अथ त्रिप्रश्नाध्याय उच्यते। तत्र स्थलस्य समीकरणं शङ्कुसापनप्रकारं चाऽऽह -
अद्भि: समत्वमधिगभ्य रसातलस्य
वृत्तं लिखेत्स्फुटतरं खलु कर्कटेन
सूत्रैश्चतुर्भिरवलम्बनतन्निबद्धै -
र्ज्ञातार्जवोरु[समवृत्त:]गुरुर्नर: स्यात्।।1।।
अद्भिरिति। स्थलमध्ये पतितं जलं सर्वदिक्षु समं गच्छति चेत्तस्थलं समं भवति। एवमद्भि: समत्वावगति:। समे स्थल इष्टव्यासार्धप्रमाणेन कर्कटेन यन्त्रभेदेतेष्टवृत्तमालिखेत्। मन्मध्ये यथोक्तं शङ्कुं स्थापयेत्। शङ्कुलक्षणमाह- सूत्रैरित्यादिना। समवृतो गुरुर्मूलादग्रान्तं चतुर्दिक्षु सम्यक्प्रसारितैश्चतसृभिरेखाभिराङ्कितो रेखास्थानबद्धैश्चतुर्भिरव[ल]म्बकसूत्रैर्ज्ञातार्जवस्थिति: शङ्कुर्भवति। *दिग्विभागार्धे(र्थे) तु तन्मस्तकमध्ये सूक्ष्माग्रा काचिच्छलाका संस्थाप्या। तदग्रहसंभूतच्छायाग्रवशाद्दिग्भवति।।1।।
दिग्विभागामाह-
छायाप्रवेशनिर्गमबिन्दुभ्यामिनमालिखेदव्यक्तम्।
तद्वत्कृ(न्मत्स्य)पुच्छनि:सूतं सूत्रं याम्योत्तरं शङ्को:।।2।।
छायाप्रवेशेति। प्राक्कपाले वृत्तमध्यस्थापितशङ्कोर्मस्तकमध्यस्थलशलाकासंभूतच्छायाग्रस्य वृत्तपरिधेश्च योगो यत्र दृश्यते तत्र बिन्दुं कृत्वा पुनरपराह्णे च तस्च्छायाग्रवृत्तयोर्योगे बिन्दुं कुर्यात्। पुनस्तद्बिन्दुद्वयं मध्यं कृत्वैकेनैव ×कर्कटेन वृत्तद्वयमालिखेत्। यथा वृत्तत्रययोगेन मत्स्यं भवति। तन्मत्स्यमुखपुच्छनिर्गतं सूत्रं वृत्तपरिवृद्ध्य(ध्य)न्तं कुर्यात्। तत्सूत्रस्याग्रे शङ्कोर्याम्योत्तरे दिशौ भवत:।।2।।
अथ प्रकारान्तरेणाप्याह-
बिन्दुभिस्त्रिभिरतुल्यकालजै:
संलिखेच्छफरिको विधानत:।
सूत्रयोर्मुखसमप्रयान्तयो -
र्योगत: कुजबुधाशयोर्विधि:।।3।।
बिन्दुभिरिति। इष्टकाले शङ्कोश्छायाग्रे बिन्दुं कृत्वा पुन: किंचित्कालमतीत्य तत्कालच्छायाग्रेऽपि बिन्दुं कुर्यात्। तद्भिन्दुत्रयमध्यं कृत्वा वृत्तत्रयमालिख्य *मत्स्यद्वयमुत्पाद्य तन्म्त्स्यद्वयमुखपुच्छनिर्गतसूत्रयोगो यत्र भवति, तत: शङ्कुमस्तकमापि दक्षिणोत्तरं सूत्रं वृत्तपरिध्यन्तं कुर्यात्। तदग्रे शङ्कोर्दक्षिणोत्तरदिशौ भवत:। अत्रोभयत्र शङ्कावुद्धृत एव हि दक्षिणोत्तरसूत्रस्य संचारो भवति।।3।।
अथ च्छायाकर्णाख्यस्य स्ववृत्तविष्कम्भार्धस्याऽऽनयनमाह -
नृच्छायाकृतियोगस्य मूलमाहुर्मनीषिण:।
विष्कम्भार्ध(र्धं)स्ववृत्तस्य च्छायाकर्मणि सर्वदा।।4।।
नृच्छायेति। शङ्कुच्छायावर्गयोर्योगस्य मूलं छायाकर्णौ भवति। स एवं स्ववृत्तविष्कम्भार्धमित्युच्यते। छायाकर्णसाधितवृतस्य विष्कम्भार्धमित्यर्थ:। स्ववृत्तपरिकल्पनाय: प्रयोजनं गोल विद्भिर्द्वेद्यम्।।4।।
