फलदीपिका
चतुर्थोऽध्यायः


षड्बलनिरूपणम् | Shadbalnirupanm

वीर्यं षड्विधमाह कालजबलं चेष्टाबलं स्वोच्चजं
दिग्वीर्यं त्वयनोद्भवं दिविषदां स्थानोद्भवं च क्रमात्।
निश्यारेन्दुसिताः परे दिवि सदा ज्ञः शुक्लपक्षे शुभाः
कृष्णेऽन्ये च निजाब्दमासदिनहोरास्वङ्घ्रिवृद्ध्या क्रमात्।।1।।

राकाचन्द्रस्य चेष्टाबलमुदगयने भास्वतो वक्रागानां
युद्धे चोदक्स्थितानां स्फुटबहुलरुचां स्वोच्चवीर्यं स्वतुङ्गे।
दिग्वीर्यं खेऽर्कभौमौ सुहृदि शशिसितौ विद्गुरू लग्नगौ चे-
न्मन्देऽस्ते याम्यमार्गे बुधशनिशशिनोऽन्येऽयनाख्ये परस्मिन्।।2।।

स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः षट्सु स्ववर्गेषु वा
प्रोक्तं स्थानबलं चतुष्टयमुखात्पूर्णार्द्धपादाः क्रमात्।
मध्याद्यन्तकषण्डमत्र्यवनिताः खेटा: बलिष्ठाः क्रमात्
मन्दारज्ञगुरूशनोब्जरवयो नैजे बले वर्द्धनाः।।3।।

वक्रं गतो रुचिररश्मिसमूहपूर्णो नीचारिभांशसहितोऽपि भवेत्स खेटः।
वीर्यान्वितस्तुहिनरश्मिरिवोच्चमित्रस्वक्षेत्रगोऽपि विबलो हतदीधितिश्चेत्।।4।।

तुङ्गस्था बलिनोऽखिलाश्च शशिनः श्लाघ्यं हि पक्षोद्भवं
भानोर्दिग्बलमाह वक्रगमने ताराग्रहाणां बलम्।
कर्क्युक्षाजघटालिगोहिरबलांन्त्योक्षाश्विपाश्चात्यगः
केतुस्तत्परिवेषधन्वसु बली चेन्द्वर्कयोगो निशि।।5।।

रूपं मानुषभेऽलिभेऽङ्घ्रिरपरेश्वर्द्धं बलं स्यात्तनोः
तुल्यं स्वामिबलेन चोपचयगे नातेऽतिवीर्योत्कटम्।
स्वामीड्यज्ञयुतेक्षिते कवियुते चान्यैरयुक्तेक्षिते
शर्वर्यां निशि राशयोऽहनि परे वीर्यान्विताः कीर्तिताः।।6।।

स्वोच्चे पूर्णं स्वत्रिकाणे त्रिपादं स्वक्षेत्रेऽर्द्धं मित्रभे पादमेव।
द्विट्क्षेत्रेऽल्पं नीचगेऽस्तं गतेऽपि क्षेत्रं वीर्यं निष्फलं स्याद् ग्रहाणाम्।।7।।

केन्द्रे ग्रहाणामुदितं बलं यत्सुखे नभस्यस्तगृहे विलग्ने।
उपर्युपर्युक्तपदक्रमेण बलाभिवृद्धिं हि विकल्पयन्ति।।8।।

श्रेष्ठेति सा सप्तमृष्टिरेव सर्वत्र वाच्या न तथाऽन्यदृष्टिः।
योगादिषु न्यूनफलप्रदेति विशेषदृष्टिर्न तु कैश्चिदुक्ता।।9।।

नैसर्गिकं शत्रुसुहृत्त्वमेव भवेत्प्रमाणं फलकारि सम्यक्।
तात्कालिकं कार्यवशेन वाच्यं तच्छत्रुमित्रत्वमनित्यमेव।।10।।

निःशेषदोषहरणे शुभवर्द्धने च वीर्यं गुरोरधिकमस्त्यखिलग्रहेभ्यः।
तद्वीर्यापाददलशक्तिभृतौ ज्ञशुक्रौ चान्द्रं बलं तु निखिलग्रहवीर्यबीजम्।।11।।

जन्मर्क्षविघटीं नीतैर्ज्ञानाङ्गैर्ननयैर्भजेत्।
लब्धाश्चन्द्रक्रियावस्थावेलाख्यास्तत्फलं क्रमात्।।12।।

