फलदीपिका
पञ्चमोऽध्यायः


कर्मजीवोऽध्याय: | Karmjeevodhyayah

अर्थाप्तिं कथयेद्विलग्नशशिनोः प्राबल्यतः खेचरैः
कर्मस्थैः पितृमातृशात्रवसुहृद्भ्रात्रादिभिः स्त्रीधनात्।
भृत्याद्वा दिननाथलग्नशशिनां मध्ये बलीयांस्ततः
कर्मेशस्थनवांशराशिपवशाद्वृत्तिं जगुस्तद्विदः।।1।।

फलद्रुमैर्मन्त्रजपैश्च शाठ्याद्द्यूतानृतैः कम्बलभेषजाद्यैः।
धातुक्रियाद्वा क्षितिपालपूज्याज्जीवत्यसौ पङ्कजवल्लभांशे।।2।।

जलोद्भवानां क्रयविक्रयेण कृषिक्रियागोमहिषीसमुत्थैः।
तीर्थाटनाद्वा वनिताश्रयाद्वा निशाकरांशे वसनक्रयाद्वा।।3।।

भौमांशके धातुरणप्रहारैर्महानसाद्भूमिवशात्सुवर्णात्।
परोपतापायुधसाहसैर्वा म्लेच्छाश्रयात्सूचकचोरवृत्त्या।।4।।

काव्यागमैर्लेखकलिप्युपायैर्योयातिर्गणज्ञानवशाद्बुधांशे।
परार्थवेदाध्ययनाज्जपाच्च पुरोहितव्याजवशात्प्रवृत्तिः।।5।।

जीवांशके भूसुरदेवतानां समाश्रयाद्भूमिपतिप्रसादात्।
पुराणशास्त्रागमनीतिमार्गाद्धर्मोपदेशेन कुसीदवृत्त्या।।6।।

स्त्रीसंश्रयाद्गोमहिषीगजाश्वैस्तौर्यत्रिकैर्वा रजतैश्च गन्धैः।
क्षीराद्यलङ्कारपटीपटाद्यैः शुक्रांशकेऽमात्यगुणैः कवित्वात्।।7।।

शन्यंशके मूलफलैः श्रमेण प्रेष्यैः खलैर्नीचधनैः कुधान्यैः।
भारोद्वहात्कुत्सितमार्गवृत्त्या शिल्पादिभिर्दारुमयैर्वधाद्यै:।।8।।

अंशेशे बलवत्ययत्नधनसम्प्राप्तिं बलोनेंऽशपे
स्वल्पं प्रोक्तफलं भवेदुदयतः कर्मर्क्षदेशे फलम्।
अंशस्योक्तदिशं वदेत्पतियुते दृष्टे स्वदेशे फलं
सत्यन्यैः परदेशजं तदधिपस्यांशे स्वदेशे स्थिरे।।9।।

इति श्रीमन्त्रेश्वरविरचितायां फलदीपकायां कर्मजीवभेदो नाम पञ्चमोऽध्यायः।।5।।