फलदीपिका
त्रयोविंशोऽध्यायः


अष्टकवर्गः | Ashtakavargah

गोचरग्रहवशान्मनुजानां यच्छुभाशुभफलाभ्युपलब्ध्यै।
अष्टवर्ग इति यो महदुक्तस्तत्प्रसाधनमिहाभिदधेऽहम्।।1।।

आलिख्य सम्यग्भुवि राशिचक्रं ग्रहस्थितिं तज्जनप्रवृताम्।
तत्तद्ग्रहर्क्षात्क्रमोऽष्टवर्गं प्रोक्तं करोत्यक्षविधानमत्र।।2।।

पुत्रीवसहिधनिकेऽर्ककुजार्कजेभ्यो मुक्तालके सुरगुरोर्भृगुजात्तथाश्रीः।
ज्ञाद्गोममतीधनपरा रविरिष्टदोद्ब्जात्गीतोन्नयेऽप्युदयभाल्लघुतान्नपात्रे।।3।।

गीतासौ जनके रवेः कलितसान्निष्के तुषारद्युतेः
भौमाछ्रीगुणिते धनस्य युगवन्मासाब्दनित्ये बुधात्।
जीवात्कौरवसज्जनस्य भृगुजाद्गूढात्मसिद्धाज्ञया
मन्दाद्बाणचये तनीर्गतिनये चन्द्रः शुभो गोचरे।।4।।

तीक्ष्णांशोगणितानके शिशिरगोर्लाक्षाय भूमेः सुतात्
पुत्रीवासजनाय चन्द्रतनयाद्गोमेतके गीष्पतेः।
तन्नाकारि सितात्तदा कुरुशनेः कोवासदाधेनुको
लग्नात्स्वात्कलितं नयेत् क्षितिसुतः क्षेमप्रदो गोचरे।।5।।

सौम्याद्योगशतं धनैः कुरुरवेर्मेषाधिकश्रीर्गुरोः
तेजो यत्र यमारयोः पुरवसन्दिग्धे नये भार्गवात्।
पुत्रो गर्भमहान्धके परभृतां दानाय लग्नात्सुधा-
मूर्तेः प्रावृषि जानकी शशिसुतस्त्वत्र स्थितश्चेच्छुभः।।6।।

मार्तण्डात्करलाभसज्जधनिके चन्द्राद्रुमेसालिके
भौमात्किं प्रभुसूदनाय कुरवः शिक्षाधनाढ्ये बुधात्।
पुत्री गर्भसदानके सुरगुरोः स्वल्लक्ष्मिचन्द्रे शनेः
श्रीमन्तो धनिकाः सितात्करिविशेषे सिद्धिनित्यं तनोः।।7।।

जात्यां श्रीस्तु रवेर्विधोः पुरगवामन्दोलिपुत्रे तनोः
पौरे लाभमदालिके कुरुलवं मोहे धनेढ्ये भृगोः।
लोभस्तालिपरे कुजाद्रविसुताद्गर्भं महाब्धौ नये
ज्ञाल्लक्ष्मीचुलके गुरोर्मदधताढ्योऽसौ भृगुः सौख्यदः।।8।।

रवेर्यात्रावीथीजनय शशिनो लक्षय शने:
गुणेस्तुत्यो भौमाद्गणितानिकरोसौ शुभकरः।
शताकारे जीवात्तदधनपरे ज्ञादुदयभात्
कलाभूतानम्ने भृगुज चयखे सूर्यतनयः।।9।।

इति निगदितमिष्टं नेष्टमन्यद्विशेषादधिकफलविपाकं जन्मिनां तत्र इद्युः।
उपचयगृहमित्रस्वोच्चगैः पुष्टमिष्टं त्वपचयगृहनीचारातिगैर्नेष्टसम्पत्।।10।।

कृत्वाष्टवर्गं द्युसदां क्रियादिष्वक्षैर्विहीने मृतिरेकबिन्दोः।
नाशो व्ययो भीतिभयार्थनारीश्रीराज्यसिद्धिः क्रमशः फलानि।।11।।

तत्तद्ग्रहाधिष्ठितसर्वराशींस्तत्संज्ञितं लग्नमिति प्रकल्प्य।
तेभ्यः फलान्यष्टविधान्यभूवंस्तत्तदृहाद्भाववशाद्वदन्तु।।12।।

तत्तद्ग्रहर्क्षांशकतुल्यभांशस्थिता ग्रहाश्चारवशादिदानीम्।
तथैव तद्भावसमुत्थितानि फलानि कुर्वन्ति शुभाशुभानि।।13।।

कृतेऽष्टवर्गे सति कारकर्क्षाद्यद्भावमुक्ताङ्कमुपैति खेटः।
तद्भावपुष्टिं सशुभोऽशुभो वा करोत्यनुक्ते विपरीतमेव।।14।।

एकत्र भावे बहवो यादानीमुक्ताङ्कगाश्चारवशाद्व्रजन्ति।
पुष्णन्ति तद्भावफलानि सम्यक्तत्कारकात्तत्तनुपूर्वभावे।।15।।

बिन्दौ स्थिते तत्फलसिद्धिकालविनिर्णयाय प्रतितेऽष्टवर्गे।
भान्यष्टधा तत्र विभज्य कक्षा क्रमेण तेषां फलमाहुरन्ये।।।16।।

आलिख्यं चक्रं नव पूर्वरेखाः याम्योत्तरस्था दश च त्रिरेखाः।
प्रस्तारकं षण्णवतिप्रकोष्ठं पङ्क्त्यष्टकं चाष्टकवर्गजं स्यात्।।17।।

होराशशीबोधनशुक्रसूर्यभौमामरेन्द्रार्चितभानुपुत्राः।
याम्यादिपङ्क्त्यष्टकराशिनाथाः क्रमेण तद्विन्दुफलप्रदाः स्युः।।18।।

राश्यष्टभागप्रथमांशकाले शनिर्द्विनतीये तु गुरुः फलाय।
कक्षाक्रमेणैवमिहान्त्यभागकाले विलग्नं फलदं प्रदिष्टम्।।19।।

सर्वग्रहाणां प्रहितेऽष्टवर्गे तत्कालराशिस्थितिबिन्दुयोगे।
अष्टाक्षसंख्याधिकबिन्दवश्चेत् शुभं तदूने व्यसनं क्रमेण।।20।।

यावन्तस्तुहिनरुचेः शुभाङ्कसंस्था यावन्तः शुभभवने हिमद्युतेर्वा।
इत्थं तद्वििदितमिहाधिके च तेभ्यः स्वस्त्यूने विपदिति सूचितं परेषाम्।।21।।

कर्तुः स्वजन्मसमयावसथग्रहाणां कृत्वाष्टवर्गकथिताक्षविधानमत्र।
बह्वक्षयोगवशतः शुभराशिमासभावग्रहस्थितिषु कर्मशुभं विदध्यात्।।22।।

पापोऽपि स्वगृहस्थश्चेद्भावृद्धिंु करोत्यलम्।
नीचारातिगृहस्थश्चेत्कुर्याद्भावक्षयं धुवम्।।23।।

स्वोच्चस्थोऽपि शुभो भावहानिं दुःस्थानपो यदि।
सुस्थानपश्चेत् स्वोच्चस्थः पापी भावानुकूल्यकृत्।।24।।

इति मन्त्रेश्वरविचरितायां फलदीपिकायां अष्टकवर्गो नाम त्रयोविंशोऽध्यायः।।23।।