दस्त्रादितः पादवशेन मेषान्मीनांशकान्तं क्रमशोऽपसव्यम्।
कीटाद्वयान्तं गणयेच्च सव्यमार्गेण पादक्रमशोऽजतारात्।।1।।
एवं भूयाच्चापसव्यं च सव्यं भानि त्रीणि त्रीणि विद्यात्क्रमेण।
तद्राशीशप्रोक्तवर्षैर्दशास्य स्यादेवं प्राहुः कालचक्रे महान्तः।।2।।
मनुः परः सनिर्धनिर्नृपस्तपो वने क्रमात्।
दिवाकरादिवत्सराः शुभाशुभाप्तिहेतवः।।3।।
दशापहारादिककालचक्रे वाक्यानि दस्रादिपदादिजानि।
वक्ष्यामि वर्णैर्नवभिर्भमानैराशीशवर्षैः परमायुरत्र।।4।।
पौरं गावो मित सन्दिग्धं नक्षत्रेन्दुः स तु भूशूलम्।
रूपेत्रक्षन्निधयोरङ्गे वाणी चस्थं दधि नक्षत्रम्।।5।।
दासतवेशो गौरीपुत्रं क्षन्निधिकारो गोभूशेषम्।
सौदधिनक्षत्रेहासन्तो भौमगुरुः पुत्राक्षोनाधिः।।6।।
वाक्यान्येतान्यश्वियाम्यक्षयोर्यान्यश्विन्याद्यान्यग्निभस्यापसव्ये।
सव्येऽजेन्द्वार्वक्ष्यमाणेषु वाक्येष्विन्दोर्वाक्यान्येव रौद्रस्य भूयः।।7।।
धेनुः क्षेत्रे पुरगो शम्भुस्तासां जत्रु क्षन्निधि दासी।
चर्माभोगी रायधिनाक्षस्त्री पौराङ्गी शिवतीर्थाब्जे।।8।।
त्रक्षनिधिर्दा सूचीशम्भो गौरयधी नक्षत्रं पारम्।
गोशिवतीर्थे दात्रीक्षन्नो धीहसितांशुर्भोगी रम्या।।9।।
नक्षत्रपादैष्यघटी समुत्था पूर्वा दशा तत्पतिवर्षजाता।
पूर्वोक्तपादक्रमशोऽत्र विद्यात्केषाञ्चिदेवं मतमाहुरार्या।।10।।
दस्रादिपादप्रभृतीनि मानां वाक्यानि यान्यक्षरपंक्तिजानि।
तेषां क्रमेणैव दशा प्रकल्प्या वाक्यक्रमं साध्विति केचिदाहुः।।11।।
वाक्यक्रमे कर्क्यलिमीनसन्धौ मण्डूकगत्यश्वरप्लुतिश्च।
सिंहावलोकस्त्रिविधा तदानीं दशान्तरं दुःखफलप्रदं स्यात्।।12।।
तद्वाक्यवर्णक्रमशोपहारवर्षाहते तत्परमायुराप्ते।
तदा दशायामपहारवर्षसंख्याश्च मासान्दिवसान्वदेयुः।।13।।
वाक्येषु यावच्छरदां प्रमाणं वदन्ति तावत्परमायुरत्र।
मेषादनीकं मदनं गजेन तुन्दः पुनश्चैवमुदीरितं तत्।।14।।
महादशासु यत्फलं प्रकीर्तितं मया पुरा।
तदेव योजयेद्बुधो दशासु चैवमादिषु।।15।।
जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंज्ञा दशा
स्यादाधानदशाऽप्यतोऽष्टमभवा क्षेमान्महाख्या दशा।
आसामेव दशावसानसमये मृत्युप्रदा स्यान्नृणां
स्वल्पानल्पसमायुषां त्रिविधपञ्चर्क्षेशदायान्तिमे।।16।।
एकं द्वे नव विंशतिर्धृतिकृतिः पञ्चाशदेषां क्रमात्
चन्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरीणां समाः।
स्वै: स्वैः पुष्टफला निसर्गजनितैः पंक्तिर्दशाया क्रमा-
दन्ते लग्नदशा शुभेति यवना नेच्छन्ति केचित्तथा।।17।।
लिप्तीकृत्य भेजेद्ग्रहं स्वखजिनैस्तच्छिष्टमायुष्कला
आशाखाश्विहृताब्दमासदिवसाः सत्योदितेंऽशायुषि।
