सुस्था विलग्नशशिनोः सुतभेशजीवाः सुस्थाननाथशुभदृष्टियुते सुतर्क्षे।
लग्नात्मपौ यदि युतौ च मिथः सुदृष्टौ क्षेत्रे परस्परगतौ यदि पुत्रसिद्धिः।।1।।
लग्नामरेड्यशशिनां सुतभेषु पापैर्युक्तेक्षितेष्वथ शुभैरयुतेक्षितेषु।
पापोभयेषु सुतभेषु सुतेश्वरेषु दुस्थानगेषु न भवन्ति सुताः कथञ्चित्।।2।।
पापे स्वर्क्षगते सुते तनयभाक् तस्मिन् सपापे पुनः
पुत्राः स्युर्बहुलाः शुभस्वभवने सोग्रे सुते पुत्रहा।
संज्ञां चाल्पसुतर्क्षमित्यलिवृषस्त्रीसिंहभानां विदुः
तद्राशौ सुतभावगेऽल्पसुतवान् कालान्तरेऽसाविति।।3।।
सूर्ये चाल्पसुतर्क्षगे निधनगे मन्दे कुजे लग्नगे
लग्नाष्टव्ययगैः शनीड्यरुधिरैश्चाल्पात्मजर्क्षे सुते।
चन्द्रे लाभगते गुरुस्थितसुतस्थाने सपापे भवे-
ल्लग्नेऽनेकखगान्विते तनयभाक्कालान्तरे यत्नतः।।4।।
सूर्ये नान्युते सुतर्क्षसहिते चन्द्रस्य गेहे स्थिते
भीमे वा भृगुजेऽपि वा सति सुतप्राप्तिं द्वितीयस्त्रियाम्।
मन्दे वा बहुपुत्रवाञ्च्छशिनि वा सौम्येऽपि वाल्पात्मजो
देवेड्ये बहुदारिका शशिगृहे तद्वत्सुताधिष्ठिते।।5।।
सुखास्तदशमस्थितैरशुभकाव्यशीतांशुभिर्य्गयाष्टतनयोदयेष्वशुभगेषु वंशक्षयः।
मदे कविविदौ मतौ गुरुरसद्भिरम्बुस्थितैः सुते शशिनि नैधनव्ययतनुस्थपापैरपि।।6।।
पापे लग्ने लग्नपे पुत्रसंस्थे धीशे वीर्ये वेश्मनीन्दावपुत्र।
ओजर्क्षेंशे पुत्रगे सूर्यदृष्टे चन्द्रे पुत्रक्लेशभाक् स्यादसूनुः।।7।।
मान्दं सुतर्क्षं वाऽथ बौधं मान्द्यार्कपुत्रान्वितवीक्षितं चेत्।
दत्तत्मजः स्यादुदयास्तनाथसम्बन्धहीनो विबलः सुतेशः।।8।।
नीचारिमूढोपगते सुतेशे रिःफारिरन्ध्राधिपसंयुते वा।
सुतस्य नाशः कथितोऽत्र तज्ज्ञैः शुभैरदृष्टे सुतभे सुतेशे।।9।।
सुतनाथजीवकुजभास्करेषु वै पुरुषांशकेषु च गतेषु कुत्रचित्।
मुनयो वदन्ति बहुपुत्रतां तदा सुतनाथवीर्यवशतः सुपुत्रताम्।।10।।
पुंराश्यंशेऽधीश्वरे पुंग्रहेन्द्रैर्युक्ते दृष्टे पुंग्रहे पुंप्रसूतिः।
स्त्रीराश्यंशे स्त्रीग्रहैर्युक्तदृष्टे स्त्रीणां जन्म स्यात्सुतर्क्षे सुतेशे।।11।।
बलयुक्तौ स्वगृहांशेष्वर्कसितावुपचयर्क्षगौ पुंसाम्।
स्त्रीणां वा कुजचन्द्रौ यदा तदा सम्भवति गर्भः।।12।।
अशत्रुनीचारिनवांशकैः सुते सुतेशयुक्तैरपि तैस्तथाविधैः।
सुतर्क्षगैर्वा गुरुभादिनांशकात्सुते फलैः पुत्रमितिर्विचिन्त्यते।।13।।
जीवेन्दुक्षितिजस्फुटैक्यभवने युग्मे च युग्मांशके
स्त्रीणां क्षेत्रबलं वदन्ति सुतदं मिश्रे प्रयासात्फलम्।
भास्वच्छुक्रगुरुस्फुटैक्यभवनेऽप्योजांशकेऽप्योजभे
पुंसां बीजबलं सुतप्रदमिमं मिश्रे तु मिश्रं वदेत्।।14।।
पञ्चाघ्नाच्छशिनः स्फुटादिषुहतं भानुस्फुटं शोधये-
न्नीत्वा तत्र तिथिं सिते शुभतिथौ पुत्रौऽस्त्ययत्नादपि।
कृष्णे नास्ति सुतस्तििथेर्बलवशाद्ब्रूयाद्द्वयोः पक्षयोः
दर्शेच्छिद्रतिथौ च विष्टिकरणे न स्यात् स्थिराख्ये सुतः।।15।।
विष्टिः स्थिरं वा करणं यदि स्यात् कृष्णं यजेत् पौरुषसूक्तमन्त्रैः।
षष्ठ्यां गुहाराधनमत्र कार्यं यजेच्चतुर्यांेत किल नागराजम्।।16।।
