दिग्द्वारनिर्णयः

यत्काष्ठास्थितभानि यानि गमने द्वाराणि तस्या दिशः
          प्राक्चक्रे विहितस्य पुष्यदिनकृन्मित्राद्यतारास्सदा।
सर्वद्वारे शुभास्सुखार्थपशुदाः प्रागादिमेषादयो
          दिग्द्वाराख्यगृहाः प्रदक्षिणविधावेकैकशोऽनर्थदाः।।8।।

द्वादशलग्नेषु गमनफलम्

मेषे भद्रमवाप्नुयाद् गवि सुखं युग्मे मृतिं कर्कटे
          लाभं शोकभयं हरौ ज्वरभयं कन्यागृहेऽर्थं धटै।
कीटे विग्रहमेव चापनिलये क्षेमं मृगे स्त्रीधनम्
          कौटिल्यं कलशे तु भोजनसुखं मीने पयाणेऽध्वगः।।9।।

प्रतिशुक्रबुधभौमदोषाः

यात्रायां प्रतिभार्गवं प्रतिकुजं प्रत्यब्जजं चार्तिकृ-
          च्छुक्रो दक्षिणतः स्थितोऽप्यशुभकृद्यातुः प्रवेशेऽपि वा।
मार्गे यद्युदितोऽग्रततश्शशिसुतस्तत्रैव गन्ता वसेत्
          सौम्यस्यास्तमवाप्ततश्च परतो याताध्वशेषं व्रजेत्।।10।।

प्रतिशुक्रादिदोषाणां गोत्रभेदपरिहारः

भारद्वाजवसिष्ठवात्स्यभृगवोऽत्र्याङ्गीरसौ कश्यपो
          गार्यो्ठ गौतमनामकश्च मुनयस्तद्गोत्रिणामर्थिनाम्।
एकग्रामविवाहराष्ट्रकविलक्षुत्पीडितज्ञानिनां
          चार्तानां प्रतिभार्गवप्रतिकुजप्रत्यारदोषा नहि।।11।।

यात्राफणिचक्रलक्षणम्

त्रीणि त्रीणि शशिस्थभान्तगणना कार्यार्कसंस्थोडुतः
          पञ्चस्युर्विषमानि रोगभयदान्यन्यानि चत्वारि तु।
युग्मान्मेव सदिष्टदानि तदिदं यात्राफणेर्यत्फलं
          किं चक्रेण फणिस्वरूपपशुभं त्याज्यं शुभे कर्मणि।।12।।

चन्द्रगर्भचक्रलक्षणम्

अग्नेयर्क्षमघानुराधवसुभेष्वेकैकभात्साभिजि-
न्          नक्षत्राणि च सप्तसप्तगमने दद्युः प्रयातुः फलम्।
मृत्युव्याधिभयार्थराशिवसुधा भीत्यामयाख्यं क्रमात्
          किं चक्रेण तु चन्द्रगर्भफलितं त्वेतन्मया निश्चितम्।।13।।

अडलस्वरूपलक्षणम्

चन्द्राधिष्ठितभान्तमेवगणयेदर्कान्वितर्क्षादितो
          नक्षत्राण्यपि सप्तसप्तगमने दद्युः फलं साभिजित्।
क्षेमं ताडनमार्तिमायुरभयं देशभ्रमं ताडनं
          यातुश्चाडलदोष एवं सकले कार्ये च चिन्त्योऽथवा।।14।।

त्र्यङ्कस्वरूपम्

यात्रावारभवासरांश्च मिलितान् स्वस्वादितस्तान् क्रमात्
          कृत्वा द्वित्रिचतुर्गुणान्प्रविभजेत्सप्ताष्टषड्भिः क्रमात्।
शून्येषु त्रिषु रोगभीतिमरणान्याशु प्रयातुः क्रमा-
          च्छेषेषु त्रिषु राज्यरत्नपृभिवीर्दद्यात्तु त्र्यङ्कस्वत्यम्।।15।।

