अपहारविभागलक्षणं तत्पंक्तिं क्रमशः स्फुटं प्रवच्मि।
यदुदीरितमत्र तत्समस्तं कथयेत्स्वदशान्तरान्तरादौ।।1।।
पाकेशाब्दहता दशेश्वरसमा नेत्राङ्कभक्ताः समाः
शिष्टा रूपहता नराङ्कविहृता मासा नगैर्वासराः।
छिद्रादिष्वपि चैवमेव कलयेत्पाकक्रमाच्चेद्दशा-
नाथाद्या पुनरन्तरान्तरदशास्तत्पाकनाथक्रमाः।।2।।
महीश्वरादुपलभतेऽधिकं यशो वनाचलस्थवसतिं धनागमम्।
ज्वरोष्णरुग्जनकवियोगजं भयं निजां दशां प्रविशति तीक्ष्यणदीधितौ।।3।।
रिपुक्षयोऽव्यसनशो धनागमः कृषिक्रिया गृहकरणं सुहद्युतिः।
क्षयानलप्रतिहतिरर्कदायकं शशी यदा हरति जलोद्भवा रुजः।।4।।
रुजागमः पदविरहोऽरिपीडनं व्रणोद्भवः स्वकुलजनैर्विरोधिता।
महीभृतो भवति भयं धनच्युतिर्यदा कुजो हरति तदाऽर्कवत्सरम्।।5।।
रिपूदयो धनहृतिरापदुद्रमो विषाद्भयं विषयविमूढता पुनः।
शिरोदृशोरधिकरुगेव देहिनामहौ भवेदहिमकरायुरन्तरे।।6।।
रिपुक्षयो विविधध्नाप्तिरन्वहं सुरार्चनं द्विजगुरुबन्धुपूजनम्।
श्रवः श्रमो भवति च यक्ष्मरोगिता सुरार्चिते प्रविशति गोपतेर्दशाम्।।7।।
धनाहतिः सुतविरह: स्त्रिया रुजो गुरुव्ययः सपदि परिच्छदच्युतिः।
मलिष्ठता भवति कफप्रपीडनं शनैश्चरे सवितृदशान्तरं गते।।8।।
विचर्चिका पिटकसकुष्ठकामिला विशर्धनं जठरकटिप्रपीडनम्।
महीक्षयः त्रिगदभयं भवेत्तदा विधोः सुते चरति रवेरथाब्दकम्।।9।।
सुहृद्व्यय: स्वजनकुटुम्बविग्रहो रिपोर्भयं धनहरणं पदच्युतिः।
गुरोर्गदश्चरणशिरोरुगुच्चकैः शिखी यदा विशति दशां विवस्वतः।।10।।
शिरोरुजा जठरगुदातिपीडनं कृषिक्रियागृहधनधान्यविच्युतिः।
सुतस्त्रियोरसुखमतीव देहिनां भृगो सुते चरति रवेरथाब्दकम्।।11।।
स्त्रीप्रजाप्तिमलांशुकागमो भूसरोत्तमसमागमो भवेत्।
मातुरिष्टफलमङ्गनासुखं स्वां दशां विशति शीतदीधितौ।।12।।
पित्तवह्निरुधिरोद्भवा रुजः क्लेशदुःखरिपुचोरपीडनम्।
वित्तमानविहतिर्भवत्कुजे शीतदीधितिदशान्तरं गते।।13।।
तीव्रदोषरिपुवृद्धिबन्धुरुङ्मारुताशनिभयार्तिरुद्भवेत्।
अन्नपानजनितज्वरोदयाश्चन्द्रवत्सरविहारके ह्यहौ।।14।।
दानधर्मनिरतिः सुखोदयो वस्त्रभूषणसुहृत्समागमः।
राजसत्कृतिरतीव जायते कैरवप्रियवयोहरे गुरौ।।15।।
नैकरोगविहतिः सुहृत्सुतस्त्रीरुजा व्यसनसम्भवो महान्।
प्राणहानिरथवा भवेच्छनौ मारबन्धुवयसो गतेऽन्तरम्।।16।।
सर्वदा धनजाश्वगोकुलप्राप्तिराभरणसौख्यसम्पदः।
चित्तबोध इति जायते विधोरायुषि प्रविशति प्रबोधने।।17।।