रामायणस्य श्रवणं नवम्यां यद्यष्टमी चेच्छ्रवणव्रतं च।
चतुदर्शी चेद्यदि रुद्रपूजा स्याद्द्वादशी चेत्स्मृतमन्नदानम्।।17।।
तृप्तिं पितॄणामिह पञ्चदश्यां कृष्णे दशम्याः परतोऽतियत्नात्।
पक्षत्रिभागेष्वपि नागराजं स्कन्दं च सेवेत हरिं क्रमेण।।।18।।
पुत्रेशो रिपुनीचगोऽस्तमयगो रिःफाष्टमारिस्थित-
स्तद्वत्पुत्रगृहस्थितोऽपि यदि वा दुःस्थानपस्तद्वशात्।
पुत्राभावनिदानमेव कथयेत् तत्खेचराक्रान्तभ-
प्रोक्तैर्दैवतभूरुहैरपि मृगैः सन्तानहेतुं वदेत्।।19।।
द्रोहाच्छम्भुसुपर्णयोर्नहि सुतः शापात्पितॄणां रवे-
रिन्दोर्मातृसुवासिनीभगवतीकोपान्मनोदोषतः।
स्वग्रामस्थितदेवतागुहरिपुज्ञात्युत्थदोषात्कुजे
शापाद्वालकृताद्विडालवधतः श्रीविष्णुकोपाद्बुधे।।20।।
पारम्पर्यसुरप्रियद्विजगुरुद्रोहात्फलाढ्यद्रुम-
च्छेदाद्देवगुरौ तथा सति भृगौ पुष्पद्रुमच्छेदनात्।
साध्वी गोकुलजातदोषवशतो यक्ष्मादिकामेन सा
मन्देऽश्वत्थवधाद्रुषा पितृपतेः प्रेतैः पिशाचादिभिः।।21।।
स्वर्भानौ सुतरो सुतेशसहिते सर्पस्य शापात्तथा
केतौ ब्राह्मणशापतश्च गुलिके प्रेतोत्थशापं वदेत्।
शुक्रेन्दू गुलिकान्वितौ यदि वधूगोहत्तिमाहुः सुते
जीवो वाथ शिखी समान्दिरिह चेद्भूदेवहत्याऽसुतः।।22।।
एवं हि जन्मसमये बहुपूर्वजन्मकर्मार्जितं दुरितमस्य वदन्ति तज्ज्ञाः।
तत्तद्ग्रहोक्तजपदानशुभक्रियाभिस्तद्दोषशान्तिमिह शंसतु पुत्रसिद्ध्यै।।23।।
सेतुस्नानं कीर्तनं सत्कथायाः पूजां शम्भोः श्रीपतेः सद्व्रतानि।
दानं श्राद्धं कर्जनागप्रतिष्ठां कुर्यादेतैः प्राप्नुयात्सन्ततिं सः।।24।।
लग्नास्तपुत्रपतिजीवदशापहारे पुत्रेक्षकस्य सुतगस्य च पुत्रसिद्धिः।
पुत्रेशराशिमथवा यमकण्ठकर्क्षं जीवे गते तनयसिद्धिरथांशभे वा।।25।।
लग्नाधीशः पुत्रनाथेन योगं स्वोच्चे स्वर्क्षे चारगत्या समेति।
पुत्रप्राप्तिः स्यात्तदा लग्ननाथः पुत्रर्क्षं वा याति धीशाप्तभं वा।।26।।
विलग्नकामात्मजनायकानां योगात्समानीय दशां महाख्याम्।
सुतस्थतद्वीक्षकतत्पतीनां दशापहारेषु सुतोद्भवः स्यात्।।27।।
सुतपतिगुर्वोरथवा तद्युक्तराश्यंशकाधिपानां वा।
बलसहितस्य दशायामपहारे वा सुतप्राप्तिः।।28।।
जीवे तु जीवात्मजनाथभांशकत्रिकोणगे पुत्रजनिर्भवेन्नृणाम्।
अथान्यशास्त्रेण च जन्मकालतो निरूपयेत्सन्ततिलक्षणं बुधः।।29।।
जन्मनक्षत्रनाथस्य प्रत्युरर्क्षाधिपस्य च।
स्फुटयोगं गते जीवे त्रिकोणे वा सुतोद्भवः।।30।।
निषेकलग्नाद्दिनपस्तृतीये राशौ यदा चारवशादुपैति।
आधानलग्नादथवा त्रिकोणे रवौ यदा जन्म वदेन्नराणाम्।।31।।
आधानलग्नात्सुतभेशजन्मभाग्येऽपि वा पुण्यवशाच्च वाच्यम्।
आधानलग्ने शुभदृष्टियोगे दीर्घायुरैश्वर्ययुतो नरः स्यात्।।32।।
तत्कालेन्दुद्वादशांशे मेषात्तावति भेऽपि वा।
तस्मात्तावति भे वाऽपि जन्मचन्द्रं वदेद्बुधः।।33।।
प्रश्नात्मजस्वीकरणोपनीतिकन्याप्रदानाभिनवार्तवेषु।
आधानकालेऽपि च जन्मतुल्यं वदेज्जन्मविलग्नतश्च।।34।।
इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां पुत्रचिन्ता नाम द्वादशोऽध्यायः।।12।।