नमानि मान्दिं यमकण्टकाख्यमर्द्धप्रहारं भुवि कालसंज्ञम्।
धूमव्यतीपातपरिध्यभिख्यानुपग्रहानिन्द्रधनुश्च केतून्।।1।।
चरं रुद्रदास्यं घटं नित्यतानं खनिर्मान्दिनाड्यः क्रमेणार्कवारात्।
अहर्मानवृद्धिक्षयौ तत्र कार्यौ निशायां तु वारेश्वरात्पञ्चमाद्याः।।2।।
दिव्या घटी नित्यतनुः खनीनां चन्दे रुरुः स्याद्यमकण्टकस्य।
अर्द्धप्रहारस्य भटो नटेन स्तनौ खनी चन्द्रखरौ जयज्ञः।।3।।
कालस्य फेनं तनुरुद्रदिव्यं वन्द्यो नटस्तैरनुसूर्यवारात्।
एषां समं मान्दिवदेव तत्तन्नाड्या स्फुटं लग्नवदत्र साध्यम्।।4।।
धूमो वेदगृहैस्त्रयोदशभिरप्यंशैः समेते रवौ
स्यात्तस्मिन् व्यतिपातको विगलिते चक्रादथास्मिन्युते।
षड्भिर्भ: परिवेष इन्द्रधनुरित्यिरिमषच्युते मण्डला-
दत्यष्ट्यंशयुतेऽत्र केतुरथ तत्रैकर्क्षयुक्तो रविः।।5।।
भावाध्याये पूर्वमेव मया प्रोक्तं समुच्चयम्।
मुक्तानां यत्तदेवात्र वाच्यं भावफलं दृढम्।।6।।
तथापि गुलिकादीनां विशेषोऽत्र निगद्यते।
पूर्वाचार्यैर्यदाख्यातं तत्संगृह्य मयोदितम्।।7।।
चोरः क्रूरो विनयरहितो वेदशास्त्रार्थहीनो
नातिस्थूलो नयनविकृतो नातिधीर्नातिपुत्रः।
नाल्पाहारी सुखविरहितो लम्पटो नातिजीवी
शूरो न स्यादपि जडमतिः कोपनो मान्दिलग्ने।।8।।
न चाटुवाक्यं कलहायमानो न वित्तधान्यं परदेशवासी।
न वाङ्न सूक्ष्मार्थविवादवाक्यो दिनेशपौत्रे धनराशिसंस्थे।।9।।
विरहगर्वमदादिगुणैर्युतः प्रचुरकोपधनार्जनम्भ्रमः।
विगतशोकभयश्च विसोदरः सहजधामनि मन्दसुतो यदा।।10।।
सुहृदि शनिसुते स्याद्बन्धुयानार्थहीन-
श्चलमतिरवबुद्धिस्त्वल्पजीवी च पुत्रे।
बहुरिपुगणहन्ता भूतविद्याविनोदी
रिपुगतगुलिक सच्छ्रेष्ठपुत्रः स शूरः।।11।
कलत्रसंस्थे गुलिके कलही बहुभार्यकः।
लोकद्वेषी कृतघ्नश्च स्वल्पज्ञः स्वल्पकोपनः।।12।।
विकलनयनवक्त्रो ह्रस्वदेहोऽष्टमस्थे गुरुसुतवियुगोऽभूद्धर्मसंस्थेऽर्कपात्रे।
न शुभफलदकर्मा कर्मसंस्थे विदानः सुखसुतमतितेजः कान्तिमाँल्लाभसंस्थे।।13।।
विषयविरहितो दीनो बहुव्ययः स्याद्व्यये गुलिकसंस्थे।
गुलिकत्रिकोणभे वा जन्म ब्रूयान्नवांशे वा।।14।।
रवियुक्ते पितृहन्ता मातृक्लेशी निशापसंयुक्ते।
भ्रातृवियोगः सकुजे बुधयुक्ते मन्दजे च सोन्मादी।।15।।
गुरुयुक्ते पाषण्डी शुक्रयुते नीचकामिनीसङ्गः।
शनियुक्ते शनिपुत्रे कुष्ठव्याध्यर्दितश्च सोऽपल्पायुः।16।।
विषरोगी राहुयुते शिखियुक्ते वह्निपीडितो मान्दौ।
गुलिकस्त्याज्ययुतश्चेत्तस्मिञ्जातो नृपोऽपि भिक्षाशी।।17।।
गुलिकस्य तु संयोगे दोषान्सर्वत्र निर्दिशेत्।
यमकण्टकसंयोगे सर्वत्र कथयेच्छुभम्।।18।।
दोषप्रदाने गुलिको बलीयान् शुभप्रदाने यमकण्टकः स्यात्।
अन्ये च सर्वे व्यसनप्रदाने मान्द्युक्तवीर्यार्द्धबलान्विताः स्युः।।19।।
शनिवद्गुलिके प्रोक्तं गुरुवद्यमण्टके।
अर्द्धप्रहारे बुधवत्फलं काले तु राहुवत्।।20।।
कालस्तु राहुर्गुलिकस्तु मृत्युर्जीवातुकः स्याद्यमकण्टकोऽपि।
अर्द्धप्रहारः शुभदः शुभाङ्कयुक्तोऽन्यथा चेदशुभं विदध्यात्।।21।।
आत्मादयोऽधिपैर्युक्ता धूमादिग्रहसंयुताः।
ते भावा नाशतां यान्ति वदतीति पराशरः।।22।।
धूमे सन्ततमुष्णं स्यादग्निभीतिर्मनोव्यथा।
व्यतीपाते मृगभयं चतुष्पान्मरणं तु वा।।23।।
परिवेषे जले भीरुर्जलरोगश्च बन्धनम्।
इन्द्रचापे शिलाघातः क्षतं शस्त्रैरपि च्युतिः।।24।।
कैतौ पतनघाताद्यं कार्यनाशोऽशनेर्भयम्।
एते यद्भावसहितास्तद्दशायां फलं वदेत्।।25।।
अल्पायुः कुमुखः पराक्रमगुणो दुःखी च नष्टात्मजः
प्रत्यर्थिक्षुभितो विशीर्णमदनो दुर्मार्गमृत्युं गत:।
धर्मादिप्रतिकूलताटनरुचिर्लाभान्वितो दोषवा-
नित्येवं क्रमशो विलग्नभवनात्केतोः फलं कीर्तयेत्।।26।।
अप्रकाशाः सञ्चरन्ति धूमाद्याः पञ्च खेचराः।
क्वचित्कदाचिद्दृश्यन्ते लोकोपद्रवहेतवे।।27।।
धूमस्तु धूमपटलः पुच्छर्क्षमिति केचन।
उल्कापातो व्यतीपातः परिवेषस्तु दृश्यते।।28।।
लोके प्रसिद्धं यद्दृष्टं तदेवेन्द्रधनुः स्मृतम्।
केतुश्च धूमकेतुः स्याल्लोकोपद्रवकारकः।।29।।
गुलिकभवननाथे केन्द्रगे वा त्रिकोणे
बलिनि निजगृहस्थे स्वोच्चमित्रस्थिते वा।
रथगजतुरगाणां नायको मारतुल्यो
महितपृथुशास्यान्मेदिनीमण्डलेन्द्रः।।30।।
इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां उपग्रहाध्यायो नाम पञ्चविंशोऽध्यायः।।25।।