रोगस्य चिन्तामपि रोगभवस्थितैर्ग्रहैर्वा व्ययमृत्युसंस्थैः।
रोगेश्वरेणापि तदन्वितैर्वा द्वित्र्यादिसंवादवशाद्वदन्तु।।1।।
पित्तोष्णज्वरतापदेहतपनापस्मारहृत्क्रोडज-
व्याधीन्वक्ति रविर्दृगार्त्यारिभयं त्वग्दोषमस्थिस्रुतिम्।
काष्ठाग्न्यस्त्रविषार्तिदारतनयव्यापच्चतुष्पाद्भयं
चोरक्ष्मापतिधर्मदेवफणभृद्भूतेशभूतं भयम्।।2।।
निद्रालयस्य फातिसारपिटकाः शीतज्वरं चन्द्रमाः
श्रृङ्ग्यब्जाहतिमग्निमान्द्यमरुचिं योषिद्व्यथाकामिलाः।
चेतशान्तिमसृग्विकारमुदकाद्भीतिं च बालग्रहाद्
दुर्गाकिन्नरधर्मदेवफणभृद्यक्षाश्च भीतिं वदेत्।।3।।
तृष्णासृक्कोपित्तज्वरमनलविषास्त्रार्तिकुष्ठादिरोगान्
गुल्मापस्मारमज्जाविहतिपरुषतापामिकादेहभङ्गान्।
भूपारिस्तेनपीडां सहजसुतसुहृद्वैरियुद्धं विधत्ते
रक्षोगन्धर्वघोरग्रहभयमवनीसूनुरूर्ध्वाधङ्गरोगम्।।4।।
भ्रान्तिं दुर्वचनं दृगामयगलप्राणोत्थरोगं ज्वरं
पित्तश्लेष्मसमीरजं विषमपि त्वग्दोषपाण्ड्वामयान्।
दुःस्वप्नं च विचर्किताग्निपतने पारुष्यबन्धश्रमान्
गन्धर्वक्षितिहर्य्िवाहिभिरपि ज्ञो वक्ति पीडां ग्रहैः।।5।।
गुल्मान्त्रज्वरशोकमोहकफजान् श्रोत्रार्तिमोहामयान्
देवस्थाननिधिप्रपीडनमहीदेवेशशापोद्भवम्।
रोगं किन्नरयक्षदेवफणभृद्विद्याधराद्युद्भवम्
जीवः सूचयति स्वयं बुधगुरूत्कृष्टापचारोद्भवम्।।6।।
पाण्डुश्लेष्मरुत्प्रकोपनयनव्यापत्प्रमेहामयान्
गुह्यस्यामयमूत्रकृच्छ्रमदनव्यापत्तिशुक्लस्रुतिम्।
वारस्त्रीकृतदेहकान्तिविहतिं शोषामयं योगिनी-
यक्षीमातृगणाद्भयं प्रियसुहृद्भङ्गं सितः सूचयेत्।।7।।
वातश्लेष्मविकारपादविहतिं चापत्तितन्द्राश्रमान्
भ्रान्तिं कुक्षिरुगन्तरुष्णभृतकध्वंसं च पार्श्वाहतिम्।
भार्यापुत्रविपत्तिमङ्गविहतिं हृत्तापमर्कात्मजो
वृक्षाश्मक्षतिमाह कश्मलगणैः पीडां पिशाचादिभिः।।8।।
स्वर्भानुर्हृदि तापकुष्ठविमतिव्याधिं विषं कृत्रिमम्
पादार्तिं च पिशाचपन्नगभयं भार्यातनूजापदम्।
ब्रह्मक्षत्रविरोधशत्रुभयं केतुस्तु संसूचयेत्
प्रेतोत्थं च भयं विषं च गुलिको देहार्तिमाशौचजम्।।9।।
मन्दारान्वितवीक्षिते व्ययधने चन्द्रारुणौ चाक्षिरुक्
शौर्यायाङ्गिरसो यमारसहिता दृष्टा यदि श्रोत्ररुक्।
सोग्रे पञ्चमभे भवेदुदररुग्रन्ध्रारिनाथान्विते
तद्वत्सप्तमनैधने सगुदरुक्छुक्रे च गुह्यामयः।।10।।
षष्ठेऽर्केऽप्यथवाष्टमे ज्वरभयं भौमे च केतौ व्रणं
शुक्रे गुह्यरुजं क्षयं सुरगुरौ मन्दे च वातामयम्।
राहौ भौमनिरीक्षिते च पिलकां सेन्दो शनौ गुल्मजं
क्षीणेन्द्रौ जलभेषु पापसहिते तत्स्थेऽम्बुरोगं क्षयम्।।11।।
जातो गच्छति येन केन मरणं वक्ष्येऽथ तत्कारणं
रन्ध्रस्थैस्तदवेक्षकैर्बलवता तस्योक्तरोगैर्मृतिः।
रन्ध्रर्क्षोक्तरुजाऽथवा मृतपतिप्राप्तर्क्षदोषेण वा
रन्धेशेन स्वरत्रिभागपतिना मृत्युं वदेन्निश्चितम्।।12।।
