अथ स्वस्वविक्षेपेण ग्रहाणां दर्शनसंस्कारद्वयमाह -
*स्वेष्टदेशपलजीवया हतां
क्षिप्तिमिष्टशशिजां हरेत्पुन:।
लम्बकेन यादवाप्तमुत्तरे
शोधयेदुदयगे निशाकरे।।1।।
अस्तगे धनमुशन्ति तारवे -
दंक्षिणे विधिरयं विपर्यय:।
वर्जितं त्रिभुवनस्य शीतगो -
रुत्क्रमापमविसंहतिं हरेत्।।2।।
व्यासवर्गनिचयेन शोधये -
च्चन्द्रतोऽयनविमण्डलाशयो:।
तुल्ययोर्घनमुशन्ति तद्विदो
व्यत्ययेन शशिनि तत्फलं सदा।।3।।
स्वेष्टदेशेति। इष्टकालानीतचन्द्रस्य विक्षेपकलां स्वदेशपलज्यया निहत्य लम्बकेन हरेत्। तत्रावाप्तां लिप्तादिकं फलमुत्तरविक्षेपे चन्द्र उदयग उदयविषयं गते शोधयेत्। अस्तगेऽस्तविषयं गते क्षिपेत्। दक्षिणविक्षेपेऽयं विधिव्यऽत्ययेन कार्य:। दक्षिणविक्षेप उदये धनमस्तमय ऋणमित्यर्थ:। एतदाक्षं कर्म। *अथाऽऽयनं कर्माऽऽह-वर्जितं त्रिभवनस्येति। चन्द्रस्फुटे राशित्रयं विशोध्य विशिष्टभुजाया उत्क्रमसज्यामानीयं तस्या विक्षेपस्य....परमापक्रमस्य च संहतिं तेषां त्रयाणां परस्परं वधं व्यासवर्गनिचयेन त्रिज्यावर्गेण विभजेत्। तत्र लब्धं लिप्तादिकं विक्षेपायनयोस्तुल्यदिशो: पूर्व्प्फलसंस्कृते चन्द्र शोधयेत्। विक्षेपायनदिशोर्भिन्नयो: क्षिपेत्। एवं सदा। अस्योदयास्तमयवशान्नभेद इत्यर्थ:। अत्र मण्डलशब्देन विक्षेपदिगुच्यते। चन्द्रोऽत्र सायनो ग्राह्य:। भयनदिगिह सायनस्य ग्राह्या। न राशित्रयहीनस्य।।1।।2।।3।।
दृश्यचन्द्र इति कथ्यते बुधै -
रेवमालिखितचारसंचय:।
भास्करेन्दुविवरांशकोद्भव:
प्राणराशिघटिकाद्वयै: शशी।।4।।
दृश्यतेऽमलनिरभ्रतारके
भास्करेऽस्तगिरिमूर्धगेऽम्बरे।
चन्द्रभानुविवरोत्क्रमज्यया
चन्द्रबिम्बमभिहत्य भाजयेत्।।5।।
षण्णवाष्टरससंख्ययया सितं
नित्यमेव गणक: प्रजायते।
चन्द्रभानुविवरं वदाधिकं
स्यात्तदा क्रमगुणेन युक्तया।।6।।
ल(त्रि)ज्यया सितविधिर्धीयते
पूर्वमानवर(श)तोऽसितं तथा।
सूर्यचन्द्रविवरांशजीवया
चोत्क्रमक्रमवशात्सितं विदु:।।7।।
दृश्य चन्द्र इति । एवं दृक्कर्मद्वययुतश्चन्द्रो दृश्य इत्युच्यते। दृक्समो भवति। स्वोदयकाले स्वास्तमयकाले च तल्लग्नसमो भवतीत्यर्थ:। चन्द्रस्य मौढ्यनिवृत्तिकालमाह-भास्करेन्दुविवरेति। सूर्यास्तमयकाले तत्कालसूर्यदृक्कर्मद्वययुततत्कालचन्द्रयोरन्तरालगता: प्राणा घटिकाद्वयतुल्याश्चेत्तदानीं चन्द्रो दृश्यो भवति। सूर्योदयेऽप्येवं घटिकाद्वयान्तरितश्चेद् दश्य:। अस्तमये षड्राशियुतयो: सूर्येन्द्वज्ञैश्रन्तरालघटिका: स्वोदयर्ग्राह्य:। *चन्द्रस्य सितमानाद्यानयनमाह-चन्द्रभानु विवरेति। चन्द्रादर्कं विशोध्य शिष्टं राशित्रया, उत्क्रमज्यामानीय तां त्रिज्यया योजयेत्। एकमुक्तजीवात: सितमानयेत्। यदि शेषं षड्राश्यधिकं भवति तदा षड्राशीनपास्य शेषादुक्तवज्जीवामानयेत्। तज्जीवातो सितमानं साध्यम्। यथोक्त्या चन्द्रमभिहत्य षण्नगाष्टरसैर्विभजेत्। तत्र लब्धं सितमानं भवति। षड्राश्यधिकं चेत्तथाऽऽनीतं कृष्णमानं भवति। उत्क्रमक्रमवशात्सितं विदुरिति। सूर्यचन्द्रविवरांशजीवयोत्क्रमक्रमवशात्सिद्धया यथा सितपक्षे सितं विदुस्तथाऽसितपक्षेऽसितं विदुरिति योज्यम्।।4।।5।।6।।7।।
