फलदीपिका
षोडशोऽध्यायः

लग्नादिद्वादशभावनां समुदायफलम् | Lanagdidwadashabhavanam Samudayaphalam

लग्ननवांशपतुल्यतनुः स्याद्वीर्ययुतग्रहतुल्यतनुर्वा।
चन्द्रसमेतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः।।1।।

लग्नेशे केन्द्रकोणे स्फुटकरनिकरे स्वोच्चभे वा स्वभे वा
केन्द्रादन्यत्रसंस्थे निधनभवनपे सौम्ययुक्ते विलग्ने।
दीर्घायुष्मान्धनाढ्यो महितगुणयुतो भूमिपालप्रशस्तो
लक्ष्मीवान् सुन्दराङ्गो दृढतनुरभयो धार्मिकः सत्कुटुम्बी।।2।।

सत्सम्बन्धयुते कलेवरपतौ सद्ग्रामवासोऽथवा
सत्सङ्गं प्रबलग्रहेण सहिते विख्यातभूपाश्रयः।
स्वोच्चस्थे नृपतिः स्वयं स्वगृहगे तज्जन्मभूमौ स्थितिः
सञ्चारश्चरभे स्थितः स्थिरगृहे द्वन्द्वं द्विरूपं फलम्।।3।।

विख्यातः किरणोज्ज्वले तनुपतौ सुस्थे सुखी वर्धनो
दुःस्थे दुःख्यासदृक्षनीचभवने वासो निकृष्टस्थले।
स्वस्थो जीवति शक्तिमत्युदयभे वर्द्धिष्णुरूर्जस्वलो
निःशक्तौ निहतो विपद्भिरसकृत्खिन्नो भवेदातुरः।।4।।

अर्थस्वामिनि मुख्यभावजुषि सत्स्वर्थे कुटुम्बश्रिया
सर्वोत्कृष्टगुणो धनी च सुमुखी स्याद्दूरदर्शी नरः।
सम्बन्धे सवितुर्द्वितीयपतिना लोकोपकारक्षमां
विद्यामर्थमवाप्नुयादथ शनेः क्षुद्राल्पविद्यारतः।।5।।

जैवे वैदिकधर्मशास्त्रनिपुणो बौधेऽर्थशास्त्रे पटुः
शृङ्गारोक्तिपटुर्भृगोर्हिमरुचेः किञ्चित्कलाविद्भवेत्।
कौजे क्रूरकलापटुश्च पिशुनो राहौ स्थिते लोहलः
केतौ भ्रश्यदलीकवाग्धनगतैः पापैश्च मूढोऽधनः।।6।।

बन्धो यदि स्यात्तनुशौर्यनाथयोरन्योन्यराशिस्थितयोर्बलाढ्ययोः।
धैर्यं च शौर्यं सहजानुकूलतां प्राप्नोत्ययं साहसकार्यकर्तृताम्।।7।।

शौर्यपे बलिनि सद्ग्रहयुक्ते कारकेऽपि शुभभावमुपेते।
भ्रातृवृद्धिरथ वीर्यविहीने दुःस्थिते भवति सोदरनाशः।।8।।

अयुग्मराशौ यदि कारकेशौ गुर्वर्कभूसुनुनिरीक्षितौ चेत्।
ओजो गृहः स्याद्यदि विक्रमाख्यः पुंभ्रातस्त्वंशवशाद्भवेयुः।।9।।

दुःस्थाने सुखपे शशिन्यपि सतां योगेक्षणैर्वर्जिते
पापान्तःस्थितिमत्यसद्ग्रहयुते दृष्टै: जनन्या मृतिः।
एतौ द्वावपि वीर्यगौ शुभयुतौ दृष्टौ शुभैर्बन्धुगै-
र्मातुः सौख्यकरौ विधोश्च सुखगैः सौम्यैर्वदेत्तत्सुखम्।।10।।

लग्नेशे सुखगेऽथवा सुखपतौ लग्ने तयोरीक्षणे
योगे वा शशिनस्तथा यदि करोत्यन्त्यां स्वमातुः क्रियाम्।
अन्योन्यं यदि शत्रुनीचभवने षष्ठाष्टमे वा तयो-
र्मातुर्नोपकरोति नाशसमये बन्धस्तयोर्वा न चेत्।।11।।

मातृभावोक्तवद्वाच्यं पितृभ्रातृसुतादिषु।
भावकारकभावेशलग्नलग्नेश्वरैर्वदेत्।।12।।

सुखौ सुखेभृगुजौ तनुबन्धुयुक्तावान्दोलिकां जनपतेश्वरतां विधत्तः।
स्वर्णाद्यनर्ष्यमणिभूषणपट्टशय्याकामोपभोगकरणानि च योगजाश्वान्।।13।।

दुःस्थे सुखेशे कुजसूर्ययुक्ते सुखेऽपि वा जन्मगृहं प्रदग्धम्।
जीर्णं तमोमन्दयुतेऽरियुक्ते परैर्हृतं गोक्षितिवाहनाद्यम्।।14।।

