फलदीपिका
अष्टमोऽध्यायः


लग्नादिद्वादशभावाश्रयफलम् | Lagnadidwadashabhawaphalam

लग्नेऽर्केऽल्पकचः क्रियालसतमः क्रोधी प्रचण्डोन्नतो
मानी लोचनरूक्षकः कृशतनुः शूरोऽक्षमो निर्घृणः।
स्फोटाक्षः शशिभे क्रये सतिमिरः सिंहे निशान्धः पुमान्
दारिद्र्योपहतो विनष्टतनयो जातस्तुलायां भवेत्।।1।।

विगतविद्याविनयवित्तं स्खलितवाचं धनगतः
सबलशौर्यश्रियमुदारं स्वजनशत्रुं सहजगः।
जनयतीमं सुहृदि सूर्यो विसुखबन्धुक्षितसुहृद्
भवनमुक्तं नृपतिसेवा जनकसम्पद्व्ययकरम्।।2।।

सुखधनायुस्तनयहीनं सुमतिमात्मन्यटविगं
प्रथितमुर्वीपतिमरिस्थः सुगुणसम्पद्विजयगम्।
नृपविरुद्धं कुतनुमस्तेऽध्वगमदारं ह्यवमतं
हतधनायुः सृहृदमर्को विगतदृष्टिं निधनगः।।3।।

विजनकोऽर्के ससुतबन्धुस्तपसि देवद्विजमनाः
ससुतयानस्तुतिमतिश्रीबलयशाः खे क्षितिपतिः।
भवगतेऽर्के बहुधनायुर्विगतशोको जनपतिः
पितुरमित्रं विकलनेत्रो विधनुपुत्रो व्ययगते।।4।।

सिते चन्द्रे लग्ने दृढतनुरदभ्रायुरभयो
बलिष्ठो लक्ष्मीवान् भवति विपरीतं क्षयगते।
धनाढ्योऽन्तर्वाणिर्विषयसुखवान् वाचि विकलः
सहोत्थे सभ्रातृप्रमदबलशौर्योऽतिकृपणः।।5।।

सुखी भोगी त्यागी सुहृदि सुहृद्वाहनयशाः
सुपुत्रो मेधावी मृदुगतिरमात्यः सुतगते।
क्षतेऽल्पायुश्चन्द्रेऽमतिरुदररोगी परिभवी
स्मरे दृष्टेः सौम्यो वरयुवतिकान्तोऽतिसुभगः।।6।।

मृतौ रोग्यल्पायुस्तपसि शुभधर्मात्मसुतवान्
जयी सिद्धारम्भो नभसि शुभकृत्सत्प्रियकरः।
मनस्वी बह्वायुर्धनतनयभृत्यैः सह भवे
व्यये द्वेष्यो दुःखी शशिनि परिभूतोऽलसतमः।।7।।

क्षमतनुरतिक्रूरोऽल्पायुस्तनौ धनसाहसी
वचसि विमुखो निर्विद्यार्थः कुजे कुजनाश्रितः।
सुगुणधनवाञ्छूरोऽधृष्यः सुखी व्यनुजोऽनुजे
सुहृदि विसुहृन्मातृक्षोणीसुखालयवाहनः।।8।।

विसुखतनयोऽनर्थप्रायः सुते पिशुनोऽल्पधीः
प्रबलमदनः श्रीमान् ख्यातो रिपौ विजयी नृपः।
अनुचितकरो रोगार्तोऽस्तेऽध्वगो मृतदारवान्
कुतनुरधनोऽल्पायुश्छिद्रे कुजे जननिन्दितः।।9।।

नृपसुहृदपि द्वेष्योऽतातः शुभजनघातको
नभसि नृपतिः क्रूरो दाता प्रधानजनस्तुतः।
धनसुखयुतोऽशोकः शूरो भवे सुशीलः कुजे
नयनविकृतः क्रूरोऽदारो व्यये पिशुनोऽधमः।।10।।

दीर्घायुर्जन्मनि ज्ञे मधुरचतुरवाक् सर्वशास्त्रार्थबोधः
स्याद्बुद्ध्योपार्जितस्वः कविरमलवचा वाचि मिष्ठान्नभोक्ता।
शौर्ये शूरः समायुः सुसहजसहितः सश्रमो दैन्ययुक्तः
संख्यावान् चाटुवाक्यः सुहृदि सुखसुहृत्क्षेत्रधान्यार्थभोगी।।11।।