चित्तहानिरपि सम्पदश्च्युतिर्बन्धुहानिरपि तोयजं भयम्।
दासभृत्यहतिरस्ति देहिनां केतुके हरति चान्द्रमब्दकम्।।18।।
तोययानवसुभूषणाङ्गनाविक्रयक्रयकृषिक्रियादयः।
पुत्रमित्रपशुधान्यसंयुतिश्चन्द्रदायहरणोन्मुखे भृगौ।।19।।
राजमाननमतीव शूरता रोगशान्तिररिपक्षविच्युतिः।
पित्तवातरुगिने गते तदा स्याच्छशाङ्कपरिवत्सरान्तरम्।।20।।
पित्तोष्णरुग्व्रणभयं सहजैर्वियोगः क्षेपवादजनितार्थविभूतिसिद्धिः।
ज्ञात्यग्निशत्रुनृपचोरजनैर्विरोधो धात्रीसुतो हरति चेच्छरदं स्वकीयाम्।।21।।
शास्त्राग्नि चोररिपुभूपभयं विषार्तिः
कुक्ष्यक्षिशीर्षजगदो गुरुबन्धुहानिः।
प्राणव्ययोऽथ यदि वा विपुलापदो वा
वक्रायुरन्तरगते भुजगाधिनाथे।।22।।
द्विजविबुधसमर्चा तीर्थपुण्यानुसेवा
सततमतिथिपूजा पुत्रमित्रादिवृद्धिः।
श्रवणरुगतिमात्रं श्लेष्मरोगोद्भवो वा
भवति कुजदशान्तः सङ्गते वागधीशे।।23।।
उपरि परिविनाशः स्वात्मजस्त्रीगुरूणा-
मगणितविपदन्तर्दुःखमर्थोपहानिः।
वसुहरणमरिभ्यो भीतिरुष्णानिलाग्नि-
र्भवति कुजदशायामर्कजे सम्प्रयाते।।24।।
अरिभयमुरुचोरोपद्रवोऽथार्थहानिः
पशुगजतुरगाणां विप्लवोऽमित्रयोगः।
नृपकृतपरिपीडा शूद्रवैरोद्भवो वा
विशति शशितनूजे विश्वधात्रीसुतायुः।।25।।
अशनिर्भयमकस्मादग्निशस्त्रप्रपीडा
विगमनमथ देशाद्वित्तनाशोऽथवा स्यात्।
अपगमनमसुभ्यो योषितो वा विनाशः
प्रविशति यदि केतु: क्रूरनेत्रायुरन्तम्।।26।।
युधि जनितविमानं विप्रवासः स्वदेशाद्वसुहृतिरपि चोरैर्वामनेत्रोपरोधः।
परिजनपरिहानिर्जायते मानवानामपहरति यदायुर्भौमिजं भार्गवेन्द्रः।।27।।
नृपकृतपरिपूजा युद्धलब्धप्रभावः परिजनधनधान्यश्रीमदनन्तःपुरं च।
अतिविलसितवृत्तिः साहसादाप्तलक्ष्मीस्तिमिरभिदि कुजायुर्दायसंहारिणीति।।28।।
विविधधनसुताप्तिर्विप्रयोगोऽरिवर्गैर्वसनशयनभूषारत्नसम्पत्प्रसूतिः।
भवति गुरुजनातिर्गुल्मपित्तप्रपीडाधरणितनयवर्षं शीतगौ सम्प्रयाते।।29।।
विषाम्बुरुग्दुष्टभुजङ्गदर्शनं पराबलासंयुतिरिष्टविच्युतिः।
अरिष्टवाग्दुष्टजनव्यथा भवेद्विधुन्तुदेनापहृते स्ववत्सरे।।30।।
सुखोपनीतिः सुरविप्रपूजनं विरोगता वामदृशां समागमः।
सुपुण्यशास्त्रार्थविचारसम्भवः सुरारिदायान्तरगे बृहस्पतौ।।31।।
समीरपित्तप्रगद: क्षतिस्तनौ तनूजयोषित्सहजैश्च विग्रहः।
स्वभृत्यनाशश्च पदच्युतिभवेद्दिितिप्रजायुः प्रविशत्यथार्कजे।।32।।
सुतस्वसिद्धिः सुहृदां समागमो मनोविनिन्द्यत्वमतीव जायते।
