अथ स्फुटाविधिरुच्यते -
कृत्वा देशान्तरं कर्म रवेरुच्चं विशोधयेत्।
शेषं सूर्यस्य यत्केन्द्रं तस्मिनराशित्रयं पदम्।।1।।
कृत्वा देशान्तरमिति। मन्द्रोच्चादीनां संख्या सप्तमेऽध्याये वक्ष्यति।।1।।
जीवा: क्रमोत्क्रमाभ्यां तु ग्राह्य: केन्द्रपदक्रमात्।
जीवा इति। अत्र स्फुटविधौ केन्द्र ओजपदे भुजायां क्रमज्या ग्राह्य। युग्मपदे कोट्या उत्क्रमज्यां ग्राह्या। तत्कथमित्यात्राऽऽह-कथ्यते विस्तरेणेति।।2।।
तत्कर्माऽऽह-
लिप्तीकृत्या हरेन्मख्या जीवा लब्धास्तत: पुन:।
वर्तमानाहतं शेषं मख्या चैव विभाजयेत्।।3।।
लिप्तीकत्येति। स्पष्टार्थ:।।3।।
तत्फलानयनमाह -
पुर्वसंकलिते युक्ते ज्या: क्रमेणोत्क्रमेण वा।
स्वपरिध्याहतेऽशीत्या लब्धे क्षयधनं फलम्।।4।।
स्वपरिध्योति। क्रमज्या उत्क्रमज्या वा याऽत्र साधिता तां स्वपरिधिसंख्यया निहत्याशीत्या विभजेत्। तत्र लब्धं जीवाफलं भवति। तत्क्षयात्मकं धनात्मकं च पदवशाद्भवति।।4।।
तत्क्रममाह -
केन्द्रात्पदविभागेन क्षयो धनधनक्षया:।
देशान्तरीकृते सूर्ये कुर्यात्तन्मध्यमे सदा।।5।।
केन्द्रादिति। प्रथमपदे तत्क्रमफलं देशान्तरसंस्कारयुते मध्यमे ऋणं कुर्यात्। द्वितीयपदे तु प्रथमपदसिद्धं पूर्णफलं प्रक्षिप्य चतुर्थपदसिद्धमुत्क्रमफलं विशोधयेत्। एवं जीवाफलसंस्कृतो मध्यमस्फुटो भवति। चन्द्रमसोऽप्येवं विधि:।।5।।
अथवा सर्वेषु पदेषु बाहुफलमेव कार्यमित्याह -
केन्द्रे क्रियादिके चाथ फलं बाहोर्विशोधयेत्।
तुलादिके तु तन्नित्यं देयं स्फुटदिदृक्षुणा।।6।।
केन्द्र क्रियादिके वा(चा)ऽथेति। केन्द्रे क्रियादिके सति। तत्पदसिद्धं बाहुफलं विशोध्य भवति। एवं बाहुफलसंस्कृतो मध्यमस्फुटो भवति। अत्र पक्षद्वयेऽपि ज्याफलं चापितमेव ग्रहे कार्यम्। कर्णविधौ तु बाहुफलं कोटिफलं च। अत्रा(चा)पितमेव ग्राह्यम्।।6।।
भुजाविवरस्फुटमाह -
क्रमोत्क्रमफलाभ्यस्तां मध्यां बाहुफलेन वा।
भुक्तिश्चक्रकलावाप्ता पूर्वत्तत्प्रकल्पयेत्।।7।।
क्रमोत्क्रमेति। क्रमफलमुत्क्रमफलं वा बाहुफलं वा यद्यद्ग्रहे क्रियते, तत्सर्वं मध्यभुक्त्या निहत्य चक्रत(क)लाभिर्विभज्य लब्धं जीवाफलं ग्रहे कार्यम्। यद्युत्क्रमफलं क्रमफलं च ग्रहे कृतं प(त)दा ताभ्यां द्वाभ्यां प्र(पृ)थङ्मध्यभुक्तिं निहत्य चक्रकलाभिर्विभज्य लब्धं फलद्वयमपि ग्रहज्याफलवत्कार्यम्। मध्यभुक्तेर्गुणकारत्वादिमं संस्कारं मध्यमे कृत्वा पुनस्तं स्फुटी कुर्यात्।।7।।
बाहुकोटिविभागमाह -
बाहुकोटि(टी)क्रमात्केन्द्रे कोटिबाहु गतागते।
तयोर्गुणफले प्राग्वत्कर्णार्थे परिकीर्त्यते।।8।।
बाहुकोटी इति। बाहुफलं कोटिफलं च कर्णार्थं प्राग्वत्साध्यम्।।8।। कर्णानयनमाह -
*आद्ये पदे चतुर्थे च व्यासार्धे कोटिसाधनम्।
क्षिप्यते शोध्यते चैव शेषयो: कोटिका भवेत्।।9।।
