रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः।
स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत्।।1।।
दीर्घास्यो बहुसाहसाप्तविभवः शूरोऽरिहन्ता बली
गर्विष्ठो रुचके प्रतीतगुणवान् सेनापतिर्जित्वरः।
आयुष्मान् सकुशाग्रबुद्धिरमलो विद्वज्जनश्लाघितो
भूपो भद्रकयोगजोऽतिविभवश्चास्थानकोलाहलः।।2।।
हंसे सद्भिरभिष्टुतः क्षितिपतिः शङ्खाब्जमत्स्याङ्कुशै-
श्चिह्नैः पादकराङ्कितः शुभवपुर्मृष्टान्नभुग्धार्मिकः।
पुष्टाङ्गो धृतिमान्धनी सुतवधूभाग्यान्वितो वर्धनो
मालव्ये सुखभुक्सुवाहनयशा विद्वान्प्रसन्नेन्द्रियः।।3।।
शस्तः सर्वजनैः सुभृत्यबलवान् ग्रामाधिपो वा नृपो
दुर्वृत्तः शशयोगजोऽन्यवनितावित्तन्वितः सौख्यवान्।
लग्नेन्द्वोरपि योगपञ्चकमिदं साम्राज्यसिद्धि।प्रदं
तेष्वेकादिषु भाग्यवान् नृपसमो राजा नृपेन्द्रोऽधिकः।।4।।
विधोस्तु सुनफानफादुरुधुराः स्वरिः फोभय-
स्थितैर्विरविभिर्ग्रहैरितरथा तु केमद्रुमः।
हिमत्विषि चतुष्टये ग्रहयुतेऽथ केमद्रुमो
न हीति कथितोऽथवा हिमकराद्ग्रहैः केन्द्रगैः।।5।।
स्वयमधिगतवित्त: पार्थिवस्तत्समो वा भवति हि सुनफायां धीधनख्यातिमांश्च।
प्रभुरगदशरीरः शीलवान् ख्यातकीर्तिर्विषयसुखसुवेषो निर्वृतश्चानफायाम्।।6।।
उत्पन्नभोगसुखभाग्धनवाहनाढ्यस्त्यागान्वितो दुरुधुराप्रभवः सभृत्यः।
केमद्रुमे मलिनदुःखितनीचनिः स्वाः प्रेष्याः खलाश्च नृपतेरपि वंशजाताः।।7।।
हित्वेन्दुं शुभवेसिवास्युभयचर्याख्याः स्वरिः फोभय-
स्थानस्थैः सवितुः शुभैः स्युरशुभैस्ते पापसंज्ञाः स्मृताः।
सत्पार्वेवित शुभकर्तरीत्युदयभे पापैस्तु पापाह्वयो
लग्नाद्वित्तगतैः शुभैस्तु सुशुभो योगो न पापेक्षितैः।।8।।
जातः स्यात् सुभगः सुखी गुणनिधिर्धीरो नृपो धार्मिको
विख्यातः सकलप्रियोऽतिसुभगो दाता महीशप्रियः।
चार्वङ्गः प्रियवाक्प्रपञ्चरसिको वाग्मी यशस्वी धनी
विद्यादत्र सुवेसिवास्युभयचर्याख्येषु पादक्रमात्।।9।।
अन्यायाज्जननिन्दको हतरुचिर्हीनप्रियो दुर्जनो
मायावी परनिन्दकः खलयुतो दुर्वृत्तशास्त्राधिकः।
लोके स्यापकीर्तिदुःखितमना विद्यार्थभाग्यैश्च्युतो
जातश्चाशुभवेसिवास्युभयचर्याख्येषु पादक्रमात्।।10।।
जैवातृको विभयरोगरिपुः सुखी स्यादाढ्यः श्रिया च शुभकर्तरियोगजातः।
निःस्वोऽशुचिर्विसुखदारसुतोऽङ्गहीनः स्यात्पापकर्तरिभवोऽचिरमायुरेति।।11।।
आचारवान् धर्ममतिः प्रसन्नः सौभाग्यवान् पार्थिवमाननीयः।
मृदुस्वभावः स्मितभाषणश्च धनी भवेच्चामलयोगजातः।।12।।
सुशुभे शुभकर्तर्यां वेस्यादौ सुनभादिवत्।
शुभैः क्रमात्फलं ज्ञेयं विपरीतमसद्ग्रहैः।।13।।
