सर्वेषु लग्नेष्वपि सत्सु चन्द्रलग्नं प्रधानं खलु गोचरेषु।
तस्मात्तदृक्षादपि वर्तमानग्रहेन्द्रचारैः कथयेत्फलानि।।1।।
सूर्यः षट्त्रिदशस्थिस्त्रिदशषट्सप्ताद्यगश्चन्द्रमाः।
जीवस्त्वस्ततपोद्विपश्चमगतो वक्रार्कजौ षट्त्रिगौ।
सौम्यः षट्स्वचतुर्दशाष्टमगतः सर्वेऽप्युपान्तस्थि्ताः।
शुक्रः खास्तरिपून्विहाय शुभदस्तिग्मांशुवद्भोगिनौ।।2।।
लाभविक्रमखशत्रुषु स्थितः शोभनो निगदितो दिवाकरः।
खेचरैः सुततपोजलान्त्यगै: व्यार्किभिर्यदि न विद्ध्यते तदा।।3।।
द्यूनजन्मरिपुलाभखत्रिगश्चन्द्रमाः शुभफलप्रदः सदा।
स्वात्मजान्त्यमृतिबन्धुधर्मगैर्विद्ध्यते न विबुधैर्यदि ग्रहैः।।4।।
विक्रमायरिपुगः कुजः शुभः स्यात्तदान्त्यसुतधर्मगैः खगैः।
चेन्न विद्ध इनसूनुरप्यसौ किन्तु धर्मघृणिना न विद्ध्यते।।5।।
स्वाम्बुशत्रुमृतिखायग: शुभो ज्ञस्तदा न खलु विद्यते सदा।
स्वात्मजत्रितप आद्यनैधन प्राप्ति्गैर्विबुधुभिर्यदि ग्रहै:।।6।।
स्वायधर्मतनयास्तसंस्थितो नाकनायकपुरोहित: शुभ:।
रि:फरन्ध्रखजलत्रिगैर्यदा विद्यते गगनचारिभिर्न हि।।7।।
आसुताष्टमतपोव्ययायगो विद्ध आस्फुजिदशोभन: स्मृत:।
नैधनास्ततनुकर्मधर्मधीलाभवैरिसहजस्थखेचरै:।।8।।
जन्मान्यायासदाता क्षपयति विभवान् क्रोधरोगाध्वदाता
वित्तभ्रंशं द्वितीये दिशति न सुखदो वञ्चनामाग्रहं च।
स्थानप्राप्तिं तृतीये धननिचयमदाकल्यकृच्चारिहन्ता
रोगान् दत्ते चतुर्थे जनयति च मुहुः स्त्रग्धराभोगविघ्नम्।।9।।
वित्तक्षोभं सुतस्थो वितरति च बहुशो रोगमोहादिदाता
षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपूञ्छोकमोहान्प्रमार्ि् ।फ।
अध्वानं सप्तमस्थो जठरगुदभयं दैन्यभावं च तस्मै
रुक्त्रासावष्टमस्थः कलयति कलहं राजभीतिं च तापम्।।10।।
आपद्दैन्यं तपसि विरहं चित्तचेष्टानिरोधं
प्राप्नोत्युग्रां दशमगृहगे कर्मसिद्धिं दिनेशे।
स्थानं मानं विभवमपि चैकादशे रोगनाशं
क्लेशं वित्तक्षयमपि सुहृद्वैरमन्त्ये ज्वरं च।।11।।
क्रमेण भाग्योदयमर्थहानिं जयं भयं शोकमरोगतां च।
सुखान्यनिष्टं गदमिष्टसिद्धिं मोदं व्ययं च प्रददाति चन्द्रः।12।।
अन्तः शोकं स्वजनविरहं रक्तपित्तोष्णरोगं
लग्ने वित्ते भयमपि गिरां दोषमर्थक्षयं च।
धैर्ये भौमो जनयति जयं स्वर्णभूषां प्रमोदं
स्थानभ्रंशं रुजमुदरजां बन्धदुःखं चतुर्थे।।13।।
ज्वरमनुचितचिन्तां पुत्रहेतुव्यथां वा
कलयति कलहं स्वैः पञ्चमे भूमिपुत्रः।
रिपुकलहनिवृत्तिं रोगशान्तिं च षष्ठे
विजयमथ धनाप्तिं सर्वकार्यानुकूल्यम्।।14।।
कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमे
ज्वरक्षतजरूक्षितो विगतवित्तमानोऽष्टमे।
कुजे नवमं संस्थिते परिभवोऽर्थनाशादिभि-
र्विलम्बितगतिर्भवत्यबलदेहधातुक्षयैः।।15।।
दुश्चेष्टा वा कर्मविघ्नः श्रमः खे द्रव्यारोग्यक्षेत्रवृद्धिश्च लाभे।
