।।ॐ तत्सद्ब्रह्मणे नमः।।
परमेश्वरकृतकर्मदीपिकाव्याख्यासहितं
महाभास्करीयम्

अथ चन्द्रार्कौ बिना तिथ्यानयनमाह -

शशिवत्सरताहिते गणेऽह्नां

युगभूवासरभाजिते तथा।

अधिकाब्धगुणे तथैव विद्या-

दुभयोरन्तरमर्कवर्षपूर्वम्।।1।।

रविवर्षगणेन नास्ति कृत्वा

परिशेषीकृतराशितोऽथ मासौ।

धृतिसंमितवासरान्दिनेभ्य:

परिशोध्यैव तदा भुजादिकार्यम्।।2।।

रविसंहृतमर्ककाललब्धं

विपरीतं तु धनर्णमिन्द्वहेषु।

शशिकेन्द्रजमप्यथाऽऽशु चैवं

शशिवत्तन्निशि वासरेषु कार्यम्।।3।।

परिनिष्ठितनाडिकाऽप्यतीता

शशिनो यादिवसविहीनस्त्यषष्टिनिघ्ना:

स्फुटभागविशेषसूर्यभागै:

र्भजितास्ता:स्फुटनाडिकास्तदाप्ता:।।4।।

शशिवत्सरेति। शशिवत्सरेण द्युगणं निहत्य युगभूदिवसैर्विभजेत्। तत्र वर्षादिफलं भवति। तच्चान्द्रं च भवति। पुन(र)धिकाब्धगुणिताद्द्युगगणाद्भूदिनैश्च वर्षादिफलं भवति। अधिकवर्षादिकं चान्द्रवर्षादिकाद्विशोध्य शिष्टं सौरवर्षादिकं भवति। तत्र वर्षान्विशोध्य शिष्टान्मासद्वयमष्टादशदिनानि च विशोध्येत्। राशिद्वयमष्टादश भागाश्चेत्यर्थ:। शेषभुजाया: सूर्यभुजाफलमानीय तल्लिप्ताभ्यो द्वादशांशसमानघटिकां चान्द्राद्वर्षादिकात÷द्भुजफलस्य धनत्वे विशोधयेत्। तस्य ऋणत्वे प्रक्षिपेत्। पुनरुपायविशेषेण चन्द्रकेन्द्रं विदित्वाऽस्मादसिद्धबाहुफलाद्द्वादशांशमणि तद्भुजावच्चान्द्रघटिकाया: कुर्यात्। तदा तस्मिन्दिवसा: शुक्र(क्ल)प्रतिपदाद्यास्तिथयो......तत्र वर्तमानदिवसस्य या अतीता.... कास्तष्ष....निहत्य सूर्येन्द्वोर्गत्यन्तरकलाभ्यो द्वादशांशेन विभज्य लब्धा स्फुटा नाडिका भवति। चान्द्रदिनाच्छशिकेन्द्रं स्वराङ्ककुहारै: खखाब्धिनिहतान्(त्)स्यात् 'शोध्या गोक्षी(क्षि)त्यङ्कक्ष्माभिर्भागयुते तथैर्कोऽश:' इत्यनेन शशिकेन्द्रं ज्ञेयम्।।1।।2।।3।।4।।

स्फुटार्कान्मध्यमार्कानयनमाह -

दिनमध्यच्छायार्कादुच्चविशुद्धभुजाफलं यत्स्यात्।

तत्क्षयधनविपरीतादपि शेषविधेरवेर्मध्यम्।।5।।

दिनमध्यच्छायेति। मध्यदिनच्छायासिद्धो हि स्फुट: स्यात्। तस्मात् स्फुटार्कात्स्वोच्चं वि शोध्य तत्संख्यया मखिं 225 धनुर्भागं निहत्य एकत्र स्थाप्य पुनर्ज्याशेषं मख्या निहत्य वर्तमानखण्डज्यया विभज्य लब्धं पूर्वस्थापिते प्रक्षिपेत्। तदिष्टजीवाया धनुर्भवति। मखे: शेषमित्यनेन तत्साधनूतजीवाशेषमेवोच्यते।।6।।

