भावेश्वरेण प्रबलेन येन यद्यत्फलं हीनबले येन।
यदानुभोक्तव्यमनन्यसम्यक्संसूचयिष्यत्यथ संग्रहेण।।1।।
लग्ने बलिष्ठे जगति प्रभुत्वं सुखस्थितिं देहबलं सुवर्चः।
उपर्युपर्यभ्युदयाभिवृद्धिं प्राप्नोति बालेन्दुवदेष जातः।।2।।
पाकेऽर्थनाथस्य कुटुम्बसिद्धिं सत्पुत्रिकाप्तिं सुखभोजनं च।
प्राप्नोति वाग्जीविकया धनानि वक्ता सदुक्तिं सदसि प्रशस्ताम्।।3।।
शौर्ये सवीर्ये सहजानुकूल्यं सन्तोषवार्ताश्रवणं च शौर्यम्।
सेनापतित्वं लभतेऽभिमानं जनाश्रयं सद्गुणभाजनत्वम्।।4।।
बन्धूपकारं कृषिकर्मसिद्धिं स्त्रीसङ्गमं वाहनलाभमेति।
क्षेत्रं गृहं नूतनमर्थसिद्धिं स्थानप्रशस्तं च सुखेशदाये।।5।।
पुत्रप्राप्तिं बन्धुविलासं नृपतीनां
चिव्यं वा धीशदशायां बहुमानम्।
प्राज्यैर्भोज्यैर्मृष्टमिहाश्नाति ददाति
श्रेयस्कार्यं सज्जनशस्तं स विदध्यात्।।6।।
रिपून्निहन्ति साहसैररीश्वरस्य वत्सरे।
अरोगतामुदारतामधृत्यतामतिश्रियम्।।7।।
सम्पाद्य वस्त्राभरणानि शय्यां प्रीतो रमण्या रमतेऽतिवीर्यः।
करोति कल्याणमहोत्सवादीन् सन्तोषयात्रां च मदेशदाये।।8।।
ऋणविमोचनमुच्छ्रितिमात्मन: कलहकृत्यनिवृत्तिमुपैति सः।
महिषपश्वजभृत्यजनागमं वयसि रन्ध्रपतेर्बलशालिनः।।9।।
स्त्रीपुत्रपौत्रैः सहबन्धुवर्गैर्भाग्यं श्रियं चानुभवत्यजस्रम्।
श्रेयांसि कार्याण्यवनीशपूजां भाग्येशदाये द्विजदेवभक्तिम्।।10।।
यत्कार्यमारब्धमुपैत्यनेन तस्यैव सिद्धिं सुखजीवनं च।
कीर्तिं प्रतिष्ठां कुशलप्रवृत्तिं मानोन्नतिं कर्मपतेर्दशायाम्।।11।।
ऐश्वर्यमव्याहतमिष्टबन्धुसमागमं भृत्यजनांश्च दासान्।
संसारसौभाग्यमहोदयं च लभेत लाभाधिपतेर्दशायाम्।।12।।
व्ययेशितुर्वयस्यतिव्ययं करोति सज्जने।
अघौघनाशिनीं शुभक्रियां महीशमान्यताम्।।13।।
वक्रगस्य निजतुङ्गसुहृत्सुस्थानगस्य दशाफलमेवम्।
शत्रुनीचगृहमौढ्यषडन्त्यच्छि्द्रगस्य तु फलान्यपि वक्ष्ये।।14।।
दुःस्थे लग्नपतौ निरोधनमुपैत्यज्ञातवासं भयं
व्याध्याधीनपरक्रियाभिगमनं स्थानच्युतिं चापदम्।
जाड्यं संसदि वाक्कुटुम्बचलनं दुष्पत्रिकां दृग्रुजं
वाग्दोषं द्रविणव्ययं नृपभयं दुःस्थे द्वितीयाधिपे।।15।।
दुश्चिक्याधिपतौ सहोदरमृतिं कार्ये दुरालोचना-
मन्तः शत्रुनिपीडनं परिभवं तद्गर्वभङ्गं वदेत्।
मातृक्लेशमरिष्टमिष्टसुहृदां क्षेत्रगृहोपप्लुतिं
पश्वश्वादिविनाशनं जलभयं पातालनाथेऽबले।।16।।