अक्षावलम्बयोरानयनमाह-
छायाहतं त्रिभुवनस्य गुणप्रतानं
हत्वा नरेण च पृथग्विभजेत्पदेन।
अक्षावलम्बकगुणौ विपुवत्प्रसिद्धौ
छायानरौ च विपुलावपरत्र दृष्टौ।।5।।
छायाहतमिति। द्वादशाङ्गुलशङ्कोर्विषुवद्दिनमध्यह्नादन्यत्र यथेष्टाकाले छायाशङ्कुतत्कण्ठैरवं साधि तौ राशी तत्काले महाच्छायामहाशङ्कू भवत:।।5।।
अपक्रमाद्यानयनमाह-
इष्टज्यां मुनिरन्ध्रपुष्करशशिक्षुण्णां सदा संहरेद् -
व्यासार्धेन भवेदपक्रमगुणस्तात्कालिकस्तत्कृतिम्।
विष्कम्भार्धकृतेर्विशोध्य च पदाद्युव्यासखण्डं विदु:
स्वेष्टक्रान्तिहतं फलं प्रविभजेल्लम्बेन जीवा क्षिते:।।6।।
व्यासखण्डगुणिता क्षितेर्गुणं संहरेद्द्युदलजीवया पुन:।
काष्ठिकं च यदवाप्तमत्र तु प्रोच्यते चरदलं सतां वरै:।।7।।
इष्टज्यामिति। सायनस्य स्फुटरवेर्भुजज्यां मुनिरन्ध्रपुस्करशशी(शि)भिर्निहत्य त्रिराशिज्यया विभज्य लब्धमपक्रमज्या भवति। अपक्रमज्याकृतिं व्यासार्धवर्गाद्विशोध्य शिष्टस्य मूलं *स्वाहारोत्रार्धज्या भवति। इष्टक्रान्तिज्याहतां पलज्यां लम्बकेन विभज्य लब्धं क्षितिज्या भवति। क्षितिज्यां व्यासार्धहतां स्वाहोरात्रार्धज्यया विभजेत्। तत्र लब्धंचरदलज्या भवति। सा चापिता चरदलं प्राणीकृतं भवति।।6।।7।।
चरानयने कर्मान्तरमाह -
जिना दशघ्ना कृतरन्ध्रभूमयो
नवादि यस्ते गुणिता वलाङ्गुलै:।
हृताश्चतुर्भि: क्रियगोनरान्तजा
भवन्ति नि:श्वासलवा वलोद्भवा:।।8।।
जिना दशघ्ना इति। अत्र शालीशब्देनैका: संख्योच्यते। अथवा रन्ध्रभूमय इति पाठ:। जिनादयस्त्त्रस्(य:)संख्याभेदा: पलाङ्गुलहताश्चतुर्भिर्भक्ता मेषवृषमिथुनानां च[र]दलासवो भवन्ति। एवमानीतचरदलासूनां स्थौल्पं स्यादिति गोलविद आहु:।।8।।
लङ्कोदयप्रमाणानयनमाह-
शशिकृतशशिरामैराहृता राशिजीवा:
स्वधिदिवसगुणर्धैर्भाजिता काष्ठिताश्च।
पतितसमतिरिक्ता: पूर्वचापैरजाद्या
विषुवदुदयराशिप्राणपिण्डा भवन्ति।।9।।
शशिकृतेति। एतद्द्वित्रिराशीनां जीवा: शशिकृतशशिरामै: पृथङ्निहत्य तत्तद्राशिज्यासिद्धस्वोहोरात्रार्धज्यया विभज्य लब्धं चापी कुर्यात्। पुन: प्रथमचापं द्वितीयचापाद्धशोध्य द्वितीयचापं तृतीयचापाद्विशोधयेत्। एवं कृते मेषवृषभमिनानां लङ्कोदयप्राणा भवन्ति।।9।।
एवं सिद्धात्पठति -
खनगरसशशङ्कां पञ्चरन्ध्राश्मिरूपा
विषयशिखिनवैकास्ते च दृष्टा विधिज्ञै:।
चरदलपरिहीना योजिता व्युत्क्रमेण
प्रतिविषम समुत्थास्तूदया मेषपूर्वा:।।10।।