यात्रापञ्चकशुद्धिस्वरूपम्

यात्रावारविलग्नधिष्ण्यदिवसान् स्वस्वादितस्सर्वतो
          राशीकृत्य दिनार्कदिग्वसुजलेष्वेकैक संख्यां क्रमात्।
क्षिप्त्वा प्राग्धृतमेव तं प्रविभजेदङ्कैश्च सर्वं ध्रुवं
          शेषः प्राक्तन पञ्चके बहुधनं शून्ये फलं वक्ष्यते।।16।।

अङ्गीकारार्थस्वरूपम्

व्याध्यग्निक्षिरतिपालचोरमृतितोभीतिश्च शून्ये क्रमा-
          देतत्पञ्चदशादियोजितफलं मृत्योर्भयं सर्वदा।
चोरव्याधिभयं निशासु दिवसे भूपाग्नि भीतिर्भवेद्
          यात्रापञ्चकशुद्धिरेव गमने सञ्जीवनीया खलु।।17।।

यात्राचन्द्रकण्टकनिर्णयः

जीवेच्छुर्यदि चन्द्रकण्टकगृहेष्वेतेषु नैव व्रजेन्
          मेष सिंहगृहे धनुष्यपि सुधीर्याता प्रतीचीं दिशम्।
कौबेरीं मकरे वृषे च युवती युग्मे तुलायां घटे
          प्राचीं मृत्युदिशं तु कर्कटगृहे मीनालये वृश्चिके।।18।।

यात्राललाटस्वरूपम्

प्राच्यादि प्रभवोऽर्कशुक्रकुजराह्वर्कीन्दुविट्सूरयो
          यद्दिग्राजि हि तद्दिगुक्तगृहगे तां तां दिशं न व्रजेत्।
प्रागादि क्रमशः प्रदक्षिणविधौ भानुप्रविष्टालयाद्
          दिक्ष्वेकं द्वितयं विदिक्षु मृतिकृद्यात्राललाटं त्विदम्।।19।।

युद्धगमनराहुफलम्

राहुक्रान्तभतस्त्रयोदशमुखं भान्यग्रतः पृष्ठतः
          पुच्छं केतुरिति त्रयोदशरविः स्थायी च यायी शशी।
यस्मिन्नस्य गते गृहे परिभवस्तस्यैव पुच्छं गते
          यस्मिन् तस्य जयेा गतौ युधि च तावेकत्र तत्तद्भवेत्।।20।।

गमनवर्य्तसकालः

दग्धे स्वस्य गृहे कलत्रकलहे यस्यार्तवे शोभने
          मध्ये वा यदि जातके च मृतके मासेऽष्टमे जन्मतः।
पित्रोर्वा क्षयवत्सरे यदि पितृश्राद्धक्रियानन्तरे
          जीवार्थी यदि न व्रजेत्स्वयुवतौ गर्भान्वितायामपि।।21।।

अभिजिद्धनिष्ठापञ्चके गमननिषेधः

स्याद् भङ्गोऽभिजिदाह्वये च निलये धिष्ण्ये मुहूर्ते तथा
          रोगः स्याद्वसुभस्य चोत्तरदलादृक्षेषु पञ्चष्वपि।
दुःखं दक्षिणादिक्प्रयातुरथवा नान्यत्र यातुस्त्वयं
          मीने चेदथ सर्वदिषु गमनु यातुश्च वक्रं भवेत्।22।।

नानायात्राणां लग्ननिर्णयः

स्त्रीयात्रा सुखदा वृषे च युवतौ युग्मे प्रयातुर्धटे
          गोयात्रा पशुलाभदैव वृषभे मेष हरौ वा मृगे।
कुम्भे कर्कटके झषे च मकरे यातुर्जनस्यार्थदा
          शौर्यायुष्यधनप्रदा गवि हरौ युद्धे तु चापे ह्यजे।।23।।

युद्धगमनकाल राहुस्थितफलम्

वारेऽर्कस्य गुरोर्दिने सुरपतेस्तत्कालहोरासु वा
          युद्धे वा भृगुचन्द्रयोर्यमदिशं भौमे दिने वारुणीम्।
सौम्यां भानुज सौम्ययोस्तु कलहस्स्यात्कालराहुस्त्वयं
          स्यातां लाभजयौ प्रयातुरथवा चेद्वामगः पृष्ठगः।।24।।