चन्द्रस्यापमाद्यानयनमाह -
चन्द्रमा वद (मोपम)विकाष्ठयोर्युति -
स्तुल्यगोलभवयोरतोऽन्यथा।
काष्ठयोर्विप(व)रजापरो गुण -
स्तेन चन्द्रचरनाडिकाविधि:।।8।।
चन्द्रमोपविकाष्ठयोर्युतिरिति । चन्द्रस्यापमचापं विकाष्ठाख्यं विक्षेपचापं चाऽऽनीय तयोस्तुल्यादिशोर्योगं कृत्वा भिन्नदिशोरन्तरं कृत्वा जातस्य जीवामानयेत्। सा चन्द्रस्यापमजीवा भवति। तेनापमेन चन्द्रस्य स्वाहोरात्रक्षितिव्याचरज्या: पूर्ववत्साध्या:। पूर्वोक्तस्य वचनं विस्पष्टार्थमिति कल्प्यम् ।।8।।
शृङ्गोन्नतिपरिलेखनाय शङ्क्वाद्यानयनमाह -
भानुचन्द्रविवरासुभि: सदा
शङ्कुरुक्तविधिना विधीयते।
अक्षचापगुणसंगुणं हरे -
ल्लम्बकेन शशिकीलकं स्फुटम्।।9।।
कीलकाग्रगुण आप्यते ततो
नित्यदक्षिणगतोऽस्तसूत्रत:।
गोलखण्डगुणितो विभज्यते
लम्बकेन शशिनोऽपमा: स्फुटा:।।10।।
दक्षिणोत्तरदिकोर्निशाकृतो -
लभ्यतेऽग्रगुणसंज्ञित: सदा।
तुल्यकाष्ठगतयोस्तयोर्युति:
शुद्धिमन्यभवयोस्तयोर्विदु:।।11।।
भास्कराग्रगुणकेन तस्य तु
व्यत्ययेन युतिशोधने कृते।
बाहुक: शशभृत: स्फुटो मत:
कोटिरत्र शशिशङ्कुरिष्यते।।12।।
भानुचन्द्रविवरासुभिरिति । शुक्लपक्षेऽष्टम्या: प्राक्सूर्यास्तप्रये चन्द्रार्कौस्फुटीकृत्य चन्द्रस्य शङ्कुसाधनान्यानीय पुनश्चन्द्रस्य दृक्कर्मद्वयं कृत्वा सूर्येन्द्वोरन्तरासून्गन्तव्यासून्प्रकल्प्य चन्द्रशङ्कुमानयेत्। पुनश्चन्द्रशङ्कुक्षमज्यया निहत्य लम्बकेन विभजेत्। तत्र लब्धं चन्द्रस्य शङ्क्वग्रं भवति। नित्यक्षिणं च तदस्तोदयसूत्रत: पुनश्चन्द्रस्य स्फुटापमं व्यासर्धेन निहत्य लम्बकेन हरेत्। तत्र *लब्धमिन्द्वयं भवति। शङ्क्वग्रेन्द्वयोस्तुल्यदिशोर्योगं कुर्यात्। भिन्नदिशोन्तरं कुर्यात्। तच्छायाभुजो भवति। पुन: सूर्यस्यार्काग्रामानीय सूर्याग्रच्छायाभुजयोस्तुल्यदिशोरन्तरं कुर्यात्। भिन्नदिशोस्तयोर्योगं कुर्यात्। तत्र लब्धं चन्द्रस्य बाहुका भवति। तत्रान्तरितसूर्याग्राया आधिक्ये तद्विपरीना चन्द्रबाहुकाया दिग्भवति। सूर्यग्राया न्यूनत्वे सूर्याग्रावच्चन्द्रबाहुदिग्भवति। योगे तु सर्याग्राव्यत्ययेन चन्द्रबाहुर्दिग्भवति। कोटिरिहचन्द्रशङ्कुर्भवति।।9।।10।।।।11।।12।।
*शृङ्गोन्नतिपरिलेखनप्रकारमाह -
सूर्याद्याम्योत्तरे बाहु: कोटि: पूर्वपरा यत:।
बाहुकोटिशिर:प्रापि सूत्रं कर्ण: प्रकीर्तित:।।13।।
कर्णकोट्यग्रसंपाते शशिबिम्बं समालिखेत्।
कर्णसूत्रानुसारेण बिम्बान्त: सितबिन्दुकम्।।14।।
