मङ्गलाचरणम्
श्रीमद्वेङ्कटनायकं कुलगुरुं नत्वा सदाभीष्टदं
          ज्योतिश्शास्त्रापयोनिधिप्रथमनात् सारं समुत्कृष्य तम्।
विद्वद्विश्वमनोहरं मृदुपदं संक्षेपतस्संस्फुटं
          गर्भाधानमुखं पिपासुसुलभं कालामृतं वच्म्यहम्।।1।।
तिथिवाराधिपतयः
वह्निस्रष्टृहिमाद्रिजा कगणपतिस्सर्पः कुमारो रविः,
          गौरीशो वसुनागधर्महरयः कामः कालीन्दू पिता।
एते सर्वदिनाधिपाः स्युरथ ते वारेश्वराः भास्करः,
          चन्द्रो भूमिज इन्दुजो गुरुभृगू मन्दो भवेयुः क्रमात्।।2।।
नक्षत्राधिपतयः
ऋक्षेशा अथ दस्रकालहुतभुग् ब्रह्मेन्दुरुद्रादिती-
          ज्या नागाः पितरो भगार्यमरवित्वष्ट्राशुगाख्याः क्रमात्।
इन्द्राग्नी अपि मित्रशक्रदनुजास्तोयाख्यविश्वात्मभूः,
          श्रीशाख्या वसुतोयपाजचरणाहिर्बुध्न्यपूशाह्वयाः।।3।।
नक्षत्राणां क्षिप्रादिसंज्ञाः
क्षिप्रं दस्ररवीज्यमासुरशिवज्येष्ठोरगं दारुणं
          चित्रान्त्येन्दुभमैत्रभं मृदुभवेत् ब्राह्मोत्तराभं स्थिरम्।
उग्रं कालमघात्रिपूर्वमनलेन्द्राग्नी तु साधारणं
          स्वात्यादित्यहरित्रयं चरमिदं दद्यात् स्वसंज्ञाफलम्।।4।।
ग्रहाणां क्रूरसौम्यस्त्रीपुरुषसञ्ज्ञाः
क्रूरा भानुतमः शनिध्वजकुजाः शुक्रार्यसौम्येन्दवः,
          सौम्यास्ते पुरुषाः कुजार्कगुरवो राह्विन्दुशुक्रा: स्त्रियः।
तच्छेषास्तु नपुंसका गुरुभृगू विप्रौ कुजार्कौ नृपौ,
          वैश्यौ चन्द्रबुधौ तदन्यकुलजो मन्दस्तु वर्णेश्वरः।।5।।
चन्द्रस्य पूर्णत्वं क्षीणत्वं च
अष्टम्योरुभयोश्च मध्यमगतः शुक्लान्ययोर्व्यवत्यये,
          पूर्णः क्षति इति क्रमाच्छशधरः पूर्णः शुभे मंगले।
कृष्णादौ दिनपञ्चकं शुभकरं तन्मध्यमं मध्यमं,
          तस्मान्त्यं त्वधमाभिधं शशिवशाच्छुक्ले तु तद् व्यत्ययम्।।6।।
रजस्वलायाः शुभाशुभनक्षत्राणि
कन्यायाः प्रथमार्त्तवे शुभकराण्याद्यन्तमूलोत्तरा,
          ब्राह्मीज्येन्दु दिनेशपञ्चकहरित्रीण्येव नान्यानि तु।
वाराश्चेन्दुजजीवशुक्रशशिनां तेषां च वर्गाः शुभाः,
          केन्द्रोपान्त्धनत्रिकोणसहिताश्चान्येऽरिलाभत्रिगाः।।7।।
रजोदर्शने उग्रनक्षाणि
दुःखी स्यात् पितृरौद्रयोरदितिभे सा बन्धकी शक्रभे-
          ऽप्यग्नौ निःस्वताराऽऽर्किभौमदिनकृद् वारेषु रोगार्तिकृत्।
वैधव्यासुतनिर्धनाऽशुभफलं याम्यत्रिपूर्वोरगे-