विद्यासौख्यप्रतापः प्रचुरसुतयुतो मान्त्रिकः पञ्चमस्थे
जातक्रोधो विवादैर्द्विाषि रिपुबलहन्तालसो निष्ठुरोक्तिः।
प्राज्ञोऽस्ते चारुवेष: ससकलमहिमा याति भार्यां सवित्तां
विख्याताख्यश्चिरायुः कुलभृदधिपतिर्ज्ञेऽष्टमे दण्डनेता।।12।।

विद्यार्थाचारधर्मैः सह तपसि बुधे स्यात्प्रवीणोऽतिवाग्मी
सिद्धारम्भः सुवि‍द्याबलमतिसुखसत्कर्मसत्यान्वितः खे।
बह्वायुः सत्यसन्धो विपुलधनसुखी लाभगे भृत्ययुक्तो
दीनो विद्याविहीनः परिभवसहितोऽन्त्ये नृशंसोऽलसश्च।13।।

शोभावान् सुकृती चिरायुरभयो लग्ने गुरौ सात्मजो
वाग्मी भोजनसारवांश्च सुमुखो वित्ते धनी कोविदः।
सावज्ञः कृपणः प्रतीतसहजः शौर्येऽघकृद्दुष्टधी-
र्बन्धौ मातृसुहृत्परिच्छदसुतस्त्रीसौख्यधान्यान्वितः।।14।।

पुत्रैः क्लेशयुतो महीशसचिवो धीमान् सुतस्थे गुरौ
षष्ठे स्यादलसोऽरिहा परिभवी मन्त्राभिचारे पटुः।
सत्पत्नीसुतवान्मदेऽतिसुभगस्तातादुदारोऽधिको
दीनो जीवति सेवया कलुषभाग्दीर्घायुरिज्येऽष्टमे।।15।।

ख्यातः सन् सचिवः शुभेऽर्थसुतवान् स्याद्धर्मकार्योत्सुकः
स्वाचारः सुयशा नभस्यतिधनी जीवे महीशप्रियः।
आयस्थे धनिकोऽभयोऽल्पतनयो जैवमातृको यानगो
द्वेष्यो धिक्कृतवाग्व्यये वितनयः साधोऽलसः सेवकः।।16।।

तनौ सुतनुदृक्प्रियं सुखिनमेव दीर्घायुषं
करोति कविरर्थगः कविमनेकवित्तान्वितम्।
विदारसुखसम्पदं कृपणमप्रियं विक्रमे
सुवाहनसुमन्दिराभरणवस्त्रगन्धं सुखे।।17।।

अखण्डितधनं नृपं सुमतिमात्मजे सात्मजं
विशत्रुमधनं क्षते युवतिदूषितं विक्लवम्।
सुभार्यमसतीरतं मृतकलत्रमाढ्यं मदे
चिरायुषमिलाधिपं धनिनमष्टमे संस्थितः।।18।।

सदारसुहृदात्मजं क्षितिपलब्धभाग्यं शुभे
नभस्यतियशः सुहृत्सुखितवृत्तियुक्तं प्रभुम्।
धनाढ्यमितराङ्गनारतमनेकसौख्यं भवे
भृगुर्जनयति व्यये सरतिसौख्यवित्तद्युतिम्।।19।।

स्वोच्चे स्वकीयभवने क्षितिपालतुल्यो
लग्नेऽर्कजे भवति देशपुराधिनाथः।
शेषेषु दुःखपरिपीडित एव बाल्ये
दारिद्र्यदुःखवशगो मलिनोऽलसश्च।।20।।

विमुखमधनमर्थेऽन्यायवन्तं च पश्चा-
दितरजनपदस्थं यानभोगार्थयुक्तम्।
विपुलमतिमुदारं दारसौख्यं च शौर्ये
जनयति रविपुत्रश्चालसं विक्लवं च।।21।।

दुःखी स्याद्गृहयानमातृवियुतो बाल्ये सरुग्बन्धुभे
भ्रान्तो ज्ञानसुतार्थहर्षरहितो धीस्थे शठो दुर्मतिः।
बह्वाशी द्रविणान्वितो रिपुहतो धृष्टश्च मानी रिपौ
कामस्थे रविजे कुदारनिरतो निःस्वोऽध्वगो विह्वलः।।22।।