तद्विन्दुत्रयशीर्षस्पृग्वृत्तमालिख्यते सदा।
तत्र शीतांशुबिम्बस्य विवर: शौक्ल्यमुच्यते।।15।।
तत्सर्वं व्योम्नि शीतांशोर्विस्पष्टपलभ्यते।।16।।
सूर्याद्याम्योत्तर इति। समायामवना कुत्रचिदुदर्कं बिन्दुं प्रकल्प्य ततो दक्षिणत उत्तरतो वा बाहुदिशि बाहुसूत्रं दक्षिणोत्तरायतं प्रसार्य तदग्रतश्चन्द्रशङ्कुमितं कोटिसूत्रं पूर्वदिशि प्रसार्य पुन: सूर्यबिन्दुत: कोटिशिर:प्रापिकर्णसूत्रं प्रसारयेत्। एवं बाहुकोट्योरग्रगापि कर्णसूत्रं भवति। पुन: कर्णकोट्यग्रसंपातं केन्द्रं कृत्वा चन्द्रबिम्बस्य पूर्वापरसूत्रं भवति। तद्वशाद्दक्षिणोत्तरसूत्रं च कुर्यात्। दक्षिणोत्तरसूत्राग्रद्वये बिन्दुद्वयं कुर्यात्। पुन: कर्णसूत्रबिम्बापरपरिधियोगा: सितमानं कर्णसूत्रानुसारेण बिम्बान्त: कर्णसूत्रे नीत्वा तत्र सितबिन्दुं कुर्यात्। सूत्रं दक्षिणोत्तरसूत्राग्रगं यद्भिन्दुद्वयं सितबिन्दुश्च यस्तत्त्रितयस्पृग्वृत्तमत्स्यद्वयनिर्गतसूत्रयोर्योगत अखिलेत्। तदवृतस्य बहिर्गतो यश्चन्द्रबिम्बभाग: स चन्द्रस्य सितभागो भवति। तत्र शृङ्गस्योन्नतिनती साम्यं वा यथा मानादिष्टच्छेद्यकेऽङ्गुलादिमानेन सिद्धं भवति तथा तदुन्नत्यादि सर्वे व्योन्नि चन्द्रबिम्बस्य दृश्यते। एवमादित्यस्यास्तमयकाले विधिर्ज्ञेय:।।13।।14।।15।।16।।
इष्टकाले त्वस्तलग्नत: शङ्क्वदितत्कालैन्द्वौ: साध्यमित्याह -
अस्तारूढे रवावेतदिष्टकालेऽस्तलग्नत:।
तत्कालेन्दोसतु दृग्ज्यादिकर्म सर्वं प्रकीर्तितम्।।17।।
अस्तारूढे रवाविति। इष्टकाले तु तत्कालेन्दुं तत्कालोदयलग्नं चाऽऽनीय चन्दे षड्राशीन्प्रक्षिप्योदयलग्नच्चन्द्रयोन्तरासून्गन्तव्यासून्यप्रकल्प्य तैश्चकेवलचन्द्रस्य स्वाहोरात्रिदिभिश्च शङ्कु: साध्य:। इन्द्वग्रं च केवलचन्द्रासाध्यम्। अयनचलनं सर्वत्र क्षेप्यम्। लग्नाग्रं तु उदयलग्नात्षड्राशियुतात्साभ्यम्। षड्राशियुतमुदयलग्नमर्कं प्रकल्प्य प्राग्वत्सर्वं कार्यमित्यर्थ:।।17।।
एवमष्टम्या: पूर्वे विधि:। अष्टम्या: परतश्चेदुदयलग्नमर्कं प्रकल्प्य सर्वंकार्यमित्याह-
अष्टम्या: पर: कल्प्यो लग्नमेव दिवाकर:।
शङ्कादिको विधिस्तेन धनमानविवर्जित:।।18।।
अष्टम्या: परत इति। पूर्वपक्षे प्राक्कपालगते चन्द्रे उदयलग्नमर्कं प्रकल्प्य चन्द्रोदयलग्नयोरन्तरालासुभिश्चन्द्रस्य स्वाहोरात्रार्काग्रा इत्यर्थ:। सितमानं तु साक्षाइर्कादेव साध्यम्। तत्र सितमानहीनचन्द्रबिम्बं कृष्णमानं भवति। अव भाग्रात्कोटिपराभिमुखं नीयते। कर्णसूत्रबिम्बपरिधियोगात्कृष्णमानमन्तंनीयते। अन्यत्सर्वं पूर्ववत्। कदाचिदेतन्न घटते।।18।।
चन्द्रशङ्क्वानयने गतगन्तव्यग्राणां एवं साध्या इत्याह -
अर्केन्दुविवरप्राणैरुदयस्थे रवे: परै:।