स्थिरचरयोगिनीनां फलम्

पक्षादिर्नवमी च दुःखभयदे प्राचीं प्रयातुस्तयो-
          रानन्तर्यतिथी कुबरककुभं त्वाग्नेयकाष्ठां तयोः।
आनन्तर्यदिने तयोः परदिने रक्षोदिशं पञ्चमी।
          राका वायुदिशं चतुर्दशदिनं षष्ठी दिशं वारुणीम्।।25।।

याम्यामामयकृत् त्रयोदशदिनं स्यात्सप्तमी त्वष्टमी
          दर्शश्चेशदिशं प्रयाणसमये ह्येषा स्थिरा योगिनी।
पादोनं घटिका चतुष्टयमिता प्रागादिषष्ठान्तगा
          स्यादेषा चरयोगिनी निधनकृद् भानूदयान्नित्यशः।।26।।

पक्षच्छिद्रवर्ज्य कालः

विघ्नेशश्च चतुर्दशी च नवमी षष्ट्यष्टमी द्वादशी
          नागास्तत्त्वचतुर्दशाङ्क मनुदिङ् नाड्यः क्रमाद्रोगदाः।
संख्योर्वा्द घटिकाश्शुभाश्च तिथयः षट्पक्षरन्ध्राभिधा
          मासाद्यन्तदिनद्वयन्तु मृतिकृत्सर्वेषु कर्मस्वपि।।27।।

गमननिषद्धनक्षत्रेषु वर्य्तकालः

शाक्रे सप्तनवेश्वरे दशयमे पूर्वात्रये षोडश
          त्वाष्ट्रे पञ्चदशानले नवदश द्वाविंशतिः पैतृभे।
स्वातौ द्वादश सार्पभे नवदशाप्यैन्द्राग्निभे तारका-
          स्त्वेता यातृभयार्तिदा अथ शुभास्संख्योत्तरा नाडिका।।28।।

दिनभुक्ति-वारभुक्तिस्वरूपः

दध्याज्यान्नयवाम्बुमाषचणकक्षौद्रेक्षुपिष्टार्द्रक-
          क्षीरव्यञ्जनमुद्गपायसतिला भुक्तिर्दिनाद्यादितः।
तक्रं पायसकाञ्चिके दधिपयो दुग्धं तिलान्नं क्रमाद्
          वाराद्यंशुमतः प्रयातृसुखकृत्सा वारभुक्तिर्भवेत्।29।।

नक्षत्रदिग्भुक्तिस्वरूपः

कुल्माषास्तिलतण्डुलाः दधिघृतं दुग्धं च मार्गामिषं
          तत्सारं घृतपायसं च पृथुका मांसं मृगेण्या मधु।
शाकं पैष्टिकमोदनं बहुविधं धात्रीफलं मण्टपं
          पिष्टान्नं कदलीफलं शशशिरो मांसं कुलुत्थौदनम्।।30।।

नैवारं कृसरौदनं झषयुतं चान्नं समुद्गौदनं
          शाल्यन्नं च यवान्नमिष्टमशनं दस्रादिभुक्तिः क्रमात्।
साज्यान्नं कृसरान्नमादिदिवसे प्रागादिभुक्त्वा व्रजेन्
          मत्स्यान्नं घृतपायसं च गमने दिग्भुक्तिरेषा क्रमात्।।31।।

चन्द्रद्वादशावस्थाप्रकारनिर्णयः

षष्टिघ्नं गतधिष्ण्यमिन्दुघटिकास्संयुज्य राशिं पुनः
          वेदध्नं शरसागराप्तमिनतो भक्त्वाथ लब्धे क्रमात्।
मेषादौ तु गृहे शशभृतो ज्ञेया अवस्था द्विषट्
          दस्रादिष्वथ पादयुक्तघटिकाश्चैकादशैकादश।।32।।

नामनिरूपणम्

सूक्ष्मं स्थूलमितिद्वयोः प्रवसनं नाशं मृताख्यं जयं
          हास्यं क्रीडितनामकं प्रियरतिं सुप्तिं च भुक्तिं ज्वरम्।
कम्पं सुस्थिरतां स्वनामसदृशं चेन्दोरवस्थाफलं
          यात्रायुद्धविवाहवास्तुजननक्षेत्रप्रवेशादिषु।।33।।

