ब्रह्मक्षत्रविशामुपनयनयोग्यकालः
ब्रह्मक्षत्रविशामथोपनयनं वक्ष्ये वसन्ते क्रमाद्
          ग्रीष्मर्तौ शरदीह वर्णनियते तत्रापि साधारणाः।
मासा माघमुखास्तु पञ्चजननाद्वा गर्भतोऽब्देऽष्टमे
          नित्ये विप्रशिशोः क्रमान्नृपविशोरेकादेश द्वादशे।।1।।
उपनयनाब्दपक्षान्तनिर्णयः
काम्याब्दे त्वथ पञ्चमादिविषये षष्ठे चतुर्थे परे
          वाञ्छन्त्येव हि मध्यमे तु दशमे दैवाच्च कालात्यये।
कृष्णादौ दिनपञ्चके शुभदिने पक्षे वलक्षे विना
          रिक्तानध्ययनानि मध्यमतिथी नन्दे अपि द्वादशी।।2।।
उपनयनाय वारनक्षत्रलग्नादिनिर्णयः
शुक्रार्येन्दुजवासरेऽर्कशशिनोर्वारौ च मध्यौ तयो-
          र्मित्रान्त्यादिमृगास्थिरादितिगुरुश्रोणत्रयार्कत्रये।
स्वांशादन्यशुभांशगे हिमकरे श्रोणादितिस्वांशगे
          लग्ने चन्द्रविवर्जिते शुभदिने पूर्वेऽह्नि शुद्धेऽष्टमे।।3।।
वर्णाधिपतिबलनिर्णयः
वर्णेशार्ककवीज्यवेदपबलं चाब्देन्दुताराबलं
          तत्राचार्यकुमारयोर्गुरुबलं तेभ्यो हि मुख्यं व्रते।
तेषां वार्धकबाल्ममौढ्यरहिते मूलत्रिकोणालये
          स्वोच्चस्वालयमित्रराशिसहितेष्वेतेषु कार्यं व्रतम्।।4।।
वेदाधिपतिनिर्णयः
ऋग्वेदप्रभृतीश्वराः गुरुभृगुक्ष्मापुत्रसौम्याः व्रते
          स्वीयं वेदपलग्नवासरबलं त्वेतत्त्रयं दुर्लभम्।
लग्नेन्दुः क्षयरोगिणं च कुरुते स्वोच्चस्थितोऽप्यर्भकं
          लग्नाद्द्वादशगं रविं यदि कुजः पश्यन् गुरोर्नेत्रहृत्।।5।।
वर्णेशादिवशादुपनयनलग्ननिर्णयः
नीचस्थेषु पराजितेष्वरिगृहस्थेष्वस्तगेषु व्रते
          वर्णाधीशकवीज्यवेदपतिषु स्यादन्त्यतुल्यो वटुः।
अन्यैरप्यखिलैकविंशतिमहादोषैर्वियुक्तेऽखिले
          केन्द्रे पापविवर्जिते यदि शुभे लग्ने च कार्यं व्रतम्।।6।।
केन्द्रस्थानस्थितपापग्रहफलम्
लग्नात्केन्द्रगते रवौ स्फुजित इत्याचार्यशिष्यौ व्रते
          भौमे कूजितनामकस्तु जननीं हन्त्येव मन्दे कुलम्।
दोषोऽयं रुधिराभिधस्तमसि चेदुग्राभिधो बालकं
          रन्ध्राख्यः पितरं ध्वजे नगदशक्षित्यब्धि केन्द्राभिधाः।।7।।
वटीर्गुरुबलनिर्णयः
जीवः कर्कटचापमीनगृहगस्तद्भागसंस्थोऽपि वा
          जन्मद्वादशन्ध्रगो यदि वटोर्विद्यार्थदः स्याद् व्रते।
स्त्रीगोयुग्मतुलामृगाख्यगृहगस्तद्भागसंस्थोऽपि वा
          विद्याचारसुखायुरर्थरहितं कुर्याद् गुरुस्तं शिशुम्।।8।।
चन्द्रराशिस्थितफलम्
कुर्यात् पातकिनं वटुं शशधरस्सूर्यांशगस्स्वांशगो
          निःस्वं भूमिसुतांशमायुधभृतं ज्ञांशं तु विद्यायुतम्।
जीवांशं क्रतुकारिणं भृगुसुतस्यांशं विवाहान्वितं
          मन्दांशं गतु आशु चोपनयने चाण्डालसेवाकरम्।।9।।
उपनयनलग्नस्य त्याज्यकालः
पूर्वेद्युश्च परेऽहनि व्रतदिनात्तस्माच्चतुर्थे दिने-
          ऽनध्यायश्च रजस्वला स्वजननी गर्भान्विता वा शिशोः।
पित्रोश्च क्षयवत्सरो यदि गुरोस्सन्ध्याभिजित्सद्म वा
          बालो वा यदि कर्णवेधरहितो नैतेषु कार्यं व्रतम्।।10।।
सप्तजन्मनक्षत्रस्वरूपम्
जन्मर्क्षं जननोडुकर्मदशमं सांघातिकं षोडशं
          वैनाशाख्यमथ त्रिविंशमपिभं तत्पञ्चविंशं यदि।