शङ्कून्नतिवशात्कार्यो नावशिष्टे यथेष्टजम्।।19।।
अर्केन्दुविवरप्राणैरिति उदयास्तमयकालयोरर्केन्द्वोर्विवरप्राणैश्चन्द्रशङ्कु: साध्य:। अन्यत्रेष्टकाले चन्द्रोदयलग्नयोरस्तलग्नचन्द्रयोर्वा यथासंभवमन्तरालाभूमि: साध्य:। तत्रान्तरालासव: सकृदानीता एवं ग्राह्या:। न त्वविशिष्टा:। सूत्रपराह्वेऽस्तलग्ने चन्द्रे च षड्र्राशीन्प्रक्षिप्य विवरासव: साध्या:। तथाऽर्के लस्तिग्नशब्देन तत्कालेऽस्तमितो राशिरुच्यते। तस्योदयप्रमाणतुल्यत्वात्षड्राशय: प्रक्षिप्यन्त इति ज्ञेयम्।।19।।
एवमास्तमयि कैस्तेर्भास्करेन्दू तमोमयै:
यावत्पञ्चदशी तावत्कर्मेन्दं शशिन: स्मृतम्।।20।।
एवमास्तमयिकैरिति। पूर्वपक्ष आस्तमयिकैरिष्टकालजैवां भास्करेन्दुतसोभिरुक्तै चन्द्रमस: कर्म भतीत्युक्तं भवति। विक्षेपार्थमत्र राहुर्गुह्यते।।20।।
÷पौर्णमास्यां चन्द्रस्योदयकालमाह -
रविचन्द्रान्तरं नाड्यो दिनमानेन वर्जिता:।
प्राक्पश्चाद्दृश्यते सोमस्तावतीभिरिनेऽस्तगे।।21।।
पक्षाप्तान्तरि[न्तात्पर:]त: सोमो हरिजादुपरि स्थित:।
इष्टकालविलग्नोल्पै: प्रमाणै: परिलिख्यते।।22।।
कोटि: पूर्वगता कार्या भुजा याम्योत्तरायता।
पूर्वत: कोटिशिर:स्पर्क्व कर्णसूत्रं प्रसार्यते।।23।।
पूर्वत: कर्णसूत्रेण सितमानं प्रवेशयेत्।
अन्वितं वा पदाद्भागं शीताशो: परिलेखने।।24।।
रविचन्द्रान्तरा नाड्य इति। अस्तमये तत्कालसूर्यतत्कालचन्द्रयोरन्तरालासवो दिनप्रमाणेभ्यो हीना यद्व......विशिष्टा भवन्ति तदा तत्प्रमाणं दिनप्रामणयोरन्तरतुल्यकाले सूर्यास्तमयात्प्रागेव चन्द्रस्योदय: स्यात्। दिनप्रमाणादधिके सूर्येन्दुविवरकाले तदन्तरतुल्यकालेन सूर्यास्तसयात्पश्चाच्चन्द्रस्योदय काल: स्यात्। अपरपक्षे चन्द्रपरिलेखनमेवं कार्यमित्याह - पक्षान्तात्परत इति। अपरपक्षे हरि जादुपरे स्थिते तत्काललग्नमर्गं प्रकल्प्य चन्द्रलग्नान्तरालासुभिश्चन्द्रशङ्कु: साध्य:। लग्नाग्रमेवार्काग्रां प्रकल्प्रयेत। तत्र कोटि: पूर्वतो नीयते। भा तु पूर्ववद्याम्योत्तरायता। कर्णूसत्रं च पूर्वद्भुजाग्रात्कोट्यग्रप्रापि नेयम्। बिम्बस्य पूर्वभागात्सितमानमन्त: कर्णानुसारेण नेयम्। बिम्बापरभागादसितं वा नेयम्। अन्यत्सर्वं पूर्ववत्।।21।।22।।23।।24।।
अर्कोदयकाले वा एतत्कार्यमित्याह -
अथवाऽर्कोदये कार्यं तत्कालेन्द्वर्कसंभवै:।
सितासितस्य पूर्वोक्तं दृश्यकालोऽभिधार्य[धीय]ते।।25।।
अथवाऽर्कोदय इति।।25।।
अथ दृश्यकालोऽभिधास्यते। तत्प्रकारमाह -
षड्राशियुक्तंसूर्येनदुवैपरादोदयामव:।
अविशिष्टा: सिते पक्षे दृश्यकालोऽस्य ते वरम्।।26।।
चक्रार्धयुततीक्ष्णांशोश्चन्द्राच्च करणागतात्।
अविशेषान्तरप्राणैर्निशीये दृश्यते शशी।।27।।