खनगरेति। एतै: स्वदेशराश्युदयप्राणानयनजा(मा)ह-प(च)रदलेति। मेष-वृषमिथुनानां ÷लङ्कोदयासव: प्रथमद्वितीयतृतीयराशीनां चरदलासुभिर्हीना: स्वदेशासवो भवन्ति। पुनर्व्युत्क्रमेण चरदलयुता मिथुनवृषमेषाणां लङ्कोदयस्तृतीयद्वितीयप्रथमराशीनां चरदलेन युता: कर्कटकसिंहकन्याराशीनां स्वेदेशोदया भवन्ति। व्युत्क्रमेणेत्येतत्पदमुत्तरत्र उदयासवो मीनादीनां षण्णां त्र्युत्क्रमेण भवन्ति।।10।।
मध्याह्नच्छायानयनमाह -
अप(व)गम(त)व(फ)लभागा मेषजूकादिगोले
रहितसहितसंख्या मध्यसूर्यावनामम्।
अवनतिलवहीन: प्रोन्नतिश्चकपाद-
स्त्ववनतिलजीवा सा प्रभा नेतरा स्यात्।।11।।
अवगतफलेति। मेषादिगे सूर्येऽपक्रमचापाक्षचापानामन्तरं मध्याह्ने सूर्यस्यावनतिं तुलादौ तायोर्योग: सूर्यावनतिर्मध्यह्नच्छाया मध्याहनशङ्कुश्चेत्यर्थ:।।1।।
प्रकारान्तरेण मध्याह्नशङ्कुमाह -
क्षितिजा(ज्या)द्युदलसमासो विश्लेषो वोत्तरेतरे गोले।
लम्बघ्नस्त्रिज्याप्त: शङ्कुर्दी(र्दि)नमध्यगे सूर्ये।।12।।
क्षितिजे(ज्ये)ति। उत्तरगोले : क्षितिज्यास्वाहोरात्रार्धज्ययोर्योग: कार्य:। दक्षिणगोले विश्लेष: कार्य:। एवमानीति: स योगो विश्लेषो वा लम्बगुणितस्त्रिज्याभक्तो मध्याह्नशङ्कुर्भवति।।12।।
मध्याह्नच्छायाक्षाभौमादित्यानयनमाह -
छायया समभिनीतसंगते:
काष्ठतोऽधिकतरं यदा लवम्।
तद्भिद: स्फुटरवंपरक्रम -
स्तिग्मरश्मिरपि चोत्तरे तदा।।13।।
छाययेति। मध्यदिनच्छायाङ्गुलासाधितदृग्ज्यकाष्ठाद्यदाऽक्षकाष्ठमधिक्तरं तदा नतिकाष्ठोन्मक्षकाष्ठं रवेरपक्रम:। तदा रविरप्युत्तरगोले भवति।
यत्र सर्वदाऽधिकोऽक्षस्तत्र देशोऽ(शेऽ)यं विधिरिति तरद्ग्रह(ग्र)हणेन द्योतितम्। उत्तरगोलेऽपि सममडलादृक्षिण एव यत्र मध्याह्ने रविर्भवतितत्रायं विधिरित्यर्थ:।।13।।
सममण्डलादुत्तरस्थेऽर्के विधिमाह -
छायायां याम्यकाष्ठायामक्षयुक्ता नति: स्फुटा।
जायन्तेऽपक्रमा भागो भास्वतो दक्षिणापथे।।14।।
छायायां याम्यकाष्ठायामिति।।14।।
यथामध्यच्छायादक्षिणगोलेऽपि विधिमाह--
*अक्षतोधिऽकतरा यदा नति:
प(दृ)श्यते वलमतस्तदा सता।
शिष्यतेऽपमधनु: स्फुटं ततो
भास्करोऽपि खलु याम्यगोलग:।।15।।
अक्षतोऽधिकतरेति। यदाऽऽक्षकाष्ठादधिकतरं नतिकाष्ठं तदाऽक्षकाष्ठहीनं नतिकाष्ठामपक्रमधनुर्भवति। रविरवि(पि) दक्षिणगोले भवति। सर्वदा नतरेधिकत्वं दक्षिणगोल एवं भवति।।15।।
अपक्रमेणाऽऽदित्यानयनमाह -
तद्गुणेन गुणितां त्रिराशिना
ज्यामपक्रमगुणेन संहरेत्
लब्धचापगुणितं स्फुटं ततो
भास्करं त्रिकमषण्णावाधिक:।।16।।
तद्गुणेनेति। अ[प]क्रमधनुषो जप्तं त्रिज्यया निहत्य परमाययुतं सर्वेतृतीयपदे तद्भुज चावं राशिषट्क्रयुतं रकि(किं)चतुर्थपदे तद्भुजायापं राशित्रयाद्वि शोध्य शिष्टं राशिनवकयुतं रवि:(विं) सशिषपविशोधनं सपर्पद गतस्य कोटि त्वान्नयायत: सिद्धं भवति।।16।।
