सन्दर्शनं वितनुते पितॄदेवनॄणां मासाब्दवासरलैरथ ऊर्व्।गं यत्।
सव्यं क्वचित् क्वचिदुपैत्यपसव्यमेकं ज्योतिः परं दिशतु वस्त्वमितां श्रियं नः।।1।।
वाग्देवीं कुलदेवतां मम गुरून् कालत्रयज्ञानदान्
सूर्यादींश्च नवग्रहान् गणपतिं भक्त्या प्रणम्येश्वरम्।
संक्षिप्यात्रिपराशरादिकथितान् मन्त्रेश्वरो दैवविद्
वक्ष्येऽहं फलदीपिकां सुविमलां ज्योतिर्विदां प्रीतये।।2।।
पदाभाद्यैर्यन्त्रैर्जननसमयोऽत्र प्रथमतो
विशेषाद्विज्ञेयः सह विघटिकाभिस्त्वथ तदा।
गतैर्दृक्तुल्यत्वं गणितकरणैः खेचरगतिं
विदित्वा तद्भावं बलमपि फलं तैः कथयतु।।3।।
शिरोवक्त्रोरोहृज्जठरकटिवस्तिप्रजनन-
स्थलान्यूरूजान्वोर्युगलमिति जङ्घे पदयुगम्।
विलग्नात्कालाङ्गान्यलिझषकुलीरान्तिममिदं
भसन्धिर्विख्याता सकलभवनान्तानपि परे।।4।।
अरण्ये केदारे शयनभवने श्वभ्रसलिले
गिरौ पाथः सस्यान्वितभुवि विशां धाम्नि सुषिरे।
जनाधीशस्थाने सजलविपिने धाम्नि विचरत्
कुलाले कीलाले वसतिरुदिता मेषभवनात्।।5।।
भौमः शुक्रबुधेन्दुसूर्यशशिजाः शुक्रारजीवार्कजाः
मन्दो देवगुरुः क्रमेण कथिता मेषादिराशीश्वराः।
सूर्यादुच्चगृहाः क्रियो वृषमृगस्त्रीकर्किमीनास्तुला:
दिक्त्र्यंशैर्मनुयुक्तिथीषुभनखांशैस्तेऽस्तनीचाः क्रमात्।।6।।
सिंहोक्षाजवधूहयाङ्गवणिजः कुम्भस्त्रिकोणा रवेः
ज्ञेन्द्वोस्तूच्चलवान्नखोड्विनशरैर्दिग्भूतकृत्यंशकैः।
चापाद्यर्धवधूनृयुग्घटतुला मर्याूतश्च कीटोऽलिभं
त्वाप्याः कर्किमृगापरार्द्धशफराः शेषाश्चतुष्पादकाः।।7।।
गोकर्य््श्व्यजनक्रभान्यथ नृयुङ्मीनौ परे राशय-
स्ते पृष्ठोभयकोदयाः समिथुनाः पृष्ठोदयाश्चैन्दवाः।
सौराः शेषगृहाः क्रमेण कथिता रात्रिद्युसंज्ञाः क्रमा-
दूर्ध्वा धः समवक्रभानि तु पुनस्तीक्ष्णांशुमुक्ताद् गृहात्।।8।।
मेषादाह चरं स्थिराख्यमुभयं द्वारं बहिर्गर्भभं
धातुर्मूलमितीह जीव उदितं क्रूरं च सौम्यं विदुः।
मेषाद्याः कथितास्त्रिकोणसहिताः प्रागादिनाथाः क्रमा-
दोजर्क्षं समभं पुमांश्च युवतिर्वामाङ्गमस्तादिकम्।।9।।
लग्नं होरा कल्यदेहोदयाख्यं रूपं शीर्षं वर्तमानं च जन्म।
वित्तं विद्या स्वान्नपानानि भुक्तिं दक्षाक्ष्यास्यं पत्रिका वाक्कुटुम्बम्।।10।।
दुश्चिक्योरो दक्षकर्णं च सेनां धैर्यं शौर्यं विक्रमं भ्रातरं च।
गेहं क्षेत्रं मातुलं भागिनेयं बन्धुं मित्रं वाहनं मातरं च।।11।।
राज्यं गोमहिषसुगन्धवस्त्रभूषाः पातालं हिबुकमुखाम्बुसेतुनद्य:।
राजाङ्कं सचिवकरात्मधीभविषयज्ज्ञानासून् सुतजठरश्रुतिस्मृतीश्च।।12।।
ऋणास्त्रचोरक्षतरोगशत्रून् ज्ञात्याजिदुष्कृत्यघभीत्यवज्ञाः।
जामित्रचित्तोत्थमदास्तकामान् द्यूनाध्वलोकान् पतिमार्गभार्याः।।13।।
माङ्गल्यरन्ध्रमलिनाधिपराभवायुः क्लेशापवादमरणाशुचिविघ्नदासान्।
आचार्यदैवतपितॄन् शुभपूर्वभाग्यपूजातपः सुकृतपौत्रजपार्यवंशान्।।14।।
व्यापारास्पदमानकर्मजयसत्कीर्तिं क्रतुं जीवनं
व्योमाचारगुणप्रवृत्तिगमनान्याज्ञां च मेषूरणम्।
लाभायागमनाप्तिसिद्धिविभावान् प्राप्तिं भवं श्लाघ्यतां
ज्येष्ठभ्रातारमन्यकर्णसरसान् सन्तोषमाकर्णनम्।।15।।
दुःखाङ्घ्रिवामनयनक्षयसूचकान्त्यदारिद्र्यपापशयनव्ययरिः फबन्धान्।
भावाह्वया निगदिताः क्रमशोऽथ लीनस्थानं त्रिषड्व्ययपराभवराशिनाम्।।।16।।
दुःस्थानमष्टमरिपुव्ययभावमाहुः सुस्थानमन्यभवनं शुभदं प्रदिष्टम्।
प्राहुर्विलग्नदशसप्तचतुर्थभानि केन्द्रं हि कण्टकचतुष्टयनामयुक्तम्।।17।।
पणफरमिति केन्द्रादूर्ध्वकमापोक्लिमन्तत्परमथ चतुरस्रं नैधनं बन्धुभं च।
अथ समुपचयानि व्योमशौर्यारिलाभा नवमसुतभयुग्मं स्यात् त्रिकोणं प्रशस्तम्।।18।।
इति मन्त्रेश्वरविरचितायां फलदीपिकायां संज्ञाध्यायो नाम प्रथमोऽध्यायः।। 1 ।।