अथ ग्रहणाध्याय उच्यते।
भास्वतो ग्रहणं वाच्यमाचार्यार्यभटोदितम्।
तस्य चाऽऽदौ विजानीयादुपायानां विनिश्चयम्।।1।।
तत्रादावुपायानां बिम्बव्यासकर्णादीनां विनिश्चं (श्चितं) स्वरूपं जानीयादित्याह-भास्वत इति।।1।।
तत्र रवीन्द्वोर्मध्ययोजनकर्णमाह -
पञ्चाष्टरन्ध्रभूतेषुवेदा: कर्णो विवस्वत:।
सप्तपर्वतरामाब्धिगुणसंख्या निशाकृत:।।2।।
पञ्चाष्टेति। पञ्चादिवेदान्ता विस्वतो योजनकर्ण:। सप्तपर्वताभ्यां निशाकृत: कुर्ण:।।2।।
अनयो: स्फुटीकरणमाह -
कलाकर्णहतोवेतौ विष्कम्भार्धविभाजितौ।
स्फुटयोजनकर्णौ तौ सूर्याचन्द्रमसोर्विदु:।।3।।
कलाकर्णेति। कलाकर्णो विशेषकर्ण:। विष्म्भार्धं त्रिज्या।।3।।
अर्केन्दुभुवां बिम्बस्य व्यासयोजनान्याह -
दिग्वेदसागरा भानोरिन्दोस्तिथिहुताशना:।
योजनैरुच्यते सद्भिर्भुवा(र्भूव्या:)स: खेषुपङ्क्तिभि:।।4।।
दिग्वेदेति। योजनैरिति। योजनमानेनात्र बिम्बव्यासा उक्ता इत्यर्थ:।।4।।
सूर्येन्द्वोर्बिम्बकलानयनमाह -
विष्कम्भार्धहतौ व्यासौ स्फुटयोजनभाजितौ।
भवतस्तौ कलाव्यासावुष्णाशीतगुतेजसो:।।5।।
विष्कम्भार्धहताविति। एतौ योजनव्यासौ त्रिज्याहतौ स्फुटयोजनकर्णभक्षौ(क्तौ) लिप्तव्यासौ भवेतामिति।।5।।
अथ सूर्येन्द्वो: स्फुटभुक्तिभ्यां तयोर्बिम्बकलानयनं चन्द्रभुक्त्या तमोबिम्बकलानयनमाह -
नवांशा: पञ्च भोगस्य भूतवर्गांश एव च।
स्वतुरीयविलिप्तार्युक्तहीने तनुस्फुटे।।6।।
सूर्याचन्द्रमसोर्विद्धि राहुबिम्बं च कथ्यते।
पङ्क्त्यांशश्चन्द्रभोगस्य षोडशांशोनलिप्तिका:।।7।।
नवाशा: पञ्चेति। सूर्यस्य स्फुटभुक्तिकला: पञ्चगुणिता नवभिर्भक्तास्तस्य बिम्बकला भवन्ति। चन्द्रस्फुटभुक्तिकला: पञ्चविंशतिभक्तास्तस्य बिम्बकला भवन्ति। तत्र रविबिम्बकलाचतुर्थोशतुल्यविलिप्तास्तस्मिन्विम्बे। मुक्तिकलाभ्यां दशाभिर्विभज्य लब्धासतमोबिम्बकला भवन्ति। तद्वि लम्बकलाभ्या: षोडशांशतुल्या विलिप्तास्तद्विम्बे देया: स्यु:।।6।।7।।
अथ मध्यलग्नानयनमाह -
अथातो मध्यलग्नस्य विधानं संप्रवक्ष्यते।
निरक्षासुभिरुत्पत्तिर्बोद्धव्या शास्त्रकोविदै:।।8।।
अथातो मध्यलग्नस्येति। तस्योत्पत्तिं निरक्षासुभिर्भवति। लङ्कोदयासुभि: साध्या....त्यर्थ:।।8।।
तत्प्रकारमाह -
पूर्वाह्णे सूर्ययुक्तस्य गतभागासवो हि ये।
गन्तव्यानां चापराह्णे भागानामसव: स्मृता:।।9।।
मध्यं तिथ्यन्तरा...भ्य: शोध्या भागाश्च भास्करे।
शोध्या देयाश्च भूयोऽपि निरक्षासुवशाद्रवौ।।10।।
राशय: कालतत्त्वज्ञैरनुपाताष्तमेव च।
मध्यलग्ना........श्रीमद्भटमुखोदितम्।।11।।
कक्याभेदाच्चची(?)भावो जीवाभेद: प्रकीर्तित:।
ज्ञापनं च स्वदृक्क्षेपौ...त्यादिवचनं प्रभो:।।12।।
पूर्वाह्ण इति। पूर्वाह्णे सूर्यस्य गतभागान् लङ्कोदयासुभिर्निहत्य त्रिंशता विभज्य लब्धानसून् द्युगतदिनार्धयोर्विवरासुभ्य: संशोध्य रवेर्गतभकगान् विशोधयेत्। शिष्टासुभ्यश्च रविस्थितराशेरुत्क्रमेण लङ्कोदयासवो यथासंभवं संशोध्याः। रवौ च तावन्तो राशयः शोध्याः। पुनः शेषासूंस्त्रिंशता निहत्य वर्तमानराश्यसुभिर्विभज्य लब्धान् भागाञ्शोधितराशौ सूर्ये विशोधयेत्। तन्मध्यलग्नं भवति। अपराहणे तु सूर्यस्य गन्त्व्यभागलब्धानसून् द्युगतदिनार्धयोन्तरालगतेभ्यो नतासुभ्यो विशोध्य सूर्ये गन्तव्यं प्रक्षिप्य शेषात्क्रमेण लङ्कोदयासूनूविशोध्य सूर्ये च तावतो राशीन्प्रक्षिप्य राशौ सूर्ये प्रक्षिप्येत्। तन्मध्यलग्नं भवति। सायनसूर्येणैवं लघ्यलग्नमानीय पुनरयनश्वलनं विशोधयेत्। एवं मध्यलग्नमुक्त्वा सूर्येन्द्वोर्विक्षेपकृत: उक्त:। स्वदृक्क्षेप इत्येतदार्यभटस्य वचनं ज्ञापकमेवं जीवाभेदेऽस्ति।।9।।10।।11।।12।।
