जाते कुमारे सति पूर्वमार्यैरायुर्विचिन्त्यं हि ततः फलानि।
विचारणीया गुणिनि स्थितेतद् गुणाः समस्ताः खलु लक्षणज्ञैः।।1।।
केचिद्यथाधनविलग्नमन्ये शीर्षोदयं भूपतनं हि केचित्।
होराविदश्चेतनकाययोन्योर्वियोगकालं कथयन्ति लग्नम्।।2।।
आद्वादशाब्दान्तरयोनिजन्मनामायुष्कला निश्चयितुं न शक्यते।
मात्रा च पित्रा कृतपापकर्मणा बालग्रहैर्नाशमुपैति बालका:।।3।।
आद्ये चतुष्के जननीकृताद्यैर्मध्ये च पित्रार्जितपापसङ्घैः।
बालस्तदन्त्यासु चतुःशरत्सु स्वकीयदोषैः समुपैति नाशम्।।4।।
तद्दोषशान्त्यै प्रतिजन्मतारमाद्वादशाब्दं जपहोमपूर्वम्।
आयुष्करं कर्म विधाय ताता बालं चिकित्सादिभिरेव रक्षेत्।।5।।
अष्टौ बालारिष्टमादौ नराणां योगारिष्टं प्राहुराविंशतिः स्यात्।
अल्पं चाद्व्यात्रिंशतं मध्यमायुश्चासप्तत्याः पूर्णमायुः शतान्तम्।।6।।
नृणां वर्षशतं ह्यायुस्तस्मिंस्त्रेधा विभज्यते।
अल्पं मध्यं दीर्घमायुरित्येतत्सर्वसम्मतम्।।7।।
मृत्युः स्याद्दिनमृत्युरुग्विषघटीकालेऽथ तिष्येऽम्बुभे
ताताम्बासुतमातुलान्पदवशात्त्वाष्ट्रे च हन्यात्तथा।
मूलर्क्षे पितृमातृवंशविलयं तस्यान्त्यपादे श्रियं
सार्पे व्यस्तमिदं फलं न शुभसम्बन्धं विलग्नं यदि।।8।।
पापप्तेक्षितराशिसन्धिजनने सद्यो विनाशं ध्रुवं
गण्डान्ते पितृमातृहा शिशुमृतिर्जीवेद्यदि क्ष्मापतिः।
जातः सन्धिचतुष्टयेऽप्यशुभसंयुक्तक्षिते स्यन्मृति-
र्मृत्योर्भागगते च सा सति विधौ केन्द्रेऽष्टमे वा मृतिः।।9।।
चान्द्रं रूपं लोकशूरो वरज्ञः कुड्ये चित्रं भाग्यलोके मुखानाम्।
मेने राज्यं मृत्युभागाः प्रदिष्टा मेषादीनां वर्णसंख्यैर्हिमांशो।।10।।
दानं धेनो रुद्र रौद्री मुखेन भाग्या भानुर्गोत्र जाया नखेन।
पुत्री नित्यं मृत्युभागाः क्रमेण मेषादीनां तेषु जातो गतायुः।।11।।
रन्ध्रे केन्द्रेषु पापैरुदयनिधनगैर्वाथ लग्नास्तयोर्वा
लग्नेऽब्जेवोग्रमध्ये व्ययमृतिरिपुगे दुर्बले शीतभानौ।
क्षीणेन्दौ साशुभे वा तनुमदगुरुधीभाजि रन्ध्रास्तगोग्रै-
र्मृत्यु स्यादाशु केन्द्रे न यदि शुभखगाः सद्युतिर्वीक्षणं वा।।12।।
जन्मेशोऽथ विलग्नपो यदि भवेद्दुस्थोबलो वत्सरै-
स्तद्राशिप्रमितैश्च मारयति तन्मासैर्दृगाणाधिपः।
अंशेशो दिवसैस्तथा यदि मृतिर्द्विणत्र्यादियोगान्बहू-
नालोच्य प्रवदेत्सुताष्टमगतैः पापैररिष्टं शिशोः।।13।।
