फलदीपिका
तृतीयोध्यायः


वर्गविभागा: | Vargvibhagah

क्षेत्रत्रिभागनवभागदशांशहोरात्रिंशांशसप्तलवषष्टिलवाः कलांशा।
ते द्वादशांशसहिता दशवर्गसंज्ञा वर्गोत्तमो निजनिजे भवने नवांशः।।1।।

दशांशषट्यंशकलांशहीनास्ते सप्तवर्गाश्च विसप्तमांशाः।
षड्वर्गसंज्ञास्त्वथ राशिभावतुल्यं नवांशस्य फलं हि केचित्।।2।।

क्षेत्रेषु पूर्णमुदितं फलमयवर्गेष्वर्द्धं कलादशमषष्टिलवेषु पादम्।
बालः कुमारतरुणौ प्रवया मृतः षड् भागः क्रमाद्युजि विपर्ययमित्यवस्थाः।।3।।

क्षेत्रस्यार्द्धं हि होरा त्वयुजि रविसुधांश्वोः समे व्यस्तमेतद्
द्रेष्काणेशास्त्रिभागैस्तनुसुतशुभपा द्वादशांशस्तु लग्नात्।
भौमार्कीज्‌यशुक्राः शिशुजसमलवा ह्योजभे युग्मभे तद्-
व्यस्तं त्रिंशांशनाथाः क्रियमकरतुलाकर्कटाद्या नवांशाः।।4।।

यज्ञं रत्नं जनं नय पटं रूपं शुकं चेटिना
नागं योग खगं बलं भग शिला धूलिर्नवं प्रस्वनम्।
लाभं विश्व दिवं कुशं रम धमं षष्ट्यंशकाश्चैजभे
क्रूराख्याः समभे विपर्ययमिदं शेषास्तु सौम्याह्वयाः।।5।।

स्वात् सप्तांशदशांशकौ तु विषमे युग्मे तु कामाच्छुभात्
स्वादीशाश्च कलांशपा विधिहरीशार्काः समर्क्षेऽन्यथा।
ख्यातैः कोणयुतैस्त्रिकोणभवनस्वर्क्षोच्चकेन्द्रोत्तमै-
र्वर्गाः सप्त दश त्रयोदशमिता वर्गाः प्रदिष्टाः परैः।।6।।

वर्गान्योजयतु त्रयोदश सुहृत्स्वर्क्षोच्चभेषु क्रमाद्-
द्विस्त्रिः पञ्च चतुर्नवाद्रिवसुषट्संख्यासु वर्गैक्यतः।
प्राहुश्चोत्तमपारिजातकथितौ सिंहासनं गोपुरं
चेत्यैरावतदेवलोकसुरलोकांशांश्च पारावतम्।।7।।

आर्यानल्पगुणार्थसौख्यविभवान्यः पारिजातांशकः
स्वाचारं विनयान्वितं च निपुणं यद्युत्तमांशे स्थितः।
खेटो गोपुरभागगः शुभमतिं स्वक्षेत्रगोमन्दिरं
यः सिंहासनगो नृपेन्द्रदयितं भूपालतुल्यं नरम्।।8।।

श्रेष्ठाश्वद्विपवाहनादि विभवं पारावताधिष्ठितः
सत्कीर्तिं यदि देवलोकसहितो भूमण्डलाधीश्वरम्।
वन्द्यं भूपतिभिः सुरेन्द्रसदृशं त्वैरावतांशस्थितः
सद्भाग्यं धनधान्यपुत्रसहितं भूपं विदध्याद्ग्रहः।।9।।

यद्वर्गेष्वखिलेषु मृत्युरबलेष्वत्राथ वक्ष्ये क्रमा-
न्नाशं दुःखमनर्थता च विसुखं बन्धुप्रियं तद्वरम्।
भूपेष्टं धनिनं नृपं नृपवरं वर्गे बलिष्टेऽखिले
वर्धिष्णुं सुखिनं नृपं गदमृती बालाद्यवस्थाफलम्।।10।।