रवेरुदयज्यानयनमाह -
बाहुज्योदयलग्नस्य परक्रान्तिहता हृता।
लम्बकेनोदयज्याऽऽप्ता कक्ष्यायां भास्वते स्फुट:।।13।।
बाहुज्येति। सायनलग्नस्य परमक्रान्त्या निहत्य लम्बकज्यया विभजेत्। तत्र लब्धं कक्ष्यायामुदयज्या भवति। सूर्यस्योदयज्येत्यर्थ:।।13।।
चन्द्रस्योदयज्यामाह -
सैंहिकेयाविहीनस्य जीवा लग्नस्य ताडिता।
तिथिभिश्चन्द्ररन्ध्रैकैर्विक्षेपज्या विलग्नजा।।14।।
विलग्नक्रान्तिपक्षे वा धनुषोस्तुल्यदिक्कयो:।
युक्तिर्वियुक्तिरन्यत्वे शेषकाष्ठगुणा गता।।15।।
सैंहिकेयेति। राहुहीनस्योदयलग्नस्य भुजज्यां तिथिभिर्निहत्य चन्द्ररन्धैकेर्विभज्य लब्धं लग्नविक्षेपज्या भवति। पुनर्ल....दिऽशोन्तरं कृत्वां तस्य जीवाग्रानीय व्यासार्धेन निहत्य लम्बकेन हरेत्। तत्र लब्धं चन्द्रकक्ष्यायामुदयज्या भवति। चन्द्रस्योदयज्येत्यर्थ:।।14।।15।।
चन्द्रस्य मध्यज्यानयनार्धं(र्थं) मध्यलग्नाच्च विक्षेपज्या साध्या तदाह -
उदयज्येन्दुकक्ष्यायां व्यासार्धं लम्बकोद्धृतम्।
राहूनमध्यग्नाच्च विक्षेपज्या प्रसाध्यते।।16।।
राहूनेति। लग्नविक्षेपवन्मध्यलग्नविक्षेप: साध्य:।।16।।
मध्यज्यानयनमाह -
मध्यक्रान्तिविषुवज्ज्यातष्टयोरेकदिक्कयो:।
योगो वियोगो वाऽन्यत्वे मध्यजयाशेषदि[ग्व]शात्।।17।।
मध्यक्रान्तीति। मध्यलग्नस्य क्रान्तिज्यामानीय चापीकृत्याक्षज्याश्च चापीकृत्य तयोस्तुल्यदिशोर्योगं कृत्वा भिन्नदिशोरन्तरं कृत्वा तज्जीवामानयेनत्। सा रवेर्मध्यज्या भवति। अक्षज्या नित्यदक्षिणा। तत उत्क्रान्तिर्धशिष्टा चेदुत्तरमध्यज्या। अन्यथा दक्षिणा। इन्दोर्मध्यज्यामाह - इन्द्रो: पलक्रान्तीति। मध्यलग्नस्य क्रान्तिचापविक्षेपचापयोरक्षयापस्य च तुल्यदिक्त्वे योग:। भिन्नदिक्त्वेऽन्तरं कृत्वा तज्जीवामानयेत्। सा चन्द्रस्य मध्यज्या भवति। शिष्टचापवशात्तस्य अपि दिग्भवति।।17।।
दृक्क्षेपज्यानयनमाह -
स्वमध्यो(ध्यज्यो)दयाभ्यासाद्विष्कम्भार्धाप्तवर्गितात्।
मध्यज्यावर्गतोऽपास्य स्वदृक्क्षेपं पदं बिदु:।।18।।
गतगन्तव्यनाडीभिर्भज्यात्पूर्वोक्तकर्मणा।
साध्या भवेच्छशाङ्कस्य विधानमिदमुच्यते।।19।।
स्वमध्यज्येति। स्वमध्यज्यां स्वोदयज्यया निहत्य व्यासार्धेन विभज्य लब्धं वर्गीकृत्य स्वमध्यज्यावर्गत: संशोध्य शिष्टं मूली कुर्यात्। तत्स्वदृग्क्षेपज्या भवति। गतगन्तव्यनाडीभि: पूर्ववच्छङ्कुमानीय दृश्या(ग्क्ष्या)मुत्पादयेत्।।18।।19।।
तत्र चन्द्रस्य विशेषमाह -
समलिप्तेन्दुविक्षेपक्रान्तिज्याचापसंयुति:।
वियुक्तिर्विदिशोर्जीवाशेषस्येन्द्रोरपक्रम:।।20।।
तेनाहोरात्रविष्कम्भक्षितिजीवाचरासव:।
प्रसाध्यस्तैश्च दृग्जीवा गतगन्तव्यकालत:।।21।।
समलिप्तेति। समलिप्तेन्दोरपक्रमचापं विक्षेपचापं चाऽऽनीयं तुल्यदिशौस्तयोर्योगं कृत्वा भिन्नदिशोरन्तरं कृत्वा जातस्य जीवामानयेत्। सा चन्द्रस्य क्रान्तिज्या भवति। तथा स्वाहोरात्रक्ति ज्याचरदलासूनानीय तैर्गतगन्तव्यासुभिश्च शङ्कुमानीय दृग्ज्यां चाऽऽनयेत्।।20।।21।।
दृग्गतिज्यानयनमाह -
स्वदृग्दृग्क्षेपगुणयोर्वर्गविश्लेषजे पदे।
दृग्गतिज्ये भवेतां ते भास्करामृततेजसो:।।22।।
स्वदृग्क्षेपेति। दृगिति *दृग्ज्यादृग्क्षेपज्यावर्गयोर्विश्लेषमूलं दृग्गतिज्या भवति। एवमर्केन्द्वोर्दृग्गतिज्या पृथक् साध्या।।22।।
लम्बनलिप्तानयनमाह -
स्वदृग्गतिक्षमाव्यासभेदसंवर्गसंभवम्।
पृथग्योजनकर्णाप्तं लिप्ताद्युलम्बनं विदु:।।23।।
स्वदृग्गतिक्षमाव्यासेति। दृग्गतिज्यां भूव्यासार्धेन निहत्य स्वस्वस्फुटयोजनकर्णेन विभजेत्। तत्र लब्धा लम्बनलिप्ता भवति।।23।।
लम्बघटिकानयनं तत्संस्कारप्रकार चाऽऽह -
तद्विश्ले(शे)षो हत: षष्ट्या स्फुटभुक्त्यन्तराहृत:।