वीर्योने प्रतिभापतौ सुतमृतिर्बुद्धिभ्रमं वञ्चना-
मध्वानं ह्युदरामयं नरपतेः कोपं स्वशक्तिक्षयम्।
चोराद्भीतिमनर्थतां च दमनं रोगान् बहून्दुष्कृतिं
भृत्यत्वं लभतेऽवमानमयशः षष्ठेशदाये व्रणम्।।17।।
जामातुर्य्मसनं कलत्रविरहं स्त्रीहेत्वनर्थागमं
द्यूनेशे विबलिन्यसत्यभिरतिं गुह्यामयं चाटनम्।
रन्ध्रेशायुषि शोकमोहमदमात्सूर्यादिमूर्च्छोच्छ्रितिं
दारिद्रयं भ्रमणं वदेदपयशोव्याधीनवज्ञां मृतिम्।।18।।
पूर्वोपासितदेवकोपमशुभं जायातनूजापदं
दौष्कृत्यं स्वगुरोः पितुश्च निधनं दैन्यं शुभे दुर्बले।
यद्यत्कर्म करोति तत्तदफलं स्यान्मानभङ्गो नभो-
भावे दुर्गुणतां प्रवासमशुभं दुर्वृत्तिमापन्नताम्।।19।।
श्रवणमशुभवाचां भ्रातृकष्टं सुतार्तिं
भवपवयसि दैन्यं वञ्चनं कर्णरोगम्।
बहुरुजमपमानं बन्धनं सर्वसम्पत्-
क्षयमपरशशीवाऽऽयाति रिःफेशदाये।।20।।
संज्ञायां यदगाच्च कारकविधिश्लोकेषु यज्जल्पितम्
कर्माजीवनिरूपितं फलमिदं यद्रोगचिन्ताविधौ।
यद्यस्येक्षणयोगसम्भवफलं भावेशयोगोद्भवं
भावेशैरपि भावगैरपि फलं वाच्यं दशायामिह।।21।।
वर्गोत्तमांशस्थदशा शुभप्रदा मिश्रैव सा चास्तमिते च नीचगे।
मृत्युव्ययारीशदशापहारयोस्तत्र स्थितस्याप्यशुभं फलं भवेत्।।22।।
क्रूरग्रहस्यैव दशापहारे त्रिपञ्चसप्तर्क्षपतेर्विपाके।
तथैव जन्माष्टमनाथभुक्तौ चोरारिपीडां लभतेऽतिदुःखम्।।23।
शनेश्चतुर्थी च गुरोस्तु षष्ठी दशा कुजाह्योर्यदि पञ्चमी सा।
कष्टा भवेद्राश्यवसानभागस्थितस्य दुस्थापतेस्तथैव।।24।।
ऊर्ध्वा स्यतुङ्गभवनस्थितभूमिजस्य
कर्मायगस्य हि दश विदधाति राज्यम्।
जित्वा रिपून्विपुलवाहनसैन्ययुक्तां
राज्यश्रियं वितनुतेऽधिकमन्नदानम्।।25।।
स्वोच्चस्थितो भृगुसुतो व्ययकर्मगो वा
लाभेऽपि वाऽस्तरहितो न च पापयुक्त।
तस्याब्दपाकसमये बहुरत्नपूर्णो
धीमान्विशालविभवो जयति प्रशस्तः।।26।।
नीचारिषष्ठव्ययसंश्रिता हि शुभाः प्रयच्छन्त्यशुभानि सर्वे।
शुभेतरास्त्वेषु गताः प्रयच्छन्त्यमोघदुःखानि दशासु तेषाम्।।27।।
दशेशशत्रोररिगेहभाजो लग्नेशशत्रोरपि वाऽथ भुक्तौ।
शत्रोर्भयं स्थानभयं तदास्य स्थिग्धोऽपि शत्रुत्वमुपैति नूनम्।।28।।
यद्भावगः पाकपतिर्दशेशात्तद्भवजातानि फलानि कुर्यात्।
विपक्षरिःफाष्टमभावगश्चेद्दुःखं विदध्यादितरत्र सौख्यम्।।29।।
स्वोच्चत्रिकोणस्वहितारिनीचे पूर्णं त्रिपादार्द्धपदाल्पशून्यम्।
