फलदीपिका
सप्तमोऽध्यायः


महाराजयोगाऽध्याय: | Maharajayogadhyayah

त्र्याद्यैः खेटैः स्वोच्चगैः केन्द्रसंस्थै स्वर्क्षस्थैर्वा भूपतिः स्यात्प्रसिद्धः।
पञ्चाद्यैस्तैरन्यवंशप्रसूतोऽप्युर्वीनाथो वाराणाश्वौघयुक्तः।।1।।

भूपाः स्युर्नृपवंशजास्तु यदि दुर्योगे न जातास्तथा
ह्यन्तर्धिर्नहि चेत्कराद्दिनकराज्जाताः स्फुरन्त्येव ते।
त्र्याद्यैः केन्द्रगतैः स्वभोच्चसहितैर्भूपोद्भवाः पार्थिवाः
मर्त्यास्त्वन्यकुलोद्भवाः क्षितिपतेस्तुल्याः कदाचिन्नृपाः।।2।।

यद्येकोऽपि विराजितांशुनिकरः सुस्थानगो वक्रगो
नीचस्थोऽपि करोति भूपसदृशं द्वौ वा त्रयो वा ग्रहाः।
एवं चेज्जनयन्ति भूपतिममी शस्तांशराशिस्थिता-
स्तद्वच्चेद्बहवो नृपं समकुच्छत्रोल्लसच्चामरम्।।3।।

द्वौ वा त्र्याद्या दिग्बलयुक्ता यदि जातः क्ष्माभृद्वंशे भूमिपतिः स्याज्जयशीलः।
हित्वा मन्दं पञ्चखगा दिग्बलयुक्ताश्चत्वारो वा भूपतिरन्यान्वयजोऽपि।।4।।

गणोत्तमे लग्नवांशकोद्गमे निशाकरश्चापि गणोत्तमेऽपि वा।
चर्तुग्रहैश्चन्द्रविवर्जितैस्तदा निरीक्षितः स्यादधमोद्भवो नृपः।।5।।

विलग्नेशः केन्द्रे यदि तपसि वर्गोत्तमगतः
स्वतुङ्गे स्वर्क्षे वा गुरुपतिरपि स्याद्यदि तथा।
गजस्कन्धे कार्तस्वरकृतविमानेऽतिसुषमे
सुखासीनं भूपं जनयति लसच्चामरयुगम्।।6।।

निषादमपि पार्थिवं जनयतीन्दुरुच्चस्वभ-
स्थितग्रहनिरीक्षितो धवलकान्तिजालोज्जवलः।
विहाय तनुभं कलास्फुरितपूर्णकान्तिः शशी
चतुष्टयगतो नृपं जनयति द्विपाश्वान्वितम्।।7।।

अश्विन्यामुदयगतो भृगुर्र्।हेन्द्रैर्दृष्टश्चेञ्जनयति भूपतिं जितारिम्।
नीचार्योर्गृहमपहाय वित्तसंस्थो लग्नेशः सह कविना बली च भूपम्।।।8।।

भौमश्चेदजहरिचापलग्नसंस्थः पृथ्वीशं कलयति मित्रखेटदृष्टः।
कर्मेशो नवमगतश्च भाग्यनाथो मध्यस्थो भवति नृपो जनैः प्रशस्तः।।9।।

चापार्द्धे भगवान् सहस्रकिरणस्तत्रैव ताराधिपो
लग्ने भानुसुतेऽतिवीर्यसहितः स्वोच्चे च भूनन्दनः।
यद्येवं भवति क्षितेरधिपतिः संश्रुत्य दूरं भयात्
त्रस्ता एव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना।।10।।

सुधामृणालोपमबिम्बशोभितः शशी नवांशे नलिनीप्रियस्य।
यदि क्षितीशो बहुहस्तिपूर्णः शुभाश्च केन्द्रेषु न पापयुक्ताः।।11।।

नीचारिवर्गरहितैर्विहगैस्त्रिभिस्तु स्वांशोपगैर्बलयुतैः शुभदृष्टिजुष्टैः।
गोक्षीरशङ्खधवलो मृगलाञ्छनश्च स्याद्यस्य जन्मनि स भूमिपतिर्जितारिः।।12।।

कुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नं यदि लसमुपेतः पश्यति व्योमचारी।
उदयभवनसंस्थः पापसंज्ञो न चैवं भवति मनुजनाथः सार्वभौमः सुदेह:।।13।।

जीवो बुधो भृगुसुतोऽथ निशाकरो वा धर्मे विशुद्धतनवः स्फुटरश्मिजालाः।
मित्रैर्निरीक्षितयुता यदि सूतिकाले कुर्वन्ति देवसदृशं नृपतिं महान्तम्।।14।।