षड्राशियुक्तेति। पूर्वपक्षे षड्राशियुतयो: सूर्यन्द्वोरकार्स्तयमयसिद्धयोरन्तरालासव: साध्या: पुनस्तैरसुभि: सिद्धां स्वां स्वां गतिं सूर्यास्तमयकालजयोस्तयो: सूर्येन्द्वो: प्रक्षिप्यन्तरालासव: साध्या:। पुनस्तत्सिद्धां गतमषि तयोरस्तमयकालजयोरि(रे)व प्रक्षिप्यान्तरालासव: साध्या:। एवमविशिष्टासुभिर्निशि चन्द्रोऽस्तं गच्छति। कृष्णे पक्षे तु षड्राशियुतसूर्यकेवलचन्द्रयोरन्तरालासव: साध्या:। तैरविशिष्टैर्निशि चन्द्र उदयं गच्छति।।26।।27।।
अत्र प्रकारान्तरमाह -
अस्तकालविलग्नेन्द्वोन्तराप्राणजन्मना।
कालेन लग्नशीतांशू कृत्वा भूयोऽन्तरासव:।।28।।
पूर्वकाले न ते योज्याश्चन्द्रे लग्नाधिके रवौ।
विश्लेषां वाऽन्यथा यावत्तुल्यकालोदये नव:।।29।।
इत्थं कर्मक्रमावाप्तकालेनामृततजस:।
रश्मिभि: पूरयन्नाशा निशीये दृश्यते शशी।।30।।
अस्तकालविलग्नेन्द्वोरिति। सूर्यास्तमयकाले उदयलग्न चन्द्रं चाऽऽनीय तयोरन्तरप्राणानेकत्र स्थापयेत्। पुनस्तैरन्तरप्रमा(प्रा)णैस्तत्कालचन्द्रस्तत्काललग्नं चाऽऽनीय तयोरप्यन्तरालासव: साध्या:। ते पूर्वासुषु प्रक्षेप्या:। अत्र चन्द्रादुदयलग्नमधिकं चेत्पूर्वानीतासुषु शोध्या इति चेहोक्तं तन्न संभवति। पुनरपि लग्नचन्द्रयोरन्तरप्राणा: साध्या:। ते च पूर्वासुषु प्रक्षेप्या:। एवमविशिष्टैरसुभिर्निशि चन्द्र उदयं याति।।28।।29।।30।।
अविशेषे प्रकारान्तरमाह -
अस्ताद्रिमस्तकारूढतिग्मांशुगतभागत:।
देशभेदोदयप्राणा ग्राह्या यावन्निशाकृत:।।31।।
तेष्वहर्मानशुद्धेषु रात्रौ व्युष्टेषु चन्द्रमा:।
दृश्यते परिशुद्धेषु तस्मात्तानविशेषयेत्।।32।।
अस्तद्रिमस्तकेति। सूर्यास्तमयकाले सूर्ये चन्द्रं चाऽऽनीय तयो: सूर्ये:न्द्वोरन्तरालासव: साध्या। पुनस्तेभ्यो दिनप्रमाणं दिशोध्य शेषकालोत्थगतिं सर्येन्द्वो: प्रक्षिप्यान्तरालासूनानीय दिनमानं विशोध्य शेषगतिं चास्तमयकाल...... जसूर्येन्द्वो: प्रक्षिप्यान्तरालासव: साध्या:। एवमविशिष्टैरसुभिर्दिनप्रमाणदिनैर्निशि चन्द्र उदयं याति। तेष्वसुषु व्युष्टेषु गतेष्वित्यर्थ:।।31।।।।32।।
तत्रविशेषे प्रकारमाह -
तद्धटीभोगसंयुक्त: सूर्येन्द्वन्तर्घटीक्रमात्।
ततोऽहर्मानसंशुद्धि: शेषभोगादिकर्मणा।।33।।
अर्केन्दुमध्यनाडीभ्यो दिनमानं विवर्धते।
तद्विशेषघटीशेषदिवा चन्द्रोदय: स्मृत:।।34।।
तन्नाडि कानुपाताप्तभोगहीनार्कचन्द्रयो:।
अन्तरालोदयप्राणै: कल्प्यं तत्राविशेषणम्।।35।।
तद्घटीभोगेति।।33।।34।।35।।35।।
कृष्णपक्षे विशेषमाह -
चन्द्रदौदयिकात्प्राणाद्यावानौदयिको रवि:।
ग्राह्यास्ततोऽपि विश्लेषात्कल्प्यते निश्चलक्रिया।।36।।
कृतावशेषनाडीभिर्यान्नोदेति भास्कर:।
तावददाशामुखादर्श: प्राणैराक्रमते शशी।।37।।
चन्द्रादौदयिकात्प्राणा इति। उदयकालजाच्चन्द्रादुयकालसूर्यान्तसवो ग्राह्या:। पुनस्तत्सिद्धांशस्य गतिं तयोर्विशोध्यान्तरासव: साध्या:। एवमविशिष्टैरसुभिरर्कोदयात्प्राक्चन्द्र उदयं याति। आक्रमते शशी उदयं यातीत्यर्थ:।।36।।37।।
