फलदीपिका
पञ्चदशोऽध्यायः


जातकफलसारभूतभावचिन्ता | Jatakaphalasarbhootabhavachinta

भावाः सर्वे शुभपतियुता वीक्षिता वा शुभेशै-
स्तत्तद्भावाः सकलफलदाः पापदृग्योग्यहीनाः।
पापाः सर्वे भवनपतयश्चेदिहाहुस्तथैव
खेटैः सर्वैः शुभफलमिदं नीचमूढारिहीनैः।।1।।

तत्तद्भावात् त्रिकोणे स्वसुखमदनभे चास्पदे सौम्ययुक्ते
पापानां दृष्टिहीने भवनपसहिते पापखेटैरयुक्ते।
भावानां पुष्टिमाहुः सकलशुभकरीमन्यथा चेत्प्रणाशं
मिश्रं मिश्रैर्ग्रहेन्द्रैः सकलमपि तथा मूर्तिभावादिकानाम्।।2।।

नाशस्थानगतौ दिवाकरकरलुप्तस्तु यद्भावपो
नीचारातिगृहं गतो यदि भवेत्सौम्यैरयुक्तेक्षितः।
तद्भावस्य विनाशनं वितनुते तादृग्विधोऽन्योऽस्ति चेत्
तद्भावोऽपि फलप्रदो न हि शुभश्चेन्नाशमुग्रग्रहः।।3।।

लग्नादिभावाद्रिपुरन्ध्ररिःफे पापग्रहास्तद्भवनादिनाशम्।
सौम्यास्तु नात्यन्तफलप्रदाः स्युर्भावादिकानां फलमेवमाहुः।।4।।

यद्भावनाथो रिपुरन्ध्ररिःफे दुःस्थानपो यद्भवनस्थितो वा।
तद्भावनाशं कथयन्ति तज्ज्ञाः शुभेक्षितस्तद्भवनस्य सौख्यम्।।5।।

भावाधीशे च भावे सति बलरहिते च ग्रहे कारकाख्ये
पापान्तःस्थे च पापैररिभिरपि समेतेक्षिते नान्यखेटैः।
पापैस्तद्बन्धुमृत्युव्ययभवनगतैस्तत्त्रिकोणस्थितैर्वा
वाच्या तद्भावहानिः स्फुटमिह भवति द्वित्रिसंवादभावात्।।6।।

तत्तद्भावपराभवेश्वरखरद्रेष्काणपा दुर्बला
भावार्यष्टमकामगा निजदशायां भावनाशप्रदाः।
पापा भावगृहात् त्रिशत्रुभवगाः केन्द्रत्रिकोणे शुभाः
वीर्याढ्याः खलु भावनाथसुहृदो भावस्य सिद्धिप्रदाः।।7।।

राश्योर्जन्मविलग्नयोर्धृतिपतिर्मृत्युस्थतद्वीक्षकौ
मन्दः क्रूरदृगाणपो गुलिकपस्तैर्युक्तराश्यंशपा।
राहुश्चैष सुदुर्बलः स जनने भावानभीष्टस्थितः
पापालोकितसंयुतो निजदशायां भावनाशावहाः।।8।।

भावास्योदयपाश्रितस्य कुशलं यद्भावपेनोदय-
स्वामी तिष्ठति संयुतोऽपि कलयेत्तद्भावजातं फलम्।
दुःस्थाने विपरीतमेतदुदितं भावेश्वरे दुर्बले दोषोऽतीव भवेद्बलेन सहिते दोषाल्पता जल्पिता।।9।।

यद्भावेष्वशुभोऽपि वोदयपतिस्तद्भाववृद्धिं दिशेद्-
दु:स्थानाधिपतिः स चेद्यदि तनोः प्राबल्यमन्यस्य न।
अत्रोदाहरणं कुजे सुतगते सिंहे झषे वा स्थिते
पुत्राप्तिं शुभवीक्षिते झटिति तत्प्राप्तिं वदन्त्युत्तमाः।।10।।

द्विस्थानाधिपतित्वमस्ति यदि चेन्मुख्यं त्रिकोणर्क्षजं
तस्यार्द्धं स्वगृहेऽथ पूर्णमुभयोर्यत्तद्शादौ वदेत्।
पश्चाद्भावमिहापरार्द्धसमये युग्मे गृहे युग्मजं
त्वोजस्थे सति चौजभावजफलं शंसन्ति केचिज्जनाः।।11।।

यद्भावेशस्याधिशत्रुग्रहो वा यो वा खेटो बिन्दुशून्यर्क्षयुक्तः।
तत्तत्पाके मूर्तिभावादिकानां नाशं ब्रूयाद्दैवविप्राश्निकाय।।12।।

स्वोच्चे सुहृत्क्षेत्रगतो ग्रहेन्द्रः षड्भिर्बलैर्मुख्य बलान्वितोऽपि।
सन्धौ स्थितः सन्नफलप्रदः स्यादेवं विचिन्त्यात्र वदेद्विपाके।।13।।

