फलदीपिका
अष्टादशोऽध्यायः


द्विग्रहयोगफलम् | Dwigrahayogaphalam

तिग्मांशुर्जनयत्युषेशसति यन्त्राश्मकारं नरं
भौमेनाघरतं बुधेन निपुणं धीकीर्तिसौख्यान्वितम्।
क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधै-
र्लब्धस्वं रविजेन धातुकुशलं भाण्डप्रकारेषु वा।।1।।

कूटस्त्र्यासवकुम्भपण्यमशिवं मातुः सवक्रः शशी
सज्ञः प्रश्रितवाक्यमर्थनिपुणं सौभाग्यकीर्त्यान्वितम्।
विक्रान्तं कुलमुख्यमस्थिरमतिं वित्तेश्वरं साङ्गिरा
वस्त्राणां ससितः क्रियादिकुशलं सार्किः पुनर्भूसुतम्।।2।।

मूलादिस्नेहकूटैर्य्िवहरति वणिग्बाहुयोद्धा ससौम्ये
पुर्यध्यक्षः सजीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा।
गोपो मल्लोऽथ दक्षः परयुवतिरतो द्यूतकृत्सासुरेज्ये
दुःखार्तोऽसत्यसन्धः ससवितृतनये भूमिजे निन्दितश्च।।3।।

सौम्ये रङ्गचरो बृहस्पतियुते गीतप्रियो नृत्यविद्
वाग्मी भूगणपः सितेन मृदुना मायापटुर्लम्पटः।
सद्विद्यो धनदारवान् बहुगुणः शुक्रेण युक्ते गुरौ
ज्ञेयः श्मश्रुकरोऽसितेन घटकृज्जातोऽन्नकारोऽपि वा।।4।।

असितसितसमागमेऽल्पचक्षुर्युवतिसमाश्रयसम्प्रवृद्धचित्तः।
भवति च लिखिपुस्तकचित्रवेत्त कथितफलैः परतो विकल्पनीयाः।।5।।

चन्द्रदृष्टिफलम्

भूपो विद्वान् भूपतिर्भूपतुल्यश्चन्द्रे मेषे मोषको निर्धनश्च।
निस्स्वः स्तेनो लोकमान्यो महीशः स्वाढ्यः प्रेष्यश्चापि दृष्टे कुजाद्यैः।।6।।

युगमस्थेऽयोजीवभूपज्ञधृष्टाश्चन्द्रे दृष्टे तन्तुवायोऽधनी च।
स्वर्क्षे योधप्राज्ञसूरिक्षितीशा लोहाजीवो नेत्ररोगी क्रमेण।।7।।

राजा ज्योतिर्विद्धनाढ्यो नरेन्द्रः सिंहे चन्द्रे नापितः पार्थिवेन्द्रः।
दक्षो भूपः सैन्यपः कन्यकायां निष्णातः स्वाद्भूमिनाथाश्च भूपः।।8।।

शठो नृपस्तौलिनि रुक्मकारश्चन्द्रे वणिक् स्यात्पिशुनः खलश्च।
कीटे नृपो युग्मपिता महीशः स्याद्वस्त्रजीवी विकृताङ्गवित्तः।।9।।

धूर्ते हयाङ्गे स्वजनं जनेशं नरौधमाश्रित्य शठः सदम्भः।
भूपो नरेशः क्षितिपो विपश्चिद्धनी दरिद्रो मकरे हिमांशौ।।10।।

कुम्भेऽन्यदारनिरतः क्षितिपो नरेन्द्रो
वेश्यापतिर्नृपवरो हिमगौ नृमान्यः।
अन्त्येऽधकृत्पटुमतिर्नृपतिश्च विद्वान्
दोषै: कदृग्दुरितकृच्च कुजादिदृष्टे।।11।।

अंशे चन्द्रस्य दृष्टिफलम्

आरक्षको वधरुचिः कुशलश्च युद्धे
भूपोऽर्थवान् कलहकृत्क्षितिजांशसंस्थे।
मूर्खोऽन्यदारनिरतः सुकविः सितांशे
सत्काव्यकृत्सुखपरोऽन्यकलत्रगश्च।।12।।

बौधे हि रङ्गचरचोरकवीन्द्रमन्त्रि-
गेयज्ञशिल्पनिपुणः शशिनि स्थितेऽशे।
स्वांशेऽल्पगात्रधनलुब्धतपस्विमुख्यः
स्त्रीप्रेक्ष्यकृत्यनिरतश्च निरीक्ष्यमाणे।।13।।

सक्रोधो नरपतिसम्मतो निधीशः सिंहांशे प्रभुरसुतोऽतिहिंस्रकर्मा।
जीवांशे प्रथितबलो रणोपदेष्टा हास्यज्ञः सचिवविकामवृद्धशीलः।।14।।

अल्पापत्यो दुःखितः सत्यपि स्वे मानसक्तः कर्मणि स्वेनुरक्तः।
दुष्टस्त्रीष्टः कोपनश्चार्किभावे चन्द्रे भानौ तद्वदिन्द्वादिदृष्टे।।15।।

सूर्यादितोऽत्रांशफलं प्रदिष्टं ज्ञेयं नवांशस्य फलं तदेव।
राशीक्षणे यत्फलमुक्मिन्दोस्तद्द्वादशांस्य फलं हि वाच्यम्।।16।।

वर्गोत्तमस्वपरगेषु शुभं यदुक्तं तत्पुष्टमध्यलघुताऽशुभमुत्क्रमेण।
वीर्यान्वितोंऽशकपतिर्निरुणद्धि पूर्वं राशीक्षणस्य फलमंशफलं ददाति।।17।।

इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां द्विग्रहयोगफलं नामाष्टादशोऽध्यायः।।18।।