भौमः खेटो गोचरे द्वादशस्थो द्रव्यच्छेदस्ताप उष्णामयाद्यैः।।16।।
वित्तक्षयं श्रियमरातिभयं धनाप्तिं भार्यातनूजकलहं विजयं विरोधम्।
पुत्रार्थलाभमथ विघ्नमशेषसौख्यं पुष्टिं पराभवभयं प्रकरोति चान्द्रिः।।17।।
जीवे जन्मनि देशनिर्गमनमप्यर्थच्युतिं शत्रुतां
प्राप्नोति द्रविणं कुटुम्बसुखमप्यर्थे स्ववाचां फलम्।
दुश्चिक्ये स्थितिनाशमिष्टवियुतिं कार्यान्तरायं रुजं
दुःखैर्बन्धुजनोद्भवैश्च हिबुके दैन्यं चतुष्पाद्भयम्।।18।।
पुत्रोत्पत्तिमुपैति सज्जनयुतिं राजानुकूल्यं सुते
षष्ठे मन्त्रिणि पीडयन्ति रिपवः स्वज्ञातयो व्याधयः।
यात्रां शोभनहेतवे वनितया सौख्यं सुताप्तिं स्मरे
मार्गक्लेशमरिष्टमष्टमगते नष्टं धनैः कष्टताम्।।19।।
भाग्ये जीवे सर्वसौभाग्यसिद्धिः कर्मण्यर्थस्थानपुत्रादिपीडा।
लाभे पुत्रस्थानमानादिलाभो रिःफे दुःखं साध्वसं द्रव्यहेतोः।।20।।
अखिलविषयभोगं वित्तसिद्धिं विभूतिं
सुखसुहृदभिर्वृद्धिं पुत्रलब्धिं विपत्तिम्।
दिशाति युवतिपीडां सम्पदं वा सुखाप्तिं
कलहमभयमर्थप्राप्तिमिन्द्रारिमन्त्री।।21।।
रोगाशौचक्रियाप्तिं धनसुतविहतिं स्थानभृत्याथर्थलाभं
स्त्रीबन्धवर्थप्रणाशं द्रविणसुतमतिप्रच्युतिं सर्वसौख्यम्।
स्त्रीरोगाध्वावभीतिं स्वसुतपशुसुहृद्वित्तनाशामयार्तिं
जन्मादेरष्टमान्तं दिशति पदवशेनार्कसूनुः क्रमेण।।22।।
दारिघ्नं धर्मविघ्नं पितृसमविलयं नित्यदुःखं शुभस्थे
दुर्याानपारप्रवृत्तिं कलयति दशमे मानभङ्गं रुजं वा।
सौख्यान्येकादशस्थो बहुविधविभवप्राप्तिमुत्कृष्टकीर्तिं
विश्रान्तिं व्यर्थकार्याद्वसुहृतिमरिभिः स्त्रीसुतव्याधिमन्त्ये।।23।।
देहक्षयं वित्तविनाशौख्ये दु:गार्थनाशौ सुनाशमृत्यून्।
हानिं च लाभं सुभगं व्ययं च कुर्यात्तमो जन्मगृहात्क्रमेण।।24।।
क्षितितनयपतङ्गौ राशिपूर्वत्रिभागे
सुरपतिगुरुशुक्रौ राशिमध्यत्रिभागे।
तुहिनकिरणमन्दौ राशिपाश्चात्यभागे
शशितनयभुजङ्गौ पाकदौ सार्वकालम्।।25।।
रेखाः सप्तशमालिखेदुपरिगास्तिर्यक्तथैव क्रमा-
दीशादग्निभमादितोऽपि गणेयदादित्यभस्यावधि।
वेधा जन्मदिने मृतिर्भयमथाधानाख्यनक्षत्रके
कर्मण्यर्थविनाशनं खलु रविर्दद्यात्सपापो मृतिम्।।26।।
एवं विद्धे खचरैः क्रूररन्यैर्मरणम्।
सौम्यैर्विद्धे न मृतिविद्यादेवं सकलम्।।27।।
आधानकर्मर्क्षविपन्निजर्क्षे वैनाशिके प्रत्यरभे वधाख्ये।
पापग्रहो मृत्युभयं विदध्याद्वेधे तथा कार्यहरः शुभाख्ये।।28।।
आदित्यसङ्क्रान्तिदिने ग्रहाणां प्रवेशने वा ग्रहणे च युद्धे।
उल्कानिपाते च तथाद्भुते च जन्मत्रयं स्यान्मरणादिदुःखम्।।29।।
असत्फलः सौम्यनिरीक्षितो यः शुभप्रदश्चाप्यशुभेक्षितश्च।
द्वौ निष्फलौ द्वावपि खेचरेन्द्रौ यः शत्रुणा स्वेन विलोकितश्च।।30।।
अनिष्टभावस्थितखेचरेन्द्रः स्वोच्चस्वगेहोपगतो यदि स्यात्।
स दोषकृच्चोत्तमभावगश्चेत् पूर्णं फल यच्छति गोचरेषु।।31।।
