।।ॐ तत्सद्ब्रह्मणे नमः।।
परमेश्वरकृतकर्मदीपिकाव्याख्यासहितं
महाभास्करीयम्

अथ युगभगणानाह -

शतमष्टोत्तरं भानोश्चतुर्भिरयुतैर्हतम्4320000

इन्दो:षट्रत्र्यग्निरामेषुभूभृन्नगलिखा(शिली)मुखा: 5775336।।1।।

सागरं षडिषुषड्रवेदशीतरश्मिसभा:शने: 146564

वेदाश्विद्विचतुष्षट्करामसूरेरसृक्तनो: 364224।।2।।

कृतद्व्यष्टर्तुरन्ध्रद्वियमला2296824भास्करस्य ये।

बुधभृग्वोस्तु शेषाणां शीघ्रोच्चभगणा:स्मृता:।।3।।

इन्दूच्चस्य नवैकाश्विवस्वष्टकृत488219संज्ञिता:

बुधस्य खाश्विखाद्र्यग्निरन्ध्राचलनिशाकरा: 17938020।।45।।

भृगोर्वस्वष्टारामाश्विद्विखसप्तसमा गुणा:

राहो:षड्द्विकनेत्राग्निविष्णुक्रममिता:स्मृता:।।5।।

अङ्गपुष्कररामाग्निरन्ध्रेष्विन्दुमिताधिका:1593336

द्वादशघ्नयुतं भानोर्भङ्गिहारोऽधिकाप्तयो:।।6।।

अवमाख्योखवस्याक्षिद्व्यष्टखेष्वश्विनो25082280गुणा:

खाष्टव्योमखखाभ्राग्निखाष्टयो1603000060हार इष्यते।।7।।

व्योमखाष्टादिशीतांशुरन्ध्रद्व्यद्रिषु चन्द्रका: 1577917800

युगस्य+दिवसा:प्रोक्ता विक्षेपांशास्तत:परम्।।8।।

बुध(धा)स्फुजिभ्रवि(द्रवी)णां च द्वावेको वचसां पते:

सार्धाश:क्षितिपुत्रस्य पातभागा:क्रमेण च।।9।।

विंशति:खरसाश्चापि शतं खाष्टौ खसागरा:

उदगाशाद्विविक्षेपे पातहीनाद्विनिर्दिशेत्।।10।।

आशाश्विन:,खनवती,रसविष्णुक्रमाश्विन:

स्वाष्टेन्दवोऽष्टरुद्राश्च मन्दोच्चांशा यथाक्रमम्।।11।।

भास्करस्य विजानीयादष्टसप्ततिरंशका:

स्वमन्दोच्चं ग्रहाच्छोध्यं शीघ्राच्छोघ्ग(ध्या)ग्रहा:सदा।।12।।

सप्त चत्वारि रन्घ्राणि पर्वता मनव:क्रमात्।

एकत्रिंशन्नवशरा नव चाष्टित्रिकेषव:।।13।।

मन्दशीघ्रोच्चवृत्तानि विद्याविषमयोरपि।

समयो:पदयोश्चापि कथ्यन्ते मन्दशीघ्रयो:।।14।।

शिलीमुखाश्विनोऽग्न्येकवसवोऽष्टिर्दशैव च।

नवाश्विनो नगशरा वसवस्तिथय:क्रमात्।।15।।

एकपञ्चाशकं चैव सूर्यचन्द्रमसोरत:

विष्णुक्रम:क्षितिधरा जीवा मख्यादयो मता:।।16।।

शतमिति। भानुभगण:। इन्दोरिति। इन्दुभगणा:। सागरेति शनै:। वेदेति गुरो:। कृतेति कुजस्य। बुधभृग्वोर्भगुणा: भास्करभगणा एव। कुजगुरुमन्दानां शीघ्रभगणाश्च त एवा इन्दूच्चस्येति। तद्भगणा:। बुधस्येति। तच्छीघ्रोच्चभगणा:। भृगोरिति। तच्छीघ्रभगणा:। राहोरिति तद्भगण:। विष्णुक्रमास्त्रय:। अङ्गपुष्करेत्यधिमासा:। द्वादर्शघ्ना इति। सौरमासा अपमाव्योमेत्यवमदिनानि। खाष्टेति। चान्द्रदिनानि। व्योमर्दे(खे)ष्विति। भूदिनानि बुधशुक्रन्दानां परमविक्षेपभागौ द्वौ। गुरोरेक:। कुजस्य सार्धौऽश:। उक्तक्रमेण बुधादीनां पातभागा विंशत्यादय:। उदगाशादिविक्षेपा:। एतैर्भागैर्हीनाद्ग्रहादुक्तक्रमान्तमन्दोच्चाशां आशाश्विन इत्यादय:। भास्करस्याष्टसप्तति: स्वमन्दोच्चमिति। तत्प्रयोगविधि: सप्तेत्यादय:। बुधादीनां पूर्वोक्तक्रमेण विषमपदयोर्मन्दे परिधय एकत्रिंशदादय:। तत्र शीघ्रपरिधय: शिलीमुखाश्विन इति। बुधशुक्रयो: कर्मात् समपदपरिधय:। अग्न्येक इति। मन्दस्य नवाश्विन इत्यादय:। तेषां युग्मपदयोर्विष्णुक्रम इति। सूर्यस्य विषये युग्मे च परिधि: क्षितिधरा इति। तद्वच्चन्द्रस्याऽचार्येण गीतिकासूक्ता मन्दादयो जीवा ग्राह्य:।।1।।2।।3।।4।।5।।6।।7।।8।।9।।10।।12।।13।।14।।15।।16।।

