ताम्रं स्वर्णं पितृशुभफलं चात्मसौख्यप्रतापं
धैर्यं शौर्यं समितिविजयं राजसेवां प्रकाशम्।
शैवं कार्यं वनगिरिगतिं होमकार्यप्रवृत्तिं
देवस्थानं कथयतु बुधस्तैक्ष्ण्यमुत्साहमर्कात्।।1।।
मातुः स्वस्ति मनःप्रसादमुदधिस्नानं सितं चामरं
छत्रं सुव्यजनं फलानि मृदुलं पुष्पाणि सस्यं कृषिम्।
कीर्तिं मौक्तिककांस्यरौप्यमधुरक्षीरादिवस्त्राम्बुगो-
योषाप्तिं सुखभोजनं तनुसुखं रूपं वदेच्चन्द्रतः।।2।।
सत्त्वं भूफलितं सहोदरगुणं क्रौर्यं रणं साहसं
विद्वेषं च महानसाग्रिकनकज्ञात्यस्त्रचोरान् रिपून्।
उत्साहं परकामिनीरतिमसत्योक्तिं महीजाद्वदे-
द्वीर्यं चित्तसमुन्नतिं च कलुषं सेनाधिपत्यं क्षतम्।।3।।
पाण्डित्यं सुवचः कालानिपुणतां विद्वत्स्तुतिं मातुलं
वाक्चातुर्यमुपासनादिपटुतां विद्यासु युक्तिं मतिम्।
यज्ञं वैष्णवकर्म सत्यवचनं शुक्तिं विहारस्थलं
शिल्पं बान्धवयौवराज्यसुहृदस्तद्भागिनेयं बुधात्।।4।।
ज्ञानं सद्गुणमात्मजं च सचिवं स्वाचारमाचार्यकं
माहात्म्यं श्रुतिशास्त्रधीस्मृतिमतिं सर्वोन्नतिं सद्गतिम्।
देवब्राह्मणभक्तिमध्वरतपः श्रद्धाश्च कोशस्थलं
वैदुष्यं विजितेन्द्रियं धवसुखं संमानमीड्याद्दयाम्।।5।।
सम्पद्वाहनवस्त्रभूषणनिधिद्रव्याणि तौर्यत्रिकं
भार्यासौख्यसुगन्धपुष्पमदनव्यापारशव्यालयान्।
श्रीमत्त्वं कवितामुखं बहुवधूसङ्गं विलासं मदं
साचिव्य सरसोक्तिमाह भृगुजादुद्वाहकर्मोत्सवम्।।6।।
आयुष्यं मरणं भयं पतिततां दुःखावमानामयान्
दारिद्र्यंं भृतकापवादकलुषाण्याशौचनिन्द्यापदः।
स्थैर्यं नीचजनाश्रयं च महिषं तन्द्रीमृणं चायसं
दासत्वं कृषिसाधनं रविसुतात्कारागृहं बन्धनम्।।7।।
पित्तास्थिसारोऽल्पकचश्च रक्तश्यामाकृतिः स्यान्मधुपिङ्गलाक्षः।
कौसुम्भवासाश्चतुरस्त्रदेहः शूरः प्रचण्डः पृथुबाहुरर्क:।।8।।
स्थूलो युवा च स्थविरः कृशः सितः कान्तेक्षणश्चासितासूक्ष्ममूर्धजः।
रक्तैकसारो मृदुवाक् सितांशुको गौरः शशी वातकफात्मको मृदुः।।9।।
मध्ये कृशः कुञ्ि सतदीप्तकेशः क्रूरेक्षणः पैत्तिक उग्रबुद्धिः।
रक्ताम्बरो रक्ततनुर्महीजश्चण्डोऽत्युदारस्तरुणोऽतिमज्जः।।10।।
दूर्वालताश्यामतनुस्त्रिधातुमिश्रः सिरावान्मधुरोक्तियुक्तः।
रक्तायताक्षो हरितांशुकस्त्वक्सारो बुधो हास्यरुचिः समाङ्गः।।11।।
पीतद्युतिः पिङ्गकचेक्षणः स्यात् पीनोन्नतोराश्च बृहच्छरीरः।
कफात्मकः श्रेष्ठमतिः सुरेड्यः सिंहाब्जनादश्च वसुप्रधानः।।12।।
चित्राम्बराकुञ्चितकृष्णकेशः स्थूलाङ्गदेहश्च कफानिलात्मा।