खचरयोगफलम्

अर्काक्रान्तभतस्तृतीयनवमे चातुर्थभं पञ्चमं
          चैतद्धिष्ण्यचतुष्टयं खचरो नामा भवेत्तत्फलम्।
सीमन्ते सवने व्रते शिशुहरं निस्तण्डुलत्वं कृषौ
          वैधव्यं करपीडने च गमने कुर्यात्प्रयातर्वधम्।।34।।

कर्मणि फलम्

सूर्याधिष्ठिततारकादि गणयेच्चातुर्थभं घातदं
          स्यादेकादशभं प्रभङ्गदमिदं चाष्टादशं मृत्युदम्।
कर्तुस्यादथ पञ्चविंशमपिभं हानिप्रदं कर्मणि
          नामैतद्भचतुष्टयं तु गमने पाणिग्रहादिष्वपि।।35।।

बालादिस्वरविवेचनम्

यन्नायप्रथमाक्षरस्वरमुखाज्ज्ञेया अकारादयो
          बालो यौवन राज्यवृद्धमृतयः स्वस्वादिपञ्चाभिधाः।
क्लृप्ता दृष्टिकार एव गदितौ दैवस्त्विकारो भवेत्
          प्रौढाख्यादिरुकार एवमुभयोरेकार ओकारके।।36।।

तिथिवारनक्षत्रकालाः

अल्पार्धाधिकलाभहानिमरणं कुर्युस्स्वबालादयः
          पञ्चद्व्यतुर्कपञ्चपञ्चभगणा दस्रादि नन्दाद्यपि।
वाराः पञ्विधा स्युरर्ककुजयोश्चन्द्रज्ञयोर्वाक्पते-
          श्शुक्रस्यार्कसुतस्य पञ्चसमयास्स्युः प्रातराद्यास्वराः।।37।।

पन्थाराहुचक्रनिरूपणम्

वस्वाद्यार्यविशाखामित्रवरुणाह्याख्याश्च धर्माभिधाः
          अर्थाख्यास्त्वदितीन्द्रकालपितृभश्रीशाजपाद्वायवः।
कामाख्या अभिजिद्भगाग्नि दनुजाहिर्बुध्न्यचित्रेश्वरा
          विश्वाप्यान्त्यकरार्यमेन्दुविधयो मोक्षाभिधास्तारकाः।।38।।

पन्थाराहुचक्रस्य फलानि

सूर्ये धर्मगते तथा हिमकरे धर्मादि संस्थे क्रमाद्
          यायी भङ्गमवाप्नुयादथ जयं क्रोधादनर्थं जयम्।
स्थायी याद्विजयं सभङ्गविकलं तद्विग्रहं संगरं
          भृत्याजाण्डजसङ्गरे च गमने सर्वत्र राज्ञां युधि।।39।।

आदियेऽर्थगते तथा हिमकरेऽप्यर्थादिसंस्थे क्रमाद्
          बन्धुद्वेषमियाज्जयं च वसुधां यायी च सर्वाशुभम्।
लक्ष्मीं भङ्गमथाशुभं च विजयं स्थायी तु सम्प्राप्नुयाज्
          ज्ञात्वा चक्रफलं मयैव रचितं सम्यक्प्रकारान्तरम्।।40।।

अर्के कामगते तथाऽमृतकरे कामादि संस्थे क्रमाद्
          यायी युद्धमवाप्नुयादतिधनं सर्वापदं मङ्गलं।
यत्किञ्चिद्विजयं धनं शुभकरं स्थायी तु भङ्गं सदा
          विद्वद्भिः क्रमशः प्रयाणसमये ज्ञेयं चतुर्णां फलम्।।41।।

भानौ मोक्षगते तथाप्युडुपतौ मोक्षादिसंस्थ क्रमात्
          भङ्गं सर्वजयं श्रियं च समियाद्यायी च सन्धिं सदा।
स्थायी चाशुजयं महीं च महतीं भङ्गं महद्विग्रहं
          पन्थाराहुगतं फलं च लिखितं धर्मादि चक्रं त्विदम्।।42।।