आद्ये पद इति। कोटिसाधनशब्देन कोटिफलमुच्यते। केन्द्र आद्यपदे चतुर्थपदे च कोटिफलं व्यासार्धे प्रक्षिपेत्। द्वितीयतृतीयपादयो: कोटिफलं व्यासार्धाद्विशोधयेत्। एवं कृता सा त्रिज्या कोटिका भवति। कोटिसंज्ञा भवति। तस्या: कोटिकाया बाहुफलस्य च वर्गयोगपदं कर्णो भवति। एवं सर्वत्र कर्णविधिर्ज्ञेय:।।9।।
पुनरस्य कर्णस्याविशेषकरणमाह -
तद्बाहुवर्गसंयोगमूलं कर्ण: प्रकीर्तित:।
बाहुकोटिफलाभ्यस्ते कर्णे व्यासार्धभाजिते।।10।।
भुजाकोटिफले स्यातां ताभ्यां कर्णश्च पूर्ववत्।
भूय: पूर्वफलाभ्यस्ते कर्णे त्रिज्याविभाजिते।।11।।
एवं पुन: पुन: कुर्यात्कर्णं पूर्वोक्तकर्मणा।
यावत्तुल्यो: भवेत्कर्ण: पूर्वाक्तविधिनाऽमुना।।12।।
विष्कम्भार्धहता भुक्ति: सूर्याचन्द्रमसो: सदा।
स्वाविशेषेण कर्णेन: स्फुटभुक्तिरवाप्यते।।13।।
बाहुकोटिफलाभ्यस्त इति। तत्र सिद्धं कर्णं प्रथमानीतबाहुकोटिफलाभ्यां निहत्य त्रिज्यया विभजेत्। तत्र लब्धे बाहुकोटिफले कर्णसाधने भवत:। पुनस्ताभ्यां च कर्णमानयेत्। तमपि कर्णे प्रथमानीतभजाकोटिफलाभ्यां निहत्य त्रिज्यया विभज्य लब्धाभ्यां ताभ्यामपि कर्ण: साध्य:। एवं पुन: पुन: कृत्वा कर्णविशेषयेत्।।10।।11।।12।।13।।
स्फुटभुक्त्यानयनं प्रकारान्तरेणाऽऽह-
अन्त्यजीवाऽथवा भुक्त्या गुणिता धनुषा हृता।
स्वपरिध्याहतेऽशीत्या लब्धे हीनाऽधिके स्फुटा।।14।।
अन्त्यजीवाऽथवेति। वर्तमानखण्डज्याऽत्रान्त्यजीवेत्युच्यते। भुजाया वर्तमानखण्डज्यां मध्यभुजा[भु]क्त्या निहत्य मख्या विभज्य लष्बं स्वपरि[धिना]निहत्याशीत्या (80) विभज्य लब्धं मृगादौ मध्यभुक्ते: शोधयेत्। कर्क्यादौ मध्यभुक्तौ प्रक्षिपेत्। सा च स्फुटभुक्तिर्भवति।।14।।
एवमर्कस्य विधिं(धि)[मुक्त्वा] चन्द्रस्य विधिमाह-
अन्त्यजीवाधनुष्खण्डं केन्द्रभा(भो)गद्विशोधयेत्।
तद्विशुद्धमध: शेषं पात्यते विषमे तत:।।15।।
उच्चभक्तिविहीनाया भक्ते शीतांशुभालिन:।
उत्क्रमज्याऽक्रमे ग्राह्या क्रमज्या चेत्क्रमे स्थिते।।16।
आद्यन्त्यो: फलं युक्त्वा गुणयोश्चानुपातत:।
तत्फलेन विहीनाप्ता भुक्ति: स्फुटतरा हि सा।।17।।
अन्त्यजीवाधनुरिति। ओजपदे भुजाया वर्तमानधनुष्स्वण्डं केन्द्राभोगादुच्चगतिहीनचन्द्रभोगाद्विशोधयेत्। युग्मपदे तु वर्तमानधनुष्खण्डं मखेर्विशोध्य शेषमुच्चभुक्तिहीनाया मध्यभुक्तेर्विशोध्येत्। उभयत्र शोधितलिप्ताभ्यो वर्तमानखंडज्यनिहताभ्यो संख्या विभज्य लब्धं जीवाफलमेकत्र स्थापयेत्। अत्र क्रम इत्योजपदप्रदर्शकः। उत्क्रम इति युग्मपदप्रदर्शकः। ओजपदे वर्तमानजीवान उत्क्रमेण केन्द्रभुक्तिकलानां जीवा ग्राह्याः। युग्मपदे तु वर्तमानजीवात: क्रमेण केन्द्रभुक्तिकलानां जीवा ग्राह्या इत्युक्तं भवति। अतो धनुष्खण्डहीनकेन्द्रभुक्ति- शेषाद्यावद्वमरं मखि: शोध्या तावद्वारं मखिं विशोध्य वर्तमानखण्डज्यात: पूर्वस्थापितजीवाया: पराधिकास्तावत्य: खण्डज्या: पूर्वस्थापितजीवायां प्रक्षेप्या:। पुनरन्तरखण्डज्यया केन्द्रभुक्तिकलाशेषं निहत्य संख्या विभज्य लब्धजीवकला: पूर्वगृहीतजीवासु प्रक्षेप्या:। इति वा ग्रहणक्रम:। पुनस्तां जीवां स्वपरिधिहतामशीत्या विभज्य लब्धं पूर्ववन्मृगादौ मध्यभुक्तेर्विशोधयेत्। कर्क्यादौ प्रक्षिपेत्। स्फुटभक्तिर्भवति।।15।।16।।17।।