घटिकादितिथे: प्राह्णे शुद्धि: क्षेपोऽपरो मत:।।24।।
तद्विशेषो हत इति। तासां विबिम्बलिप्तानां चन्द्रलम्बनलिप्तानां च यो विशेषो विश्लेषोऽर्कलम्बनलिप्ताहीनश्चन्द्रलम्बनलिप्तागण इत्यर्थ:। तं षष्ट्या निहत्य भुक्त्यन्तरकलिभिर्विभजेत्। तत्र लब्धं लम्बनघटिका भवन्ति। प्राह्णं लम्बनस्य शुद्धिस्थिति: पर्वण: कार्या। अपराह्णे पर्वणि क्षेप: कार्य:। पूर्वाह्णे लम्बनघटिका:। पूर्वान्तरनाडीषु ऋणं कुर्यात्। अपराह्णे धनं कुर्यादित्यर्थ:।।24।।
मध्याह्नकालनिष्पन्नलम्बनस्य +धनर्णविभागमाह -
दिनार्धकालनिष्पन्नमिति। मध्याह्नेऽपि लम्बनं संभवति। इन्द्रावदुग्गत उदयज्यायां चोदग(ग्ग)तायां तल्लम्बनं शोध्यं भवति। इन्दुशब्दोऽत्र मध्यज्याप्रदर्शक:। अतो मध्यमज्यायामुदयज्यायां च तुल्यदिग्गतायां शोध्यं भवति। भिन्नदिग्गतायां क्षेप्यं भवतीत्यत्रोक्तं भवति। गीयते तत्र दक्षिणे इत्यनेन। एकस्यामुत्तरस्थायामन्यस्यां दक्षिणस्थायां च क्षेप्यमियुक्तं भवति।
लम्बनाविशेषकरणमाह -
एवं पुन: पुन: कर्मेति। लम्बनसंस्कृतपू(प)र्वान्तकाले चन्द्रार्कावानीय उदयलग्नं मध्यलग्नं च तत्काले आनीय दृग्ज्यां च तत्काले आनीय तैर्लम्बनलिप्तास्तद्धटिकाश्च पूर्ववदानीय ता घटिका: प्रथमनीतपर्वघटिकासु धनमृणं वा कुर्यात्। पुनस्तत्काले रविचन्द्रादीनानीय तसिद्धा लम्बनघटिका अति प्रथमानीतस्वेव पर्वघटिकासु धनमृणं वा कुर्यात्। यावत्कृते मत्र्यज्यादिक सर्वमविशिष्टं तावदेवं कुर्यात्।
अर्केन्द्वोरवनतिलिप्तानयनमाह -
तिथिवच्चन्द्रतीक्ष्णांशू संचार्यावेव पण्डितै:।
दृग्क्षेपज्येऽल्पविश्लेष्टे भूव्यासार्धहते हृते।।25।।
दृग्क्षेपज्ये इति। सूर्येन्द्वोरविशिष्टे ये दृग्पेक्षज्ये ते व्यासार्धहते तयो: स्फुटयोजनकर्णाभ्यां भक्ते कार्ये। तत्र लम्बस्थयोरवनलिप्ता भवन्। स्वस्वमध्यज्यायास्तु या दिग्भवति अननतेश्च सा दिग्भवति।।25।।
तयोर्योगविश्लेषाभ्यां स्फुटावनत्यानयनमाह -
स्फुटयोजनकर्णाभ्यामवाप्ता लिप्तिकादय:।
अभिन्नाशयोर्विश्लेषस्तासां सूर्यनिशाकृतो:।।26।।
अभिन्नशयोरिति। सूर्यनिशाकृतोर्मध्यजययोराभिन्नशयो: सतोस्तासां सूर्यावनतिलिप्तानां चन्द्रावनतिलिप्तानां च विश्लेस्फुटावनतिर्भवति। भिन्नदिशोस्तयोस्तु तासां योगस्फुटावनतिर्भवति।।26।।
मध्यज्ययोरथान्यत्वे योगोपनतिलिप्तिका:।
दिक् तत्र शशिनो ग्राह्या पातहीनान्निशाकृत:।।27।।
ज्यां खसप्ताश्विभि: क्षुण्णां कलाकर्णेन संहरेत्।
विक्षेप: शशिन: स्पष्टस्तेन युक्ता नति: स्फुटा।।28।।
दिक् तत्र शशिनो ग्राह्येति। तत्र भिन्नदिशोर्योगकरणे शशिनो मध्यज्याया या दिग्भवति, सैव स्फुटावनतेश्च दिग्भवति। विश्लेषकरणे द्वयोस्तुल्यत्वात्संदेहो न भवति। पातहीनादिति श्लोकशेषेण शशिनो विक्षेपानयनमाह- लम्बनसंस्कृतपर्वान्तद्युगतकाले चन्द्रमानीय तस्मात्स्वपातं विशोध्य भुजज्यामानीय ता खसप्तश्विभिर्निहत्य अविशेषकर्णेन विभजेत्। तत्र लब्धं शशिन: स्फुटा विक्षेपो भवति। मेषादो स उत्तर: स्यात्। तुलादौ दक्षिण:। *तुल्यदिक्त्ये विक्षेपनत्योर्योग: कार्य:। भिन्नदिशोस्तु तयोर्विशे(श्ले)ष: कार्य:। विश्लेषे शिष्टस्य दिग्ग्राह्य। एवमानीता चन्द्रस्यावनति: सूर्यग्रहणे स्फुटा भवति।।27।।28।।
अथ नत्यन्तरानयनमाह -
तातातयोस्तु विश्लेषशेषा: सा गतिरुच्यते।
लम्बनान्तरसंयुक्तं ग्रहमध्याप्तजन्मनो:।।29।।
