संज्ञाध्यायः कारको वर्गसंज्ञो वीर्याध्यायः कर्मजीवोऽथ योगः।
योगो राज्ञां राशिशीलो ग्रहाणां मेषादीनां लग्नसंप्राप्तशीलः ।।1।।
भार्याभावो जातकं कामिनीनां सुनुर्बालारिष्टयोगोऽथ रोगः ।
भावस्तस्माद्दावशावाप्तभावा निर्याणं स्याद् द्विग्रहाद्याश्च तस्मात् ।। 2 ।।
सूर्यादीनां यत्फलं तद्दशाप्तं भावादीनामीश्वराङ्का दशाच ।
सूर्यादीनामन्तराख्या दशाऽथ सव्यासव्या कालचक्रोऽष्टवर्गः ।। 3 ।।
होरासारावाप्त यद्यष्टवर्गो मान्द्यध्यायो गोचरः स्यात्प्रव्रज्यः ।
अध्यायानां विंशतिः सप्तयुक्तान् जन्मन्येतद्गोलजं संवदामि ।। 4 ।।
श्रीशालिवाटिजातेन मया मन्त्रेश्वरेण वै।
दैवज्ञेन द्विजाग्रेण सतां ज्योतिर्विदां मुदे।। 5॥
सुकुन्तलाम्बां सम्पूज्य सर्वाभिष्टप्रदायिनीम् ।
तत्कटाक्षविशेषेण कृता या फलदीपिका॥6॥
∙∙∙∙∙∙