अपक्रमनतिभ्यामक्षानयनमाह -
उत्तरे संयुति: सूर्ये विश्लेषो दक्षिणे स्मृत:।
अपि(प)क्र नतांश नां छायायां च पलं भवेत्।।17।।
उत्तर इति। उदग्गोले मध्याह्नच्छायाङ्गूलसाधितनतिचापस्यापक्रमचापस्य च योगो लपय्यं मध्यच्छाया उत्तरगा चेदेवं दक्षिणगा चेन्नति चापहीनमपक्रमचापमक्षचापं दक्षिणगोले। अपक्रमचापहीनं नतिचापमक्षचापं छायायां चेति दक्षिणस्थायां छायायां च विश्लेष: कार्य इत्यर्थ:।।17।।
गतगन्तव्यघटिकाभि: शङ्क्वानयनमाह -
दक्षिणोत्तरगते विवस्वति
प्राणराशिनिचया धनक्षयौ।
साक्षजं चरदलं सदा सतो
जीवयाऽत्र गुणितं दिवागुणम्।।18।।
संहरेत्त्रिभुवनस्य जीवया
तत्र लब्धनिचये क्षितेर्गुणम्।
व्यत्ययं चरदलस्य तत्कुरु
स्वावलम्बकहतं हरेत्पुन:।।19।।
व्यासखण्डनिचयेन लभ्यते
शङ्कुरिष्टघटिकासमुद्भवा।
व्यासतत्कृतिविशेषजापदं
कथ्यते स्फुटता प्रभा हि सा।।20।।
दक्षिणोत्तरोति। दक्षिणगोले गतगन्तव्याप्राणेषु चरदलप्राणा: क्षेप्या:। उत्तरगोले तेभ्य: शोध्या:। एवं कृते गतगन्तव्यप्राणानां जीवामानीय ता स्वाहोरात्रार्धज्यया निहत्य त्रिराशिज्यया विभज्य लब्धे फले ×क्षितिज्या दक्षिणगोले विशोधयेत्। उत्तरगोले प्रक्षिपेत्। एवं कृतं तत्फलं लम्बके निहत्य व्यासार्धेन हरेत्। तत्र लब्धं शङ्कुर्भवति। तद्वर्गव्यासकृत्योर्विशेषमूलं छायां भवति।।18।।19।।20।।
शङ्क्वानयन उपायान्तरमाह -
आदित्यलग्नविवरांशगुणेन हत्वा
तत्कालमध्यपरिनिष्ठितलम्बकाख्यम्।
विष्कम्भभेदरहित: स्फुटशङ्कुरुक्त -
स्तद्गोलभेदकृतिशुद्धपदं प्रभा स्यात्।।21।।
आदित्यलग्नेति। इष्टकाल उदयलग्नमानीयाऽऽदित्यल्लग्नयोर्विवरस्य जीवमानयेत्। तद्विवरं त्रिराश्यधिकं चेत्त्रिराशिभ्यो विशोध्य शिष्टस्य जीवामानयेत्। तथा जीवया तत्कालमध्परिनिष्ठितं लम्बकं वक्ष्यमाण निहत्य त्रिराशिज्यया विभजेत्। तत्र लब्धमिष्टशङ्कुर्भवति। तद्वर्गव्यासार्धकृत्योर्विशेषमूलं प्रभा छाया भवति। वाशब्द: प्रकारान्तर सूचनार्थ:। एष शङ्कु: स्थूलो भवति। अतो गोविन्दस्वामिनाऽस्य त्रि:प्रकारं योजना व्याख्याता। पूर्वत्र संतोषाभावाद्धि तथा संभवति। वक्ष्यमाणलम्बकदोषादस्य स्थौल्यमिति गोलविद आहु:।।21।।
तत्कालमध्यम्बकानयनमाह-
इनरविकक्ष्यामध्यज्यत्रिज्याकृत्योर्विशेष्यशेषपदम्।
तत्कालमध्यजातो गोलज्ञैर्लम्बकः कथित:।।22।।
[इन]रविकक्ष्येति। रविकक्ष्यायां मध्यज्यानयनं पञ्चमाध्याये वक्ष्यति। तन्मध्यज्यावर्गव्यासार्धकृत्योर्विशेषपदं तत्काले मध्यज्यातो लम्बको भवति। मध्यलग्नावमचापाक्षचापयोर्योगस्य विश्लेषस्य वा जीवा मध्यज्येत्युच्यते। अत्र सूक्ष्मलम्बकावगतिस्तु भाष्यव्याख्यया सिध्येत्।।22।।