पूर्वदिनयोग्यस्योत्तरदिनभोगस्य च स्वरूपमाह -
ह्यस्तनाद्यतनयोपि(र्वि)शेषोऽतीतभोगत:।
श्वस्तनाद्यतनयोश्च भाविभोग: प्रकीर्तित:।।18।।
ह्यस्तनेति।।18।।
कोट्या: पदवशाद्धित्वा युक्त्वा वाऽन्त्यफलं पुन:।
तद्वर्गबाहुवर्गस्य योगात्कर्णपदं भवेत्।।19।।
कोट्याः पदवशादिति। अत्र भुजामशीत्या(80) विभज्य यल्लभ्यते तदन्त्यफलमित्युच्यते। आद्यपदे चतुर्थतः स्वपरिधिहता द्वितीयतृतीयपदयोरन्त्यफलं कोटिज्यातः शोधयेत्। एवं सिद्धायाः कोटिज्याया बाहुज्यायाश्च वर्गयोगपदं कर्णो भवति।।19।।
तस्याविशेषकरणमाह -
*कर्णेनान्तयफलं हत्वा विष्कम्भार्धेन लभ्यते।
पूर्वकोट्या धनर्णं स्याद्यावान्कर्णः समो भवेत्।।20।।
कर्णेनान्त्यफलामिति। प्रथमानीतमन्त्यफलं कर्णेन निहत्य त्रिज्यया विभजेत्। तत्र लब्धमन्तयफलं भवति। पुनस्तेनान्त्यफलेन प्रथमसिद्धभुजां कोटिज्यां च प्राग्वतकर्णमानयेत्। पुनस्तेन कर्णेन प्रथमसिद्धमन्त्यफलं निहत्य त्रिज्यया विभज्य लब्धेनान्तयफलेन कर्णेन प्रथमसिद्धमन्त्यफलं निहत्य त्रिज्यया विभज्य लब्धेनान्त्यफलेन कर्णमानयेत्। एवं पुनः पुनः कृत्वा कर्णमविशेषयेत्।।20।।
प्रतिमण्डलस्फुटमाह -
भुजज्याभिहता त्रिज्या कर्णेनाऽऽप्तधनुः क्रमात्।
केन्द्रात्पदविभागेन धनं स्वोच्चे प्रकल्पयेत्।।21।।
भुजज्याभिहतेति। भुजज्यया त्रिज्यां निहत्याविषकर्णेन विभज्य लब्धं चापीकृत्य वक्ष्यमाणविधिना स्वमन्दोच्चे धनं कुर्यात्। स स्फुटरविर्भवति।।21।।
तत्प्रकारमाह -
तदेवं केवलं पूर्वं चक्रार्धं तेन वर्जितम्।
चक्रार्धं तच्च संशुद्धं चक्रोच्चः स स्फुटो रविः।।22।।
तदेव केवलामिति। प्रथमपदे तच्चापमेव स्वोच्चे क्षेप्यम्। द्वितीयपदे तच्चापं चक्रार्धद्विशोध्यं शिष्टे स्वोच्चे क्षेप्यम्। तृतीयपदे चक्रार्धयुतं तच्चापं क्षेप्यम्। चतुर्थपदे तच्चापं चक्राद्विशोध्य शिष्ट क्षेप्यम्। एवं सिद्धं मन्दोच्चं स्फुटरविर्भवति। इह चापीकरणदोषात्कुत्रचिदस्य स्थौल्यं संभवति। स्फुटचापे गृहीते सदा सूक्ष्ममेव भवति।।22।।
कर्क्यादौ यदा कोटिज्याऽन्त्यफलतुल्या भवति तदा प्रथमपदावसानं कल्प्यम्। तथा चतुर्थपादारम्भश्च। एवं प्रतिमण्डलसंसिद्धि: कीर्तितेत्याह -
प्रतिमण्डलसंसिद्धिरेषा सम्यक् प्रकीर्तिता।
स्वान्त्यं फलं च सर्वेषामुच्यते प्रतिमण्डलम्।।23।।
प्रतिमण्डलेति। अन्त्यफलं च सर्वेषामित्यत्यार्थो गोलविवेक एवं निरूप्य:।।23।।
÷स्फुटस्वदेशमध्यार्कविश्लेषान्तरसंगुणा।
भुक्तिश्चक्रकलाप्राप्ता पूर्ववत्तद्भुजान्तरम्।।24।।
स्फुटस्वदेशेति। स्वदेशसाधितस्फुटार्कमध्यमार्कयोरन्तरलिप्ता: स्फुटभक्तिहताश्चक्रकलाभक्ता: स्फुटरवौ पूर्ववन्मेषतुलादावृणधने कुर्यात्। एतद्भुजाविवराख्यं कर्म भवति।।24।।