सूर्यचन्द्रनाडीनिर्णयः

नासादक्षिणभागजातपवनस्सूर्याख्यनाडी शुभा
          संग्रामव्यवहारमैथुनभयस्नानान्नभङ्गार्तिषु।
नाड्यन्या शशिनश्शुभैव गमनालङ्कारपाणिग्रह-
          क्षेत्राद्येषु यदंशवायुचलने तत्पादपूर्वं व्रजेत्।।43।।

सर्वदिग्गमननिर्णयः

कौबेरीमुदये रवेस्सुरपतेर्देशन्तु मध्यन्दिने
          सायं वारुणदेशमन्तकदिशं यातार्धरात्रे व्रजेत्।
गोधूलावभिजित्युषस्यपि गतिस्सर्वासु दिक्ष्वर्थदा
          मन्दाहोषसि किं पुनश्च गमने लग्नादिशुद्धिं विना।।44।।

प्रयाणनक्षत्राणि

पाणिस्थाध्वनि कार्यसिद्धिरनिशं मैत्रे प्रयातस्य तु
          ज्येष्ठायामुषितस्य तत्र हि पुनर्मूले प्रयातस्य तु।
माण्डव्यस्य मनोजयो ह्युषसि चेद् गार्य््स्य यानं मतं
          स्यात्सम्यक्छकुनं बृहस्पतिमतं तत्रापि यात्रार्थदा।।45।।

प्रयाणलग्न ग्रहस्थितिफलम्

आयुर्द्रव्यजयान्नमित्रकलहस्त्रीव्याधिभाग्योत्सव-
          प्राप्त्यप्राप्तिकराः क्रमाच्छुभखगा यात्रागृहादिस्थिताः।
क्रूरास्त्वामय भीतिभूषणरिपु भ्रान्त्यर्थपीडामृतिः
          क्रोधानर्थवसुन्धरा व्ययकारास्स्युर्यातुरेवाध्वनि।।46।।

यात्रायोगाः

यात्रालग्नगतश्शुभोऽर्थसुखदो योगाख्यं इन्दुं विना
          लग्नस्थौ मणिभूमिदौ शुभखगौ मार्गेऽधियोगस्त्वयम्।
लग्नस्थास्त्रिशुभाः यदीन्द्रसुखदा योगाधियोगस्त्वयं
          सौम्याः केन्द्रगतास्त्वभीष्टफलदा स्याद्राजयोगस्त्वयम्।।47।।

ताराबलनिर्णयः

जन्मर्क्षादि पुनः पुनर्नवनवस्युस्तारकाश्चन्द्रयुग्
          धिष्ण्यान्तं गणयेत्समाश्शुभफलास्सान्त्यास्सदा नेतराः।
तासु त्र्याद्यचतुर्द्विभतीयचरणास्त्याज्याश्च शाकं गुडं
          दानं स्याल्लवणं च हेमसीतलं तच्छेषपादाश्शुभाः।।48।।

चन्द्रबलनिर्णयः

षष्ठैकाशसप्तमाद्यदशमेष्विन्दुस्तृतीये शुभ-
          स्ताराचन्द्रबलं त्विदं विगणयेज्जन्मादि चन्द्रान्ततः।
यात्रादिष्वथ पञ्चमे द्विनवमे पक्षे वलक्षे शशी
          कृष्णे त्वन्त्य चतुर्थरन्ध्रसदनेष्वित्याहुरन्ये शुभः।।49।।

निर्गमनलक्षणम्

तल्लग्ने गमनं न चेन्नरपतिः खड्गादि सञ्चालयेन्
          मित्रैर्मित्रगृहं पितृग्रहस्सुरान् सम्पूज्य तद्दिक्पतिम्।
एतन्निर्गमनं त्रिरात्रमवधिः पश्चाद्व्रजेन्मङ्गलैः
          विप्रादिर्वसुतण्डुलाद्यपि नयेत्स्यात्पञ्चरात्रावधिः।।50।।