क्रमाच्छुभं चेदशुभं विलोमात् मूढे ग्रहे नीचसमं फलं स्यात्।।30।।
मन्दमान्द्यगुखरेशरन्ध्रपास्तन्नवांशपतयोऽपि ये ग्रहाः।
तेषु दुर्बलदशा मृतिप्रदा कष्टभे चरति सूर्यनन्दने।।31।।
मृतीशनाथस्थितभांशकेशयोः खरत्रिभागेश्वरयोर्बलीयसः।
दशागमे मृत्युपयुक्तभांशकत्रिकोणगे देवगुरौ तनुक्षयः।।32।।
चुष्टयस्था गुरुजन्मलग्नपा भवन्ति मध्ये वयसः सुखप्रदाः।
क्रमेण पृष्ठोभयमस्तकोदयस्थितोऽन्त्यमध्यप्रथमेषु पाकदा:।।33।।
यद्भावगो गोचरतो विलग्नाद्दशेश्वरः स्वोच्चसुहृद्गृहस्थः।
तद्भावपुष्टिं कुरुते तदानीं बलान्वितश्चेज्जननेऽपि तस्य।।34।।
बलोनितो जन्मनि पाकनाथो मौढ्यं स्वनीचं रिपुमन्दिरं वा।
प्राप्तश्च यद्भावमुपैति चारात्तद्भावनाशं कुरुते तदानीम्।।35।।
दशेशस्य तुङ्गे सुहृद्भे दशेशात् त्रिषट्कर्मलाभत्रिकोणास्तभेषु।
यदा चारगत्या समायाति चन्द्रः शुभं संविधत्तेऽन्यथा चेदरिष्टम्।।36।।
पाकप्रभुर्गोचरतः स्वनीचं मौढ्यं यदायाति विपक्षभं वा।
कष्टं विदध्यात्स्वगृहं स्वतुङ्गं वक्रं गतः सौख्यफलं तदानीम्।।37।।
पाकेशस्य शुभप्रदस्य भवनं तुङ्गं प्रपन्ने यदा
सूर्ये तत्फलसिद्धिमेति गुरुणाऽप्येवं फलं चिन्तयेत्।
नीचं कष्टफलप्रदस्य च दशानाथस्य वैरिस्थलं
प्राप्ते भास्वति गोचरेण लभते तस्यैव कष्टं फलम्।।38।।
येन ग्रहेण सहितो भुजगाधिनाथ-
स्तत्खेटजातगुणदोषफलानि कुर्यात्।
सर्पान्वितः स तु खगः शुभदोऽपि कष्टं
दुःखं दशान्त्यसमये कुरुते विशेषात्।।39।।
द्वावर्थकामाविह मारकाख्यौ तदीश्वरस्तत्र गतो बलाढ्यः।
हन्ति स्वपाके निधनेश्वरो वा व्ययेश्वरो वाऽप्यति दुर्बलश्चेत्।।40।।
केन्द्रेशस्य सतोऽसतोऽशुभशुभौ कुर्याद्दशा कोणपाः
सर्वे शोभदास्त्रिवैरिभवपा यद्यप्यनर्थप्रदाः।
रन्ध्रेशोऽपि विलग्नपो यदि शुभं कुर्याद्रविर्वा शशी
यद्येवं शुभदः पराशरमतं तत्तद्दशायां फलम्।।41।।
कोणाधीशः केन्द्रगः केन्द्रपो वा कोणस्थश्चेद्द्वौ च योगप्रदौ स्तः।
द्वावप्येतौ भक्तिकाले दशायामन्योन्यं तौ योगदौ सोपकारौ।।42।।
न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु।
शुभाशुभफलं नृणामात्मभावानुरूपतः।।43।।
आत्मसम्बन्धिनो ये च ये ये निजसधर्मिणः।
तेषामन्तर्दशास्वेव दिशन्ति स्वदशाफलम्।।44।।
केन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम्।
सम्बन्धमात्राद्बलिनौ भवेतां योगकारकौ।।45।।