×चरसंस्कारमाह -
चरप्राणहता भुक्तिरहोरात्रासुभाजिता।
उदयास्तगतो: शुद्धि: क्षेपश्चोत्तरगे रवौ।।26।।
चरप्राणेति। रवेश्चरदलप्राणै: स्फुटभुक्तिर्निहत्याहोरात्रासुभिर्विभज्य लब्धमुत्तरगोले सूर्यस्योदये रवौ शोध्यम्। अस्तमये क्षेप्यम्। दक्षिणउदये क्षेप्यमस्तमये शोध्यम्।।26।।
व्यत्ययो दक्षिणे भानामन्येषामनुपातत:।
फलं भास्वद्वशद्विद्धि: क्षेप: शोधनमेव वा।।27।।
अन्येषामनुपातत इति। अन्येषां ग्रहाणामित एवं चरदलात्त्रैराशिकेन चरदलभोगावाप्ति:। स्वस्वभुक्तहतादर्कचरदलादहोरात्रासुभिर्लब्धं चरदलभोगस्य फलं भवति। तस्याऽऽदित्यस्य कालवशाद्गोलवशाच्च धनशोधने वेद्ये।।27।।
दिनार्थ(र्धं)प्रमाणमाह -
उदक्परार्धसंयुक्तो वादोऽहोरात्रसंभव:।
दिनार्धं दक्षिणे हीनं रात्र्यर्धं तद्विपर्ययात्।।28।।
उदक्परार्धेति।।28।।
चन्द्रस्फुटकर्माऽऽह -
सूर्यबाहुहता भुक्तिर्मध्यचन्द्रकलाहृता।
भास्करस्य वशात्क्षेप: शुद्धिर्वाऽपि निशाकृत:।।29।।
शेषं विवस्वता तुल्यं कर्म चन्द्रस्य कीर्तितम्।
भास्वद्भुजाफलेनैव शेषाणां तु प्रकल्पयेत्।।30।।
सूर्यबाहुहतेति। एष भुजाविवरसंस्कारो धनशोधते तस्य भास्करस्य कालगोलवशाद्देशान्तरसंस्कारयुते मध्यम एष कार्य:। शेषं कर्म भास्वता तुल्यं मन्दोच्चशोधनभुजाफलानयनकर्णानयनादि सूर्यवद्वेद्यम्। शेषाणां ग्रहाणामपि भुजाविवरमर्कवदित्याह- भुजास्वदिति।।29।।30।।
तिथ्यानयनमाह -
स्फुटार्थोन:(र्केण)शशी छेद्यो लिप्ताभि: खद्विभूधरै:।
तिथयस्तत्र लभ्यन्ते शेषं षष्ट्या समभ्यसेत्।।31।।
छिन्द्यादभुक्तिविशेषेण घटी विघटिकासव:।
तिथि: शेषो गतो वाऽपि निदिर्ष्टो भास्करोदयात्।।32।।
स्फुटार्केणेति।।31।।32।।
करणान्याह -
तिर्थ्यहारलब्धानि करणानि *बवादित:।
विरूपाणि मिते पक्षे सरूपाण्यसिते विदु:।।33।।
लिप्तीकृतो ग्रहश्छेद्य: शरैरष्टाभिराप्यते।
ज्योतिषां निचयो यातो भुक्त्या शेषाद्घटीर्विदु:।।34।।
तिथ्यर्धहारेति। असिते पक्षे राशिषट्कमपास्य शेषात्सिद्धकरणानि सरूपाणि स्यु:।।33।।34।।
म्यतीपातमाह -
सूर्येन्दुयोगे चक्रार्धे व्यतीपातोऽथ वैधृत:।
चक्रे मैत्रे च पर्यन्ते विज्ञेय: सार्पमस्तक:।।35।।
सूर्येन्दुयोग इति। चक्रार्धे सूर्येन्दुयोगे वैधृतश्चकाराद्व्यतीपातश्च। मैत्रस्योत्तरार्धे सार्पमस्तकाख्यो व्यतीपात:।।35।।
अत्र वक्रार्धव्यतीपातस्य लक्षणविशेषमाह -
नानायने व्यतीपातस्तुल्यापक्रमयोस्तयो:।
उद्देशस्तस्य चक्रार्धं विक्षेपादधिको नतम्।।36।।
नानायन इति। तयो: सूर्येन्द्वोरतुल्यापक्रयो: सतोर्नानायने तयोरयने भिन्ने च सत्येव व्यतीपात: स्यात। तस्य, उद्देशप्रदेशश्चकार्धें सूर्येन्दुयोगे चक्रार्धे त भवतीत्यर्थ:। अत्र तुल्याऽपक्रमस्यगोलत: संख्ख्या च। एकगोलतयोस्तुल्यापकमयो: सूर्येन्द्वो: सतोरित्यर्थ:।।36।।
कुजादीनां स्फुटविधिमाह-
तिग्मांशकेन्द्रवज्जीवा क्रमशश्चोत्क्रमादपि।