पटुक्रियाभूषणकौशलादयो भुजङ्गसंवत्सरहारिणीन्दुजे।।33।।
ज्वराग्निशस्त्रारिभयं शिरोरुजा शरीरकम्पः स्वसुहृद्गुरुव्यथा।
विषव्रणार्तिः कलहः सुहृज्जनै रहीन्द्रदायान्तरगे शिखाधरे।।34।।
कलत्रलब्धिः शयनोपचारता तुरङ्गमातङ्गमहीसमागमः।
कफानिलाप्तिः स्वजनैर्विरोधिता भवेद्भुजङ्गायुरपाहृतौ भृगोः।।35।।
अरिव्यथा स्यादतिपीडनं दृशोर्विषाग्निशस्त्राहतिरापदुद्गमः।
वधूसुतार्तिर्नृपतेर्महद्भयं भुजङ्गवर्षे तिमिरारिणा हृते।।36।।
वधूविनाशः कलहो मनोरुजा कृषिक्रिया वित्तपशुप्रजाक्षयः।
सुहृद्विपत्तिः सलिलाद्भयं भवेद्विधौ दशाभक्तिरि देवविद्विषः।।37।।
नृपाग्निचोरास्त्र भयं शरीरिणां शरीरनाशो यदि वा महारुजः।
पदभ्रमो हृन्नयनप्रपीडनं यदात्र सर्पायुषि सञ्चरेत्कुजः।।38।।
सौभाग्यकान्तिबहुमानगुणोदयः स्यात्सत्पुत्रसिद्धिरवनीपतिपूजनं च।
आचार्यसाधुजनसंयुतिरिष्टसिद्धिः संवत्सरं हरति देवगुरौ स्वकीयम्।।39।।
वेश्याङ्गनामदकृदासवदोषसङ्ग उत्कर्षसौख्यसकुटुम्बपशुप्रपीडा।
अर्थव्ययोरुभयमक्षिजरुक्सुतार्तिर्जैवीं दशां विशति दैनकरे नराणाम्।।40।।
स्त्रीद्यूतमद्यजमहाव्यसनं त्रिदोषैः केचिद्वदन्त्यपि च केवलमङ्गलाप्तिः।
देवद्विजार्चनसुतार्थसुखप्रयोगैर्गीर्वाणपूजितदशां हरतीन्दुसूनौ।।41।।
शस्त्रव्रणं भवति भृत्यजनैर्विरोधश्चित्तव्यथ तनययोषिदुपद्रवश्च।
प्राणच्युतिर्गुरुसुहृज्जनविप्रयोगः सौरेज्यमायुरपहृत्य ददाति केतुः।।42।।
नानाविधार्थपशुधान्यपरिच्छस्त्रीपुत्रान्नपानशयनाम्बरभूषणाप्तिः।
देवद्विजार्चनमुपासनतत्परत्वमायुर्या हरति जैवमथासुरेज्य:।।43।।
शत्रोर्जयः क्षितिपमाननकीर्तिलाभः स्याच्चण्डता नरतुरङ्गमवाहनाप्ति:।
श्रेण्यग्रहारपुरराष्ट्र समस्तसम्पदुच्चैरुचथ्यसहजायुरपाह्रतेऽर्के।।44।।
योषिद्बहुत्वमनिनाशनमर्थलाभः कृष्यर्थवस्तुपरमोन्नतकीर्तिलाभः।
देवद्विजार्चनपरत्वमतीव पुंसां सञ्जायते गुरुदशाहृति शर्वरीशे।।45।।
बन्धूपतोषणमरिव्रजतोऽर्थलाभः सुक्षेत्रसत्कृतिरिह प्रथितप्रभावः।
ईषद्गुरूपहतिरीक्षणसुक्षतिर्वा क्षित्यात्मजे हरति वत्सरमार्यजातम्।।46।।
बन्धूपतप्तिरुरुमानसरुग्गदार्तिश्चोराद्भयं गुरुगदो जठरोद्भवा वा।
राजेन्द्रपीडनमरिव्यसनं स्वनाशः सम्पद्यते हरति सूरिदशं सुरारौ।।47।।
कृषिवृद्धिभृत्यमहिषाभ्युदयः पवनामयो वृषलजातिधनम्।
स्थविराङ्गनाप्तिरलसत्वमघो निजवत्सरान्तरगते रविजे।।48।।