ओजेष्वर्केन्दुलग्नान्यजनि दिवि पुमांश्चेन्महाभाग्ययोगः
स्त्रीणान्तद्व्यत्यये स्याच्छशिनि सुरगुरोः केन्द्रगे केसरीति।
जीवान्त्याष्टारिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्ना-
च्चन्द्रे केन्द्रादिगेऽर्कादधमसमवरिष्ठाख्ययोगाः प्रसिद्धाः।।14।।
महाभाग्ये जातः सकलनयनानन्दजनको
वदान्यो विख्यातः क्षितिपतिरशीत्यायुरमलः।
वधूनां योगेऽस्मिन् सति धनसुमाङ्गल्यसहिता
चिरं पुत्रैः पौत्रैः शुभमुपगता सा सुचरिता।।15।।
केसरीव रिपुवर्गनिहन्ता प्रौढवाक् सदसि राजसवृत्तिः।
दीर्घजीव्यतियशाः पटुबुद्धिस्तेजसा जयति केसरियोगे।।16।।
क्वचित्क्वचिद्भाग्यपरिच्युतः सन् पुनः पुनः सर्वमुपैति भाग्यम्।
लोकेऽप्रसिद्धोऽपरिहार्यमन्तः शल्यं प्रपन्नः शकटेऽतिदुःखी।।17।।
कष्टमध्यमवराह्वययोगे द्रव्यवाहनयशः सुखसम्पत्।
ज्ञानधीविनयनैपुणविद्यात्यागभोगजफलान्यपि तद्वत्।।18।।
चन्द्राद्वा वसुमांस्तथोपचयगैर्लग्नात्समस्तैः शुभै-
श्चन्द्राद्व्योम्न्यमलाह्वयः शुभखगैर्योगो विलग्नादपि।
जन्मेशे सहिते विलग्नपतिना केन्द्रेऽधिमित्रर्क्षगे
लग्नं पश्यति कश्चिदत्र बलवान्योगो भवेत्पुष्कलः।।19।।
तिष्ठेयुः स्वगृहे सदा वसुमति द्रव्याण्यनल्पान्यपि
क्ष्मेशः स्यादमले धनी सुतयशः सम्पद्युतो नीतिमान्।
श्रीमान् पुष्कलयोगजो नृपवरैः संमानितो विश्रुतः
स्वाकल्पाम्बरभूषितः शुभवचाः सवोत्तमः स्यात्प्रभुः।।20।।
सर्वे पञ्चसु षट्सु सप्तसु शुभा मालाश्च पङ्क्त्या स्थिता
यद्येवं मृतिषड्व्ययादिषु गृहेष्वत्राशुभाख्याः स्मृताः।
स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ
लक्ष्म्याख्योऽथ तथाविधे हिमकरे गौरीति जीवेक्षिते।।21।।
जनाधिकारी क्षितिपालशस्तो भोगी प्रदाता परकार्यकर्ता।
बन्धुप्रियः सत्सुतदारयुक्तो धीरः सुमालाह्वययोगजातः।।22।।
कुमार्गयुक्तोऽशुभमालिकाख्ये दुःखी परेषां वधकृत् कृतघ्नः।
स्यात्कातरो भूसुरभक्तिहीनो लोकाभिशप्तः कलहप्रियः स्यात्।।23।।
नित्यं मङ्गलशीलया वनितया क्रीडत्यरोगी धनी
तेजस्वी स्वजनान् सुरक्षति महालक्ष्मीप्रसादालयः।
श्रेष्ठान्तदोलिकया प्रयाति तुरगस्तम्बेरमध्यासितो
लोकानन्दकरो महीपतिवरो दाता च लक्ष्मीभवः।।24।।
सुन्दरगात्रः श्लाघितगोत्रः पार्थिवमित्रः सद्गुणपुत्रः।
पङ्कजवक्त्रः संस्तुतजैत्रो राजति गौरीयोगसमुत्थः।।25।।
शुक्रवाक्पतिसुधाकरात्मजै: केन्द्रकोणसहितैर्द्विततीयगैः।
स्वोच्चमित्रभवनेषु वाक्पतौ वीर्यगे सति सरस्वतीरिता।।26।।
धीमन्नाटकगद्यपद्यगणनालङ्कारशास्त्रैष्वयं
निष्णातः कविताप्रबन्धरचनाशास्त्रार्थपारङ्गतः।