भुजाकोट्यादिसिद्धिश्च विशेषोऽभिधास्यते।।37।।
तिग्मांशुकेन्द्रवादिति। कुजादीनां केन्द्रऽपि तिग्मांशुकेन्द्रवद् भुजाया: कमज्याग्रहणं कोट्या उक्तक्रमज्याग्रहजं च वेद्यम्। भुजाकोट्योर्विभागवनशोधने च तथा यत्पुनस्तेषां सूर्याद्विशेष: इहाभिधास्ते।।37।।
तद्विशेषमाह -
स्ववृत्ता स्वोत्तरगुणा पदयोरोजयुग्मयो:।
कमाकमात्त्मिमौर्वा(र्व्या)प्तं परिधौ परिकल्प्येत्।।38।।
क्षयोऽधिकद्युतीहीने परिधि: स्यात्फुटा मता।
तेनाऽऽहतं ग्रहेन्द्रज्यां छित्वाऽशीत्या फलं विदु:।।39।।
स्ववृत्तेति। ओजवेद भुजाया: कमज्यामानीय, ओजयुग्मपदपटियेर्वृत्तयोरन्तरेण निहत्य व्यासार्धेन विभज्य लब्धमोजपदवृत्ते धनमृणमषा (णं वा) कुर्यात्। अधिक ऋणं कुर्यात्। तदोजपदे स्फुटपदे स्फुटवृत्तं भवति। युग्मपदे तु कोट्या उत्क्रमज्यामानीय वृत्तान्तरेण निहत्य व्यासार्धेन विभज्य लब्धं युग्मपदवृत्ते धनमृणं वा कुर्यात्। युग्मवृत्ते हीने तस्मिन् धनं कुर्यात्। अधिक ऋणं कुर्यात्। तद्युग्मपदे स्फुटवृत्तं भवति। तेनाऽऽहतेति। तेन स्फुटवृत्तेनाऽऽहताभिष्टकेन्द्रजातां क्रमज्यामुत्क्रमज्यां वाऽशीत्या विभजेत्। तत्र लब्धं ज्याफलं भवति।।38।।39।।
स्फुटक्रममाह -
*स्वमन्दकेन्द्रस्थं(सं)प्राप्तं फलं चापार्धमिष्टयते।
पदक्रमाद्यथा भानो: स्वमध्ये तद्विधीयते।।40।।
स्वमन्दकेन्द्रेति। प्रथमं मन्दोच्चं विशोध्य मन्दकेन्द्रमानीय तस्मादाप्तं भुजाफलं चापीकृत्य तच्चापार्धं मध्यम ऋणं धनं वा कुर्यात्। रविवन्मेषादावृणं तुलादौ धनमित्यर्थ:। उत्क्रममर्कग्रहणे तदर्धं पूर्ववत्कार्यम्।।40।।
शीघ्रं केन्द्रफलाभ्यस्तं विष्कम्भार्धं विभाजयेत्।
स्वकर्णेनाऽऽप्तचापार्धं कार्यं तस्मिन्विपर्ययात्।।41।।
तस्मिन्मन्दफलं कृत्स्नं कार्यमिष्टं स्वमध्यमे।
एवं भौमार्कजीवानां विज्ञेया: स्फुटमध्यमा:।।42।।
शीघ्रमिति। मन्दफलार्धसंस्कृतं मध्यमं पृथक शीघ्रोच्चद्विशोध्य बाहो: कर्मज्याफलं कोट्या उत्क्रमज्याफलं च स्फुटवृत्तगुणनादि कृत्वाऽऽनीय शीघ्रकर्णं च मन्दकर्णवत्सकृदानीय पुनर्भुजाफलं व्यासार्धेन निहत्य शीघ्रकर्णेन विभज्य लब्धश्चापीकृत्य तदर्घं तन्दफलार्धसंस्कृते मध्यमे केन्द्रे मेषादिके धनं कुर्यात्। तुलादिक ऋणं कुर्यात्। पुनस्तस्म्ज्ञन्मन्दोच्चं विशोध्य फलमानीय चापीकृत्य तत्स[कलं] केवलमध्यमे कुर्यात्। स्फुटमध्यमसंज्ञं भवति। एवं भौमार्किजीवानां स्फुटमध्यमा: साध्य:।।41।।42।।
स्फुटमध्मस्य स्फुटकरणमाह -
तद्विहीनफलोत्पन्नफलं चापेन संस्कृत:।
स्फुटमध्यस्फुटो ज्ञेय: शेषयोरुच्यते विधि:।।43।।
तद्विहीनच(फ)लोत्पन्नेति। स्फुटमध्यमं शीघ्रोच्चद्विशोध्य शीघ्रफलचापमामयि तत्सकलं स्फुटमध्यमे शीघ्रन्यायेन कुर्यात्। स स्फुटो भवति।।43।।
अथ शेषयोर्बुधशुक्रयोर्विधिरुच्यते -
+शीघ्रस्यावाप्तचापार्धं युक्तहीनो विपर्ययात्।
मन्दोच्चस्फुटमध्यस्य कर्ता शीघ्रस्फुटं पुन:।।44।।