          ष्वेकद्वित्रिचतुष्पदानि युवतेर्दद्युः क्रमादार्तवे।।8।।
रजोदर्शने दुष्टकालः
सन्ध्योपप्लवपर्वपातपरिघारिक्ताष्टमीद्वादशी,
          षष्ठीविष्टिविषावमादिदिवसा दुष्टर्क्षसंस्थो रविः।
रन्ध्रेदुर्निधनोडुभर्तुरशुभा योगा निशा वैधृतिः
          पापाक्रान्ताभमस्तपापवसतिः कन्यार्तवे दोषकृत्।।9।।
वस्त्रादिनिर्णयः
सप्तैकाष्टचतुष्षडक्षिनवदिक् पुत्रादिसंख्या क्रमाद्
          रामाद्र्यब्धिकराब्धिरामशशभृच्चन्द्रा रजो बिन्दवः।
जीर्णं श्यामलरक्तशुभ्रमलिनं काषायचित्रं च तद्
          वस्त्रं धातुमयं च पृच्छकवशात् प्राच्यादिकाष्ठाफलम्।।10।।
विन्दुफलनिर्णयः
श्यामं मृत्युकरं दृढं शुभकरं चित्रं च दारिद्र्यकृद्-
          रक्तं व्याधिकरं सितं सुतकरं वस्त्रं रजो दूषितम्।
स्त्रीणां विन्दुसमत्वमामयकरं कन्याप्रदं चार्तवे-
          विन्दूनां विषमत्वमेव सुतकृद्भाग्यप्रदं सर्वदा।।11।।
गर्भाधानम्
गर्भाधानमरिष्टमष्टमविधौ पापग्रहाक्रान्तभे,
          दस्राहिद्वयकालमूलनिधनज्येष्ठान्त्यजन्मोडुषु।
षष्ठीविष्टिविषावमासु परिघाद्यर्धे दिवा वैधृतौ,
          सन्ध्या पर्वचतुर्दशीव्रतपितृश्राद्धेषु पाते भवत्।।12।।
ऋतुकालनिर्णयः
स्त्रीणामार्तवदर्शनादिदिनतः स्याच्छोशर्तुक्षपाः,
          पुत्रार्थी वरयेत्समासु सुमुखीं तास्वेव शुद्धां कृशाम्।
पुंलग्ने पुरुषैरवेक्षितयुते पुंवर्गसंस्थैग्रहै-
          र्जीवे लग्नसुताङ्कगे यदि सुतस्तद्व्यत्यये पुत्रिका।।13।।
पुंसवनकालः
कुर्यात्पुंसवनं करत्रयविधिश्रोणत्रयार्योत्तरा,
          मित्रान्त्यादितिमूलदस्रशशभृद्भेष्वाद्यगर्भे स्फुटे।
लग्ने पुंग्रहवासरे रविगृहं त्यक्त्वालिसद्माप्यमा-
          रिक्ता छिद्रविवर्जितेऽह्नि युवतौ मासे तृतीये पतिः।।14।।
सीमन्तकालः
पूर्वं पुंसवने यथैव कथितं मासव्यवस्थां विना,
          सीमन्तेऽपि तथैव मासविषये षष्ठे चतुर्थेऽष्टमे।
लग्नादन्त्यसुताष्टमेषु रहितेष्वर्कादिपापग्रहे-
          श्चन्द्रे लग्नविवर्जिते च नवमे शुद्धे समं पुंसवे।।15।।
जातकर्मकालनिर्णयः
जाते जातिनादिरादशदिनात्तज्जातकर्मात्मजे
          कुर्याद्रुद्रदिनेऽथवा स्थिरचरक्षिप्राख्यमैत्रोडुषु।
रिक्तामारहितेऽप्यखण्डदिवसे लग्ने शुभे वासरे
          पूर्वाह्णेऽसुरपूजिते सुरगेरौ व्यक्ते च सौम्यायने।।16।।