कीर्याताक्रान्तजगत्यत्रयोऽतिधनिको दारात्मजैरन्वितः
स्यात् सारस्वतयोगजो नृपवरैः सम्पूजितो भाग्यवान्।।27।।
लग्नाधीश्वरभास्करामृतकराः केन्द्रत्रिकोणाश्रिताः
स्वोच्चस्वर्क्षसुहृद्गृहानुपगताः श्रीकण्ठयोगो भवेत्।
तद्वद्भार्गवभाग्यनाथशशिजाः श्रीनाथयोगस्तथा
वागीशात्मपसूर्यजा यदि तदा वैरिञ्चियोगस्ततः।।28।।
रुद्राक्षाभरणो विभूतिधवलच्छायो महात्मा शिवम्
ध्यायत्यात्मनि सन्ततं सुनियमः शैवव्रते दीक्षितः।
साधूनामुपकारकः परमतेष्वेवानसूयो भवेत्
तेजस्वी शिवपूजया प्रमुदितः श्रीकण्ठयोगोद्भवः।।29।।
लक्ष्मीवान् सरसोक्तिचाटुनिपुणो नारायणाङ्काङि्कतः
तन्नामाङ्कितहृद्यपद्यमनिशं सङ्कीर्तयन् सज्जनैः।
तद्भक्तापचितो प्रसन्नवदनः सत्पुत्रदारान्वितः
सर्वेषां नयनप्रियोऽतिसुभगः श्रीनाथयोगोद्भवः।।30।।
ब्रह्मज्ञानपरायणो बहुमतिर्वेदप्रधानो गुणी
हृष्टो वैदिकमार्गतो न चलति प्रख्यातशिष्यव्रजः।
सौम्योक्तिर्बहुवित्तदारतनयः सद्ब्रह्मतेजोज्ज्वलन्
दीर्घायुर्विजितेन्द्रियो नतनृपो वैरिञ्चियोगोद्भवः।।31।।
अन्योन्यं भवनस्थयोर्विहगयोर्लग्नादिरिः फान्तकं
भावाधीश्वरयोः क्रमेण कथिताः षट्षष्टियोगा जनैः।
त्रिंशद्दैन्यमुदीरितं व्ययरिपुच्छिद्रादिनाथोत्थिता-
स्त्वष्टौ शौर्यपतेः खला निगदिताः शेषा महाख्याः स्मृताः।।32।।
मूर्खः स्यादपवादको दुरितकृन्नित्यं सपत्नार्दितः
क्रूरोक्तिः किल दैन्यजश्चलमतिर्विच्छिन्नकार्योद्यमः।
उद्वृत्तश्च खल कदाचिदखिलं भाग्यं लभेताखिलं
सौम्योक्तिश्च कदाचिदेवमशुभं दारिद्र्यदुःखादिकम्।।33।।
श्रीकटाक्षनिलयः प्रभुराढ्यश्चित्रवस्त्रकनकाभरणश्च।
पार्थिवाप्तबहुमानसमाज्ञो यानवित्तसुतवांश्च महाख्ये।।34।।
लग्नाधिपाप्तभपतिस्थितराशिनाथः स्वोच्चस्वभेषु यदि कोणचतुष्टयस्थः।
योगः स काहल इति प्रथितोऽथ तद्वत् लग्नाधिपाप्तभपतिर्यदि पर्वताख्यः।।35।।
वर्द्धिष्णुरार्यः सुमतिः प्रसन्नः क्षेमङ्करः काहलजो नृमान्यः।
स्थिरार्थसौख्यः स्थिरकार्यकर्ता क्षितीश्वरः पर्वतयोगजातः।।36।।
धर्मकर्मभवनाधिपती द्वौ संयुतौ महिमभावगतौ चेत्।
राजयोग इति तद्वदिह स्यात् केन्द्रकोणयुतिर्यति शङ्ख:।।37।।
भेरीशङ्खप्रणाद्रैर्धृतमृदुपठिकाजातवृत्तानपत्रो
हस्त्यश्वान्दोलिकाद्यैः सह मगधकृतप्रस्तुतिर्भूमिपाल:।
नानारूपोपहारस्फुरितकरयुतैः प्रार्थितः सज्जनैः स्या-
द्राजा स्याच्छङ्खयोगे बहुवरवनिताभोगसम्पत्तिपूर्णः।।38।।
संख्यायोगाः सप्तसप्तर्क्षेसंस्थैरेकापायाद्वल्लकीदामपाशम्।
केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय।।39।।
वीणायोगे नृत्तगीतप्रियोऽर्थी दाम्नि त्यागी भूपतिश्चोपकारी।