त्रिकोणाधिपयोर्मध्ये सम्बन्धो येन केनचित्।
केन्द्रनाथस्य बलिनो भवेद्यदि स योगकृत्।।46।।
केन्द्रत्रिकोणाधिपयोरैक्ये तौ योगकारकौ।
अन्यत्रिकोणपतिना सम्बन्धो यदि किं पुनः।।47।।
योगकारकसम्बन्धात्पापिनोऽपि ग्रहाः स्वतः।
तत्तद्भुक्त्यानुसारेण दिशेयुर्यौगिकं फलम्।।48।।
स्वदशायां त्रिकोणेशो भुक्तौ केन्द्रपतेः शुभम्।
दिशेत्सोऽपि तथा नो चेदसम्बन्धेऽपि पापकृत्।।49।।
केन्द्राधिपत्यदोषस्तु बलवान् गुरुशुक्रयोः।
मारकत्वेऽपि च तयोर्मारकस्थानसंस्थिति:।।50।।
बुधस्तदनु चन्द्रोऽपि भवेत्तदनु तद्विधः।
पापाश्चेत्केन्द्रपतयः शुभदाश्चोत्तरोत्तरम्।।51।।
यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ।
नाथेनान्यतरस्यैव सम्बधाद्योगकारकौ।।52।।
तमोग्रहौ शुभारूढोऽसम्बन्धौ येन केनचित्।
अन्तर्दशानुरूपेण भवेतां योगकारकौ।।53।।
आरम्भो राजयोगस्य भवेन्मारकभुक्तिषु।
प्रथयन्ति तमारभ्यं क्रमशः पापभुक्तयः।।54।।
रन्ध्रस्थरन्ध्रेक्षकरन्ध्रनाथरन्ध्रत्रिभागाधिपमान्दि भेशाः।
दुःखप्रदास्तेष्वपि दुर्बलो यः स नाशकारी स्वदशापहारे।55।।
भ्रष्ठस्य तुङ्गादवरोहिसंज्ञा मध्या भवेत्सा सुहृदुच्चभागे।
आरोहिणी निम्नपरिच्युतस्य नीचारिभांशेष्वधमा भवेत्सा।।56।।
शस्तगृहे शस्तांशे नीचे रिपुभेऽस्तसंस्थिते वापि।
तस्य दशा मिश्रफला दशापरार्धे फलप्रदा ज्ञेया।।57।।
तत्तद्भावाद्व्ययस्थस्थ तद्भावव्ययपस्य च।
वीर्यहीनस्य खेटस्य पाके मृत्युमवाप्नुयात्।।58।।
दशापतिर्लग्नगतो यदि स्यात् त्रिषट्दशैकाशगश्च लग्नात्।
तत्सप्तवर्गेऽप्यथ तत्सुहृद्वा लग्ने शुभो वा शुभदा दशा स्यात्।।59।।
यावन्ति वर्षाणि दशा च सा स्यात् चारक्रमात्तत्र दशापतिः सः।
यत्र स्थितस्तद्भवनाद्विधोस्तु स्थितेः प्रकल्प्यं सदसत्फलं हि।।60।।
दशाधिनाथस्य सुहृद्गृहस्थस्तदुच्चगो वाऽथ दशाधिनाथात्।
स्मरत्रिकोणोपचयोपगश्च ददाति चन्द्रः खलु सत्फलानि।।61।।
उक्तेषु राशिषु गतस्य विधो: स राशिः
स्याज्जन्मकालभवमूर्तिधनादिभावः।
तत्तद्विृद्धिकृदसौ कथितो नराणां
तद्भावहानिकृदथेतरराशिसंस्थः।।62।।
सारावलीमुडुदशां च वराहहोरा-
मालोक्य जातकफलम् प्रवदेन्नराणाम्।
प्रश्नोदयग्रहवशादथ वा स्वजन्म-
राश्यादिना वदतु नास्त्यनयोर्विशेषः।।63।।
इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां दशापहारफलं नाम विंशोऽध्यायः।।20।।