लम्बनान्तरेति। मध्यलम्बनमिहोक्तं वक्ष्यति च स्पर्शलम्बनम्। तत्र मध्यलम्बनस्पर्शलम्बनयोरन्तरेण संयुक्ताद्ग्रासमध्यात्। लम्बनसंस्कृतपर्वान्तद्युमतासिद्धयोर्दृक्षेपयो: सिद्धावनति: स्फुटा भवति। अत्र दृग्क्षेपशब्देनावनतिरुच्यते। अवनतिक्षेयोर्योगविश्लेषात् सि(सा)ध्येत्यर्थ:। पूर्वोक्तावनतिव्यांबहारिकी कर्मक्षमा भवति। एषा तु न कर्मक्षमा। पारमार्थिकी त्वेषैव इत्येके वदन्ति। अत्र मध्यादित्यनेन बिम्बमध्यादुत्पन्नेत्युक्तं भवति। अन्ये त्वेवं योज्यन्ति। स्पर्शमध्यलम्बनयोन्तरेण संयुक्ताद्ग्रासात्स्पर्शकालात्तथा मोक्षमध्यलम्बनयोरन्तरेण संयुक्ता। मध्यान्मध्यकालाच्चाऽऽप्तयोर्दृक्क्षेपक्षेपद्यो: सिद्धाऽवनति: क्रमात्स्पर्क्षमोक्षे च स्फुटाऽवनतिर्भवति। अत्र मध्यादित्यनेन मध्यकालादन्यत्रेत्युक्तं भवति।।29।।
ग्रहणस्यं सदसद्भावावगमनायाऽऽह -
दृग्क्षेपक्षेयो: सिद्धा मध्या चावनति: स्फुटा।
सूर्येन्दुबिम्बसंपर्कदलेन सदृशी नति:।।30।।
सूर्येन्दुबिम्बेति। सूर्येन्द्वोर्बिम्बयोगार्धतुल्यानतिरवनतिश्चेद्भास्वतो ग्रहणं न स्यात्। तदूनायामवनत्यां ग्रहणं भवति।।30।।
*स्थित्यर्धकालानयनमाह -
ग्रहणं भास्वतो न स्याद्धीनायामस्ति संभव:।
विष्कम्भार्धनतीवर्गविश्लेषपदमागतम्।।31।।
संपर्का(विष्कम्भा)र्धनतीति। संपर्कार्धवर्गादवनतिवर्गं विशोध्य शिष्टस्य मूलं षष्ट्या निहत्य गत्यन्तरेण हरेत्। तत्र लब्धा: स्थित्यर्घटिका भवन्ति।।31।।
+अथ स्पर्शमोक्षकालयोर्लम्बनानयनमाह -
षष्ठ्याऽऽहत्यस्तरे(न्त)रेणाऽऽप्ता स्थित्यर्धघटिका स्फुटा।
अविशेषपतिथिस्ताभिर्विहीना सहिता तदा।।32।।
अविशेषतिथिरिति। ताभि: स्थित्यर्धनाडिकाभिर्हीना अविशेषतिथिर्लम्बनसंस्कृतपर्वान्तकालो मोक्षकाल: स्पर्शतिथि: स्पर्शकालो भवति। तथा स्थित्यर्धनाडिकाभिर्भुताऽविशेषतिथिर्लम्बनसंस्कृतपर्वान्तकालो भवति। ताभ्यां स्पर्शमोक्षकालाभ्यां पूर्ववन्मध्यलग्नादीनानीय स्पर्शलम्बनमोक्षलम्बनं पूर्ववन्मध्यलग्नादीनानीय स्पर्शलम्बनमोक्षलम्बनं वार्तिके वान्तमानयेनत्। तदिह स्पर्शलम्बनं मोक्षलम्बनं चेत्युच्यते।।32।।
स्फुटस्थित्सधनियनमाह -
ग्रासादिमोक्षकालौ स्तस्ताभ्यां जीवाविधिस्तदा।
ग्रासमध्यविनिष्पन्नलम्बनान्तरनाडिका:।।33।।
स्थित्यर्धे प्रक्षिपेन्नित्यं वर्धते तिग्मदीधिते:।
मध्यान्तरलम्बनस्थित्या वर्धते मोक्षसंभव:।।34।।
ग्रासमध्येति। स्पर्शकालनिष्पन्नलम्बनस्य मध्यकालनिष्पन्नलम्बनस्य च मदन्तरं तदन्तरं तत्स्थित्यर्धे सदा प्रक्षिपेत्। तत्स्फुटं स्पर्शस्थित्यर्धे भवति। अथ मोक्षकालनिष्पन्नलम्नयोश्चान्तं स्थित्यर्धे प्रक्षिपेत्। तत्स्फुटमोक्षस्थिर्घ्यं(स्थित्यर्घं) भवति। उत्क्षिप्य भुजमुच्यते इति। एवमन्तें स्थित्यर्धमेव स्फुटं भवति। अत्र [न]संदेह इत्यर्थ:।।33।।34।।
यदा मध्यकालात्स्पर्शकालो मोक्षकालो वाऽन्यकपाले भवति तत्र विक्षेपमाह -
स्थित्यर्धमित्यस्पष्टमुत्क्षिप्य भुजमुच्यते।
स्पर्शमोक्षौ यदाऽन्यस्मिन् कपाले ग्रहमध्यत:।।35।।
स्पर्शनं लम्बनं देयं सर्वस्थित्यर्धानाडिषु।
मोक्षेऽप्येव सदाऽऽयातं स्थित्यर्धे दीयते सदा।।36।।
स्पर्शमोक्षाविति। यदा मध्यकालात्स्पर्शकालोऽन्यकपाले भवति। पूर्वह्ण एक: पराह्ण अन्य इत्यर्थ: । तदा स्पर्शलम्बनं सर्वं स्थित्यर्धे प्रक्षेप्यं भवति। तथा मध्यकलादन्यकपाले मोक्षकपालो यदा भवति तदा मोक्षलम्बनं सर्व स्थित्यर्धे प्रक्षेप्यम्।।35।।36।।
यदा पुनर्मध्याह्ने मध्यकालो भवति तदा स्पर्शलम्बनं मोक्षलम्बनं च स्पर्श स्थित्यर्धे प्रक्षेप्यमित्याह -
दिनार्धे ग्रहमध्ये च कल्प्यतेऽयं विधि: क्रमात्।
ग्राह्यग्राहकबिम्बार्धविश्लेषक्षेपवर्गयो:।।37।।
दिनार्धे ग्रास(ग्रह)मध्ये चेति। विमर्शार्धानयनमाह - ग्राह्यह्यकेति ग्राह्यग्राहकबिम्बार्धं ग्राह्यबिम्बार्धं विशोध्य शेषवर्गाद्विक्षेपवर्ग विशोध्य सिद्धान्त मूलं विमर्दाघलिप्ता भवन्ति। ता: षष्ट्या निहत्य गत्यन्तरेण विभज्य लब्धं विमर्दार्धघटिका भवन्ति।।37।।