यात्राशुभशकुनानि

भारद्वाजमयूरचाषनकुला मुख्यास्त्वमुख्याः खगा-
          स्तेषां चोर्ध्वपगतिः प्रदक्षिणगतिः सम्यक्समीपस्थितिः।
एकस्यैव गतिश्शुभाथ युगपन्नैवोभयोश्चेद्गति-
          स्तार्य्ष्ुक्षीरशृगालकुक्कुटशुनां वामागतिस्त्वर्थदा।।51।।

उपशकुनानि

भौमे चोष्णकरे प्रयाणसदनात्केन्द्रे त्रिकोणाष्टगे
          रक्तोग्रायुधघोरवाक्यजटिलप्रव्राजकादीक्षणम्।
कृष्णाङ्गारसमीक्षणं रविसुते केतौ कबन्धेक्षणं
          स्वर्भानावुरगेक्षणं प्रथमतो मार्गे प्रयातुर्भवेत्।।52।।

प्रयाणलग्नादीनां शुभशकुनानि

शुक्रे पूर्णनिशाकरे च शाशिजे केन्द्रत्रिकोणान्विते
          पुण्यस्त्रीखगपूर्णकुम्भयुगलं जीवे तु विप्रद्वयम्।
भानौ भूमिसुते प्रयाणसदनाल्लाभत्रिषष्ठान्विते
          तेजश्चाषफलेक्षणं रविसुते मार्गे मयूरेक्षणम्।।53।।

क्षुक्रांष्टुरुतफलम्

प्रागादौ शनिवासरादिगदितास्सूर्यादयोऽष्टौ ग्रहाः
          नागानागनगानिधीनिशिनभो नादो नसो नाडिकाः।
हानिप्रीतिदुरुक्तिबन्धुकनकस्निग्धान्नतापार्तिदाः
          श्रोतुः क्रोष्टुरुते क्षुते फलमिदं मृत्युस्सदा गोक्षुतम्।।54।।

          गौलि(पल्ली)वाक्पतनथोः फलम्

भाग्यश्रीजययुद्धलाभगमनक्षेमार्तिपीडार्थकृत्
          प्रागादिष्वधरोर्ध्वगयोरपि सदा श्रोतुः क्रमाद् गौलिवाक्।
लक्ष्मीं मूर्ि्मनक गले च मित्रमुदरे पुत्रं च पार्वे ।य मुदं
          कट्यां वाहनमर्थमेष्यति पदे गौलिप्रपाते फलम्।।55।।

काकरुतस्य फलमाह

आदित्यस्थितकालसिद्धनियमाः प्रागादिदिक्षु क्रमात्
          पादोनं घटिकाचतुष्टयचराः काकावदन्त्यागतम्।
लाभारातिविनाशनप्रियजनप्राप्त्यर्थवृष्ट्यहव-
          प्राणान्त्याल्पभयं काकमिथुनं रोगार्तिकृत्पश्ताम्।।56।।

प्रयाणे शुभशकुनान्तराण्याह

लक्ष्मीलक्षणलक्षितक्षितिपतिक्षीरेक्षुदण्डेक्षणं
          पक्षिस्वामिमहोक्षपक्षिकुलकक्षौद्राक्षतप्रेक्षणम्।
रुद्राक्षक्षितिपालकोपकरणं क्ष्मादेवयुग्मेक्षणं
          क्षिप्रं क्षेमकरं प्रयाणसमये यातुश्च सुक्षेत्रदम्।।57।।

प्रयाणे शुभशकुनान्तराण्याह

वेश्यामङ्गलघोषवाक्यकुसुमच्छत्रप्रदीप्तानल-
          स्निग्धान्नाम्बुजरत्नशुभ्रवसनस्त्रीमद्यभाण्डध्वजाः
गोवेदध्वनिलाजपूर्णकलशश्रोत्रानुकूलस्वन-
          द्रव्याज्याम्बुचराः प्रयाणसमये दृष्टा सुखार्थान्नदाः।।58।।

पुण्यस्त्रीपुरुषान्विता स्वपुरतः पुत्रान्विता वाऽऽगता
          चैवं गोमृग भृंगवानररुरुश्वाश्वाण्डजाः भोगदाः।
यद्युद्वाहगतिः प्रयातृसुखकृत्पत्नीसुपुत्रार्थदा
          सर्वं वस्तु सितं शुभं यदि भवेत्कृष्णं तु न प्रायशः।।59।।