भावेषु भावस्फुटतुल्यभागस्तद्भावजं पूर्णफलं विधत्ते।
सन्धौ फलं नास्ति तदन्तराले चिन्त्योऽनुपातः खुल खेचराणाम्।।14।।

सूर्यादात्मपितृप्रभावनिरुजां शक्तिं श्रियं चिन्तयेत्
चेतोबुद्धिनृपप्रसादजननीसम्पत्करश्चन्द्रमाः
सत्वं रागगुणानुजाघननिरिपुज्ञातीन्धरासूनुना
विद्याबन्धुविवेकमातुलसुहृद्वाक्कर्मकृद्बोधनः।।15।।

प्रज्ञावित्तशरीरपुष्टितनयज्ञानानि वागीश्वरात्
पत्नीवाहनभूषणानि मदनवयपारसौख्यं भृगोः।
आयुर्जीवनमृत्युकारणविपद्भृत्यांश्च मन्दाद्वदेत्
सर्पेणैव पितामहं तु शिखिना मातामहं चिन्तयेत्।।16।।

द्युमणिरमरमन्त्री भूसुतः सोमसौम्यौ
गुरुरिनतनयारौ भार्गवो भानुपुत्रः।
दिनकरदिविजेज्यौ जीवभानुज्ञमन्दाः
सुरगुरुरिनसूनुः कारकाः स्युर्विलग्नात्।।17।।।

सुहृदरिपरकीयस्वर्क्षतुङ्गस्थितानां
फलमनुपरिचिन्त्यं लग्नदेहादिभावैः।
समुपचयविपत्ती सौम्यपापेषु सत्यः
कथयितुं विपरीतं रिःफषष्ठाष्टमेषु।।18।।

पापगृहा षष्ठमृतिव्ययस्थास्तद्भाववृद्धिं कलयन्ति दोषैः।
शुभास्तु तद्भावलयं हि तस्माच्छब्दातिभावोत्थफलप्रणाशः।।19।।

भावस्य यस्यैव फलं विचिन्त्यं भावं च तं लग्नमिति प्रकल्प्य।
तस्माद्वदेद्द्वादशभावजानि फलानि तद्रूपधनादिकानि।।20।।

एवं हि तत्कारकतो विचिन्त्यं पितुश्च मातुश्च सहोदरस्य।
तन्मातुलस्यापि सुतस्य पत्युर्भृत्यस्य सूर्यादिखगस्थितर्क्षात्।।21।।

सूर्यस्थितर्क्षाज्जनकस्वरूपं वृद्धिं द्वितीयेन तु तत्प्रकाशम्।
तद्भ्रातरं तस्य गुणं तृतीयात्तन्मातरं चापि सुखं चतुर्थात्।।22।।

बुद्धिप्रसादं सुतभाच्च षष्ठात्पीडां पितुर्दोषमरिंच रोगम्।
कामं मदं तस्य तु सप्तमेन दुःखं मृतिं मृत्युगृहात्तदायुः।।23।।

पुण्यं शुभं तत्पितरं शुभेन व्यापारमस्यैव हि कर्मभावात्।
लाभं ह्युपान्त्यात् क्षयमन्त्यभावाच्चन्द्रादिकानां फलमेवमाहुः।।24।।

तत्तद्भावात्कारकादेवमूह्यं तत्तन्मातृभ्रातृपित्रात्मजाद्यम्।
तस्मिन् भावे कारके भावनाथे वीर्योपेते तस्य भावस्य सौख्यम्।।25।।

धर्मे सूर्यः शीतगुर्बन्धुभावे शौर्ये भौमः पञ्चमे देवमन्त्री।
कामे शुक्रश्चाष्टमे भानुपुत्रः कुर्यात्तस्य क्लेशमित्याहुरन्ये।।26।।

लग्नेश्वरो यद्भवनेशयुक्तो यद्भावगतस्य फलं ददाति।
भावे तदीशे बलभाजि तेन भावेन सौख्यं व्यसनं बलोने।।27।।

यद्भावप्रभुणा युतो बलवता मुख्याङ्गगो लग्नप-
स्तद्भावानुभवं वितनुते यद्भावगतस्तस्य च।
संयुक्तो बलहीनभावपतिना निन्द्याङ्गभाजां फलम्
कुर्यात्तद्विपरीतमेवमुदितं सर्वेषु भावेष्वपि।।28।।

दुःस्थापनपस्तदितरस्वगृहस्थितश्चेत्
स्वेक्षत्रभावफलमेव करोति नान्यत्।
मन्दो मृगे सुतगृहे यदि पुत्रसिद्धिः
षष्ठाधिपत्यकृतदोषफलं च नात्र।।29।।

राशौ स्थितिर्मिथो योगो दृष्टिः केन्द्रेषु संस्थितिः।
त्रिकोणे वा स्थितिः पञ्चप्रकारो बन्ध इरितः।।30।।

इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां जातकफलसारभूतभावशुभाशुभत्वं नाम पञ्चदशोऽध्यायः।।15।।