शीघ्रन्याये(स्ये)ति। प्रथमं मध्यमं शीघ्रोच्चद्विशोध्य शीघ्रफलचापमानीय तदर्धें स्वकीयमन्दोच्च ऋणधनव्यत्ययेन कुर्यात्। तन्मन्दोच्चं मध्यमाद्विशोध्यं तस्मान्मन्दफलचापमानीय तत्सकं केवलमध्मे कुर्यात्। स स्फुटमध्यमो भवतीत्यर्थ:। तं शीघ्रोच्चद्विशोध्य शीघ्रचापमानीय तत्सकलं स्फुटमध्यमे कुर्यात्। स स्फुटो भवति। तदुक्तं-शीघ्रोच्चात्स्फुटं विदुरिति।।44।।
प्रतिमण्डलस्फुटकरणमपि विपश्चिता ताराग्रहाणामपि कर्तव्यमित्याह -
प्रतिमण्डलेति। तत्प्रकारमाह-मन्दोच्च इत्यादिना। मध्यमान्यन्दोच्चं विशोध्य भुजज्यां कोटिज्यां चाऽऽनीय वृत्तस्फुटं च कृत्वा स्फुटवृत्तनिहत्या...ज्यामशीत्या विभज्य लब्धमत्यन्त(न्त्य)फलं कोटिज्यायां धनमृणं वा पूर्वत्कृत्वा तद्वर्गभुजज्यावर्गयोर्योगात्पदमानयेत्। स प्रतिमण्डलकर्ण:। तं पूर्ववदविशेषयेत्। पुनर्भुजज्यां त्रिज्यया निहत्याविशिष्टेन मन्दकर्णेन विभज्य लब्धं चापीकृत्य मन्दोच्चे पूर्ववत्तमेव केवलमिम्यादिना धनं कुर्यात्। स मन्दसिद्ध: स्यात्। शीघ्रस्फुटे तु शीघ्रोच्वाद्यथोदितं मध्यमं विशोध्य भुजाभ्यां कोटिज्यां चाऽऽनीय (तेन कोज्याभुजज्याभ्यां च पूर्ववत्प्रतिमण्डलकर्णं) वृत्तं च स्फुटीकृत्य तेन निहता(द्) व्यासार्धदन्त्यलमानीय तेन कोटिज्याभुजज्याभ्यां च पूर्ववत्प्रतिमण्डलकर्णं सकृदानीय पुनर्भुजज्यां त्रिज्यया निहत्य सकृदानीतशीघ्रकर्णेन विभज्य लब्धं चापीकृत्य तच्चापं तदेव केवलमित्यादिना विधिना शीघ्रोच्च् ऋणं कुर्यात्। स शीघ्रसिद्धो भवति।।45।
शोधनप्रकारमाह -
तदेव केवलं योज्यं पदयो: पूर्ववच्चलात्।
चक्रार्धसंयुतश्चापं चक्राच्छोध्यश्च शेषयो:।।46।।
तदेवेति। अस्यायमर्थ:-प्रथमपदे तदेव केवलमिति पूर्वोक्तविधिना तच्चाश्मेव शीघ्रोच्चाच्छोध्येते। द्वितीयपदे तु चक्रार्धं तेन वर्जितमिति। पूर्ववत्तच्चावहीनं चक्रार्धं विशोध्यते। एवं पूर्वपदयो: पूर्ववत्कुर्यात्। उत्तरपदयोश्च तद्वदाह।।46।।
चक्रार्धसंयुतमाह -
स्फुटवृत्तगुणं त्रिज्यां हृत्वाऽशीत्या स्वकोटित:।
त्यक्त्वा पदेषु युक्त्या वा कर्ण: प्राग्वत्प्रसाध्यते।।47।।
स्फुटवृत्तगुणामिति।।47।।
अथ स्फुटकर्मप्रकारमाह -
मन्दोच्चसिद्धतन्मध्यविश्लेषार्धमन्वित:।
मन्दसिद्धेऽधिके हीने रहितो मध्यमो ग्रह:।।48।।
स शीघ्रोच्चात्पुन: साध्य: सिद्धयोरन्तरा भुजम्।
अर्धीकृत्य सकृत्सिद्धे पूर्ववत्परिकल्पयेत्।।49।।
एवं कृतस्य भूयोऽपि मन्दासिद्धिं समाचरेत्।
मन्दसिद्धस्य तस्यायं विश्लेषोऽतो विधास्यते।।50।।
ततो द्विसिद्धमन्दस्य द्विसिद्धस्य यदन्तरम्।
प्राग्वत्तन्मध्यमे कृत्वा शीघ्रसिद्ध: स्फुटो ग्रह:।।51।।
एवमारार्किजीवानामाख्यातं प्रतिमण्डलम्।
शेषयोरप्य[यं] सम्यगुच्यते यो विधिक्रम:।।52।।
