यद्यत्पुंप्रसवे क्षमं तदखिलं स्त्रीणां प्रिये वा वदे-
न्माङ्गल्यं निधनात् सुतांश्च नवमाल्लग्नात्तनोश्चारुताम्।
भर्तारं सुभगत्वमस्तभवनात्सङ्गं सतीत्वं सुखात्
सन्तस्तेषु शुभप्रदास्त्वशुभदाः क्रूरास्तदीशं विना।।1।।
उदयहिमकरौ द्वौ युग्मगौ सौम्यदृष्टौ सुतनयपतिभूषासम्पदुत्कृष्टशीला।
अशुभसहितदृष्टौ चौजगौ पुंस्वभावा कुटिलमतिरवश्या भर्तुरुग्रा दरिद्रा।।2।।
सद्राश्यंशयुते मदे द्युतियशोविद्यार्थवांस्त्पति-
र्य्ात्यस्ते कुतनुर्जडश्च कितवो निःस्वो वियोगस्तयोः।
आग्नेयैर्मदनस्थितैश्च विधवा मिश्रैः पुनर्भूर्भवेत्
क्रूरेष्वायुषि भर्तृहन्त्र्यपि धने सन्तः स्वयं स्त्रीमृतिः।।3।।
सुतस्थेऽलिस्त्रीगोहरिषु हिमगौ चाल्पतनया
यमारार्कांशर्क्षे मदनसदने सामयभगा।
सुखे पापैर्युक्ते भवति कुलटा मन्दकुजयो-
र्गृहेंऽशे लग्नेन्दू भृगुरपि च पुंश्चल्यभिहिता।।4।।
शुभक्षेत्रांशेऽस्थे सुभगजघना मङ्गलवती
विधोः सत्सम्बन्धेऽप्युदयसुखयोः साध्व्यतिगुणा।
त्रिकोणे सौम्याश्चेत्सुखसुतसम्पद्गुणवती।
बलोनाः क्रूराश्चेद्यदि भवति वन्ध्या मृतसुता।।5।।
चन्द्रे भौमगृहे कुजादिकथितत्रिंशांशकेषु क्रमात्
दुष्टा दास्यसती सुशीलविभवा मायाविनी दूषणी।
शुक्रर्क्षे बहुदूषणान्यपतिगा पूज्या सुधीर्विश्रुता
ज्ञर्क्षे छद्मवती नपुंसकसमा साध्वी गुणाढ्योत्सुका।।6।।
स्वच्छन्दा भर्तुघातिन्यतिमहितगुणा शिल्पिनी साधुवृत्ता
चान्द्रे जैवे गुणाढ्या विरतिरतिगुणा ज्ञातशिल्पातिसाध्वी।
मान्दे दास्यन्यसक्ताश्रितपतिरसती निष्प्रजार्थार्कभे स्याद्
दुर्भार्या हीनवृत्ता धरणिपतिवधूः पुंविचेष्टान्यसक्ता।।7।।
शशिलग्नसमायुक्तैः फलं त्रिंशांशकैरिदम्।
बलाबलविकल्पेन तयोरेवं विचिन्तयेत्।।8।।
ज्येष्ठभ्रातारमम्बिकां च पितरं भर्तुः कनिष्ठं क्रमात्
ज्येष्ठा ह्यासुरशूर्पजाश्च वनिता घ्नन्तीति तज्ज्ञा विदुः।
चित्रार्द्राभुजगस्वाराट्च्छतभिषरङ्मूलाग्नितिष्योद्भवा
वन्ध्या वा विधवाथवा मृतसुता त्यक्ता प्रियेणाधना।।9।।
चन्द्रास्तोदयाभाग्यपाः सह शुभैः सुस्थानगा भास्वराः
पूज्या बन्धुषु पुण्यकर्मकुशला सौन्दर्यभाग्यान्विता।
भर्तुः प्रीतिकरी सुपुत्रसहिता कल्याणशीला सती
तावद्भाति सुमङ्गली च सुतनुर्यावच्छुभाढ्येऽष्टमे।।10।।
शीतज्योतिषि योषितोऽनुपचयस्थाने कुजेनेक्षिते
जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलम्।
दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निषेकं पुमान्
अत्याज्ये समये शुभादिकयुते पर्वादिकालोज्झिते।।11।।
इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां स्त्रीजातको नाम एकादशोऽध्यायः।।11।।