लग्नेन्द्वोस्तदधीशयोरपि मिथो लग्नेशरन्ध्रेशयो-
र्द्रैक्काणात्स्वनवांशकादपि मिथस्तद्द्वादशांशात्क्रमात्।
आयुर्दीर्घसमाल्पतां चरनगद्व्यङ्गैश्चरेऽथ स्थिरे
ब्रूयाद्द्वन्द्वचरस्थिरैरुभयभैः स्थास्नुद्विदेहाटनैः।।14।।
लग्नाधीशशुभाः क्रमाद्बहुसमाल्यायूंषि केन्द्रादिगा:
रन्धेशोग्रखगास्तथा यदि गता व्यस्तं विदध्युः फलम्।
जन्मेशाष्टमनाथयोरुदयपच्छिद्रेशयोर्मैत्रतो
भास्वल्लग्नपयोश्चिरायुरहितेऽल्पायु समे मध्यमः।।15।।
लग्नाधिपो लग्ननवांशनायको जन्मेश्वरो जन्मनवांशनायकः।
स्वस्वाष्टमेशाद्यदि चेद्बलान्वितो दीर्घायुषः स्युर्विपरीतमन्यथा।।16।।
लग्नेश्वरादतिबली निधनेश्वरोऽसौ केन्द्रस्थिुतो निधनरिः फगतैश्च पापैः।
तस्यायुरल्पमथवा यदि मध्यमायुरुत्साहसङ्कटवशात्परमायुरेति।।17।।
नरोऽल्पायुर्योगे प्रथमभगणे नश्यति शने-
र्द्विपतीये मध्यायुर्यदि भवति दीर्घायुषि सति।
तृतीये निर्याणं स्फुटजशनिगुर्वर्कहिमगून्
दशां भुक्तिं कष्टामपि वदति निश्चित्य सुमतिः।।18।।
सपापो लग्नेशो रविहतरुचिर्नीचरिपुगो
यदा दुःस्थानेषु स्थितिमुपगतो गोचरवशात्।
तनौ वा तद्योगो यदि निधनमाहुस्तनुभृतां
नवांशाद्द्रेक्काणाच्छिशिरकरलग्नादपि वदेत्।।19।।
शशी तदारूढगृहाधिपश्च लग्नाधिनाथश्च यदा त्रयोऽमी।
गुणाधिकाः सद्ग्रहदृष्टियुक्ता गुणाधिकं तं कथयन्ति कालम्।।20।।
लग्नाधिपोऽतिबलवानशुभैरदृष्टः केन्द्रस्थिलतः शुभखगैरवलोक्यमानः।
मृत्युं विहाय विदधाति स दीर्घमायुः सार्द्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या।।21।।
सर्वातिशाय्यतिबलः स्फुरदंशुजालो लग्ने स्थितः प्रशमयेत् सुरराजमन्त्री।
एको बहूनि दुरितानि सुदुस्तराणि भक्त्या प्रयुक्त इव चक्रधरे प्रणामः।।22।।
मूर्तेस्त्रिकोणागमकण्टकेषु रवीन्दुजीवर्क्षनवांशसंस्थः।
सुकर्मकृन्निरत्यमशेषदोषान्मुष्णाति वर्द्धिष्णुनरनुष्णरश्मिः।।23।।
केन्द्रत्रिकोणनिधनेषु न यस्य पापा लग्नाधिपः सुरगुरुश्च चतुष्टयस्थौ।
भुक्त्वा सुखानि विविधानि सुपुण्यकर्मा जीवेच्च वत्सरशतं स विमुक्तरोगः।।24।।
श्रीपत्युदीरितदशाभिरथाष्टवर्गाद्यत्कालचक्रदशयोडुदशाप्रकारात्।
सम्यक्स्फुटाभिहतया क्रिययाप्तवाक्यादायुर्बुधोनो वदतु भूरिपरीक्षया च।।25।।
इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां आयुर्भावो नाम त्रयोदशोऽध्यायः।।13।।