मन्दोच्चसिद्धेति। प्रथमं मन्दोच्चं मध्यमाद्विशोध्य प्रतिमण्डलविधिना मन्दस्फुटमानयेत्। पुनस्तन्मन्दस्फुटमध्यमयोर्विश्लेषमन्धी(र्धी)कृत्य मध्यमे धनमृणं वा कुर्यात्। मन्दसिद्धेऽधिके धनं कुर्यात्। मन्दसिद्ध ऊन ऋणं कुर्यात्। स सकृत्सिद्धं इत्युच्यते। पुनस्तमनष्टं कृत्वा शीघ्रोच्चद्विशोध्य शीघ्रन्यायेन शीघ्रस्फुटमानयेत्। शीघ्रसिद्धेऽधिके धनमन्यथा ऋणम्। एवं कृतो द्विसिद्धो भवति। पुनर्द्विसिद्धान्मन्दोच्चं विशोध्यं मन्दन्यायेन मन्दस्फुटमानयेत्। सिद्धिसिद्धस्य च यदन्तरं तत्सकलं केवलमध्यमे यथाविधि कृत्वा तं शीघ्रोच्चाद् विशोध्य शीघ्रन्यायेन शीघ्रस्फुटमानयेत्। स स्फुटग्रहो भवति। एवमारार्किजीवानां प्रतिमण्डलस्फुटविधिरुक्त:।।48।।49।।50।।51।।52।।
अथ शेषयोर्बुधशुक्रयोर्विधक्रम उच्यते -
शीघ्रोच्चसिद्धतन्मध्यविश्लेषार्धसमन्वितम्।
मध्यादूनेऽधिके हीनं मन्दोच्चं संस्कृते विदु:।।53।।
बुधभृग्वो: पुन: साध्यं मन्दमेवं तु कर्मणा।
तेन सिद्धौ चलाद्भूय: स्फुटावेतौ प्रकीर्तितौ।।54।।
शीघ्रोच्चसिद्धेति। प्रथमं शीघ्रोच्चानमध्यमं विशोध्य शीघ्रस्फुटमानीय तत्स्फुटमध्यमयोरन्तरार्धं मन्दोच्चे धनमृणं वा कुर्यात्। मध्यान्न्यूने स्फुटे धनमधिक ऋणम्। एवं संस्कृतं मन्दोच्चं मध्यमाद्विशोध्य मन्दरस्फुटमानीय तं शीघ्रोच्चाद्विशोध्य शीघ्रस्फुटानयेत्। स्फुटो भवति।।53।।54।।
अथ कर्णानयने विशेषमाह -
कोटेरन्त्यफलं शोध्यं न शुध्येद्व्यत्ययात्तदा:।
साध्य: कर्णोऽसकृन्मन्द: सकृत्कर्ण: स्वशीघ्रराज:।।55।।
कोटेरिति। कोट्यां शोध्यं यदन्त्यफलं तन्महत्त्वादशोध्यं यदा भवति तदाऽन्त्यफलात्कोटिं विशोध्य शिष्टं कोटिं प्रकल्प्य पूर्ववत्कर्ण: साध्य:। मन्दकर्णोऽविशेषान्तं कार्य:। शीघ्रकर्ण: सकृदेव साध्य:।।55।।
अथ वक्राद्यवगमनाय शीघ्रोच्चमाह संस्कारमाह -
स्फुटमध्यमान्तरदलं मध्यवशादृणं धनं चले कृत्वा।
वक्रातिवक्रगमने विज्ञेये तन्निवृत्तिश्च।।56।।
स्फुटमध्यमान्तरेति। मध्यमस्य स्फुटग्रहस्य चान्तरमन्धी(र्धी)कृत्य शीघ्रोच्चे धनमृणं वा कुर्यात्। मध्यमशोधनकल्पनस्फान्मध्येऽधिके धनं हीने ऋणमित्यर्थ:। तद्वशाद्वक्रातिवक्रगमने वेद्ये।।56।।
तत्प्रकारमाह -
शीघ्रोच्चात्स्फुटखेचरो निपतिताच्छेषं यदा राशय -
श्चत्वारो यदि वक्रगत्यभिमुख: षद्भस्तु वक्रे स्थित:।।
अष्टौ चेत्कुटिलं जहाति विहग: पन्थानमाश्वेव स
त्वेष्यातीतविचारिणोर्विवरकं भुक्तिर्भवेदाह्निकी।।57।।
शीघ्रोच्चादिति। उक्तन्यायेन संस्कृताच्छीघ्रोच्चात्स्फुटशेखरे विशोधिते सति चत्वारो राशयो यदा भवन्ति सदा स ग्रहो वक्रगतावभिमुखो भवति।
यदा षड्राशयस्तदाऽतियके तिष्ठति। यदाऽष्टौ राशयस्तदा वक्रं जहाति। एध्यादीतविचारिणो: परदिनपूर्वदिनसाधितयोर्ग्रहयोरन्तरं दिनभुक्तिर्भवति।।57।।
अथ प्रकारान्तरेण स्फुटभुक्त्यानयनमाह -
मन्दान्त्यजीवागुणितां स्वभुक्तिं
भूय: स्ववृत्तेन हतां विभज्य।
राशे: कलाभिर्दशताडिताभि -
र्भुक्तौ धनर्णे वद युक्तितोऽर्धम्।।58।।
