फलदीपिका
एकोनविंशोऽध्यायः

दशाफलनिरूपणम् | Dashaphalanirupanam

भक्त्या येन नवग्रहा बहुविधैराराधितास्ते चिरं
सन्तुष्टाः फलबोधहेतुमदिशन्सानुग्रहं निर्णयम्।
ख्यातां तेन पराशरेण कथितां संगृह्य होरागमात्
सारं भूरिपरीक्षयातिफलितां वक्ष्ये महाख्यां दशाम्।1।।

अग्न्यादितारपतयो रविचन्द्रभौम-
सर्पामरेज्यशनिचन्द्रजकेतुशुक्राः।
तेने नटः सनिजया चटुधान्यसौम्य-
स्थाने नखा निगदिताः शरदस्तु तेषाम्।।2।।

ऋक्षस्य गाम्या घटिका दशाब्दनिघ्ना नताप्ता स्वदशाब्दसंख्या।
रूपैर्नगैः सङ्गुणयेन्नतेन हृतास्तु मासा दिवसा: क्रमेणः।।3।।

रविस्फुटं तज्जनने यदासीत् तथाविधश्चेत्प्रतिवर्षमर्कः।
आवृत्तयः सन्ति दशब्दकानां भागक्रमात्तद्दिवसाः प्रकल्प्याः।।4।।

दशाफलम्

भानुः करोति कलहं क्षितिपालकोपमाकस्मिकं स्वजनरोगपरिभ्रमं च।
अन्योन्यवैरमतिदुःसहचित्त्कोपम् गुप्त्यर्थधान्यसुतदारकृशानुपीडाम्।।5।।

क्रौर्याध्वभूपैः कलहैर्धनाप्तिं वनाद्रिसञ्चारमतिप्रसिद्धिम्।
करोति सुस्थो विजयं दिनेशस्तैक्ष्ण्यं सदोद्योगरतिं सुखं च।।6।।

मनःप्रसादं प्रकरोति चन्द्रः सर्वार्थसिद्धिंर सुखभोजनं च।
स्त्रीपुत्रभूषाम्बररत्नसिद्धिं गोक्षेत्रलाभं द्विजपूजनं च।।7।।

बलेन सर्वं शशिनरस्तु वाच्यं पूर्वे दशाहे फलमत्र मध्यम्।
मध्ये दशाहे परिपूर्णवीर्यं तृतीयभागेऽल्पफलं क्रमेण।।8।।

भौमस्य स्वदशाफलानि हुतभुग्भूपाहवाद्यैर्धनं
भैषज्यानृतवञ्चनैश्च विविधैः क्रौर्यैर्धनस्यागमः।
पित्तासृग्ज्वरबाधितश्च सततं नीचाङ्गनासेवनं
विद्वेश: सुतदारबन्धुगुरुभिः कष्टोऽन्यभाग्ये रतः।।9।।

सौम्यः करोति सुहृदागममात्मसौख्यम्
विद्वत्प्रशंसितयशश्च गुरुप्रसादम्।
प्रागल्भमुक्तिविषयेऽपि परोपकारं
जायात्मजादिसुहृदां कुशलं महत्त्वम्।।10।।

धर्मक्रियाप्तिममरेन्द्रगुरुविधत्ते सन्तानसिद्धिमवनीपतिपूजनं च।
श्लाघ्यत्वमुन्नतजनेषु गजाश्वयानप्राप्तिं वधूसुतसुहृद्युतिमिष्टसिद्धिम्।।11।।

क्रीडासुखोपकरणानि सुवाहनाप्तिं
गोरत्नभूषणनिधिप्रमादाप्रमोदम्।
ज्ञानक्रियां सलिलयानमुपैति शौक्यांति
कल्याणकर्मबहुमानमिलाधिनाथात्।।12।।

पाकेऽर्कजस्य निजदारसुतातरोगा-
न्वातोत्तरान्कृषिविनाशमसत्प्रलापम्।
कुस्त्रीरतिं परिजनैर्वियुतिं प्रवास-
माकस्मिकं स्वजनभूमिसुखार्थनाशम्।।13।।