अथ चन्द्रक्रियाफलम्

स्थानाद्भ्रष्टस्तपस्वी परयुवतिरतो द्यूतकृद्धस्तिमुख्या-
रूढः सिंहासनस्थो नरपतिररिहा दण्डनेता गुणी च।
निष्प्राणश्छिन्नमूर्द्धा क्षतकरचरणो बन्धनस्थो विनष्टो
राजा वेदानधीते स्वपिति सुचरितः संस्मृतो धर्मकर्ता।।13।।

सद्वंश्यो निधिसङ्गतः श्रुतकुलो व्याख्यापरः शत्रुहा
रोगी शत्रुजित: स्वदेशचलितो भृत्यो विनष्टार्थकः।
अस्थानी च सुमन्त्रकः परमहीभर्ता सभार्यो गज-
त्रस्तः संयुगभीतिमानतिभयो लीनोऽन्नदाताग्निगः।।14।।

क्षुद्बाधासहितोऽन्नमत्ति विचरन्मांसाशनोऽस्त्रक्षतः
सोद्वाहो धृतकन्दुको विरति द्यूतैर्नृपो दुःखितः।
शय्यास्थो रिपुसेवितश्च ससुहृद्योगी च भार्यान्वितो
मिष्टाशी च पयः पिबन् सुकृतकृत् स्वस्थस्तथास्ते सुखम्।।15।।

अथ अवस्थाफलम्

आत्मस्थानात्प्रवासो महितनृपहितो दासता प्राणहानि-
र्भृपालत्वं स्ववंशोचितगुणनिरतो रोग आस्थानवत्त्वम्।
भीतिः क्षुद्बाधितत्वं युवतिपरिणयो रम्यशय्यानुषक्ति-
र्मृष्टाशित्वं च गीता इति नियमवशात्सद्भिरिन्दोरवस्था।।16।।

अथ चन्द्रबेलाफलम्

मूर्द्धामयो मुदितता यजनं सुखस्थो नेत्रामयः सुखितता वनिताविहारः।
उग्रज्वरः कनकभूषणमश्रुमोक्षः क्ष्वेलाशनं निधुवनं जठरस्य रोगः।।17।।

क्रीडा जले हसनचित्रविलेखने च क्रोधश्च नृत्तकरणं घृतभुक्तिनिद्रे।
दानक्रिया दशनरुक् कलहः प्रयाणमुन्मत्तता च सलिलाप्लवनं विरोधः।।18।।

स्वेच्छास्नानं क्षुद्भयं शास्त्रलाभं स्वैरं गोष्ठी योधनं पुण्यकर्म।
पापाचारः क्रूरकर्मा प्रहर्षं प्राज्ञैरेवं चन्द्रवेला प्रदिष्टा।।19।।

जातके च मुहूर्ते च प्रश्ने चन्द्रक्रियादयः।
सम्यक् फलप्रदास्तस्माद्विशेषेण विचिन्तयेत्।।20।।

पक्षोद्भवं हिमकरस्य विशेषमाहुः स्थानोद्भवं तु बलमप्यधिकं परेषाम्।
तत्सम्प्रयुक्तमितरैरधिकाधिकं स्यादन्यानि तेन सदृशानि बहूनि ते स्युः।।21।।

बलपिण्डसंस्था

सार्द्धानि षट् तीक्ष्णकरो बलीयान् चन्द्रस्तु षट्पञ्च वसुन्धराजः।
सप्तेन्दुमूनो रविवद्गुरोस्तु सार्द्धानि पञ्चाथ सितो बली स्यात्।।22।।

मन्दस्तु पञ्चैव हि षड्बलानां संयोग एवापरथान्यथा स्युः।
एवं ग्रहाणां स्वबलाबलानि विचिन्त्य सम्यक्कथयेत्फलानि।।23।।

लग्नादिकानामधिपस्य पिण्डे रूपान्विते तद्बलपि‍ण्डमाहुः।
गृहस्थ यस्यां दिशि दिग्बलं स्यात्तद्भाववीर्यं सहितस्य दृष्ट्या।।24।।

इति मन्त्रेश्वरविरचितायां फलदीपिकायां षड्बलनिरूपणं नाम चतुर्थोऽध्यायः।।4।।