तत्तद्भावादष्टमेशस्थितांशे तत्त्रिकोणगे।
व्ययेशस्थितभांशे वा मन्दे तद्भावनाशनम्।।1।।
निर्याणशनि:
रन्ध्रेशो गुलिको मन्दः खरद्रेक्काणपोऽपि वा।
यत्र तिष्ठति तद्भांशत्रिकोणे रविजे मृतिः।।2।।
उद्यद्दृगाणनाथस्य तथा रन्ध्राधिपस्य च।
रन्ध्रद्रेक्काणपस्यापि भांशकोणे गुरौ मृतिः।।3।।
स्वस्फुटद्वादशांशे वा रन्ध्रेशस्थनवांशके।
लग्नेशस्थनवांशे वा तत्त्रिकोणेऽपि वा मृति:।।4।।
रन्ध्रप्रभोर्वा भानोर्वा भांशकोणं गते विधौ।
मृतिं वदेत्सर्वमेतल्लग्नाच्चद्राच्च चिन्तयेत्।।5।।
लग्नेशहीनयमकण्टकभांशकोणम्
प्राप्तेऽथवा शनिविहीनहिमांशुभांशम्।
याते गुरौ स्वमरणन्त्वथ राहुहीन-
भूसूनुभांशकगुरौ सहजप्रणाशः।।6।।
भानोः कण्टकवर्जितस्य भवनांशे वा त्रिकोणे गुरौ
तातो नश्यति कण्टकोनगुलिकर्क्षांशत्रिकोणे शनौ।
अर्कोनेन्दुगृहांशकोणगगुरौ चन्द्रोनमन्दात्मज-
क्षेत्रेंऽशेऽप्यथवा त्रिकोणगृहगे मन्दे जनन्या मृतिः।।7।।
वदेत्प्रत्यरिनक्षत्रनाथाच्च यमकण्टकम्।
त्यक्त्वा तद्भवने कोणे गुरौ पुत्रविनाशम्।।8।।
लग्नार्कमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु।
तद्राशिसंस्थे पुरुहूतवन्द्ये तत्कोणगे वा मृतिमेति जातः।।9।।
मान्दिस्फुटे भानुसुतं विशोध्य राश्यंशकोणे रविजे मृतिः स्यात्।
धूमादिपञ्चग्रहयोगराशिद्रेक्काणयातेऽर्कसुरे च मृत्युः।।10।।
विलग्नमान्दिस्फुटयोगभांशं निर्याणमासं प्रवदन्ति तज्ज्ञाः।
निर्याणचन्द्रो गुलिकेन्दुयोगो लग्नं विलग्नार्किसुतेन्दुयोगः।।11।।
मान्दिस्फुटोदितनवांशगतेऽमरेड्ये
तद्द्वादशांशसहिते दिननाथसूनौ।
द्रेक्काणकोणभवने दिनपे च मृत्यु-
र्लग्नेन्दुमान्दियुतभेशगतोदये स्यात्।।12।।
गुलिकं रविसूनुं च गुणित्वा नवसंख्यया।
उभयोरैक्यराश्यंशगृहगे रविजे मृतिः।।13।।
स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम्।
तद्राशिनवभागस्थे जीवे मृत्युर्न संशयः।।14।।
षष्ठावसानरन्ध्रेशस्फुटैक्यभवनं गते।
तत्त्रिकोणोपगे वाऽपि मन्दे मृत्युभयं नृणाम्।।15।।
उद्यद्दृगाणपतिराशिगते सुरेज्ये
तस्य त्रिकोणमपि गच्छति वा विनाशम्।
रन्ध्रत्रिभागपतिमन्दिरगेऽथ मन्दे
प्राप्ते त्रिकोणमथवास्य वदन्ति मृत्युम्।।16।।
विलग्न जन्माष्टमराशिनाथयोः खरत्रिभागेश्वरयोस्तयोरपि।
शशाङ्कमान्द्योरपि दुर्बलांशकत्रिकोणगे सूर्यसुते मृतिर्भवेत्।।17।।
लग्नाधिपस्थितनवांशकराशितुल्यं रन्ध्राधिपस्य गृहमापतिते घटेशे।
तस्मिन्वदेन्मरणयोगमनेकशास्त्रसंक्षुष्णखिन्नतिभि: परिकीर्तितं तत्।।18।।
शशाङ्कसंयुक्तदृगाणपूर्वतः खरत्रिभागेशगृहं गतेऽपि वा।
त्रिकोणगे वा मरणं शरीरिणां शशिन्यथ स्यात्तनुरन्ध्ररिःफगे।।19।।
निधनेश्वरगतराशौ भानाविन्दौ तु भानुगतराशौ।
निधनाधिपसंयुक्ते नक्षत्रे निर्दिशेन्मरणम्।।20।।
यो राशिर्गुलिकोपेतः तत्त्रिकोणगते शनौ।
मरणं निशिजातानां दिविजानां तदस्तके।।21।।
गुरुराहुस्फुटैक्यस्य राशिं यातो गुरुर्यदा।
तदा तु निधनं विद्यात्तत्त्रिकोणगतोऽथवा।।22।।
अष्टमस्य त्रिभागांशपतिस्थिततगृहं शनौ।
तदीशनवभागर्क्षं गते वा मरणं भवेत्।।23।।
जन्मकाले शनौ यस्य जन्माष्टमपतेरपि।
राशेरंशकराशेर्वा त्रिकोणस्थे शनौ मृतिः।।24।।
निशीन्दुराशौ चेज्जन्म मान्दिभेंऽशे शनौ मृतिः।
दिवार्कभे चेत्तद्द्यूनत्रिकोणे वा शनौ मृतिः।।25।।
रन्ध्रेश्वराद्यावति भे मान्दिस्तावति भे ततः।
शनिश्चेन्मरणं ब्रूयादिति सद्गुरुभाषितम्।।26।।
जन्मकालीनभृगुजात्कामशत्रुव्यये रवौ।
मरणं निश्चितं ब्रूयादिति सद्गुरुभाषितम्।।27।।
तिष्ठन्त्यष्टमरिःफषष्ठपतयो रन्ध्रत्रिभागेश्वरो
मान्दिर्यद्भवनेषु तेष्वपि गृहेष्वार्कीज्यसूर्येन्दवः।
सर्वे चारवशात्प्रयान्ति हि यदा मृत्युस्तदा स्यान्नृणां
तेषामंशवशाद्वदन्तु निधनं तत्ततत्रिकोणेऽपि वा।।28।।
इति श्रीमन्त्रेश्वविरचितायां फलदीपिकायां निर्याणभावो नाम सप्तदशोऽध्यायः।।17।।