कुर्यादहिः क्षितिपचोरविषाग्निशस्त्र-
भीतिं सुतार्तिमतिविभ्रमबन्धुनाशम्।
नीचावमाननमतिक्रमतोऽपवादम्
स्थानच्युतिं पदहतिं कृतकार्यहानिम्।।14।।

विधुन्तुदे शुभान्विते प्रशस्तभावसंयुते
दशाशुभप्रदा तदा महीपतुल्यभूतिदा।
अभीष्टकार्यसिद्धयो गृहे सुखस्थितिर्भवे
दचञ्चलार्थसञ्चयाः क्षितौ प्रसिद्धकीर्तयः।।15।।

पाथोनमीनालिगतस्य राहोर्दशाविपाके महिं च सौख्यम्।
देशाधिपत्यं नरवाहनाप्तिर्दशावसाने सकलस्य नाशः।।16।।

केतोर्दशायामरिचोरभूपै: पीडा च शस्त्रक्षतमुष्णरोगः।
मिथ्यापवादः कुलदूषितत्वं वह्नेर्भयं प्रोषणमात्मदेशात्।।17।।

अथ तरणिदशायां क्रौर्यभूपालयुद्धै
र्धनमनलचुष्टपापीडनं नेत्रतापः।
उदारदशनरोगः पुत्रदारार्तिरुच्चै-
र्गुरुजनविरहः स्याद्भृत्यनाशोऽर्थहानिः।।18।।

शिशिर‍करदशायां मन्त्रदेवद्विजोर्वी
पतिजनितविभूतिः स्त्रीधनक्षेत्रसिद्धिः।
कुसुमवसनभूषागन्धनानारसाप्ति
र्भवति खलविरोधः स्वक्षयो वातरोगः।।19।।

क्षितितनयशायां क्षेत्रवैरक्षितीश-
प्रतिजनितविभूतिः स्यात्पशुक्षेत्रलाभः।
सहजतनयवैरं दुर्जनस्त्रीषु सक्ति-
र्दहनरुधिरपित्तव्याधिरर्थोपहानिः।।20।।

असुरवरदशायां दुःखभावोऽथवा स्या-
दतिगहनगदार्तिः सूनुनार्योर्विनाशः।
विषभयमरिपीडावीक्षणोर्ध्वावङ्गरोगः
सुहृदि कृषिविरोधो भूपतेर्वे‍ाषलाभः।।21।।

अमरगुरुदशायामम्बराद्यर्थसिद्धिः
परिजनपरिवारप्रौढिरत्यर्थमानः।
सुतधनसुहृदाप्तिः साधुवादाप्तपूजा
भवति गुरुवियोगः कर्णरोगः कफार्तिः।।22।।

रवितनयदशायां राष्ट्रपीडाप्रहार-
प्रतिजनितविभूतिः प्रेष्यवृद्धाङ्गनाप्ति:।
पशुमहिषवृषाप्तिः पुत्रदारप्रपीडा
पवनकफगुदार्तिः पादहस्ताङ्गतापः।।23।।

शशितनयदशायां शश्वदाचार्यसिद्धि-
र्द्विदजजनितधनाप्ति: क्षेत्रगोवाजिलाभः।
मनुवरसुरपूजा वित्तसङ्घातसिद्धिः
प्रभवति मरुदुष्णश्लेष्मरोगप्रपीडा।।24।।

शिखिजनितदशायां शोकमोहोऽङ्गनाभिः
प्रभुजनपरिपीडा वित्तनाशोऽपराधः।
प्रभवति तनुभाजां प्रोषणं स्वीयदेशा-
द्दशनचरणरोगः श्लेष्मसन्तापनं च।।25।।

भृगुतनयदशायामङ्गनारत्नवस्त्र-
द्युतिनिधिधनभूषावाजिशय्यासनाप्तिः।
क्रयकृषिजलयानप्राप्तवित्तागमो वा
भवति गुरुवियोगो बान्धवार्तिर्मनोरुक्।।26।।

इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां दशाफलनिरूपणं नामकोनविंशोऽध्यायः।।19।।