सौम्यर्क्षांशे सौम्ययुक्ते पञ्चमे वा तदीश्वरे।
वैशेषिकांशे सद्भावे धीमान्निष्कपटी भवेत्।।15।।

स्थितिः पापानां वा द्विषति बलयुक्तारिपतिना
युतो वा दृष्टो वा यदि रिपुगृह वा तनुपतिः।
अरीशः केन्द्रे वाऽप्यशुभखगसंवीक्षितयुतो
रिपूणां पीडां द्राग्भृशमपरिहार्यां वितनुते।।16।।

षष्ठेश्वरादतिबलिन्युदयाधिनाथे सौम्यग्रहांशसहिते शुभदृष्टियुक्ते।
सौख्येश्वरेऽपि सबले यदि केन्द्रकोणेष्वारोग्यभाग्यसहितो दृढगात्रयुक्तः।।17।।

शत्रुनाथे तु दुःस्थाने नीचमूढारिसंयुते।
तस्माद्वलाढ्ये लग्नेशे शत्रुनाशं रतौ शुभे।।18।।

यद्भावेशयुतो वैरिनाथो यद्भावसंश्रितः।
षष्ठस्थितो यद्भावेशस्ते भावाः शत्रुतां ययुः।।19।।

सत्सम्बन्धयुते सप्तर्क्षे तदीशे बलान्विते।
पतिपुत्रवती साध्वी भार्या सर्वगुणैर्वृता।।20।।

केन्द्रादन्यत्र रन्ध्रेशे लग्नेशादुर्बले सति।
नाधिर्न विघ्नो न क्लेशो नृणामायुश्चिरं भवेत्।।21।।

धर्मे कुजे वा सूर्ये वा दुःस्थे तन्नायके सति।
पापमध्यगते वाऽपि पितुर्मरणमादिशेत्।।22।।

दिवा सूर्ये निशामन्दे सुस्थे शुभनिरीक्षिते।
धर्मेशे बलसंयुक्ते चिरं जीवति तत्पिता।।23।।

मन्दारयोः शीतरुचौ च सूर्ये त्रिकोणगे तज्जननीपितृभ्याम्।
त्यक्तो भवेच्छक्रपुरोहितेन दृष्टे तनूजोऽस्ति सुखी चिरायुः।।24।।

शनिर्भाग्याधिपः स्याच्चेच्चरस्थो न शुभेक्षितः।
सूर्ये दुःस्थानगेऽप्यन्यपितरं ह्युपजीवति।।25।।

धर्मे तदीशे वा मन्दुयुक्ते दृष्टेऽपि वा चरे।
जातो दत्तो भवेन्नूनं व्ययेशे बलशालिनि।।26।।

नभसि शुभखगेवा तत्पतौ केन्द्रकोणे
बलिनि निजगृहोच्चे कर्मगे लग्नपे वा।
महितपृथुयशाः स्याद्धर्मकर्मप्रवृत्तिः
नृपतिसदृशभाग्यं दीर्घमायुश्च तस्य।।27।।

ऊर्जस्वी जनवल्लभो दशमगे सूर्ये कुजे वा महत्
कार्यं साधयति प्रतापबहुलं खेशश्च सुस्थो यदि।
सद्व्यापारवतीं क्रियां वितनुते सौम्येषु सच्छ्लाघितां
कर्मस्थेष्वहिमन्दकेतुषुभवेद्दुष्कर्मकारी नरः।।28।।

लाभेशे यद्भावनाथयुक्ते यद्भावगेऽपि वा।
भावं तदनुरूपस्य वस्तुनो लाभगैरपि।।29।।

व्ययस्थितो यद्भावेशो व्ययेशो यत्र तिष्ठति।
तस्य भावस्यानुरूपवस्तुनो नाशमादिशेत्।।30।।

भावेशस्थितभांशकोणमपि वा भावं तु वा लग्नपो
लग्नेशस्थितभांशकोणमुदयं वाऽयाति भावाधिपः।
संयोगेऽपि विलोकनेऽपि च तयोस्तद्भावसिद्धिं तदा
ब्रूयात्कारकयोगतस्तनुपतेर्लग्नाच्च चन्द्रादपि।।31।।

यद्भावेशस्थितर्क्षांशत्रिकोणस्थे गुरुर्यदा।
गोचरे तस्य भावस्य फलप्राप्तिं विनिर्दिशेत्।।32।।

लग्नारिनाथयोगे तु लग्नशाद्दुर्बले रिपौ।
तदा तद्वशगः शत्रुर्विपरीतमतोऽन्यथा।।33।।

यद्भावपस्य तनुपस्य भवत्यरित्वात्तत्कालशत्रुवशतोऽरिमृतिस्थितो वा।
स्पर्धां तदा वदतु तेन च गोचरस्थस्तद्वत्सुहृत्त्वमपि संयुतिमैत्रतश्च।।34।।

लग्नेशयद्भावपयोस्तु योगो यदा तदा तत्फलसिद्धिकालः।
भावेशवीर्ये शुभमन्यथान्यल्लग्नाच्च चन्द्रादपि चिन्तनीयम्।।35।।

इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां लग्नादिद्वादशभावानां समुदायफलं नाम षोडशोऽध्यायः।।16।।