अथाशुभशकुनान्याह

जन्तूनां श्रुतिताडने सति तयोर्युद्धे क्षुते रोदने
          क्रोधे पादविषाणपुच्छदशने दन्तक्षते मैथुने।
प्रस्त्रावेऽपि च बन्धने स्वपुरतो दृष्टे च कोलाहले
          प्राणत्यागनिरोधनार्तिसमये हानिः प्रयातुर्भवेत्।।60।।

अशुभशकुनान्तराण्याह

वस्त्रादिस्खले दुरुक्तिसमये गर्तादिपाते भये
          स्तम्भाद्यैरपि घातने कृशतनौ रोगान्विते वा तथा।
भुक्त्वा हे जन! गम्यतामिति जनैर्निर्बन्धहस्तग्रहे
          प्रत्याह्वानविधौ प्रयाणसमये रोगः प्रयातुर्भवेत्।।61।।

पुनप्यशुभशकुनान्तराण्याह

चर्माङ्गारतृणास्थिपङ्कलवणव्याधेक्षणं भीतिदं
          गोधासर्पबिडालकुब्जशशकव्याघ्रेक्षणं मृत्युदम्।
वन्ध्या सूकरतैलक्रयतिराड् भस्मेक्षणं हानिदं
          कार्पासेन्धनरिक्तभाण्डतुषकान् पश्यन्न यात्रां व्रजेत्।।62।।

पुनश्चाशुभशकुनान्तराण्याह

उन्मत्तान्धविरुपपंगुजटिलव्याध्यन्विताभयंगयुक्
          खञ्जैकद्विजमुक्तकेशविधवा-नग्नक्षुधापीडिताः।
पाखण्डा प्रियषण्ढमुण्डजडवाक्कुण्डप्रचण्डायुधाः
          प्रायः प्राणहराः प्रयाणसमये सन्दृष्टमात्राः पथि।।63।।

भल्लूकद्विजराजवानररुतं तद्दर्शनं वाऽशुभं
          तेषां कीर्तनमार्तिकृच्च गमने दुष्टस्मृतिर्भीतिदा।
यातुर्मृत्युकरं कपोतवचनं प्रोक्तं विवाहे च यद्
          ज्ञेयं तत्सकलं त्विहैव गमेन चाकालवृष्ट्यादिकम्।।64।।

शकुनस्वरूपं निगमयति

प्रागुक्तान्त्सकलैकविंशतिमहादोषान्विसृज्यान्यतो
          यल्लग्नं च गुणाधिकं यदि भवेद् ग्राह्यं न दोषाधिकम्।
नोक्ता विस्तरभीतितश्च बहवो दोषां गुणास्सन्ति ते
          किञ्चिद्वस्तु निरूपितं च गमने शास्त्रेषु सारात्मकम्।।65।।

प्रयाणस्य शुभलग्नादिकं नियप्येदानीं निगमयति

विप्रादिश्शयनान्नपानविभवान्सम्पूर्णलक्ष्मीं महीं
          रत्नस्त्रीपशुधान्ययानविजयान् लब्ध्वा स्वधामाप्नुयात्।
एतेषामधिका प्रयातृमनसः शुद्धिः प्रयाणेऽस्ति चेत्
          सर्वेषामधिकैव यानसमये श्री वेङ्कटेशस्मृतिः।।66।।

शुभलग्ने प्रयातस्य राज्ञः आशीर्वादरूपेण विशेषफलमाह

एवं सत्समये व्रजन्नरपतिः सन्त्यक्तकेशाम्बर-
          प्राणस्यन्दनशस्त्रनागतुरगान् कृत्वा तृणास्यानरीन्।
कृत्वेच्छां न कुलांगनासु विजयीं दत्वाभयं प्राणिनां
          दग्ध्वा शत्रुपुराणि शत्रुकमलां हृत्वा पुरीं स्वां विशेत्।।67।।