ग्रहेण युक्ते निधने तदुक्तरोगैर्मृतिर्वाथ तदीक्षकस्य।
ग्रहैर्विमुक्ते निधनेऽथ तस्य राशेः स्वभावोदितदोषजाता।।13।।
अग्न्युष्णज्वरपित्तशस्त्रजमिनश्चन्द्रो विषूच्मम्बुरु-
ग्यक्ष्मादि क्षितिजोऽसृजा च दहनक्षुद्राभिचारायुधैः।
पाण्ड्वादिभ्रमजं बुधो गुरुरनायासेन मृत्युं कफात्
स्त्रीसङ्गोत्थरुजं कविस्तु मरुता वा सन्निपातैः शनिः।।14।।
कुष्ठेन वा कृत्रिमभक्षणाद्वा राहुर्विषाद्वाथ मसूरिकाद्यैः।
कुर्याच्छिखी दुर्मरणं नराणां रिपोर्विरोधादपि कीटकाद्यैः।।15।।
लग्नादष्टमराशेः स्वभावदोषोद्भवं वदेन्मृत्युम्।
निधनेशस्य नवांशस्थितराशिनिमित्तदोषजनितं वा।।16।।
पैत्यज्वररोष्णैर्जठराग्निनाजे वृतो त्रिदोषैर्दहनाच्च शस्त्रात्।
युग्मे तु कालश्वसनोष्णशूलैरुन्मादवातारुचिभिः कुलीरे।।17।।
मृगज्वरस्फोटजशत्रुजं हरौ स्त्रियां स्त्रिया गुह्यरुजा प्रपातनात्।
तुलाधरे धीज्वरसन्निपातजं प्लीहालिपाण्डुग्रहणीरुजालिनि।।18।।
वृक्षाम्बुकाष्ठायुधजं हयाङ्गे मृगे तु शूलारुचिधीभ्रमाद्यैः।
कुम्भे तु कासज्वरयक्ष्मरोगैर्जले विपद्वा जलरोगतोऽन्त्ये।।19।।
पापर्क्षयुक्ते निधने सपापे शस्त्रानलव्याघ्रभुजङ्गपीडा।
अन्योन्यदृष्टौ द्वावशुभौ सकेन्द्रौ कोपात्प्रभोः शस्त्रविषग्निजैर्वा।।20।।
सौम्यांशके सौम्यगृहेऽथ सौम्यसम्बन्धगे वा क्षयभे क्षयेशे।
अक्लेशजातं मरणं नराणां व्यस्ते तदा क्रूरमृतिं वदन्ति।।21।।
स्वोच्च स्वमित्रे सति सौम्यवर्गे व्ययाधिपे चोर्ध्व1गतिं ससौम्ये।
विपर्ययेऽधोगतिमेव केचिदूर्ध्वारस्यशीर्षोदयराशिभेदात्।।22।।
कैलासं रविशीतगू भृगुसुतः स्वर्गं महीजो महीं
वैकुण्ठं शशिजो यमो यमपुरं सद्ब्रह्मलोकं गुरुः।
द्वीपान् भोगिवरः शिखी तु निरयं सम्प्रापयेत्प्राणिनः
सम्बन्धाद्व्ययनायकस्य कथयेत्तत्रान्त्यराश्यंशतः।।23।।
धर्मेश्वरेणैव हि पूर्वजन्मवृत्तं भविष्यज्जननं सुतेशात्।
तदीशजातिं तदधिष्ठितर्क्षदिशं हि तत्रैव तदीशदेशम्।।24।।
स्वोच्चे तदीशे सति देवभूमिं द्वीपान्तरं नीचरिपुस्थलस्थे।
स्वर्क्षे सुहृद्भे समभे स्थिते वा सम्प्राप्नुयाद्भारतवर्षमेव।।25।।
आर्यावर्तं गीष्पतेः पुण्यनद्यः काव्येन्द्वोश्च ज्ञस्य पुण्यस्थलानि।
पङ्गोर्निन्द्या म्लेच्छभूस्तीक्ष्णभानोः शैलारण्यं कीकटं भूमिजस्य।।26।।
स्थिरे स्थिरांशाधिगतः सपापः पृष्ठोदयेऽधोमुखभे च संस्थः।
तदीश्वरो वृक्षलतादिजन्म स्यादन्यथा जीवयुतः शरीरी।।27।।
लग्नेशितुः स्वोच्चसुहृत्स्वगेहान् तदीश्वरो याति मनुष्यजन्म।
समे मृगाः स्युर्विहगाः परस्मिन् द्रेक्काणरूपैरपि चिन्तनीयम्।।28।।
तावेकराशौ जननं स्वदेशे तौ तुल्यवीर्यौ यदि तुल्यजातौ।
वर्णा गुणस्तस्य खगस्य तुल्यः संज्ञोदितैरेव वदेत्समस्तम्।।29।।
इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां रोगचिन्ता नाम चतुर्दशोऽध्यायः।।14।।