सार्धांशकोऽक्षाष्टकलाविहीन-

श्छायादिनार्धे समभूमिभागे।

पञ्चाङ्गुलं द्वादशकस्य शङ्को-

राप्ता तस्मिन्दिनमध्ययात:।।7।।

अष्टौ लवा:षोडशलिप्तिकोना

वल(लव)प्रवा(मा)णं प्रवदन्ति यस्मिन्।

छायादिनार्धेऽर्धचतुर्थसंख्या

तत्राऽऽशु वाच्य:सविता नभस्थ:।।8।।

पञ्चाधिका विंशतिरक्षभागा

त्रिंशच्च यस्मिन्विहिता फलस्य।

छाया तयोः शङ्कुसमा दिनार्धे

क्षिप्रं समाचक्ष्व तयोः स्फुटार्कान्।।9।।

अक्षांशकाः पञ्चदशैव यस्मिन्

छाया रवेः पञ्चभागयुक्ता

सार्धाङ्गुला स्यात्सममण्डलोत्था

वाच्यो वितस्वान्खलु तत्र कीदृक्।।10।।

सप्तत्रिंशच्छाया समण्डलजा पलाङ्गुलस्त्रिंशत्।

वाच्यो जगत्प्रदीपः सममण्डलसंस्थितः सविता।।11।।

छाया षोडशदृष्टा प्रागपरसमायता समदेशे।

सार्धाः सप्त पलांशास्तत्र विवस्वान्कियान्वाच्यः।।12।।

नीता रवेर्बलवता मरुता समस्ता

रास्यादयोऽत्र गणिताः सहतत्पराभिः।

शेषो मया परिगतः खलु तत्पराणां

सैकं शतं कथय भानुमहर्गणं च।।13।।

राशिभागसहिताः शशिलिप्ता

बालहस्तपरिमृष्टविनष्टाः।

पञ्चवर्गविकलाः खलु दृष्टा-

स्ताभिरार्थदिनराशिशशाङ्कौ।।14।।

रात्र्यंशका हृता वात्या भागशेषत्रिसप्तभिः।

वाच्यो भौमः कियांस्तत्र कीदृशो वाऽप्यहर्गणः।।15।।

राशित्रयं पञ्चदशांशयुक्तं

लिप्ता निशानाथसुतस्य पञ्च

एतत्समीक्ष्याक्षगतान्यहानि

यातानि तस्यैव च मण्डलानि।।16।।

मघवद्गुरुराशिभागलिप्ताः

शिशुना चपलेन नाशितास्ताम्।

नव तत्र लिप्तिकास्तु दृष्टा

दिनराशिं गुरुमध्यमाक्षताभिः।।17।।

मण्डलादि भृगुजस्य सलिप्तौ

नष्ठमत्र विकला दश दृष्टाः।

सूर्यजस्य दश सप्तसमेता

ब्रूहि तौ दि[]गणावथ शीघ्रम्।।18।।

एवं ग्रहविषयं गणितकर्म बहुधा पूर्वप्रदर्शितकदा(कुट्टा)कारा....बृदाहरणान्युद्देशकस्य प्रश्नद्वारेण बहुधा प्रदर्शयति। तत्र सार्धांशकोऽक्ष इत्यादयः प्रश्नाः। मर्ध्यदिनच्छायाभ्यामर्कानयनेऽक्षार्चा(क्षांशाः) पञ्चेत्यदयः। सममण्डलच्छायाक्षाभ्यामर्कानयनेऽक्षार्चा नीता रवेरित्यादयः।।7।।8।।9।।10।।11।।12।।13।।14।।15।।16।।17।।18।।

कुट्टकारेणाऽऽह -

पञ्च सप्त नव भौमशशाङ्कौ

राशिपूर्वगणितौ समवेती।

उच्यतां दिनगणः कलियातो

कीदृशौ च भटतन्त्रविदाशु।।19।।

भौमशुक्रगुरुमध्यविशेष:

पञ्चराशिगणितं परिपूर्ण:

