फलदीपिका
सप्तविंशोऽध्यायः


प्रव्रज्यायोगः | Pravrajyayogah

ग्रहैश्चतुर्भिः सहिते खनाथे त्रिकोणगैः केन्द्रगतैस्तु मुक्तः।
लग्न गृहान्ते सति सौम्यभागे केन्द्रे गुरौ कोणगते तु मुक्तः।।1।।

एकर्क्षसंस्थैश्चतुरादिकैस्तु ग्रहैर्वदेत्तत्र बलान्वितेन।
प्रव्रज्यकां तत्र वदन्ति केचित् कर्मेशतुल्यां सहिते खनाथे।।2।।

शशी दृगाणे रविजस्य संस्थितः कुजार्किदृष्टः प्रकरोति तापसम्।
कुजांशके वा रविजेन दृष्टो नवांशतुल्यां कथयन्ति तां पुनः।।3।।

जन्माधिपः सूर्यसुतेन दृष्टः शेषैरदृष्टः पुरुषस्य सूतौ।
आत्मीयदीक्षां कुरुते ह्यवश्यं पूर्वोक्तमत्रापि विचारणीयम्।।4।।

योगीशां दीक्षितं वा कलयति तरणिस्तीर्थपान्थं हिंमांशु-
र्दुर्मन्त्रज्ञं च बौधाश्रयमवनिसुतो ज्ञो मतान्यप्रविष्टम्।
वेदान्तज्ञानिनं वा यतिवरममरेज्यो भृगुर्लिङ्गवृत्तिं
व्रात्यं शैलूषवृत्तिं शनिरिह पतितं वाऽथ पाषण्डिनं वा।।5।।

अतिशयबलयुक्तः शीतगुः शुक्लपक्षे बलविरहितमेनं प्रेक्षते लग्ननाथः।
यदि भवति तपस्वी दुःखितः शोकतप्तो धनजनपरिहीनः कृच्छ्रलब्धान्नपानः।।6।।

प्रकथितमुनियोगे राजयोगो यदि स्यादशुभफलविपाकं सर्वमुन्मूल्य पश्चात्।
जनयति पृथिवीशं दीक्षितं साधुशीलं प्रणतनृपशिरोभिः स्पृष्टपादाब्जयुग्मम्।।7।।

चत्वारो द्युचराः खनाथसहिताः केन्द्रे त्रिकोणेऽथवा
सुस्थाने बलिनस्त्रयो यदि तदा संन्याससिद्धिर्भवेत्।
सद्बाहुल्यवशाच्च तत्र सुशुभस्थानस्थितैस्तैर्वदेत्
प्रव्रज्यां महितां सतामभिमतां चेदन्यथा निन्दिताम्।।8।।

इति मन्त्रेश्वरविरचितायां फलदीपिकायां प्रव्रज्यायोगो नाम सप्तविंशोऽध्यायः।।27।।