दूर्वाङ्कुराभः कमनो विशालनेत्रो भृगुः साधितशुक्लवृद्धिः।।13।।
पङ्गुर्निम्नविलोचनः कृशतनुर्दीर्घः सिरालोऽलसः
कृष्णाङ्गः पवनात्मकोऽतिपिशुनः स्नाय्वात्मको निर्घृणः।
मूर्खः स्थूलनखद्विजः परुषरोमाङ्गोऽशुचिस्तामसो
रौद्रः क्रोधपरो जरापरिणतः कृष्णाम्बरो भास्करिः।।14।।
शैवं धाम बहिःप्रकाशकमरुद्देशो रवेः पूर्वदिक्
दुर्गास्थानवधूजलौषधिमधुस्थानं विधेर्वायुदिक्।
चीराम्लेच्छकृशानुयुद्धभुवि दिग्याम्या कुजस्योदिता
विद्वद्विष्णुभाविहारगणकस्थानान्युदीचीं विदुः।।15।।
कोशाश्वत्थसुरद्विजातिनिलयस्त्वैशानदिग्गीष्पते-
र्वेश्यावीथ्यवरोधनृत्तशयनस्थानं भृगोरग्निदिक्।
नीचश्रेण्यशुचिस्थलं वरुणदिक्छास्तुः शनेरालयो
वल्मीकाहितमोबिलान्यहिशिखिस्थानानि दिग्राक्षसः।।16।।
शैवो भिषङ्नृपतिरध्वरकृत्प्रधानी व्याघ्रो मृगो दिनपतेः किल चक्रवाकः।
शास्ताङ्गनारजककर्षकतोयगाः स्युरिन्दो शशश्च हरिणश्च बकश्चकोरः।।17।।
भौमो महानसगतायुधभृत्सुवर्णकाराजकुक्कुटशिवाकपिगृध्रचोराः।
गोपज्ञशिल्पगणकोत्तमविष्णुदासास्तार्य्ष्ु: किकी दिविशुकौ शशिजो बिडालः।।18।।
दैवज्ञमन्त्रिगुरुविप्रयतीशमुख्याः पारावतः सुरगुरोस्तुरगश्च हंसः।
मानी धनी विटवणिङ्नटन्तुवायवेश्यामयूरमहिषाश्च भृगोः शुको गौः।।19।।
तैलक्रयी भृतकनीचकिरातकायस्काराश्च दन्तिकरटाश्च पिकाः शनेः स्युः।
बौद्धाहितुण्डिकखराजवृकोष्ट्रसर्पध्वान्तादयो मशकमत्कुणकृम्युलूकाः।।20।।
सौम्यः समोऽर्कजसितावहितौ खरांशोरिन्दोर्हितौ रविबुधावपरे समाः स्युः।
भौमस्य मन्दभृगुजौ तु समौ रिपुर्ज्ञरव: सौमयस्य शीतगुररिः सुहृदौ सितार्कौ।।21।।
सुरेर्द्विषौ कविबुधौ रविजः समः स्यान्मध्यौ कवेर्गुरुकुजौ सुहृदौ शनिज्ञौ।
जीवः समः सितविदौ रविजस्य मित्रे ज्ञेया अनुक्तखचरास्तु तदन्यथा स्युः।।22।।
अन्योन्यं त्रिसुखस्वस्वान्त्यभवगास्तत्कालमित्राण्यमी
तन्नैसर्गिकमप्यवेक्ष्य कथयेत्तस्यातिमित्राहितान्।
शौर्याज्ञे रविजो गुरुर्गुरुसुतौ भौमश्चतुर्थाष्टमौ
पूर्णं पश्यति सप्तमं च सकलास्तेष्वंघ्रिवृद्ध्या क्रमात्।।23।।
सूर्यादेरयनं क्षणो दिनमृतुर्मासश्च पक्षः शर-
द्विप्रौ शुक्रगुरू रविक्षितिसुतौ चन्द्रौ बुधोऽन्त्यः शनिः।
प्राहुः सत्त्वरजस्तमांसि शशिगुर्वर्काः कविज्ञौ परे
ग्रीष्मादर्ककुजौ शशी शशिसुतो जीवः शनिर्भार्गवः।।24।।
ताताम्बे रविभार्गवौ दिवि निशि प्राभाकरीन्दू स्मृतौ