सूर्यबिम्बेऽष्टमभागच्छादनस्यादृश्यत्वात्तद्भागच्छादनकालस्पर्शद्युगते क्षेप्य इत्याह -
विक्षेपस्य पदाद्देयं विमर्दार्धस्य नाडिका:।
तीक्ष्णांशविम्बवस्वंशलिप्तिकाकालसंयुत:।।38।।
कीर्णौ(तीक्ष्णां)शुबिम्बेति। मोक्षुद्युगते: स काल: शोध्य:।।38।।
*अथाक्षवलनमाह -
स्पर्शकालो भवेत्तस्य भासुरत्वाद्विवस्वत:।
मध्यतिथ्यन्तरासूनामुत्क्रमज्याक्षसंगुणा।।39।।
विष्कम्भार्धेन हर्तव्या लब्धकाष्ठस्य दिग्विधि:।
व्यासार्धदधिकासूनां क्रमज्यात्रिज्यया युताम्।।40।।
मध्यतिथीति। अत्र मध्यमिति दिनार्धमुच्यते। तिथिस्पर्शद्युगतं मध्यद्युगतं मोक्षद्युगतं च दिनार्धस्पर्शद्युगतयोरन्तरालासूनामुत्क्रमज्यामानीयाक्षज्यया निहत्य व्यासार्धेन विभज्य लब्धं स्पर्शार्धज्या: साधनभूत विराशिलिप्ताभ्योऽधि काश्चेत्तत्राधिकासूनां क्रमज्यामानीय त्रिज्यया योजयेत्। तद्वलनसाधनज्या भवति एवं वलनकाला आनीय तासां दिशं च कल्पयेत्। तत्र मध्यवलनस्य स्पर्शवद्विधि: स्पर्शभागोक्तलक्षणेन याम्यसौम्यदिशौ कल्प्येदित्यर्थ:।।39।।40।।
तत्र दिग्विधिमाह -
कृत्वैवमेव दिक्कल्प्या मध्ये प्रागासवाद्दिशो:।
उदग्दक्षिणत: प्राह्णे बिम्बप्राक्पश्चिमार्धयो:।।41।।
उदग्दक्षिणत इति। मध्याह्नात्प्राग्बिम्बस्य पूर्वार्ध उदग्वलनं भवति। बिम्बस्य पश्चिमार्धे दक्षिणवलनं भवति। मध्याह्नाप्राग्बिम्बस्य पूर्वार्धे दक्षिणवलनं पश्चिमार्धं उदग्वलनामित्यर्थ: सूर्यस्य स्पर्शवलनं मध्यवलनं च पश्चिमार्धदिहितं भवति। मोक्षवलनं पूर्वार्धविहितं भवति। चन्द्रस्य सर्वं प्र(ध्य)त्ययेन भवति।।41।।
+अयनवलनमाह -
नभस: पश्चिमे व्यस्तमक्षस्य वलनं सदा।
त्रिराशिसहितेन्द्वर्कविपरीतगुणापम:।।42।।
त्रिराशिसंस्थितस्ये(सहितेन्द्रर्के)ति। त्रिराशिसहितस्यार्कस्ये न्दोर्वा भुजाया उत्क्रमज्यां परमापयेन निहत्य त्रिज्यया विभजेत्। तत्र लब्धमयनलवलनं भवति। अत्राऽऽनयनच(व)लनयुतावर्केन्दु ग्राह्यौ। तस्य दिग्विभागमाह - अयनादिति।।42।।
ताभ्यां संपर्कार्धमण्डले *स्फुटवलनानयनमाह -
लग्नाद्या दिक् तु पूर्वार्धो बिम्बस्यैवापरेऽन्यथा।
नानाशयोस्तयोर्विद्धि विश्लेषधनुषोस्तयो:।।43।।
नानाशयोरिति। तयोरक्षापमवलनयोश्चापीकृतयोर्भिन्नदिशोन्तरं कृत्वा तुल्यदिवत्वे योगं कृत्वा जीवामानयेत्। तां जीवां संपर्कार्धेन निहत्य व्यासार्धेन विभजेत्। तत्र लब्धं संपर्काद्द्युमण्डले वलनं भवति। तद्वलनस्य नतेश्च तुल्यदिक्त्वे योगं कुर्यात्। भिन्नदिक्त्वेऽन्तरं कुर्यात्। स्फुटवलनं भवति। वलनविष ......चन्द्रग्रहणे विक्षेपस्य दिग्व्यात्ययेन कल्प्य:। तद्वक्ष्यति च मध्यवलनस्य नतिसंस्कारो न क्रियते।।43।।
अथ लेखनप्रकारमाह -
संयोगोऽन्यत्र तज्जीवा(वाऽऽ)सन्व(न्ना)र्कार्धहता हृता।
अन्तिकाङ्गुलतद्भागसमस्निग्धोरुमूर्तिना।।44।।
ग्राह्यऽङ्गुलार्धमानेन कर्कटेनाऽऽलिखेत्क्षितौ।
ग्राह्यग्राहकबिम्बार्धसमवक्त्रेण चापरम्।।45।।
पूर्वाव(प)रे तत: कुर्यान्मीनेनोत्तरदक्षिणे।
दक्षिणोत्तरत: केन्द्रान्नीत्वा वलनमप्यत:।।46।।
उत्पाट्य तत्र मत्स्या(ध्या)न्तं युक्त्या सूत्रं नयेब्दुध:।
ब्राह्यमण्डलतत्सूत्रसंपाते बिन्दुनिश्चय:।।47।।
बिन्दुत: केन्द्रसंप्रापि सूत्रं तस्मात्प्रसाध्यते।
तस्य ग्रा(वा)ह्यपरिधेश्च संपातो यत्र लक्ष्यते।।48।।
तत्र तीक्ष्णांशुबिम्बस्य प्रदेश: स्पर्शमोक्षयो:
मौर्वीकाऽर्धाङ्गुला ज्ञेया यथा वा लक्ष्यते दिवि।।49।।