शुक्रेज्यौ सवितुः शिशुस्तिमियुगे स्वोच्चे च पूर्णः शशी
दृस्टस्तीव्रविलोचनेन दिनकृन्मेषोदयेऽसौ नृपः।
सेनायाश्चलनेन रेणुपटलैर्यस्य प्रविष्टे रवा-
वस्त भ्रान्तिसमाकुला कमलिनी सङ्कोचमागच्छति।।15।।

नीचारिस्थैर्भवनगैः षष्ठदुश्चिक्यगैर्वा
सौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैर्वा।
आज्ञां याते शिशिरकिरणे कर्कटस्थे निशाया-
मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः।।16।।

वर्गोत्तमे हिमकरः सकलः स्थितोंऽशे
कुर्यान्महीपतिमपूर्वयशोऽभिरामम्।
यस्याश्ववृन्दखुरघातरजोऽभिभूतो
भानुः प्रभातशशिनोऽनुकरोति रूपम्।।17।।

केन्द्रगौ यदि च जीवशशाङ्कौ यस्य जन्मनि च भार्गवदृष्टौ।
भूपतिर्भवति सोऽतुलकीर्तिर्नीचगो यदि न कश्चिदिह स्यात्।।18।।

जलचरराशिनवांशक इन्दुस्तनुभवने शुभदस्वकवर्गे।
अशुभकरः खलु कण्टकहीनो भवति नृपो बहुवारणनाथः।।19।।

शुक्रो जीवनिरीक्षितो वितुनते भूपोद्भवं भूपतिं
देवेज्यो मृगभं विहाय तनुगो मत्तेभयुक्तं नृपम्।
केन्द्रे जन्मपतिर्बलाधियुतः कुर्याद्धरित्रीपतिं
दृष्टे वाक्पतिना बुधे दधति पृथ्वीशाश्च तच्छासनम्।।20।।

एकोऽप्युच्चक्षेत्रगो मित्रदृष्टः कुर्याद्भूपं मित्रयोगाद्धनाढ्यम्।
स्वांशे सूर्ये स्वर्क्षगश्चन्द्रमाश्चेद्देशाधीशं साश्वनागं विधत्ते।।21।।

मीने पूर्णज्योतिषि मित्रग्रहदृष्टे चन्द्रे लोकानन्दकरः स्यान्नृपमुख्यः।
पूर्णज्योतिः स्वोच्चगतश्चेत्तुहिनांशुस्त्यागाधिक्यं सज्जनशस्तं जगदीशम्।।22।।

चन्द्रेऽधिमित्रांशगते सुदृष्टे शुक्रेण लक्ष्मीसहितो नृपः स्यात्।
तथा स्थिते वासवमन्त्रिदृष्टे पूर्णां धरित्रीं परिपालयेत्सः।।23।।

पापास्त्रिशत्रुभवगा यदि जन्मनाथाल्लग्नाद्धने कुजबुधौ हिबुकेऽर्कशुक्रौ।
कर्मायलग्नसहिताः कुजमन्दजीवास्तज्ज्ञा वदन्ति चतुरस्त्विह राजयोगान्।।24।।

लाभेशधर्मेशधनेश्वराणामेकोऽपि चन्द्रग्रहकेन्द्रवर्ती।
स्वपुत्रलाभाधिपतिर्गृरुश्चेदखण्डसाम्राज्यपतित्वमेति।।25।।

नीचस्थितो जन्मनि यो ग्रहः स्यात्तद्राशिनाथोऽपि तदुच्चनाथः।
स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धार्मिकचक्रवर्ती।।26।।

यद्येको नीचगतस्तद्राश्यधिपस्तदुच्चपः केन्द्रे।
यस्य स तु चक्रवर्ती समस्तभूपालवन्द्याङ्घ्रिः।।27।।

यस्मिन्नाशौ वर्तते खेचरस्तद्राशीशेन प्रेक्षितश्चेत्स खेटः।
क्षोणीपालं कीर्तिमन्तं विदध्यात् सुस्थानश्चेत्किं पुनः पार्थिवेन्द्रः।।28।।

नीचे तिष्ठति यस्तदाश्रितगृहाधीशो विलग्नाद्यदा
चन्द्राद्वा यदि नीचगस्य विहगस्योच्चर्क्षनाथोऽथवा।
केन्द्रे तिष्ठति चेत्प्रपूर्णविभवः स्याच्चक्रवर्ती नृपो
धर्मिष्ठोऽन्यमहीशवन्दितपदस्तेजो यशो भाग्यवान्।।29।।

नीचे यस्तस्य नीचोच्चभेशौ द्वावेक एव वा।
केन्द्रस्थश्चेच्चक्रवर्ती भूपः स्याद्भूपवन्दितः।।30।।

इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां महाराजयोगो नाम सप्तमोऽध्यायः।।7।।