मन्दान्त्येति। प्रथमस्फुटे वर्तमानखण्डज्यां बाहुभवां मध्यभुक्त्या निहत्य पुनर्मन्दस्फुटवृत्तेन च निहत्य दशगुणितैकराशिलिप्ताभिर्विज्य लब्धमन्धी(र्धी)कृत्य मध्यभुक्तौ धनर्णं कुर्यात्। पदक्रमेण क्षयधनधनक्षयान् कुर्यादित्यर्थ:। एवं कृता सकृत्सिद्धा भुक्तिर्भवति। तां पुन: शीघ्रोस्फुटवृत्तोन च निहत्य दशताडितराशिकलाभिर्विभज्य लब्धं व्यासार्धेन निहत्य शीघ्रकर्णेन विभज्य लब्धस्य चापार्धं सकृत्सिद्धभुक्तौ शीघ्रन्यायेन धनमृणं वा कुर्यात्। केन्द्रपदक्रमेण धनक्षयक्षयधनानि कुर्यादित्यर्थ:। पुनस्तां भुक्तिं तृतीयस्फुटे वर्तमानखण्डज्यया निहत्य स्फुटवृत्तेन च निहत्य दश गुणितराशिलिप्ताभिर्विभज्य लब्धं चापीकृतं सकलं मध्यभुक्तौ मन्दन्यायेन धनमृणं वा कुर्यात्। पुनस्तामविनष्टां संस्थाप्य शीघ्रोच्चभुक्तेर्विशोध्य शेषं चतुर्थस्फुटे वर्तमानखण्डज्यया निहत्य स्फुटवृत्तेन च निहत्य दशताडतराशिलिप्ताभिलिभिर्विभज्य लब्धं व्यासार्धेन निहत्य शीघ्रकर्णेन विभज्य लब्धं चापीकृत्य तत्सकलं पूर्वस्थापितसंस्कृतभुक्तौ शीघ्रन्यायेन धनमृणं वा कुर्यात्। सा स्फुटभुक्तिर्भवति यदा शोध्यं फलं महत्त्वादशोध्यं भवति तदा महतोऽल्पं विशोधयेत्। शिष्टं वक्रगतिर्भवति। एवं सुरेकषमन्दकुजानां गतिविधि:।।58।।
शुक्रबुधयोर्विधिरुच्यते -
शीघ्रोच्चभक्तेस्तदपास्य शेषात्
केन्द्रानत्यजीवाविधिना यदाप्तम्।
त्रिज्याहतं कर्णविभक्तभेदं
न्यायेन शीघ्रस्य धनर्णमिष्टम्।।59।।
तन्मन्दमौर्वीफलचापभुक्ता
सर्वस्वभुक्तौ धनशोधने तु।
तस्याविष्टस्य चलोच्चभक्ते -
र्जीवाफलं सर्वमनिष्टराशौ।।60।।
एवं ग्रहाणां स्फुटभुक्तिसंख्या
वक्रग्रहोऽसाविति सद्भिरुक्त:।।61।।
एवं सुरेध्वा(ज्या)र्कधुरासुतानां
भुक्ति: स्फुटाऽतो भृगुसोमसून्वो:।
मन्दोच्चकेन्द्रादपि संस्कृताद्धि
शीघ्राद्यजीवाविधिना च लब्धम्।।62।।
तनैव सर्वेण युते विहीनौ
भोग: स्फुटो य: कथितो विशेष:।
इयं ग्रहाणां व्यवहारिकी स्या
द्भुक्ति: स्फुटाऽऽसन्नतरा च नित्या।।63।।
मन्दोच्चकेन्द्रादावि(दपी)ति। शीघ्रान्त्यज्यया गुणिताद्विधिनाऽवाप्तदलेन संस्कृते भोगे यथाविधि कुर्यात्। स स्फुटभोगो भवति। इयं भुक्तिरासन्नतरास्फुटभुक्तिसमा प्राय इत्यर्थ:। व्यवहारिता नित्यं कर्मक्षमेत्यर्थ:। आसन्नवरेत्यनेन किंचित्स्थौल्यमति सूचितम्। तस्या: स्थौल्यहेतुस्त्प्रक्रिया च भाष्ये द्रष्टव्या।।59।।60।।61।।62।।63।।
अर्केन्द्वो: समलिप्तीकरणमाह -
गन्तव्ययाततिथिशेषहते रवीन्द्वो -
र्भुक्तिक्रमेण दिनशोभविशेषभक्ते।
लब्धेन युक्तरहितौ शशितिग्मरश्मी
ज्ञेयौ समौ सकललोकविधानहेतु:।।64।।
इति महाभास्करीये चतुर्थोऽध्याय:।।4।।
- - - - -
गन्तव्येत। पर्वणो गन्तव्यकलाभि: प्रतिपदो गतकलाभिर्वा रवीन्द्वो: स्फुटभुक्तिं निहत्य गत्रून्तरेण विभज्य लब्धा लिप्ता गन्त्व्यकलाश्चेत्सूर्येन्द्वो: क्षप्या:। गतकलाश्चेच्छोध्या:। तदा कौ (तौ) समलिप्तौ भवत:।।64।।
इति परमेश्वरकृतायां कर्मदीपिकायां चतुर्थोऽध्याय:।।4।।