मुखविन्यस्तेति। कर्कटलक्षणं ग्राहकबिम्बार्धमानेन कर्कटेन ग्राह्यबिम्बमालिख्य तन्मध्यमेव मध्यं कृत्वा ग्राह्यग्राहक बिम्बयोगार्धसमवक्त्रेण कर्कटेनापरं सपकाँख्यं वृत्तं चाऽऽलिख्य पूर्वापररेखां कृत्वा तद्वशादुत्पन्न्मत्स्यानुसारिदक्षिणोत्तररेखां च कुर्यात्। पुन: केन्द्रात्स्पर्शवलनं मोक्षवलनं च दक्षिणोत्तारसूत्रे यथादिशं नीत्वा तत्र बिन्दुं कृत्वा तद्विम्बमध्ये पूर्वापरं मत्स्यमुत्पाद्य तद्वशाद्बाह्यवृत्तान्तं सूत्रा युक्त्या नयेत्। स्पर्शवलनबिन्दुत: स्पर्शादिशि मोक्षवलनबिन्दुतो मोक्ष दितशीत्यर्थ:। तत्र स्पर्शशूत्रबाह्यपरिधिसंपाते स्पर्शबिन्दुत: केन्द्रप्रापि सूत्रं कुर्यात्। तत्सूत्रस्य ग्राह्यबिम्बपरिधेश्च योगो यत्र दृश्यते तीक्ष्णांशुबिम्बस्य तत्प्रदेशे स्पर्शो भवति। तथा मोक्षबिन्दुत: केन्द्रशपि सूत्र नयेत्। तत्सूत्रग्राह्यपरिधियोगे मोक्षो भवति।
तत्र बिम्बवलनादिलिप्तानामङ्गुलमानमाह -
मौरि(र्वी)केति -
मौरि(र्वी)का लिप्ता सा अर्धाङ्गुलप्राणां भवति। यथा वा लक्ष्यते दिवि ति। अनेन हरिजसंस्थे ग्रहे लिप्ता, एकाङ्गुलप्रमाणा भवतीत्युक्तं भवति। नत्यसंयुक्तविशिष्टमित्यनेन मध्यलग्नस्य...नतिसंस्कारो न भवतीत्युक्तं भवति।।44।।45।।46।।47।।48।।49।।
अथ मध्यग्रहणपरिलेखनाय तद्वलनाद्यानयनप्रकारमाह -
नत्या संयुक्तिविश्लिष्टं *बलनं ग्रहमध्यजम्।
तन्नत्योस्तुल्यकाष्ठत्वे वलनं पूर्वतो नयेत्।।50।।
भिन्नाशयोस्तयो: केन्द्रात्पश्चिमेन प्रसार्यते
तन्नत्यनुदिशं सूत्रं ततो मत्स्येन नीयते।।51।।
बाह्यमण्डलत: केन्द्रमानी(न)येत्तद्विचक्षण:।
केन्द्रात्तदनुसारेण नतिसूत्रं प्रसार्यते।।52।।
मध्यबिन्दुस्तदग्रे स्याद्बिन्दुतत्स्पर्शमोक्षयो:।
दक्षिणस्यां नतौ भागे याम्ये सौम्ये विपर्ययात्।।53।।
तन्नत्योरित्यादिना। तन्मध्यापालनमध्यनत्योस्तुल्यदिक्त्वे मध्यवलनं केन्द्रात्पूर्वतो नयेत्। भिन्नदिक्त्वे केन्द्रारत्पश्चिमे नयेत्। वलनाग्रे मत्स्यमुत्पाद्य तदनुसारेण मध्यनतिदिशि बा...सूत्रं नयेत्। तत्सूत्रबाह्यपरिधिसंपातात्केन्द्रग्रापि सूत्रं नीत्वा तत्सूत्रे केन्द्रान्मध्यमतितुल्य....वृत्तान्त तदग्रे बिन्दुं कुर्यात्। स मध्यबिन्दुर्भवति। स्पर्शमोक्षयोर्बिन्दू तौ पूर्वोक्तावित्यर्थ:। एतत्स्पर्शमध्यमोक्षायं बिन्दुवयं विशेषाज्ज्ञेयमित्यर्थ:। दक्षिणस्यां नतौ याम्ये नतिसून्नेयमापवर्यये उत्तरस्यां नतौ केन्द्रात्सौम्ये भागे नतिसूत्रं नेयम्। अत्र न्यायत: प्राप्तस्य वचनं चन्द्रग्रहणे वैपरीत्यसंभवात्।।50।।51।।52।।53।।
तद्वैपरीत्यं प्रदर्शयति -
विधिर्ग्रहणमध्यस्य भानोरिन्दोर्विपर्ययात्।
आलिखेत्तद्ग्रहे व्यक्तं ग्रासमध्यान्तसंभवम्।।54।।
विधिर्ग्रहणमध्यस्य भानोरिन्दोर्विपर्ययादिति। अत्रोक्तो ग्रहणमध्यस्य विधिर्भानोर्भवति। इन्द्रोस्तु तद्विपर्ययादिति। अत्रोक्तो ग्रहणमध्यस्य बिधिर्भानोर्भवति। इन्दोस्तु तद्विपर्ययाज्ज्ञेय:। मध्यवलनस्य नयनप्रकारं विक्षेपस्य नयनप्रकारं च चन्द्रस्यायोकुविपर्भयाद् भवतीत्यर्थ:। तद्ग्रहे चन्द्रग्रहणेऽपि ग्रासमध्यान्तसंभवैर्बिन्दुभिर्बिन्दुवशाद्। ग्रासप्रमाणमालिखेदित्यर्थ:।।54।।
ग्रहणमध्यमेवमालिखेदित्याह -
मध्ये बिन्दुशिरोन्यस्तग्राहकार्धवपुर्धृता।
खण्डयेत्कर्कटेनाऽऽशु निर्दिष्टस्फुटमानत:।।5।।
ग्राह्यस्य खण्डितायाव....च्छेद्यतेऽथ यत्।
ग्रहमध्ये तथा सर्वा विस्पष्टमुपलक्ष्यते।।56।।
मध्यबिन्दुशिरोन्यस्तेति। अश्विति रेखाया: स्पष्टतासिद्ध्यर्थम्। निर्दिष्टस्पष्टमानत इति। छेद्यत्वे निर्दिष्टेन स्पष्टमानेन परिलेखनविधौ दृष्टेन ग्राहकबिम्बप्रमाणेन ग्राह्यबिम्बस्य यावत्प्रमाणं खण्डितं भवति। अथ यावद्भिम्बलिखितं भवति ग्रहणमध्यकाले तथा व्योम्नि ग्राह्यबिम्बं दृश्यते। लिखितशब्देन समस्तच्छादनमुच्यते। अथवा विक्षेपाभावे ग्राह्यस्य महत्त्वाद्वलयाकारं यद्बिम्बं दृश्यते तल्लिखितामित्युच्यते।।55।।56।।