शनैश्चरे मृतिस्थिते मलीसमोऽर्शसोऽवसुः।
करालधीर्बुभुक्षितः सुहृज्जनावमानितः।।23।।

भग्यार्थत्मजतातधर्मरहितो मन्दे शुभे दुर्जनो
मन्त्री वा नृपतिर्धनी कृषिपरः शूरः प्रसिद्धोऽम्बरे।
बह्वायुः स्थिरसम्प्रदायसहितः शूरो विरोगो धनी
निर्लज्जार्थसुतो व्ययेऽङ्गविकलो मूर्खो रिपूत्सारितः।।24।।

लग्नेऽहावचिरायुरर्थबलवानूर्ध्वारङ्गरोगान्वित-
श्छन्नोक्तिर्मुखरुग्घृणी नृपधनी वित्ते सरोषः सुखी।
मानी भ्रातृविरोधको दृढमतिः शौर्ये चिरायुर्धनी
मूर्खो वेश्मनि दुःखकृत्ससुहृदल्पायुः कदाचित्सुखी।।25।।

नासोद्यद्वचनोऽसुतः कठिनहृद्राहौ सुते कुक्षिरु-
ग्द्विट्क्रूरग्रहपीडितः सगुदरुक्छ्रीमांश्चिरायुः क्षते।
स्त्रीसङ्गादधनो मदेऽथ विधुरोऽवीर्यः स्वतन्त्रोऽल्पधी-
रन्ध्रेऽल्पायुरशुद्धिकृच्च विकलो वातामयोऽल्पात्मजः।।26।।

धर्मस्थे प्रतिकूलवाग्गणपुरग्रामाधिपोऽपुण्यवान्
ख्यातः खेऽल्पसुतोऽन्यकार्यनिरतः सत्कर्महीनोऽभयः।
श्रीमान्नातिसुतश्चिरायुरसुरे लाभे सकर्णाभयः
प्रच्छन्नाघरतो बहुव्ययकरो रिःफेऽम्बुरुक्पीडितः।।27।।

लग्ने कृतघ्नमसुखं पिशुनं विवर्णं स्थानच्युतं विकलदेहमसत्समाजम्।
विद्यार्थहीनमधमोक्तियुतं कुदृष्टिं पातः परान्ननिरतं कुरुते धनस्थः।।28।।

आयुर्बलं धनयशः प्रमदान्नसौख्यं केतौ तृतीयभवने सहजप्रणाशम्।
भूक्षेत्रयानजननीसुखजन्मभूमि- नाशं सुखे परगृहस्थितिमेव दत्ते।।29।।

पुत्रक्षयं जठररोगपिशाचपीडां दुबुद्धिमात्मनि खलप्रकृतिं च पातः।
औदार्यमुत्तमगुणं दृढतां प्रसिद्धिं षष्ठे प्रभुत्वमरिमर्दनमिष्टसिद्धिम्।।30।।

द्यूतेऽवमानमसतीरतिमान्त्ररोगं पातः स्वदारवियुतिं मदधातुहानिम्।
स्वल्पायुरिष्टविरहं कलहं च रन्ध्रे शस्त्रक्षतं सकलकार्यविरोधमेव।।31।।

पापप्रवृत्ति्मशुभं पितृभाग्यहीनं दारिद्र्यमार्यजनदूषणमाह धर्मे।
सत्कर्मविघ्नमशुचित्वमवद्यकृत्यं तेजस्विनं नभसि शौयमतिप्रसिद्धम्।।32।।

लाभेऽर्थसञ्चयमनेकगुणं सुभोगं सद्द्रव्य सोपकरणं सकलार्थसिद्धिम्।
प्रच्छन्नपापमधमव्ययमर्थनाशं रिःफे विरुद्धगतिमक्षिरुजं च पातः।।33।।

उदयर्क्षांशस्फुटतुल्यांशे निवसन् पूर्णं फलमाधत्ते।
शनिवद्राहुः कुजवत्केतुः फलदाता स्यादिह सम्प्रोक्तः।।34।।

भावसमांशकसंस्था भवफलं पूर्णमेव कलयन्ति।
न्यूनाधिकांशवशतः फलवृद्धिर्हासता वाच्या।।35।।

इति मन्त्रेश्वरविरचितायां फलदीपिकायां राज्यादीनां लग्नाद्विद्वादशभावाश्रयफलं नाम अष्टमोऽध्यायः।।8।।