नामकरणकालनिर्णयः
जातानन्तरमेव नामकरणं त्वेकादशाहे स्फुटं
          पुत्रस्यैव समाक्षरं तु युवतेः कार्यं ततो व्यत्ययम्।
शुद्धिर्जातकवच्च नाम्नि सकलैस्तद्द्वादशे षोडशे
          द्वाविंशेऽप्यथ विंशकेऽह्न विहितं जातिव्यवस्थां विना।।17।।
अन्नप्राशनकालनिर्णय
अन्नप्राशनमर्भकस्य शुभदं मास्येव युग्मे शुभे
          षष्ठादावथ पञ्चमादिविषये मासे वधूनां शुभे।
वारे सौम्यगृहे विशुद्धदशमे नन्दाष्टमो द्वादशी
          रिक्तामारहिते दिने चरमृदुक्षिप्रध्रुवाख्योडुषु।।18।।
अन्नप्राशनलग्नगतग्रहफलनिर्णयः
कुष्ठीलग्नगते रवौ तनुकले चन्द्रे सदा भिक्षुक:
          पूर्णेन्दौ बहुसत्रदोऽवनिसुते पित्तार्दितो ज्ञानवान्।
ज्ञे जीवे बहुभोगवान् भृगुसुत्ते दीर्घायुरर्कात्मजे
          वातांगी तमसि ध्वजेऽप्यनशनी बालोऽन्नभोक्ता भवेत्।।19।।
केशखण्डनकालनिर्णयः
जन्मादौ समसासि पुत्रविषये स्त्रीणां तु तद्व्यत्यये
          कार्यञ्चादिमकेशखण्डनमिदं पूर्वेऽह्नि सौम्यायने।
आदित्यद्वयदस्रपौष्णशशभृद्विष्णिपुत्रयार्कत्रये
          पूर्णाहे शुभवासरे जयदिने चाष्टम्यमावर्जिते।।20।।
कर्णवेधयोग्यकालनिर्णयः
जाताद् द्वादशषोडशेऽह्नि निधने शुद्धेऽष्टमे सप्तमे
          षष्ठे मासि शुभे च वारभवने कर्णौ सुवेध्यौ शिशौः।
रिक्तापर्वनिशादिनादिरहिते सम्पूर्णतिथ्यर्क्षयोः
          पौष्णादित्यकरद्वयोत्तरहरश्रोणद्वयार्येन्दुषु।।21।।
चौलकालनिर्णयः
मध्येषूत्तरवायुमित्रवरुणाब्रह्माभिधेषूत्तमे
          चित्रान्त्येन्दुपुनर्वसुद्वयकरश्रोणद्वयाद्ये दिवा।
बालस्य त्रितयेऽथ पञ्चमसमे मासादिरिक्ताष्टमी
          पर्वाण्यासु शुभांशवारभवने चौलं विशुद्धेऽष्टमे।।22।।
अङ्कुररोपणनिर्णयः
कर्त्तव्यो विधितोऽङ्कुरार्पणविधिश्चौलादिकर्मादितो
          रात्रिष्वेव शराग्निशैलगणनास्वेतासु सद्योऽथवा।
रिक्तापर्वविषप्रदोषरहिते वारे शुभानां गृहे
          क्षिप्रस्वातिमृदुध्रुवासुरमघाविष्णुत्रयाख्योडुषु।।23।।
ग्रहाणामुच्चनीच त्रिकोणनिर्णयः
मेषो गौर्मकरस्सती शशिगृहं मीनस्तुलोच्चाभिधा
          दिग्रामो मनुयुग्दिनं शरमितं ताराः क्रमाद् विंशतिः।
स्वस्योच्चास्तगृहं स्वनीचभवनं सूर्यादिस्सिंहगो
          मेषाः षष्ठधनुस्तुलाश्च कलशो मूलत्रिकोणाभिधाः।।24।।
।।प्रथमविन्दुः समाप्तः।। 1 ।।