ग्राहकमार्गपरिलेखनप्रकारमाह -
न्यस्तबिन्दुत्रयप्राप्तिं(पि) मीनाभ्यां वृत्तमालिखेत्।
ग्राहकस्य भवेत्पन्थास्तत्रेष्टग्रासकल्पना।।57।।
न्यस्तबिन्द्विति। स्पर्शबिन्दुमध्यबिन्दुमोक्षबिन्दुत्रयमापि वृत्तखण्डं *मत्स्यद्वयवशादालिखेत्। संपर्कवृत्तान्तर्गतं वृत्तभागमालिखेदित्यर्थ:। स ग्राहकस्य पन्था मार्गो भवति। तस्मिन्वर्त्मनि ग्राहकमध्यं प्रकल्प्य इष्टग्रासपरिलेखनं कर्तव्यम्।।57।।
तत्प्रकारमाह -
इष्टहीनेन युक्तेन स्थित्यर्धेन हतां हरेत्।
सूर्येन्द्वोर्भुक्तिविश्लेषं षष्ट्या लब्धस्य वर्गितम्।।58।।
प्रक्षिप्यावनतेर्वर्गे यन्मूलं रविसोमयो:।
इष्टग्रासशलाका स्याच्छे(द्य: शे)षो ग्रास इष्टज:।।59।।
इष्टकालविहि(ही)नेनेति। मध्यकालात्प्रागतीतत्काल इष्टकाल:। तत्परत इष्यकाल: इष्टाकाल:। इष्टाकालं स्थित्यर्धाद्विशोध्य शिष्टनाडिकां गत्यन्तरकलाभिर्निहत्य षष्ट्या विभजेत्। तत्र लब्धं वर्गीकृत्य इष्टकालावनतिवर्गे प्रक्षिप्य मूली कुर्यात्। तत्र लब्धं रविसोमयोर्ग्रहण इष्टग्रासशलाका भवति। इष्टग्रासशलाकाया लिप्ता भवन्तीत्यर्थ:। ता लिप्ता: संपकर्काद्विशोध्य शिष्टमिष्टग्रासो भवति।।58।।59।।
*इष्टग्रासपरिलेखनमाह -
सुश्लक्ष्णा वैणविंशत्कात्केन्द्रात्तिर्यक् प्रसार्यते।
तस्याग्रेण तथा पन्था: प्रोच्यते ग्राहकस्य च।।60।।
यत्र ग्राहकमानेन खण्डयेद्ग्राह्यबिम्बकम्।
तावदेव तथाग्रस्तं दृश्यते ग्राह्यमण्डले।।61।।
सुश्लक्ष्णा वैणेति। इष्टग्राससशलाकातुल्यामेकां वेणुशलाकां केन्द्रात्स्पर्शदिति मोक्षदिशि वा तिर्यङ्निदघ्यात्। तदग्रवर्त्यरेखा स एव योगे बिन्दुं कृत्वा तत्र मध्यं कृत्वा ग्राहकबिम्बलिखेत्। तदातद्वृत्तान्तर्गतो यो ग्राह्यस्य भाग: स भागश्छन्नो भवति। तत्र शेषभागस्य रूपं यथा दृश्यते तथा रविरपि दृश्यते भागस्य वक्रत्वसंभवाद्यथावक्रामित्युक्ति:।।60।।61।।
निमीलनोन्मीलनकालयोरिष्टग्रासपरिलेखनमाह -
विमर्दार्धकलाहीनं यत्स्थित्यर्धे कलाभित:।
तत्कालच्छेद्यकं तेन भास्वत्खण्डादि खण्डयेत्।।62।।
प्रदेशसूत्रं बिम्बस्य कर्कटेनावगाह्यते।
पश्चार्धे गृह्यते व्यक्तं पूर्वे चासौ प्रमुच्यते।।63।।
विमदौधै कलाहीनामिति। विमर्दार्धधटिका गत्यन्तरलिप्ताभिर्निहत्य षष्ट्या विभजेत्। तत्र लब्धा विमर्दार्धकला इत्युच्यन्ते। स्थित्यर्धशब्देन तन्मूलभूता: संपर्कार्धकला उच्यन्ते। ताभ्य: संपर्कार्धकलाभ्यो मूलीकरणलब्धा विमर्दार्धकला: शोधयेत्। तत्र शिष्टं तत्कालच्छेद्यसाधनं भवति। तत्समान[श]लाकां स्पर्शबिन्दुतो मोक्षबिन्दुतश्च ग्राहकवर्त्मप्रापि पृथङ्निधायं तद्वर्गवर्त्मसङ्गद्वय-बिन्दुद्वयं कृत्वा तद्विन्दुद्वयं मध्यं कृत्वा ग्राहकमानेन कलामात्रभूतो भास्वतो बिम्बं खण्डयेत्। तदोन्मीलनं निमीलनं च प्रदृश्यते। तत्र स्पर्शभागलिखिग्राहकेण यो भागो ग्राह्यबिम्बस्य खण्डितस्तत्र स्पर्शावसानम्। तदुक्तम् - ''पश्चाच्च गृह्यते'' इति। मोक्षभागलिखितग्राहकेण यो भाग: खण्डितस्तत्र मोक्षारम्भ:। तदुक्तं-'पूर्वे चासौ प्रमुच्यते' इति। स्पर्शावसानं निमीलनं मोक्षारम्भ उन्मीलनम्। अथवा पश्चाद्गृह्यते, पश्चाद्भागे स्पर्शारम्भ:। पूर्वे प्रमुच्यते पूर्वभागे मोक्षावसानमित्युक्त भवति। एवं चद्रग्रहणेऽपि मध्यजीवालम्बनादिकं कार्यम्।।62।।63।।
तत्र यो विशेष: स उच्यत इत्याह -
एवमाशामुखादर्शसकलोरुकलाभृत:।
कान्तावदनसंवृत्तो वपुष: शशलक्ष्मण:।।64।।
