अर्कस्थितस्य नवमो राशिः पितृगृहः स्मृतः।
तद्राशिफलसंख्याभिर्वर्द्धयेच्छोध्यपिण्डकम्।।1।।
सप्तविंशहृताल्लब्धं नक्षत्रं याति भानुजे।
तस्मिन् काले पितृक्लेशो भविष्यति न संशयः।।2।।
तत्त्रिकोणगते वाऽपि पितृतुल्यस्य वा मृतिः।
संयोगः शोध्यशोषाणां शोध्यपिण्ड इति स्मृतः।।3।।
लग्नात्सुखेश्चरांशेशदशायां च पितृक्षयः।
सुखनाथदशायां वा पितृतुल्यमृतिं वदेत्।।4।।
संशोध्य पिण्डं सूर्यस्य रन्धमानेन वर्द्धयेत्।
द्वादशेन हताच्छेषराशिं याते दिवाकरे।।5।।
तत्त्रिकोणगते वाऽपि मरणं तस्य निर्दिशेत्।
एवं ग्रहाणां सर्वेषां चिन्तयेन्मतिमान्नरः।।6।।
चन्द्रात्सुखफलैः पिण्डं हत्वा सारावशेषिताम्।
शनौ याते मातृहानिः त्रिकोणर्क्षगतेऽपि वा।।7।।
चन्द्रात्सुखाऽष्टमेशांशत्रिकोणे दिवसाधिपे।
मातुर्वियोगं तन्मासे निर्दिशेल्लग्नतः पितुः।।8।।
भौमात्तृतीयराशिस्थफलैर्भ्रातृगणं वदेत्।
बुधात्सुखफलैर्बन्धुगणं वा मातुलस्य च।।9।।
गुरुस्थितसुतस्थाने यावतां विद्यते फलम्।
शत्रुनीचग्रहं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः।।10।।
गुरोरष्टकवर्गे तु शोध्यशिष्टफलानि वै।
क्रूरराशिफलं त्यक्त्वा शेषास्यात्मजाः स्मृताः।।11।।
फलाधिकं भृगोर्यत्र तत्र भार्याजनिर्यदि।
तस्यां वंशाभिवृद्धिः स्यादल्पे क्षीणार्थसन्ततिः।।12।।
शोध्यपिण्डं शनेर्लग्नाद्धत्वा रन्ध्रफलैः सुखैः।
हृत्वावशेषभं याते मन्दे जीवेऽपि वा मृतिः।।13।।
लग्नादिमन्दान्तफलैक्यसंख्यावर्षे विपत्तिस्तु तथार्कपुत्रात्।
यावद्विलग्नान्तफलानि तस्मिन्नाशो हि तद्योगसमानवर्षे।।14।।
अष्टमस्थफलैर्लग्नात्पिण्डं हत्वा सुखैर्भजेत्।
फलामायुर्विजानीयात्प्राग्वद्वेलां तु कल्पयेत्।।15।।
त्रिकोणेषु तु यन्नयूनं तत्तुल्यं त्रिषु शोधयेत्।
एकस्मिन् भवने शून्ये तत्त्रिकोणं न शोधयेत्।।16।।
भवनद्वयशून्ये तु शौधयेदन्यमन्दिरम्।
समत्वे सर्वगेहेषु सर्वं संशोधयेत्तदा।।17।।
त्रिकोणशोधनं कृत्वा पश्चादैकाधिपत्यकम्।
क्षेत्रद्वये फलानि स्युस्तदा संशोधयेत्सुधीः।।18।।
ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके।
ऊनेन सदृशन्त्वस्मिन् शोधयेद्ग्रहवर्जिते।।19।।
फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वमुत्सृजेत्।
सग्रहाग्रहतुल्यत्वे सर्वं स शोध्यमग्रहात्।।20।।
उभाभ्यां ग्रहहीनाभ्यां समत्वे सकलं त्यजेत्।
उभयोग्रहसंयुक्ते न संशोध्यं कदाचन।।21।।
एकस्मिन् भवने शून्ये न संशोध्यं कदाचन।
द्वावग्रहौ चेद्यल्यूनं तत्तुल्यं शोधयेद्द्वयोः।।22।।
शोध्यावशिष्टं संस्थाप्य राशिमानेन वर्द्धयेत्।
ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत्।।23।।
गोसिंहौ दशगुणितौ राशिगुणकारौ वसुभिर्मिथुनालिभे।
वणिङ्मेषौ च मुनिभिः कन्यकामकरे शरैः।।24।।
शेषाः स्वमानगुणिताः कर्किचापघटीझषाः।
एते राशिगुणाः प्रोक्ताः पृथग्ग्रहगुणाः पृथक्।।25।।
जीवारशुक्रसौम्यानां दशवसुसप्तेन्द्रियैः क्रमाद्गुणिताः।
बुधसंख्या शेषाणां राशिगुणाद्ग्रहगुणः पृथक्कार्यः।।26।।
एवं गुणित्वा संयोज्य सप्तभिर्गुणयेत्पुनः।
सप्तविंशहृताल्लब्धवर्षाण्यत्र भवन्ति हि।।27।।
द्वादशाद्गुणयेल्लब्धा मासाहर्घटिकाः क्रमात्।
सप्तविंशति वर्षाणि मण्डलं शोधयेत्पुनः।।28।।
अन्योऽन्यमर्द्धहरणं ग्रहयुक्ते तु कारयेत्।
नीचेऽर्द्धमस्तगेऽप्यर्द्धहरणं तेषु कारयेत्।।29।।
शत्रुक्षेत्रे त्रिभागोनं दृश्यार्द्धहरणं तथा।
त्र्यंशोनहरणं भङ्गे: सूर्येन्द्वोः पातसंश्रयात्।।30।।
बहुत्वे हरणे प्राप्ते कारयेद्बलवत्तरम्।
पश्चात्तान् सकलान् कृत्वा वराङ्गेण विवर्द्धयेत्।।31।।
मातङ्गलब्धं शुद्धायुर्भवतीति न संशयः।
पूर्ववद्दिनमासाब्दान् कृत्वा तस्य दशा भवेत्।।32।।
एवं ग्रहाणां सर्वेषां दशां कुर्यात् पृथक् पृथक्।
अष्टवर्गदशामार्गः सर्वेषामुत्तमोत्तमः।।33।।
बालो बलिष्ठो लावणागमोसुरो रागी मुरारः शिखरीन्द्रगाथया।
भौमो गणेन्द्रो लघुभावतासुरो गोकर्णरक्ता तु पुराणमैथिली।।34।।
रुद्रः परं गह्वरभैरवस्थली रागी बली भास्वरगीर्भगाचलाः।
गिरौ विवस्वान्बलवद्विवक्षया शूली मम प्रीतिकरोऽत्र तीर्थकृत्।।35।
सर्वकर्मफलापेतमष्टवर्गकमुच्यते।
अन्यथा बलविज्ञानं दुर्ज्ञेयं गुणदोषजम्।।36।।
त्रिंशाधिकफला ये स्युर्राशयस्ते शुभप्रदाः।
पञ्चविंशात्परं मध्यं कष्टं तस्मादधः फलम्।।37।।
मध्यात्फलाधिकं लाभे लाभात् क्षीणतरे व्यये।
यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत्।।38।।
मूर्त्यादि व्ययभावान्तं दृष्ट्वा भावफलानि वै।
अधिके शोभने विद्याद्धीने दोषं विनिर्दिशेत्।।39।।
षष्ठाष्टमव्ययांस्त्यक्त्वा शेषेष्वेव प्रकल्पययेत्।
श्रेष्ठराशिषु सर्वाणि शुभकार्याणि कारयेत्।।40।।
लग्नात्प्रभृति मन्दान्तमेकीकृत्य फलानि वै।
सप्तप्रभिर्गणयेत्पश्चात्सप्तविंशहृतात्फलम्।।41।।
तत्समानगते वर्षे दुःखे वा रोगमाप्नुयात्।
एवं मन्दानि लग्नान्तं भौमराह्वोस्तथा फलम्।।42।।
शुभग्रहाणां संयोगसमानाब्दे शुभं भवेत्।
पुत्रवित्तसुखादीनि लभते नात्र संशयः।।43।।
संग्रहणेन मया प्रोक्तमष्टवर्गफलं त्विह।
तज्ज्ञैर्विस्तरतः प्रोक्तमन्यत्र पटुबुद्धिभिः।।44।।
इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां वर्गफलं नाम चतुर्विंशोऽध्यायः।।24।।