ऋक्षं मानससञ्ज्ञकं द्विनवमं तत्सामुदायाभिधं
          त्याज्यं सप्तमभं तु नैधनमिदं सर्वेषु कर्मस्वपि।।11।।
जन्मनक्षत्रे कार्याकार्यविचारणम्
जन्मर्क्षं शुभदं निषेकमखयोश्चैलान्नभुक्त्योः कृषौ
          मौञ्जीबन्धनपट्टबन्धनमही प्राप्त्क्षरावाप्तिषु।
एभ्योऽन्येष्वशुभप्रदं च सुवने सीमन्तसंग्रामयो-
          र्गर्भाधानपितृक्रियाक्षुरभिषग्यात्राविवाहेष्वपि।।12।।
उपनयनलग्नस्य दोषापवादः
दोषाणां नियुतं निहन्ति बलवान् लग्नस्थितश्चेन्दुजः
          शुक्रस्तद्द्विगुणं गुरुर्दशगुणं लग्नं च पञ्चेष्टिकम्।
लग्नस्योपचये स्थितो गृहपतिः क्रूरो बली चेद् व्रते
          लग्नैकादशगो रविश्च सकलान् दोषान्निहन्त्येव तान्।।13।।
अक्षरस्वीकारयोग्यकालः
बालानां शुभवासरेऽह्नि निधने शुद्धेऽक्षरस्वीकृतिः
          कार्या पञ्चमवत्सरे प्रतिपदं रिक्ताष्टमी षष्ठ्यामः।
हित्वा पूष्णि चरे स्थिरे चरगृहे व्यक्ते गुरौ भार्गवे
          मित्रान्त्याद्यरवित्रयादितिगुरुश्रोणाषु सौम्यायने।।14।।
विद्यारम्भयोग्यकालः
विद्यारम्भविधिर्दिवैव शुभदोऽनध्यायरिक्तां विना
          दस्रार्कत्रयासोमपञ्चकहरिक्रव्यादपूर्वत्रये।
शाखेशार्यकविज्ञसोमदिनकृद्वारेषु लग्ने चरे
          नो विद्याबुधसोमयोः परमतं शस्त्रं कुजेऽर्केऽभ्यसेत्।।15।।
अनध्ययनदिनानि
अप्यर्के चरराशिगे तदयने स्यात्पक्षिणी सा तिथि-
          श्चान्त्योपान्त्यसुमध्यमादितिथयः पक्षेषु चाध्ययाः।
प्रातः पञ्च तु नाडिकाः क्षयतिथौ वृद्धौ त्रयोऽथ त्रयः
          षट्सायं क्रमशस्समत्वमुभयोर्नाडीचतुष्कं सदा।।16।।
शुक्लपक्षे नैमित्तिक अनध्यायाः
चैत्रे माधवषष्ठयोरपि सदा शुक्लतृतीया शुचौ
          षष्ठी सा दशमीत्विषोर्जनवमी मासे द्वितीया त्विषे।
ऊर्जे मास्यथ पञ्चमी तपसि चेत्सा सप्तमी द्वादशी
          माघे भाद्रपदादिषु त्रिषु शुचै पौषे सितैकादशी।।17।।
कृष्णपक्षे नैमित्तिक अनध्यायाः
तच्छेषास्तु सितेतराश्च तिथयः षष्ठित्रयोदश्ययो
          याम्यर्क्षञ्च तपस्य कार्तिकशुचिष्वेव द्वितीया इमाः।
सन्ध्यागर्जितमन्यकालपतिता वृष्टिश्च तिस्रोऽष्टकाः
          रिक्तानध्ययने कृतोपनयनस्यात्कर्महीनार्तिकृत्।।18।।
उपनयनकर्तुर्निर्णयः
पुत्राश्चोपनयेत्पितैव हि वटोस्ताते विदूरं गते
          चेद् बलस्य पितामहस्स च ने चेद् भ्राता पितुस्सोऽपि नो।
कर्ता सोदर एव सोऽपि यदि नो ज्ञातिश्च कर्ता तदा
          नो चेत्सोऽपि सगोत्रजस्सकुलजः कर्ता व्रतेऽयं क्रमः।।19।।
गोदानादि वेदव्रतकालनिर्णयः
मौञ्जीबन्धनकर्मतोऽथ विहितं पूर्वञ्च गोदानतः
          कर्त्तव्यं क्रमशश्चतुष्टयमिदं वेदव्रतानामपि।
चौले यत् कथितं तदत्र कथितं वर्षव्यवस्थां विना
          प्राप्ते षोडशवत्सरे तु विहितं गोदानकर्मैव तत्।।20।।
समावर्तनकालः
नानावेदसमूहमङ्गसहितं चाधीत्य लब्ध्वा गुरो-
          राज्ञां यज्ञसुतार्थिनस्युरथ तैः कार्यं समावर्तनम्।
पूर्वाह्ने शुभवासरे चरगृहे त्यक्त्वा च नन्दाष्टमी
          रिक्ता पर्वदिनत्रयाणि च मृदुक्षिप्रस्थिरर्क्षेस्वपि।।21।।
।।द्वितीयविन्दुः समाप्तः।। 2 ।।