वक्रिण्युच्चगते त्रिसङ्गुणमिदं स्वांशत्रिभागोत्तमे
द्विघ्नं नीचगतेऽर्धमप्यथ दलं मौढ्ये सितार्की विना।।18।।
सर्वार्द्धत्रिकृतेषुषण्मितलवह्रासोऽसतामुत्क्रमा-
द्रिःफात्सत्सु दलं तदा हरति बल्येको बहुष्वेकभे।
त्र्यंशोनं रिपुभे विना क्षितिसुतं सत्योपदेशे दशा
लग्नस्यांशमा बलिन्युदयभेऽस्यात्रापि तुल्यापि च।।19।।
सत्योपदेशो वरमत्र किन्तु कुर्वन्त्ययोग्यं बहुवर्गणाभिः।
आचार्यकं त्वत्र बहुघ्नतायामेके तु यद्भूरि तदेव कार्यम्।।20।।
धेयं शूर शके श्रियं स्मय परे निद्राः समा भास्करात्
पिण्डाख्यायुषि पूर्ववच्च हरणं सर्वं विदध्यादिह।
लग्ने पापिनि भं विनोदयलवैर्निघ्नं नताङ्गैर्हृतं
त्याज्यं सौम्यनिरीक्षितेऽर्धमृणमत्रायुष्यभिज्ञा विदुः।।21।।
लग्न दशामंशसमां बलवत्यंशे वदन्ति पैण्डाख्ये।
बलयुक्तं यदि लग्नं राशिसमैवात्र नांशोत्था।।22।।
हरणं नीचेऽर्द्धमृणां स्यात्पूर्णं प्रोक्तवर्षमुच्चगृहे।
पैण्डादौ द्व्यन्तरगे प्राज्ञैस्त्रैराशिकं चिन्त्यम्।।23।।
पैण्डाख्यमायुर्ब्रुवते प्रधानं मणित्थचाणक्यमयादयश्च।
एतन्न साध्विरत्यवदद्भदन्तो वराहसूर्यस्य तथैव वाक्यम्।।24।।
सूर्यादिकानां स्वमतेन जीवशर्मा स्वरांशं परमायुषोऽत्र।
अस्यापि सर्वं हरणं विधेयं पूर्वोक्तवल्लग्नदशामपीह।।25।।
नॄणां द्वादशवत्सरा दशहता ह्यायुः प्रमाणं परै-
राख्यातं परमं शनेस्त्रिगणं यावत्परैरीरितम्।
कैश्चिच्चन्द्रसहस्रदर्शनमिह प्रोक्तं कलौ किन्तु य-
द्वेदोक्तं शरद शतं हि परमायुर्दायमाचक्ष्महे।।26।।
लग्नादित्येन्दुकानामधिकबलवतः स्याद्दशादौ ततोऽन्या
तत्केन्द्रादिस्थितानामिह बहुषु पुनर्वीर्यतो वीर्यसाम्ये।
बह्वायुर्वर्षदातुः प्रथममिनवशाच्चोदितस्याब्दसाम्ये
वीर्यं किन्त्वत्र सन्धिग्रहविवरहतं भावसन्ध्यन्तराप्तम्।।27।।
अंशोद्भवं लग्नबलात्प्रसाध्यमायुश्च पिण्डोद्भवमर्कवीर्यात्।
नैसर्गिकं चन्द्रबलात्प्रसाध्यं ब्रूमस्त्रयाणामपि वीर्यसाम्ये।।28।।
तेषां त्रयाणामिह संयुतिस्तु त्रिभिर्हृता सैव दशा प्रकल्प्या।
वीर्ये द्वयोरैक्यदलं तयोः स्यात् चेज्जीवशर्मायुरमी बलोनाः।।29।।
कालचक्रदशा ज्ञेया चन्द्रांशेशे बलान्विते।
सदा नक्षत्रमार्गेण दशा बलवती स्मृता।।30।।
समाः षष्टिर्द्वि घ्ना मनुजकरिणां पञ्च च निशा
हयानां द्वात्रिंशत्खरकरमयोः पञ्चककृतिः।
विरूपा साप्यायुर्वृषमहिषयोर्द्वादश शुनां
स्मृतं छागादीनां दशकसहिताः षट् च परमम्।।31।।
ये धर्मकर्मनिरता विजितेन्द्रिया ये
ये पथ्यभोजनजुषो द्विजदेवभक्ताः।
लोके नरा दधति ये कुलशीललीलां
तेषामिदं कथितमायुरुदारधीभिः।।32।।
इति मन्त्रेश्वरविरचितायां फलीपिकायां कालचक्रदशादि नाम द्वाविंशोऽध्यायः।।22।।