एवमाशामुखेत्यादिना।।64।।
तत्र विशेषमाह -
अविकार्यो विधेर्ज्यानां विशेषो: य: स कथ्यते।
भूच्छायाया गुणा: कल्प्या रवे कक्ष्यासमुद्भवा:।।65।।
भागहार: शशाङ्कस्य कर्ण एवं प्रकीर्तित:।
शशिवल्लम्बनाल्लब्धं व्यत्ययात्क्षेपशोधने।।66।।
भूच्छायाया इति। तत्र भूच्छायाया मध्यज्यादिकं रविकक्ष्यासमुद्भवं ग्राह्यम्। विक्षेपं विना मध्यज्या कार्या। तथोदयज्या चेत्यर्थ:। लिप्तानयने भागहारस्तु चन्द्रकर्ण एव। लम्बनस्य क्षेपशोधने व्यत्ययात्कार्ये। एवं चन्द्रग्रहणेऽपि लम्बनविधिरिहोक्त एतदुयुक्तमेवेति गोलविद आहु:।।65।।66।।
शास्त्रन्तरेषु न दृष्टं च भूच्छायाया *दैर्घ्यानयनमाह -
ताडितो योजन: कर्णो धालि(त्री)व्यासेन भास्वत:।
तयोर्व्याविशेषेण भूच्छायादैर्ध्यमाप्यते।।67।।
ताहितो योजन इति। रवे: स्फुटयोजनकर्णो भूव्यासेन गुणितो भूव्याहरदिव्यासयोरन्तरेण भक्तो भूछायाया दैर्घ्यमानं योजनात्मकं भवति।।67।।
प्रकारान्तरेण च तदाह -
*पञ्चाऽऽहतो रवे: कर्ण: षोडशापहृत: फलम्।
भूच्छायादैर्घ्यमाख्यातमिन्दुकर्णस्त: क्षय:।।68।।
भूव्यासगुणिते शेषे छायादैर्घ्यहृते फलम्।
विष्कम्भार्धहतं भक्तं चन्द्रकर्णेन तत्तत:।।69।।
पञ्चाऽऽहत इति। रवे: स्फुटयोजनकर्णे पञ्च(5)गुणिते षोडशभि(16)र्भक्ते भूछायाया दैर्घ्यं भवति। 'इन्दुकर्णस्तत: क्षय:' इति। भूच्छायाया दैर्घ्याच्चन्द्रस्य स्फुटयोजनकर्णं विशोध्य शेषव्यासेन निहत्य छायादैर्य्येण विभज्य लब्धं त्रिज्यया निहत्य चन्द्रस्य स्फुटयोजनकर्णेन विभजेत्। सूत्र लब्धं लिप्तात्मकं तमसो बिम्बं भवति।।68।।69।।
अन्य लम्बनं बिना शशिनो ग्रहणं वदन्तीत्याह -
अन्ये भवन्ति शशिनो ग्रहणोपदेशं
हीनं गुणैर्दशभिरन्यफलान्तरत्वात्।
स्थित्यर्घकालमचलं विदधीत तस्सि-
न्नाद्यन्तयोर्ग्रहणमध्यसमुत्थितं यत्।।70।।
अन्य इति। तत्र स्थित्यर्धकालमविशिष्टं ग्राह्यमित्याह-स्थित्यर्धकालमचलमिति। मध्यत.... विक्षेपस्थित्यर्धकालेन सिद्धं स्थित्यर्धमाद्यन्तयो: स्पर्शमोक्षयोरचलमव(वि)शिष्टं कुर्यात्।।70।।
तत्कर्माऽऽह -
×क्षुण्णा स्थित्यर्धकालेन भुक्ति: षष्ट्या समाहृता।
समलिप्ते क्षयस्पर्शे मोक्षे क्षेपो निगद्यते।।71।।
विक्षेपस्तस्य तस्माच्च स्थित्यर्धं च प्रसाध्यते।
एवं कर्मावशेषोऽयं विमर्दार्धस्य वा पुन:।।72।।
क्षुण्णा स्थित्यर्धोति। स्थित्यर्धकालेन नाडिकात्मकेन चन्द्रस्य स्फुटभुक्तिं निहत्य षष्ट्या विभज्य लब्धं समलिप्तेन्दावृणं कुर्यात्। स स्पर्शेन्दु:। पुनस्तमेव लब्धं समलिप्तेन्दौ धनं कुर्यात्। स मोक्षेन्दु:। ताभ्यां पुनर्विक्षेपमानीय वर्गीकृत्य संपकर्कार्धवर्गाद्विशोध्य शिष्टस्य मूलात्वषष्टिघ्नादग्त्रून्तरेण स्पर्शस्थित्यर्धं चाऽऽनेयत्। पुनस्ताभ्यां पूर्ववद्गतिफलमानीय सप्त 7 लिप्तेन्दावृणं धनं च कृत्वा विक्षेपद्वयमानीय ताभ्यां स्थित्यर्धद्वयमानयेत्। एवं पुन: पुन: कृत्वाविऽशेषयेत्। अव(वि)शिष्टस्थित्यर्धद्वयं स्फुटं भवति। विमर्दार्धेऽप्येवमविशेषकर्म कार्यम्। परिलेखनकर्माणि चन्द्रस्य ग्रहणे विक्षेपस्य दिग्व्यत्ययेन कल्प्या, इति।।71।।72।।
पूर्वोक्तमपि स्पष्टीकर्तुं पुनश्चाऽऽह -
विक्षेप: शशिन: कल्प्यश्छेद्यकाले सतां वरै:।
उत्तरो दक्षिणे नित्यं दक्षिणश्चोत्तरे तथा।।73।।
विक्षेप: शशिन इति।।73।।
प्रोक्तमेतदवधूय मत्सरं
सूयर्चन्द्रतमसां क्रमागतम्।
कर्म येन विदुषा समर्पितं
दैवविद्भवति सर्वतन्त्रवित्।।74।।
इति महाभास्करीये पञ्चमोऽध्याय:।।5।।
- - - - -
इक्तं ग्रहणकर्म स्तूयते प्रोक्तमेतदित्यादिना।।74।।
इति परमेश्वरकृतायां कर्मदीपिकां पञ्चमोऽध्याय:।।5।।