अथ चन्द्रस्य मध्यलग्ने साम्यानयनमाह -
आसन्नौ स्वधिया ह्यत्र मध्यलग्ननिशाकरौ।
कालेन्दुमध्यलग्नानामविशेषं समाचरेत्।।38।।
आसन्नौ स्वधियेति। मध्यलग्नचन्द्रयो: साम्यकालं स्वधिया कल्पयेत्। एतदुक्तं भवति। त्रिराशिसहितचन्द्रेण समं लग्नं यदा भवति तदा द्युगतनाडीरानयेदिति। पुनस्तेन द्युगतेन तत्कालर्केण च मध्यलग्नमानयेत्। तत्काले चन्द्रं चाऽऽनयेत्। पुनर्द्युगकालचन्द्रमध्यलग्नानामविशेषं कुर्यात्।।38।।
तत्प्रकारमाह -
नाड्योऽन्तरालजै:(जा:) साध्या लङ्काराश्युदयैस्तयो:।
ऊनविश्लेष्यनाडीभ्य: शुद्धिक्षेपोऽधिके स्मृत:।।39।।
नाड्योऽन्तरालजा: साध्या इति। ऊहसिद्धद्युगतसाधितमध्यलग्नचन्द्रयोरन्तरालासवो लङ्कोदयासुभि: साध्या:। मध्यलग्नादूने चन्द्रे तेऽन्तरालासवो द्युगताच्छेद्या: (च्छोध्या:)। अधिके प्रक्षेप्या:। पुनस्तेन द्युगतेन मध्यलग्नमिन्दुं चाऽऽनीय तयोरन्तरालासूस्तंस्मिन्द्युगत ऋणं धनं वा कृत्वा तेन च मध्यलग्न मिन्दुं चाऽऽनयेत् यावन्मध्यलग्नसमश्चन्द्रस्तावदेवं कुर्यात्।।39।।
मध्यलग्नसमेन चन्द्रेण मध्यच्छाया साध्यत इत्याह -
मध्यलग्नसमश्चन्द्रो जायतेऽनेन कर्मणा।
तत्क्षिप्त्यक्रमाक्षैस्तु मध्यच्छाया प्रसाध्यते।।40।।
मध्यलग्नसमश्चन्द्र इति। मध्यलग्नसमचन्द्रस्य विशेपापक्रमाभ्यामक्षेण च पूर्ववन्मध्यच्छाया प्रसाध्यते। तेषां त्रयाणां चापयोगस्य तदन्तरस्य वा जीवा मध्यच्छाया भवतीत्यर्थ:।।40।।
चन्द्रस्योदये च शृङ्गोन्नतिकल्पनामाह -
अर्धोदितस्य चन्द्रस्य तथाऽर्धास्तभितस्य च।
इन्दूद्यास्तलग्नाग्रे शृङ्गस्योन्नति कल्पना।।41।।
अर्धोदितस्येति। इन्दोरुदयलग्नाग्रवशादिस्तलग्नाग्रवशाच्च शृङ्गोन्नतिरिन्दुस्थाद्यस्मिन् भागे तत्कालरविस्तद्भागे शृङ्गोन्नतिर्भवतीत्यर्थ:। तत्परिज्ञानं तु सूर्यस्य रात्रिशङ्कुमानीय तच्छङ्क्वग्रमुत्तराभिमुखमानीयार्काग्रायां संस्कृयतदृशादिन्द्व ग्रवशाच्च भवति। उक्तमिदं शशिनो विशेषकर्म। तस्य सूर्यस्योक्तं सुमशङ्क्वदिकर्म शशिनश्च कुर्यात्।।41।।
अमृ दाताधितरुक्तमिदं दृक्वमदिक ग्रहाणां कुजादीनामपि विधीयतइत्याह -
कर्मेदं शशिनस्तस्य कुर्यादमृतदीधिते:।
ग्रहाणामपि सर्वेषामिदं कर्म विधीयते।।42।।
कर्मेदामिति।।42।।
+अंशैरन्तरित: सूर्यान्नवभिर्दृश्यते भृगु:।
द्व्यधिकैर्द्व्यधिकैर्दृश्या ज्यौज्ञसौरि(जीवज्ञार्कि)धरासुता:।।43।।
अंशरन्तरित इति। भृगु: सूर्यान्नवभि: कालभागैरन्तरितो दृश्य: स्यात्। तैर्द्व्यधि कैरेकादशभिरीज्यो गुरु:। त्रयोदशभिर्बुध:। पञ्चदशरमिन्द:। सप्तदशभि: कुज इति।।43।।
शुक्रे विशेषमाह -
प्रपन्नवक: सद्वत्मां सितो दृर्श्योऽर्धपञ्चमै:।