+ मख्यादिजीवारहितं कर्माऽऽह -

मख्यादिरहितं कर्म वक्ष्यते तत्समासत:

चक्रार्धांशकसमूहाद्विशोध्या ये भुजांशका:।।17।।

तच्छेषगुणिताद्विष्टाशोध्यखाभ्रेषुखाब्धित:

चतुर्थांशेन शेषस्य वीषुमन्त्यफलं हतम्।।18।।

बाहुकोट्यो:फलं कृत्स्नं क्रमोत्क्रमगुणव्यवा।

लभ्यते चन्द्रतीक्ष्णांश्वोस्ताराणां तत्त्वत।।19।।

मख्यादिकर्मरहिमिति। इष्टभुजाचापभाक् षड्राशिभागेभ्यो विशोध्य शिष्टेन भुजाचापभागान् निहत्य पृथक्संस्थाप्य तयोरेकं खाभ्रेषु खाब्धिभ्यो विशोध्य शिष्टाच्चतुर्भिर्भक्तं हारको भवति। पृथक् स्थितिगुण्यो भवति। तं गुण्यराशिं ग्रहस्यान्तयफलेन निहत्य हारकेण हरेत्। तत्र लब्धं ग्रहस्य भुजां कलं भवति। अथवा गुण्यराशिं त्रिज्यया निहत्य हारेण हरेत्। तत्र लब्धं भुजज्या भवति। तथा परिधिस्फुटं कृत्वाऽन्त्यफलं ज्ञेयम्। उत्क्रम उत्क्रमभागान् . . . शिभागेभ्यो विशोध्य शेषेण जीवाफलमानीयान्त्यफलाद्विशोध्येत्। तदुत्क्रमफलं भवति। उत्क्रमज्या च तद्वत्साध्या।।17।।18।।19।।

× आकाशकक्ष्यामाह -

इन्दोर्गण:खखवी(वि)यद्रसवृन्दनिघ्ना

ब्योम्नो भवेयुरथ(रिह)वृत्तसमानसंख्या:

इष्टग्रहस्य भगणैर्गगनस्य वृत्तं

भङ्क्त्वाऽथ तस्य परिधिर्लभते समन्तात्।।20।।

इन्द्रार्भगणा(दोर्गण) इति। इन्दोर्भगणा दशगुणितचक्रकलाभिर्तिद्वा आकाशकक्ष्या भवन्ति। आकाशकक्ष्यामिष्टग्रहस्य भगणैर्हरेत्। तत्र लब्धंमिष्टाग्रहस्य कक्ष्या भवति।।20।।

एवमौदयिकं विधिमुक्त्वाऽर्धरात्रिकं तन्त्रान्तरमथोच्यत इत्याह -

निबन्ध:कर्मणां प्रोक्तो योऽसावौदयिको विधि:

अर्धरात्रेस्त्वयं सर्वो यो विशेष:स कथ्यते।।21।।

निबन्ध इति।।21।।

तत्रौदयिकविधेर्यो विशेषस्तदाह -

त्रिशती भूदिने क्षेप्याऽप्यवमेभ्यो विशोध्यते।

ज्ञगुर्वोर्भगणेभ्योऽपि विंशतिश्च ततोऽब्धय:।।22।।

त्रिशती भूदिन इत्यादिश्लोकै:। भूदिने शतत्रयं क्षेप्यम्। अवमेभ्य: शतत्रयं विशोध्यम्। ज्ञगुर्वोर्भगणोभ्यो विंशतिश्चत्वारश्च विशोध्या:।।22।।

÷ अष्टिशतगुणो व्यासो योजनानां भुवो रवे:

खाष्टाब्ध्यङ्गानि6480शीतांशो:शून्यवस्वब्धयस्तथा480।।23 ।।

वस्विन्द्रिगुणच्छिद्रवस्वङ्गानि विभावसो:

अङ्गाङ्गेष्वेकभूतानि5566चन्द्रकर्ण:प्रकीर्तित:।।24।।

अष्टिरष्ट जिना रुद्राविंशतिद्वर्यधिका:क्रमात्।

दशघ्ना गुरुशुक्रार्किभौमज्ञांधिस्वमन्दजा:।।25।।

शतगुण इति। शतगुणा अष्टि 1600 भूव्यास:। खाष्टाब्ध्यङ्गानि 6480 रविव्यास:। शून्यवस्वब्धय: 480 शशिव्यास। वस्वीन्द्रियगुणच्छिद्रवस्वङ्गानि 689358 रवेर्जोजनकर्ण:। अङ्गाङ्गेष्वेकभूतानि 51566 चन्द्रकर्ण:। दशघ्ना अष्टिभागा 160 गुरोर्मन्दोच्चांशा:। दशघ्ना अष्टौ 80 शुक्रस्य। दशघ्ना जिना 240 मन्दस्य। दशघ्ना रुद्रा 110। [भौमस्य] दशघ्ना द्व्यधिका विंशतिबुर्धस्य 220।।23।।24।।25।।