पाशे भोगी सार्थसच्छीलबन्धुः केदाराख्ये श्रीकृषिक्षेत्रयुक्तः।।40।।
शूले हिंस्रः क्रोधशीलो दरिद्रः पाषण्डी स्याद् द्रव्यहीनो युगाख्ये।
निः स्वः पापी म्लेच्छयुक्तः कुशिल्पी गोले जातश्चालसोऽल्पायुरेव।।41।।
सौम्यैरिन्दोर्द्यूनषड्रन्ध्रसंस्थैस्तद्वल्लग्नात्संस्थितैर्वाधियोगः।
नेता मन्त्री भूपतिः स्यात्क्रमेण ख्यातः श्रीमान्दीर्घजीवी मनस्वी।।42।।
अधियोगभवो नरेश्वरः स्थिरसम्पद्बहुबन्धुपोषकः।
अमुना रिपवः पराजिताश्चिरमायर्लभते प्रसिद्धताम्।।43।।
भावैः सौम्ययुतेक्षितैस्तदधिपैः सुस्थानगैर्भास्वरैः
स्वोच्चस्वर्क्षगतौर्विलग्नभवनाद्योगाः क्रमाद्द्वादशा:।
संज्ञाश्चामरधेनुशौर्यजलधिच्छत्रास्त्रकामासुरा
भाग्यख्यातिसुपारिजामुसलास्तज्ज्ञैर्यथा कीर्तिताः।।44।।
प्रत्यहं व्रजति वृद्धिमुदग्रां शुक्लचन्द्र इव शोभनशीलः।
कीर्तिमान् जनपतिश्चिरजीवी श्रीनिधिर्भवति चामरजातः।।45।।
सन्निपानविभवोऽखिलविद्यापुष्कलोऽधिककुटुम्बविभूतिः।
हेमरत्नधनधान्यसमृद्धो राजराज इव राजति धेनौ।।46।।
कीर्तिमद्भिरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः।
शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतिशस्वी।।47।।
गोसम्पद्धनधान्यशोभिसदनं बन्धुप्रपूर्णं वर-
स्त्रीरत्नाम्बरभूषणानि महितस्थानं च सर्वोत्तमम्।
प्राप्नोत्यम्बुधियोगजः स्थिरसुखो हस्त्यश्वयानादिगो
राजेड्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि।।48।।
सुसंसारसौभाग्यसन्तानलक्ष्मीनिवासो यशस्वी सुभाषी मनीषी।
अमात्थो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे।।49।।
शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रवृत्त्या सहितोऽभिमानी।
व्रणाङ्किताङ्गश्च विवादकारी स्यादस्त्रयोगे दृढगात्रयुक्तः।।50।।
परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः।
जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः।।51।।
हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात्।
स्वयंकृतानर्थपरम्परार्त्त: कुकर्मकृच्चासुरयोगजातः।।52।।
चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वतीं
लक्ष्मीं प्राप्य महाजनैः कृतनतिः स्यार्द्धमार्गे स्थितः।
प्रीणात्येष पितॄन् सुराद्विजगणांस्तिधत्तत्प्रियै पूजनैः
स्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः।।53।।
सत्क्रियां सकललोकसंमतामाचरन्नवति सज्जनान्नृपः।
पुत्रमित्रधनदारभाग्यवान् ख्यातिजो भवति लोकविश्रुतः।।54।।
नित्यमङ्गलयुतः पृथिवीशः सञ्चितार्थनिचयः सुकुटुम्बी।