अथ प्रतिप्रयाणनिर्णयमाह

यात्रालग्नगतेब्द एव रविजे सूर्ये तदर्धं दिनं
          शीतांशौ त्रिदिनं कुजे शशिसुते मासद्वयं वाक्पतौ।
मासं दैत्यगुरौ च पक्षमथवा दृष्टै विलग्ने ग्रहैः
          संख्यायाः परतस्मष्यति पुनस्स्वस्थानमाप्तार्थवान्।।68।।

अत्रैव विशेषमाह

मन्दादिग्रहकाल एव गदितो यात्रादिलग्ने क्रमा-
          देकद्वित्रिगुणश्चरस्थिरगृहे स्याद्द्विस्वभावाभिधे।
यात्रालग्नचरादिभागसहितेष्वक्र्यादि खेटेषु वा
          स्यादेवं प्रतियानमुक्तगमनं निश्चित्य याता व्रजेत्।।69।।

योगान्तरमाह

यात्रालग्नगतो ग्रहः प्रथमतः पश्चात्स वक्रीभवेत्
          तल्लग्नेश्वर एव वा गमनदिग्खेटोऽपि वक्री यदि।
यातुर्जन्मविलग्नराश्यधिपतिर्वक्रं गतस्तद्दशा-
          धीशो वा बलयुक्तवान् स्वभवनं भूयः प्रयातैष्यति।।70।।

पुनर्योगान्तरमाह

यात्रालग्नतोदयांशभवनाद्यात्रोडुपादान्त्यगा
          यात्रा कर्तृभपादतस्स्युरथवा यात्रेन्दुभंशांन्त्यगाः।
तावन्त्यो हि विनाडिकाश्च घटिकाह्नः पक्षमासास्तयो-
          र्यावन्मध्यनवांशकागतिवशात्स्याद्यात्रिकालावधिः।।71।।

पुनर्योगान्तरमप्याह

यात्रालग्नवांशपोऽस्तनिलये स्वांशेश्वरो वा यदा
          वक्री सप्तमराशिपोऽपि नवमाधीशोऽपि यात्रालयात्।
तद्रेक्काणपतिः स्वकालबलवान् तद्वारलग्नेश्वरो
          यातुस्स्यात्पुनरागमस्सवभवनं वारेश्वरो वा तदा।।72।।

भूत्वादौ गमने प्रवेशशकुनं पश्चात्समीपे पुनः
          प्रस्थानं शकुनं भवेद्यदि महान् लाभः प्रयातुस्सदा।
प्रोक्तं यत्सकलं प्रयाणाशकुनं व्यस्तं प्रवेशे शुभं
          क्षीराख्यं विहगं विहाय नगरग्रामप्रवेशादिषु।।73।।

प्रयाणे विप्रादीनां नियतफलान्याह

यात्राधिष्ण्यगुणैर्ि्फलाजस्य फला सिद्धिर्गुणैर्लग्नजै-
          र्नानायोगगतैर्नृपस्य तु विशां सिद्धिर्दिनोत्थैर्गुणैः।
शूद्राणां शकुनैश्शुभैश्शुभफलं यात्रानुकूला भवे-
          दन्येषां तु मुहूर्तशक्तिबलतःस्यात्कार्यसिद्धिस्सदा।।74।।

अथ गमनदिने वर्याक्न्याह

क्षौरं वाक्कलहं सुदीर्घगमने दैन्यं भयं वेपथुं
          शोकं दुष्टसहायमेकगमनं विप्रत्रयं वक्रताम्।
अभ्यंगं समुपोषणं च कुटिलं त्यक्त्वादिमेऽह्नि व्रजेत्
          पूर्वादृष्टवशात् प्रयाणशकुनं यातुश्शुभं वाऽशुभम्।।75।।

द्वितीयदिवसे गतिलक्षणमाह

द्वैतीये दिवसेऽपि यानशकुनं सम्यग्भवेच्छोभनं
          व्यालं वा शशकं विनापशकुनं दैवात्तदन्यद् भवेत्।
पूर्वस्मिन् दिवसेऽपि यत्र शकुनं तत्रैव गत्वा पुन-
          स्तार्तीये दिवसे व्रजेत्पुनरपि स्यादेव यातुस्सुखम्।।76।।

।।पञ्चमविन्दुः समाप्तः।। 5 ।।