उक्तानां मन्दवृत्तन्याह -

+ मन्दवृत्तानि द्वात्रिंशन्मनव:षष्टिरेव च।

खाद्रयो वुद्रस्रा:स्यु:शीघ्रवृत्तन्यथाक्रमात्।।26।।

द्व्यद्रय:खाङ्गनेत्राणि खाब्धयोऽब्ध्याग्निदस्रका:

द्व्यद्रीन्द्रयो रवेर्मन्दशुक्रवदद्यवृत्तमेव च।।27।।

एकत्रिंशत्क्षपाभर्तुरर्धरात्रे विधीयते।

तेषां भागाश्च विज्ञेया:पण्डितै:परिकल्पिता:।।28।।

मन्दशीघ्रोच्चयो:क्षेप्यं चक्रार्धं बुधशुक्रयो:

रात्रित्रयं तु शेषाणां पात्यते पातसिद्धये।।29।।

कुजार्किदेवपूज्यानां भागौ द्वावेव कीर्तितौ।

मन्दपाताच्च शीघ्रोच्चात्सार्धांशस्तु भृगुज्ञयो:।।30।।

विबुधानां च सर्वेषां शीघ्रपाता:प्रकीर्तिता:

शोधियित्वा क्रमात्पातात् विक्षेपांशात्प्रसाधयेत्।।31।।

योगविश्लेषनिष्पत्तिरेकानेकस्वदिग्वशात्।

विक्षेप:स स्फुटो ज्ञेयो ग्रहस्यैकस्य कीर्तित:।।32।।

अन्यस्याप्येवमेव स्याच्छेषा:प्रागुक्तकल्पना:

एतत्सर्वं समासेन तन्त्रान्तरमुदाहृतम्।।33।।

त्रिंशन्मनव: षष्टि:। खाद्रयो वसुदस्रा इति। अथ शीघ्रवृत्तानि द्व्यद्रय: खाङ्गनेत्राणि ‍खाब्ध्य: अन्यानि(योग्नि)दस्रका:। द्व्यग्नी(द्री)न्दव इति। रवेरर्केन्द्वो[रु]च्चं। वृत्तं च शुक्रवत्। चन्द्रस्य वृत्तमेकत्रिंशत्। बुधशुक्रयो: पातार्धं चक्रार्थं(र्घं) मन्दोच्चधीघ्रोच्चयो: क्षेप्यम्। तत्र बुधस्य मन्दोच्चे एव। शेषाणां चक्रपाद (त): शोध्य:। शुक्रार्किदेवपूज्यानां मन्दपातश्च भागद्वयसंयुत: स्यात्। कुंजज्ञेयोर्मन्दपात: सार्धांशयुक्त:। बुधस्य शीघ्रवातो नास्ति। एवं पातद्वयमुक्तं तत्र पृथक्पृथक्पातं विशोध्य विक्षेपं साधयेत्। पुनस्तयोर्योगें वियोगे वा दिग्वशात्कृते स्फुटविक्षेपो भवति। तदुक्तं शोधयित्वा कमात्पातानिति।।26।।27।।28।।29।।30।।31।।32।।33।।

स्फुटे विशेषमाह -

शीघ्रमन्दोच्चचापार्धं संस्कृतात्स्वीयमन्दत:

स्फुटमध्यग्रहा:सर्वे विश्लेष:परिकीर्तित:।।34।।

शीघ्रमन्दोच्चेति। तत्र शीघ्रफलार्धं मन्दोच्चे क्रियतुलाद्योर्ऋणधने कृत्वा तत्रैव मन्दफलार्धं धनर्णं कुर्यात्। क्रियतुलाद्योरिति क्रम:। एवं फलद्वयसंस्कृतान्मन्दोच्चादेवास्तं सकलं मन्दन्यायेन मध्यमे कुर्यात्। स स्फुटमध्यम:। एतदिह सर्वेषां समानं स्यात्।।34।।

× आकाशकक्ष्यामाह -

वेदाश्विरामगुणितान्ययुताहतानि

चन्द्रस्य शून्यरहितान्यथ मण्डलानि।

स्वै:स्वैर्हृतानि भगणै:क्रमशो ग्रहाणां

कक्ष्या भवन्ति खलु योजनमानदृष्ट्या।।35।।

इति महाभास्करीये सप्तमोऽध्याय।।7।।

- - - - -

वेदाश्विरामगुणितानिति। ग्रहकक्ष्यामाह - स्वै: स्वैर्हतानीति। शून्यरवि(हि)ता ऐक.....न्यस्थानवार्जितानि।।35।।

इति परमेश्वरकृतायां कर्मदीपिकायां सप्तमोऽध्याय:।।7।।