शुभाधिपयुतेक्षिते सुतकलत्रभे लग्नतो
विधोरपि तयोः शुभं त्वितरथा न सिद्धिस्तयोः।
सिताद्व्ययसुखाष्टगैः खरखगैरसन्मध्यगे
सितेऽप्यथ शुभेतरेक्षितयुते च जायावधः।।1।।
दारेशे सुतगे प्रणष्टवनितोऽपुत्रोऽथवा धीश्वरो
द्यूने वा निधनेश्वरोऽपि कुरुते पत्नीविनाशं ध्रुवम्।
क्षीणेन्दौ सुतगे व्ययास्ततनुगैः पापैरदारात्मजः
स्त्रीसङ्गाद्धननाशनं मदगयोः स्वर्भानुभान्वोर्वदेत्।।2।।
शुक्रे वृश्चिकगे मदे मृतवधूः कामे वृषस्थे बुधे
स्त्रीनाशस्त्वथ नीचगे सुरगुरौ द्यूनाधिरूढे तथा।
जामित्रे झषगे शनौ सति तथा भौमेऽथवा स्त्रीमृति-
श्चन्द्रक्षेत्रगयोर्मदेऽर्किकुजयोः पत्नी सती शोभना।।3।।
अस्ते वास्पतावसद्ग्रहयुते दृष्टेऽप्यसन्मध्यगे
नीचारातिगृहेऽर्ककान्त्यभिहते ब्रूयात्कलत्रच्युतिम्।
कामे वा सुतभाग्ययोर्विकलदारोऽसौ सपापे भृगौ
शुक्रे वा कुजमन्दवर्गसहिते दृष्टे परस्त्रीरतः।।4।।
भौमार्य्जस्ते भृगुजशशिनोर्दारहीनोऽसुतो वा
क्लीबेऽस्ते वा भवति भवगौ द्वौ ग्रहौ स्त्रीद्वयं स्यात्
द्वन्द्वर्क्षांशे मदपतिसितौ तस्य जायाद्वयं स्यात्
ताभ्यां युक्तैर्गगननिलयैर्दारसंख्यां वदन्तु।।5।।
स्त्रीसंख्यां मदगैर्ग्रहैर्मृतिमसत्खेटैश्च सद्भिः स्थितिं
द्यूनेशे सबले शुभे सति वधूः साध्वी सुपुत्रान्विता।
पापोऽपि स्वगृहं गतः शुभकरः पत्न्याश्च कामस्थितो
हित्वा षड्व्ययरन्ध्रपान्मदनगाः सौम्यास्तु सौख्यावहाः।।6।।
भार्यानाशस्त्वशुभसहितो वीक्षितौ वार्थकामौ
तत्र प्राहुस्त्वशुभफलदां क्रूरदृष्टिं विशेषात्।
एवं पत्न्या अपि सति मदे चाष्टमे वास्ति दोषः
सौम्यैर्दृष्टे सति शुभयुते दम्पती भाग्यवन्तौ।।7।।
चन्द्रे समन्दे मदगे पुनर्भूः पतिर्भवेद्वाप्यसुतो विदारः।
नीचारिभस्थैरशुभैर्मदे स्त्रीपुंसोर्मृतिः स्यान्निधने धने वा।।8।।
लग्नात्कलत्रभवने समराशिसंज्ञे भावाधिपेऽपि च तथैव गतेऽसुरेड्ये।
सूर्याभितप्तरहिते सुतदारनाथे वीर्यान्विते तु जननं ससुतं कलत्रम्।।9।।
कुटुम्बदारव्ययराशिनाथा जीवेक्षिमताः कोणचतुष्टयस्थाः।
दारेश्वराद्वित्तकलत्रलाभे सौम्याः कलत्रं ससुतं सुखाढ्यम्।।10।।
लग्नास्तनाथस्थितभांशकोणे नीचोच्चभे स्त्रीजननं च पत्युः।
चन्द्राष्टावर्गेऽधिकबिन्दुराशौ कलत्रजन्मेति तथा धवस्य।।11।।
कामस्थकामाधिपभार्गवानामृक्षं दिशं शंसति तस्य पत्न्याः।
शुक्रोऽस्तपो वा तनुनाथभांशत्रिकोणमायाति तदा विवाहः।।12।।
कलत्रसंस्थस्य कलत्रदृष्टेर्दशागमेवाथ कलत्रपस्य।
यदा विलग्नाधिपतिः प्रयाति कलत्रभं तत्र कलत्रलाभः।।13।।
कलत्रनाथस्थितभांशकेशयोः सितक्षपानायकयोर्बलीयसः।
दशागमे द्यूनपयुक्तभांशकत्रिकोणगे देवगुरौ करग्रहः।।14।।
कलत्रनाथे रिपुनीचसंस्थे मूढेऽथवा पाननिरीक्षिते वा।
कलत्रभे पापयुतेऽथ दृष्टे कलत्रहानिं प्रवदन्ति सन्तः।।15।।
इति श्रीमन्त्रेश्वरविरचितायां फलदीपिकायां कलत्रभावो नाम दशमोऽध्यायः।।10।।