फलदीपिका
नवमोऽध्यायः


मेषादीनां लग्नफलम्

वृत्तेक्षणो दुर्बलजानुरुग्रो भीरुर्जलेस्याल्लघुभुक् सुकामी।
सञ्चारशीलश्चपलोऽनृतोक्तिर्वृणाङ्किताङ्गः क्रियभे प्रजातः।।1।।

पृथूरुवक्त्रः कृषिकर्मकृत्स्यान्मध्यान्तसौख्यः प्रमदाप्रियश्च।
त्यागी क्षमी क्लेशसहश्च गोमान् पृष्ठास्यपाश्वे ऽङ्कयुतो वृषोत्थः।।2।।

श्यामेक्षणः कुञ्चितूर्द्धजः स्त्रीक्रीडानुरक्तश्च परेङ्गितज्ञः।
उत्तुङ्गनासः प्रियगीतनृत्तो वसन् सदान्तः सदने च युग्मे।।3।।

स्त्रीनिर्जितः पीनगलः समित्रो बह्वलालयस्तुङ्गकटिर्धनाढ्यः।
ह्रस्वश्च वक्रो द्रुतगः कुलीरे मेधान्वितस्तोयरतोऽल्पपुत्रः।।4।

पिङ्गेक्षणः स्थूलनुर्विशालवक्त्रोऽभिमानी सपराक्रमः स्यात्।
कुप्यत्यकार्ये वनशैलगामी मातुर्विधेयः स्थिरधीर्मृगेन्द्रे।।5।।

स्रस्तांसबाहुः परवित्तगेहैः सम्पूज्यते सत्यरतः प्रियोक्तिः।
व्रीडालसाक्षः सुरतप्रियः स्याच्छास्त्रार्थविच्चाल्पसुतोऽङ्गनायाम्।।6।।

चलत्कृशाङ्गोऽल्पसुतोऽतिभक्तो देवद्विजनामटनो द्विनामा।
प्रांशुश्च दक्षः क्रयविक्रयेषु धीरोऽदयस्तौलिनि मध्यवादी।।7।।

वृत्तोरुजङ्ग: पृथुनेत्रवक्षा रोगी शिशुत्वे गुरुतातहीनः।
क्रूरक्रियो राजकुलाभिमुख्यः कीटेऽब्जरेखाङ्कितपाणिपादः।।8।।

दीर्घास्यकण्ठः पृथुकर्णनासः कर्मोद्यतः कुब्जतनुनृपेष्टः।
प्रागल्भ्यवाक्त्यागयुतोऽरिहन्ता साम्नैकसाध्योऽश्विभवो बलाढ्यः।।9।।

आधः कृशः सत्त्वयुतो गृहीतवाक्योऽलसोऽगम्यजराङ्गनेष्टः।
धर्मध्वजो भाग्ययुतोऽटनश्च वातार्दितो नक्रभवो विलज्जः।।10।।

प्रच्छन्नपापो घटतुल्यदेहो विघातदक्षोऽध्वसहोऽल्पवित्तः।
लुब्धः परार्थी क्षयवृद्धियुक्तो घटोद्भवः स्यात्प्रियगन्धपुष्पः।।11।।

अत्यम्बुपानः समचारुदेहः स्वदारगस्तोयजवित्तभोक्ता।
विद्वान्कृतज्ञोऽभिभवत्यमित्रान् शुभेक्षणो भाग्ययुतोऽन्त्यराशौ।।12।।

राशेः स्वभावाश्रयरूपवर्णान् ज्ञात्वाऽनुरूपाणि फलानि तस्य।
युक्त्या वदेदत्र फलं विलग्ने यच्चन्द्रलग्नेऽपि तदेव वाच्यम्।।13।।

ग्रहे सति निजोच्चगे भवति रत्नगर्भाधिपो
महीपतिकृतस्तुतिर्महितसम्पदामालयः
उदारगुणसंयुतो जयति विक्रमार्को यथा
नये यशसि विक्रमे वितरणे धृतौ कौशले।।14।।

स्वमन्दिरगते ग्रहे प्रभुपरिग्रहादायतिं
प्रभुत्वमपि वा गृहस्थितिमचञ्चलां प्राप्नुयात्।
नवं भुवनमुर्वराक्षितिमुपैति काले स्वके
जने बहुमतिं पुनः सकलनष्टवस्तून्यपि।।15।।

ग्रहः सुहृत्क्षेत्रगतः सुहृद्भिः कार्यस्य सिद्धिं नवसौहृदं च।
सत्पुत्रजायाधनधान्यभाग्यं ददात्ययं सर्वजनानुकूल्यम्।।16।।

गते ग्रहे शत्रुगृहं निकृष्टतां परान्नवृत्तिं परमन्दिरस्थितिम्।
अकिञ्चनत्वं रिपुपीडनं सदा स्निग्धोऽपि तस्यातिरिपुत्वमाप्नुयात्।।17।।

नीचे ग्रहेऽधः पतनं स्ववृत्तेर्दैन्यं दुराचारमृणाप्तिमाहुः।
नीचाश्रयं कीकटदेशवासं भृत्यत्वमध्वानमर्थकार्यम्।।18।।

ग्रहो मौढ्यं प्राप्तौ मरणमचिरात् स्त्रीसुतधनैः
प्रहीणत्वं व्यर्थे कलहमपवादं परिभवम्
समर्क्षस्थः खेटो न कलयति वैशेषिकफलं
सुखं वा दुःखं वा जनयति यथापूर्वमचलम्।।19।।

वक्रं गतः स्वोच्चफलं विदध्यात् सपत्ननीचर्क्षगतोऽपि खेटः।
वर्गोत्तमांशस्थितखेचरोऽपि स्वक्षेत्रगस्योक्तफलानि तद्वत्।।20।।

इति श्रीमन्त्रेश्वरविचरितायां फलदीपिकायां मेषादीनां लग्नफलं नाम नवमोऽध्यायः।।9।।