सुभगत्वमस्ति सुखिता वनिता नृपलालनं विजयमित्रयुतिः।
त्रिगदोद्भवः सहजपुत्ररुजा शनिदायहारिणि शशाङ्कसुते।।49।।
मरुदग्निपीडनमरिव्यसनं सुतदारविग्रहमतिः सततम्।
अशुभावलोकनमहेश्च भयं मृदुवत्सरं हरति केतुपतौ।।50।।
सुहृदङ्गनातनयसौख्ययुतः कृषितोययानजनितार्थचयः।
शुभकीर्तिरुद्भवति देहभृतां यमदायहारिणि भृगोस्तनये।।51।।
मरणं तु वा रिपुभयं सततं गुरुवर्गरुग्जठरनेत्ररुजा।
धनधान्यविच्युतिरिह प्रभवेद्रविजयायुराविशति तीव्रकरे।।52।।
वनिताहतिर्मरणमेव नृणां सुहृदां विपत्तिरथ रोगभयम्।
जलवातजं भयमतीव भवेद्रविजायुराविशति रात्रिकरे।।53।।
स्वपदच्युतिः स्वजनविग्रहरुग्ज्वरवह्निशस्त्रविषभीरथवा।
अरिवृद्धिरान्तररुगक्षिभयं रविजायुराविशति भूमिसुते।।54।।
अपमार्गयानमसुभिर्विरहस्त्वथवा प्रमेहगुरुगुल्मभयम्।
ज्वररुक्क्षतिः सततमेव नृणामसितान्तरं विशति भोगिपतौ।।55।।
देवार्चनद्विजगणाभिरुचिर्गृहपुत्रदारविहृतिस्तु भवेत्।
धनधान्यवृद्धिरधिका हि नृणां गतवत्यथार्किवयसीन्द्रगुरौ।।56।।
धर्ममार्गनिरतिर्विपश्चितां सङ्गमो विमलधीर्धनं द्विजात्।
विद्यया बहुयशः सुखं सदा चन्द्रजे हरति वत्सरं स्वकम्।।57।।
दुःखशोककलहाकुलात्मना गात्रकम्पनममित्रसंयुतिः।
क्षेत्रयानवियुतिर्यदा भवेत्सोमसूनुशरदं गतः शिखी।।58।।
देवविप्रगुरुपूजनक्रिया दानधर्मपरता समागमः।
वस्त्रभूषणसुहृद्युतिर्भवेद्बोधनायुषि समागते सिते।।59।।
हेमविद्रुमतुरङ्गवारणप्रावृतं भवनमन्नपानयुक्।
भूतेरपि च पूजनं भवेद्भानुमालिनि बुधाब्दकं गते।।60।।
मस्तकव्यसनमक्षिपीडनं कुष्ठदद्रुबहुकण्ठपीडनम्।
प्राणसंशययुतिर्नृणां भवेज्ज्ञायुषं व्रजति शीतदीधितौ।।61।।
अग्निभीतिरपि नेत्रजा रुजा चोरजं भयमतीव दुःखिता।
स्थानहानिरथ वातरोगिता ज्ञायुषं हरति मेदिनीसुते।।62।।
मानहानिरथवाश्रयच्युतिः स्वक्षयोऽग्निविषतोयजं भयम्।
मस्तकाक्षिजठरप्रपीडनं शीतरश्मिजदशां गतेऽसुरे।।63।।
व्याधिशत्रुभयविच्युतिर्भवेद्ब्रह्मसिद्धिरवनीशसत्कृतिः।
धर्मसिद्धिपतसां समुद्गमो देवमन्त्रिणि विदो दशां गते।।64।।
अर्थधर्मपरिलुप्तिरुच्चकैः सर्वकार्यविफलत्वमङ्गिनाम्।
श्लेष्मवातजनिता रुगुद्भवेद्बोधनायुषि समागतेऽसिते।।65।।
रिपुजनकलहं सुहृद्विरोधं त्वशुभवचः श्रवणं ज्वराङ्गदाहम्।
गमनपरधाम्नि वित्तनाशं शिखिनि लभेत दशां गते स्वकीयाम्।।66।।
द्विजवरकलहः स्त्रिया विरोधः स्वकुलजनैरपि कन्यकाप्रसूतिः।।