उच्यतां दिनगण:कलियातो

देवमन्त्रिररुधिरौ च कियन्तौ।।20।।

सूर्याचन्द्रमसौ तुलाधारगतौ दृष्टौ मया तत्त्वतो

भागैर्द्वादशभिर्द्वयेन च युतौ सूर्यस्य वारोदये।

लिप्ताभिः शशिशून्यसागरयुतौ जीवस्य वारे पुनः

शुक्रस्याथ शनैश्चरस्य दिवसे तुल्यौ दिन(किय)द्भिर्दिनैः।।21

विलिप्ताभिरधिकोऽर्को विज्ञेयो भूधरेन्दुभिः।

शोधयेच्च निशानाथाद्विलिप्ता धृतिसंमताः।।22।।

नाडीभिरभ्युपगतादहनां गणा भागतस्तीक्ष्णां

शुभगणादिकेऽत्र निचिते नीतेऽधुना वात्यया।

दृष्टः सप्ततिरेकरूपसहिताः शेषां कलानां मया

वक्तव्यो द्युगणो गतश्च सवितुः स्पष्टाश्च ये(या)नाडिकाः।।23।।

अर्काङ्गारकवासरैरपहृतः कश्चिद्दिनानां गणो

लब्धौ तत्र न वेद नैव च तयोः शेषौ मया लक्षितौ।

यौ तौ मण्डलताडितावथ पुनर्भक्ते स्वौर्दृढो पृथक्

तत्राऽऽप्तं मधुनाऽपनीतमधुना चाग्रे तयोस्तिष्ठतः।।24।।

भास्करे मिथुनपर्यवसाने

शर्वरी त्रिगुणसप्तघटी स्यात्।

अक्षचापगुण(णि)ता वद् तस्मिन्

लम्बकेन सहितं विगणय्य।।25।।

...णाद्यानयने पञ्च सप्तेत्ययं भौमशशाङ्कयोर्योगविषयः। भौमशुक्रगुर्वित्ययं भौमजीवयोर्विशेषविषयः। सूर्याचन्द्रमसावित्ययं वारकुट्टारविषयः। भास्करे मिथुनेत्यक्षविषयः।।19।।20।।21।।22।।23।।24।।25।।

भास्करेण परिचिन्त्य कृतोऽयं

मन्दबुद्धिपरिबोधसमर्थः।

सम्यगार्थभटकर्मनिबद्धः

स्पष्टवाक्यकरणैः समवेतः।।26।।

भास्करेण परिचिन्त्य कृतोऽयमित्यनेनास्य तन्त्रस्य प्रयोजनमागपूर्वकता च प्रदर्श्यते।।26।।

स्पष्टा(सर्वा)र्थानककरणैश्छेद्यकेन्द्रगणे रवेः।

यदिहास्ति तदन्यत्र यन्नेहास्त....तत्।।27।।

इति महाभास्करीयेऽष्टमोऽध्यायः।।8।।

इति महाभास्करीयं समाप्तम्।।

-------

सर्वार्थेति। सर्वार्थानामहर्गणमध्यच्छायाकर्मादीनामनेकधा[क]रणं यस्मिंस्तन्त्रे तथाविधेऽस्मिंस्तन्त्रे यद्ग्राहकमस्ति तदेवान्यतन्त्रेषु विधीयते। रवेर्ग्रहणे छेद्यके चात्र यत्स्थित्यर्धादेः स्वरूपं प्रदर्शितं तदेव तन्त्रान्तरेषु प्रदर्श्यते। अस्मिंस्तन्त्रे यद्ग्रहकर्म नास्ति, तत्क्वचिदपि तन्त्रे न स्यात्। एवमनेन श्लोकेन तन्त्रं स्तूयते।।27।।

अधिकारो न येषां स्यादस्य भाष्यनिरीक्षणे।

कर्ममात्रप्रबोधार्थं तेषां व्याख्येयमीरिता।।

मुहूर्ताष्टकासिद्धान्तवाक्यमान्यायकर्मणाम्।

दीपिकां गोलभटयोश्चकरोस्परमेश्वरः।।

इति परमेश्वकृतायां कर्मदीपिकायामष्टमोऽध्यायः।।8।।