चतुर्भिर्वांऽशुमालित्वादंशैरंशुमतोऽन्तरै:।।44।।
प्रपन्नवक्रेति। वक्रं प्राप्त: शुक्र: सार्धैश्चतुर्भिरेव वा दृश्यो भवति। सद्वर्त्मा बलान्तरय(यु)त इत्यर्थ:।।44।।
उक्तै: कालभागै: कालानयनप्रकारमाह -
कालभागा: क्रमेणैते दिघ्नापि(द्विनिघ्ना)घटिका: स्मृता:।
ऐन्द्रं तद्राशिजा ज्ञेया वारुण्यां सप्तमं स्मृतम्।।45।।
कालभागा: क्रमेणेति। ग्रहाणामुक्ता: कालभागा दशगुणिता विनाडिका भवन्ति। ग्रहसूर्ययोरन्तरराले तावत्यो विनाडिका: सन्ति चेद् ग्रहो दृश्यो भवति। ऊनाश्चेददृश्य:। ग्रह: पूर्वदिशि दृश्यते चेद् ग्रहस्य सूर्यस्थितराशिप्रमाणेन विनाडिका: साध्या:। पश्चिमदिशि ग्रहो दृश्यते चेद् ग्रहस्य सूर्यस्य च सप्तराशिप्रमाणेन विनाडिका: साध्या:।।45।।
तदानयनप्रमारमाह -
ग्रहसूर्यान्तरांशघ्नं त्रिंशता स्वोदयं हरेत्।
लब्धकालो निरुक्तेन यदा तुल्यस्तयो(दो)दय:।।46।।
ग्रहसूर्यान्तरांशघ्नमिति।।46।।
कुजादीनां विक्षेपानयने ग्रहभूम्यन्तरालगतकर्णस्य हारकत्वात्तदानयनमाह-
मन्दोच्चकर्णगुणितं शीघ्रकर्णं विभाजयेत्।
विष्कम्भार्धेन संलब्धो +भागहार: प्रकीर्तित:।।47।।
ग्रहयोरन्तरं भाज्यं प्रतिलोमानुलोमयो:।
भुक्तियोगेन शेषाणां भुक्तविश्लेषसंख्यया।।48।।
दिनादिर्लभ्यते कालो योगिनां योगकारक:।
भुक्तेरनेकरूपत्वास्थूल: कालोऽत्र गम्यते।।49।।
समलिप्तौ ततो युक्त्या कुर्यात्तन्त्रस्य वेदिता।
स्वोपदेशाद्गुरोर्नित्यमभ्यासेनापि गम्यते।।50।।
मन्दोच्चकर्ण इति। मन्दोच्चकर्णेन मन्दस्फुटसिद्धकर्णेन गुणितं शीघ्र कर्णं त्रिज्यया विभजेत्। तत्र लब्धो विक्षेपानयने हारो भवति। भूताराग्रहयो: रेकस्मिन्वक्रगते च तयोर्भुक्तियोगेन तयोरन्तरकालौ विभजेत्। द्वयोर्वक्रगतयोर्द्वयो: क्रमगतयोर्वा तयोरन्तरकालौ भुक्त्यन्तरेण हरेत्। तत्र लब्धं दिनादियोगकालो भवति। अतो युक्त्या ग्रहौ समलिप्तौ कुर्यात्। सा युक्तिस्तूपदेशयुताद्गुरो: प्रतिदिनाभ्यासाद्वा ज्ञेया। योगकालसंभूतां गतिं प्रक्षिप्य संशोध्य वा समलिप्तौ ग्रहौ कुर्यात्।।47।।48।।49।।50।।
×विक्षेपानयनमाह -
पातभागविहीनस्य समलिप्तस्य निश्चयात्।
हत्वा सभास्वविक्षेप(पान्)भागहारेण भाजयेत्।।51।
जीवभौगाकंपुत्राणामेवं विक्षेपकल्पना।
शीघ्रोच्चाच्छेषयोश्चापि विक्षेपो दक्षिणोत्तर:।।52।।
पातभागविहीनत्येति। समलिप्तग्रहात्स्वपातभागन्विशोध्य तत्रोत्पन्नभुजन्यया स्वपरमविक्षेपं निहत्य हारकेण हरेत्। तत्र लब्धं विक्षेपो भवति। जीवभौमार्कपुत्राणामेवं विक्षेप: साध्य:। शेषयोर्बुधशुक्रयो: स्वशीघ्रोच्चात्स्वपातं विशोध्योक्तवद्विक्षेप: साध्य:। तुलादौ दक्षिणो विक्षेप:। अजादायुत्तर:।।51।।52।।
ग्रहयोर्दक्षिणोत्तरगतान्तरानयनमाह -
×भिन्नदिक्वौ तु विक्षेपौ युक्तावन्तरमिष्टयो:।