परिभवजननं परोपतापो भवति सिते शिखिवत्सरान्तराले।।67।।
गुरुजनमरणं ज्वरावतारः स्वजनविरोधविदेशयानलाभः।
नृपकृतकलहः कफानिलार्तिर्विशति रवौ शिखिवत्सरान्तरालम्।।68।।
सुलभबहुधनं तथैव हानिः सुतविरहो बहुदुःखभाक्प्रसूतिः।
परिजनयुवतिप्रजाप्रलाभः शशिनि यदा शिखिदायमभ्युपेते।।69।।
स्वकुलजकलहं स्वबन्धुनाशं भयमपि पन्नगजं वदन्ति चोरात्।
हुतवहभयशत्रुपीडनं च व्रजति कुजे ध्वजनामखेचरायुः।।70।।
अरिकृतकलहं नृपाग्निचोरेर्भयमपि पन्नगजं वदन्ति तज्ज्ञा:।
खलजनवचनं दुरिष्टचेष्टा तमसि गतेऽत्र शिखीन्द्रदायमाहुः।।71।।
सुतवरजननं सुरेन्द्रपूजा धरणिधनाप्तिरुपायनार्थसिद्धिः।
धनचयजननं महीशमानो भवति गतेऽत्र गुरौ शिखीन्द्रदायम्।।72।।
परिजनविहतिं परोपतापं रिपुजनविग्रहमङ्गभङ्गतां च।
धनपदवियुतिं तथाहुरार्या गतवति सूर्यसुते शिखाधरायुः।।73।।
सुतवरजननं प्रभुप्रशस्तिः क्षितिधनसिद्धिररीश्वरप्रपीडा।
पशुकृषिविहतिर्भवेत्तु पुंसां विशति बुधे शिखिवत्सरान्तरालम्।।74।।
वसनभूषणवाहनचन्दनाद्यनुभवः प्रमदासुखसम्पदः।
द्युतियुतिः क्षितिपाद्धनलब्धयो भृगुसुते स्वदशां प्रविशत्यद्यि ।।75।।
नयनकुक्षिकपोलगदोद्भवः क्षितिभृतो भयमस्ति शरीरिणाम्।
गुरुकुलोद्भवबान्धवपीडनं भृगुसुतायुषि भानुमति स्थिते।।76।।
नखशिरोरदनक्षतिरुच्चकैः पवनपित्तरुगर्थविनाशनम्।
ग्रहणिगुल्मकयक्ष्मकपीडनं सितवयोहृति तत्र हिमत्विषि।।77।।
रुधिरपित्तगदार्तिसमाश्रयः कनकताम्रचयावनिसंग्रहः।
युवतिदूषणमुद्यमविच्युतिर्वृषभवल्लभवत्सरगे कुजे।।78।।
निधिभवः सुतलब्धिरभीष्टवाक् स्वजनपूजनमप्यरिबन्धनम्।
दहनचोरविषोद्भवपीडनं तुलधरेश्वरवत्सरगेऽसुरे।।79।।
विविधधर्नसुरेशनमस्क्रिया भवति चात्मजवामदृगागमः।
विविधराज्यसुखं च शरीरिणां कविदशाहृति कार्मुकनायके।।80।।
नगरयोधनृपोद्भवपूजनं प्रवरयोषिदवाप्तिरथास्ति वा।
विविधवित्तपरिच्छदसंयुतिर्दितिपूजितदायगते शनौ।।81।।
तनयसौख्यसमागमसम्पदां निचयलब्धिरतिप्रभुता यशः।
पवनपित्तकफार्तिररिच्युतिर्दनुजमन्त्रिदशाहृति चन्द्रजे।।82।।
सुतसुखादिबहिः स्थितिरग्निजं भयमतीव विनाशनमङ्गरुक्।
अपि च वारवधूजनसंयुतिः शिखिनि यात्यलमौशनसीं दशाम्।।83।।
दशापहारेषु फलं यदुक्तं वर्णाधिकारानुगुणं वदन्तु।
छिद्रेषु सूक्ष्मेश्वपि तत्फलाप्तिः छायाङ्कवार्ताश्रवणानि वा स्युः।।84।।
इति श्रीमन्त्रेश्वरविरचितायां फलदीपकायां भुक्त्यन्तरान्तरलक्षणं नामैकविंशोऽध्यायः।।21।।