तद्व्यस्तेन पितृव्यमातृभगिनीसंज्ञौ तदा तत्क्रमात्।
वामाक्षीन्दुरिनोऽन्यदक्षि कथितो भौमः कनिष्ठानुजो
जीवो ज्येष्ठसहोदरः शशिसुतो दत्तात्मजः संज्ञितः।।25।।
देहो देही हिमरुचिरिनस्त्विन्द्रियाण्यारपूर्वा
आदित्यद्विङ्गुलिकशिखिनस्तस्य पीडाकराः स्युः।
गन्धः सौम्यो भृगुजशशिनौ द्वौ रसौ सूर्यभौमौ
रूपौ शब्दो गुरुरथ परे स्पर्शसंज्ञाः प्रदिष्टाः।।26।।
क्षीणेन्द्वर्ककुजाहिकेतुरविजाः पापाः सपापश्च वित्
क्लीबाः केतुबुधार्कजाः शशितमः शुक्राः स्त्रियोऽन्ये नराः।
रुद्राम्बागुहविष्णुधातृकमलाकालाह्यजा देवताः
सूर्यादग्निजलाग्निभूमिखपयोवाय्वात्मकाः स्युर्ग्रहा:।।27।।
गोधूमं तण्डुलं वै तिलचरणककुलुत्थाढकश्याममुद्गा
निष्पावा माष अर्केन्द्वसितगुरुशिखिक्रूरविद्भृग्वहीनाम्।
भोगीनार्क्यारजीवज्ञशशिशिखिसितेष्वम्बराख्यं कलिङ्गं
सौराष्ट्रवन्तिसिन्धून्सुमगधयवनान्पर्वतान्कीकटांश्च।।28।।
माणिक्यं तरणेः सुधार्यममलं मुक्ताफलं शीतगो-
र्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम्।
देवेड्यस्य च पुष्परागमसुरामात्यस्य वज्रं शने-
र्नीलं निर्मलमन्ययोश्च गदिते गोमेधवैदूर्यके।।29।।
ताम्रं कांस्यं धातुताम्रं त्रपु स्यात् स्वर्ण रौप्यं चायसं भास्करादेः।
वस्त्रं तत्तद्वर्णयुक्तं विशेषाज्जीर्णं मन्दस्याग्निदग्धं कुजस्य।।30।।
भानोः कटुर्भूमिसुतस्य तिक्तं लावण्यमिन्दोरथ चन्द्रजस्य।
मिश्रीकृतं यन्मधुरं गुरोस्तु शुक्रस्य चाम्लं च शनेः कषायः।31।।
भास्वद्गीष्पतिचन्द्रजक्षितिभुवां स्याद्दक्षिणे लाञ्छनं
शेषाणामितरत्र तिग्मकिरणात्कट्यां शिरः पृष्ठयोः।
कक्षेंऽसे वदने च सक्थिचरणे चिह्नं वयांस्यर्कतो
नेमे नाथ तटं नखं नग सनि ज्ञानाढ्य नग्नाटनम्।।32।।
नीलद्युतिर्दीर्घतनुः कुर्वणः पामी सपाषण्डमतः सहिक्कः।
असत्यवादी कपटी च राहुः कुष्ठी परान्निन्दति बुद्धिहीनः।।33।।
रक्तोग्रदृष्टिर्विषवागुदग्रदेहः सशस्त्रः पतितश्च केतुः।
धूम्रद्युतिर्धूमप एव नित्यं व्रणाङ्किताङ्गश्च कृशो नृशंसः।।34।।
सीसं च जीर्णवसनं तमसस्तु केतोर्मृद्भाजनं विविधचित्रपटं प्रदिष्टम्।
मित्राणि विच्छनिसितास्तमसोर्द्वयीस्तु भौमः समो निगदितो रिपवश्च शेषा:।।35।।
मूढोऽपि नीचरिपुगोऽष्टमषड्व्ययस्थो दुःस्थः स्मृतो भवति सुस्थ इतीतरः स्यात्।
चन्द्रे व्ययायतनुषट्सुतकामसंस्थे तोयाभिवृद्धिमिह शंसति वृद्धिकार्ये।।36।।
इति मन्त्रेश्वरविरचितायां फलदीपिकायां ग्रहभेदो नाम द्वितीयोऽध्यायः।। 2 ।।