सत्कथाश्रवणभक्तिरभिज्ञो पारिजातजननः शिवतातिः।।55।।
कृच्छ्रलब्धधनवान् परिभूतो लोलसम्पदुचितव्ययशीलः।
स्वर्गमेव लभतेऽन्त्यदशायां जाल्मको मुसलजश्चपलश्च।।56।।
दुःस्थैर्भावगृहेश्वरैरशुभसंयुक्तेक्षितैर्वा क्रमा-
द्भावैः स्तुस्त्ववयोगनिः स्वमृतयः प्रोक्ताः कुहूः पामरः।
हर्षो दुष्कृतिरित्यथापि सरलो निर्भाग्यदुर्योगकौ
योगा द्वादश ते दरिद्रविमले प्रोक्ता विपश्चिज्जनैः।।57।।
अप्रसिद्धिरतिदुःखसहदैन्यं स्वल्पमायुरवमानमसद्भिः।
संयुतः कुचरितः कुतनुः स्याच्चलस्थितिरिहाप्यवयोगे।।58।।
सुवचनशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः।
मतिसुतविद्याविभवविहीनो रिपुहृतवित्तः प्रभवति निःस्वे।।59।।
अरिपरिभूतः सहजविहीनो मनसि विलज्जो हतबलवित्तः।
अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे।।60।।
मातृवाहनसुहृत्सुखभूषाबन्धुभिविरहितः स्थितिशून्यः।
स्थानमाश्रितमनेन हतं स्यात् कुस्त्रियामभिरतः कुहुयोगे।।61।।
दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः।
नास्तिकोऽल्पकुजनं भजतोऽसौ घस्मरो भवति पामरयोगे।।62।।
सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः।
प्रथितप्रधानजनवल्लभो धनद्युतिमित्रकीर्तिसुतवांश्च हर्षजः।।63।।
स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसञ्चारवृत्तिः।
प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम्।।64।।
दीर्घायुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः।
सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले।।65।।
पित्रार्जितक्षेत्रगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः।
प्रत्नातिजीर्णाम्बरधृच्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम्।।66।।
शरीरप्रयासैः कृतं कर्म यत्त् द्विजेन्निष्फलत्वं लघुत्वं जनेषु।
जनद्रोहकारी स्वकुक्षिम्भरिः स्यात् अजस्रं प्रवासी च दुर्योगजातः।।67।।
ऋणग्रस्त उग्रो दरिद्राग्रगण्यो भवेत्कर्णरोगी च सौभ्रातृहीनः।
अकार्यप्रवृत्तो रसाभासवादी परप्रेष्यकः स्याद्दरिद्राख्ययोगे।।68।।
किञ्चिद्व्ययो भूरिधनाभिवृद्धिं प्रयात्ययं सर्वजनानुकूल्यम्।
सुखी स्वतन्त्रो महनीयवृत्तिर्गुणैः प्रतीतो विमलोद्भवः स्यात्।।69।।
छिद्रारिव्ययनायकाः प्रबलगाः केन्द्रत्रिकोणाश्रिता:
लग्नव्योमचतुर्थभाग्यपतयः षड्रन्ध्ररिः फस्थिताः।
निर्वीर्या विगतप्रभा यदि तदा दुर्योग एव स्मृत-
स्तद्व्यस्ते सति योगवान्धनपतिर्भूपः सुखी धार्मिकः।।70।।
इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां राजयोगभेदो नाम षष्ठोऽध्यायः।।6।।