तुल्यदिक्वौ विशेषेण विद्याद्विवरलिप्तिका:।।53।।
भिन्नदिक्काविति। भिन्नदिशयोर्विक्षेपयोर्योगो ग्रहयोरन्तरं भवति। तुल्यदिशोस्तु विवरं ग्रहान्तरं भवति।।53।।
अन्तरलिप्ता अङ्गुलपादसमा अर्धाङ्गुलसमा वा इति प्रकल्प्य ग्रहयोरन्तरं वाचयमित्याह-
पादाङ्गुलकार्धार्धाद्यथा वा दृश्यते रवि:।
तदन्तरं तयोर्वाच्यं योगिनां योगकोविदै:।।54।।
पादाङ्गुलकलेति। हरिजासन्नेऽर्धाङ्गुलमन्यत्र पादाङ्गुलमित्यर्थ:। अत्र कुजगुरुमन्दानां मन्दस्फुटात्सवपातशोधनमिच्छन्ति केचित्। तदेव युक्तं स्यात्।।54।।
शुक्रादीनां व्यासलिप्तानयनमाह -
द्वात्रिंशत्पञ्चभिर्हृत्वा भूयो भूयस्तदुत्तरै:।
शुक्रज्योक(क्रेज्य)ज्ञार्किभौमानां व्यासलिप्ताक्रमं विदु:।।55।।
द्वात्रिंशदिति। द्वात्रिंशत्संख्यां विन्यस्य तां पञ्चाभिर्दशभि: पञ्चदशभिर्विशत्या पञ्चोत्तरविंशत्या च क्रमाद्विभजेत्। तत्र लब्धा: शुक्रगुरुबुधमन्दभौमानां व्यासलिप्ता भवन्ति।।55।।
शुक्रादीनां लम्बनादिषु हारमाह -
एतैरपहृत: कर्णश्चन्द्रयोजनत: क्रमात्।
लम्बनादिषु हार: स्यान्तमानयोजनमाश्रित:।।56।।
एतैरेव ह(रपहृ)र्ते इति। एतैर्भृग्वादीनां हारयोजनात्मका इ(कैरि)त्यर्थ:। यदि स्वस्वयोजनकर्णवशाद्भृग्वादीनां बिम्बलिप्ता आनीयन्ते तदा चन्द्रस्य योजनव्यास एव सर्वेषां योजनव्यासा भवन्ति।।56।।
योजनकर्णाख्यहाराणां बिम्बलिप्तानां च स्फुटीकरणमाह -
विष्कम्भार्धेन हर्तव्या भागहारहता: स्फुटा:।
शेषं शीतांशुवत्कार्यो दश जीवा विनिश्चय:।।57।।
चन्द्रोदयोपदेशै तु शङ्कु: स्यात्स्वचरादिभि:।
स्वहारैर्ग्रहयोगेषु बन्धनवानतिर्विदु:।।58।।
ग्रहोपरागवच्छेषं स्थित्यर्धादिविधक्रम:।
इतिप्रतिदिनाभ्यासविमलीकृतचेतस:।।59।।
गुरुप्रसादसंप्राप्तशास्त्रसद्भावचक्षुषाम्।
रम्यानुरक्तकान्तायाश्चित्तवृत्तिरिवामला।
इति महाभास्करीये षष्ठोऽध्याय:।।6।।
- - - - -
विष्कम्भर्धेनेति। एते भागहारा भूताराग्रहविवराख्येन भागहारेण निहतास्त्रिज्यया विभक्ता:। स्फुटा भवन्ति। बिम्बलिप्तास्तु त्रिज्यानिङ्गाभूताराग्रहविवराख्यभागहारभक्ता: स्फुटा भवन्ति। मध्ययोदयलग्नयोर्वियेपानयनमाह - पातभागेनेति। मध्योदयलग्नयो: स्वपातं लब्धा मध्योदयलग्नर्विक्षेपलिप्ता भवन्ति। मध्यज्यादिकं चन्द्रवत्कुजादीनां च कार्यमित्याह-शेषं शीताषुवदिति। मध्यज्या दृक्क्षेपज्या दृग्गतिज्या दृग्ज्या उदयग्रज्याचेति +जीवापञ्चकं तत्पञ्चकं ग्राह्यग्राहकयो: पृथग्भवति। अतो दशक्क्षेत्युच्यते। चन्द्रवत्स्वचरादिभि: शङ्कुश्च कार्य:। ग्रहयोगे स्वहारेण लम्बनावनती च कार्ये। स्थित्यर्थादि च सूर्येन्दग्रहयोरुपरागवत् कार्यम् इति प्रतिदिनाभ्यासेत्यादिश्लोद्वयेन ग्रहकर्म स्तूयते।।57।।58।।59।।60।।
इति परमेश्वरकृतायां कर्मदीपिकायां
षष्ठोऽध्याय:।।6।।