षड्वर्गेषु शुभग्रहाधिकगुणैः श्रीमांश्चिरं जीवति
क्रूरांशे बहुले विलग्नभवने दीनोऽल्पजीवः शठः।
तन्नाथा बलिनो नृपोऽस्त्यथ नवांशेशो दृगाणेश्वरो
लग्नेशः क्रमशः सुखी नृपसमः क्षोणीपतिर्भाग्यवान्।।11।।

ओजे क्रूरेऽर्कहोरां गतवति बलवान् क्रूरवृर्त्तिनाढ्यो
युग्मे चान्द्रीं शुभेषु द्युतिविनयवचोहृद्यसौभाग्ययुक्तः।
व्यस्तं व्यस्तेऽत्र मिश्रे समफलमुदितं लग्नचन्द्रौ बलिष्ठौ
तन्नाथौ द्वौ च तद्वद्यदि भवति चिरंजीव्यदुःखी यशस्वी।।12।।

सिंहाजाश्वितुलानृयुग्मभवनेष्वन्त्या हयाजादिमाः
मध्यौ स्त्रीयमयोरिहायुधभृतः पाशोलिमध्यो भवेत्।
नक्राद्यो निगलो मृगेन्द्रघटयोराद्यो वणिङ्मध्यमो
गृद्ध्रास्यो वृषभान्तिमश्च विहगः कर्याशसदि कोलाननम्।।13।।

कौर्याराद्यः कर्कटान्त्यो झषचरममहिश्चाजगोमध्यसिंहा-
द्यल्यन्त्यं स्याच्चतुष्पादिह फलमधनक्रूरनिन्द्या दरिद्राः।
द्वन्द्वर्क्षे स्युर्दृगाणैरधमसमशुभान्यस्थिरे चोत्क्रमेण
प्राहुस्तज्ज्ञाः स्थिरर्क्षेष्वशुभशुभसमान्येव लग्ने फलानि।।14।।

द्रेकाणेशे स्ववर्गे शुभखगसहिते स्वोच्चमित्रर्क्षगे वा
तद्वत्त्रिंशांशनाथे बलवति यदि चेद् द्वादशांशाधिपे वा।
होरानाथे तथा चेन्निखिलगुणगणो नित्यशुद्धप्रवीणो
दीर्घायुः स्याद्दयावान् सुतधनसहितः कीर्तिमान् राजभोगः।।15।।

मान्दिस्थराशिपतिसङ्गतसुत्रिकोणं तस्यांशराशिपतिसंयुतमंशकोणम्।
लग्नं वदन्ति गुलिकांशकाराशिकोणं तद्वद्विधौ बलयुते शशिनैव विद्यात्।।16।।

कुर्यादात्मसुहृद्दृगाणगशशी कल्याणरूपं गुणं
श्रेयांस्युत्तमवर्गजस्त्वपरगस्तन्नाथजातान् गुणान्।
स्वत्रिंशांशगता ग्रहा विदधते तत्कारकत्वोदितं
तत्रैकोऽपि सुहृर्द्ग्रहेक्षितयुतः स्वोच्चेऽर्थयुक्तं नृपम्।।17।।

स्वोच्चे प्रदीप्तः सुखितस्त्रिकोणे स्वस्थः स्वगेहे मुदितः सुहृद्भे।
शान्तस्तु सौम्यग्रहवर्गयुक्तः शक्तो मतोऽसौ स्फुटरश्मिजालः।।18।।

ग्रहाभिभूतः स निपीडितः स्यात् खलस्तु पापग्रहवर्गयातः।
सुदुःखितः शत्रुगृहे ग्रहेन्द्रो नीचेऽतिभीतो विकलोऽस्तयातः।।19।।

पूर्णं प्रदीप्ता विकलास्तु शून्यं मध्येऽनुपाताच्च शुभं क्रमेण।
अनुक्रमेणाशुभमेव कुर्युर्नामानुरूपाणि फलानि तेषाम्।।20।।

इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां वर्गविभागो‍ नाम तृतीयोऽध्यायः।।3।।