ग्रहेश्वरास्ते शुभगोचरस्था नीचारिमौढ्यं समुपाश्रिताश्चेत्।
ते निष्फलाः किन्त्वशुभाङ्कसंस्थाः कष्टं फलं संविदधत्यनल्पम्।।32।।
द्वादशाष्टमजन्मस्थाः शन्यर्काङ्गकारका गुरुः।
कुर्वन्ति प्राणसन्देहं स्थानभ्रंशं धनक्षयम्।।33।।
चन्द्राष्टमे च धरणीतनयः कलत्रे
राहुः शुभे कविररौ च गुरुस्तृतीये।
अर्कः सुतेऽर्किरुदये च बुधश्चतीर्थे
मानार्थहानिमरणानि वदेद्विशेषात्।।34।।
वक्त्रे क्ष्मा मूर्ध्निे चत्वार्युरसि च चतुरः सव्यहस्ते चतुष्कं
पादे षड्वामहस्ते चतुरथ नयने द्वौ च गुह्ये द्वयं च।
भानुर्नाशं विभूतिं विजयमथ धनं निर्धनं देहपीडां
लाभं मृत्युं च चक्रे जनयति विविधान् जन्मभाद्देह संस्थः।।35।।
शीतांशोर्वदने द्वयोरतिभयं क्षेमं शिरस्यम्बुधौ
षष्ठे शत्रुजयं द्वयोर्नयनयोनेत्रे धनं जन्मभात्।
पञ्चस्वात्मसुखं हृदि त्रिषु करे वामे विरोधं क्रमात्
पादौ षट्सु विदेशतां जनयति त्रिष्वर्थलाभं करे।।36।।
वक्त्रे द्वे मरणं करोत्यवनिजः षट् पादयोर्विग्रहं
क्रोडे त्रीणि जयं चतुर्विधनतां वामे करे मस्तके।
द्वे लाभं चतुराननेऽधिकभयं क्षेमंकरे दक्षिणे
वार्द्धिद्धे नयने विदेशगमनं चक्रे स्वजन्मर्क्षतः।।37।।
मूर्ि्ाभं त्रीणि मुखे त्रयं च करयोः षट् पञ्च कुक्षौ तथा
लिङ्गे द्वे द्विचतुष्टयं चरणयोः प्राप्तेऽमरेन्द्रार्चितः।
शोकं लाभमनर्थमर्थनिचयं नाशं प्रतिष्ठां तथा
दद्यादात्मदिनात्तथैव भृगुजस्तद्वद्बुधोऽपि क्रमात्।।38।।
भूवेदवह्निगुणवेदशराग्निनेत्र दस्रं च वक्त्रकरपादपदेषु हस्ते।
कुक्षौ च मूर्ध्नि नयनद्वयपृष्ठभागे न्यस्य क्रमेण शनिसंयुभान्निजर्क्षात्।।39।।
दुःखं च सौख्यं गमनं च नाशं लाभं स्वभोगं सुखसौख्यमृत्यून्।
वक्त्रक्रमादाह फलानि मन्दस्यैवं तमः खेचरयोर्वदन्तु।।40।।
यत्राष्टवर्गेऽधिकबिन्दवः स्युस्तत्र स्थितो गोचरतो ग्रहेन्द्रः।
तद्वत्फलं प्राह शुभं व्ययारिरन्ध्रस्थितो वाऽपि शुभं विधत्ते।।41।।
रवेर्द्वादशनक्षत्रं भूसुतस्य तृतीयकम्।
गुरोः षट्तारकं चैव शनेष्टमतारकम्।।42।।
एतेषां च पुरोलत्ता पृष्ठलत्ताः प्रकीर्तिताः।
शुकस्य पञ्चमं तारम् चन्द्रजस्य तु सप्तमम्।।43।।
राहोस्तु नवमं चैव द्वाविंशं भं हिमद्युतेः।
ग्रहस्थितर्क्षाद्गणयेल्लत्तायां जन्मभे व्यथा।।44।।
रवेः सर्वार्थहानिः स्यात्तमसोर्दुःखमुच्यते।
मरणं जीवलत्तायां बन्धुनाशो भयावहः।।45।।
शुक्रस्य कलहो भ्रंश अनर्थः शशिजस्य तु।
चन्द्रस्य तु महाहानिर्लत्तामात्रफलं भवेत्।।46।।
सर्वत्र लत्तासाङ्कये द्विग्फझज्ञत्रिगुणादिकम्।
वदेद्दोषफलं नृणां ग्रहाल्लत्ताधिकक्रमात्।।47।।
सर्वतोभद्रचक्रोक्त शुभवेधाः शुभवहाः।
पापवेधा दुःखतरा गोचरेताश्च चिन्तयेत्।।48।।
इति मन्त्रेश्वरविरचितायां फलदीपिकायां गोचरफलनिर्णयाध्याय: षड्विंशोऽध्यायः।।26।।