पुनरपि प्रकारान्तरेण शङ्क्वानयनमाह -
प्राणैश्चरैर्युतविहीनघटीगुणेन
तज्ज्याविपर्यकृतेन हतस्य वाऽस्य।
द्युव्यासलम्बकपरस्परताडितस्य
च्छेदोऽर्धविस्तरकृति: फलमस्य शङ्कु:।।23।।
तज्ज्याविपर्ययकृताद्युज्याभ्यस्तेन शङ्कुना हत्वा।
विषुवत्कर्णाभ्यस्तात्रिज्याछेद: फलं शङ्कु:।।24।।
प्राणैश्चरैरिति। *दक्षिणोत्तरगोलयो: क्रमाच्चरदलप्राणैर्युतानां हीनानां च गतगन्तव्यासूनां जीवामानीय तया चरदलज्याहीनयुतया स्वाहोरात्रार्धे निहत्य पुनर्लम्बकेन च निहत्य व्यासार्धवर्गेण विभजेत्। तत्र लब्धं शङ्कुर्भवति।।23।।24।।
यद्वागतगन्तव्यासभ्यश्चरदलासवो न शोध्या:। तदा विशेषमाह -
इष्टासुभ्यश्चराशुद्धेन व्यत्यय: शेषजीवया प्राग्वत्।
लब्धं क्षितेर्मौर्व्यो हित्वा शङ्कुं स्वकर्मणा।।25।।
इष्टासुभ्य इति। चरासुभ्यो गन्तव्यसून्विशोध्य शिष्टस्य जीवां स्वाहोरात्रार्धेन निहत्य त्रिज्यया विभज्य लब्धं क्षितिज्यातो विशोध्य शिष्टं लम्बकेन निहत्य त्रिज्यया विभजेत्। तत्र लब्धं शङ्कुर्भवति।।25।।
सूर्यग्रहणे कदाचिद्रात्रावपि शङ्कुर्ज्ञेय:। ततस्तदानयनाह -
शवंर्यां शङ्कुरर्कस्य कार्यो व्यस्तेन कर्मणा।
दिनस्य क्षयवृद्धिभ्यां रात्रौ व्यस्ते नते यत:।।26।।
शर्वर्यामिति। रात्रिगन्तव्यासुषु सरदलं दिनव्यत्ययेन कार्यं क्षितिज्या दिनव्यत्यमेत कार्यां। शिष्टं दिनवंदेव।।26।।
इष्टच्छायाया गतगन्तव्यकालानयनमाह -
इष्टच्छायाप्तशङ्कुं सकलगुणहतां संहरेल्लम्बकेन
प्राप्ते मेषादिगेऽर्के क्षितिजगुणकला: शोधयेद्दक्षिणस्थे।
योज्यन्ते ता: क्रमेण त्रिगृ(ग्र)हगुणहतं संहरेच्छेषराशिं
द्यावासेनाप्तचापे स्वचरदललवव्यत्ययेनासुराशि:।।27।।
अह्न: शेषो गतो वा रसखरसहृतो नाडिकाद्या: प्रदिष्टा -
स्त्रिज्यावर्गाहतं वा समभिमतनरा भाज्येद्घातजेन।
द्युव्यासार्धाभकोट्या स्वचरदलगुणे पूर्ववत्कल्पितस्य
चापे प्राणैश्चराख्यै: पुनरपि विधिना व्यत्ययेनासुराशि:।।28।।
अक्षकर्णहत: शङ्कुर्भूयोव्यासार्धताडित:।
शङ्कुघ्नद्युदलाप्तो वा पूर्ववन्नाडिकाविधि:।।29।।
इष्टच्छायाप्योति। इष्टकाले द्वादशाङ्गुलशङ्कोश्छायया महाङ्कुलमानीय तं त्रिज्यया निहत्य लम्बकेन विभज्य लब्धे क्षितिज्यामुत्तरगोले विशोध्य दक्षिणगोले तु प्रक्षिप्य व्यासार्धेन निहत्य स्वाहोरात्रार्धेन विभज्य चापीकृत्य तस्मिन्नुत्तरगोले चरदलं प्रक्षिपेत्। दक्षिणे विशोधयेत्। ते गतगन्तव्यासवो भवन्ति। पुन: षडभि: षष्ट्या च भक्ते नाडिका भवन्ति। त्रिज्यावर्गाहतं वेति प्रकारान्तरमहं(माह)। शङ्कुं त्रिज्यावर्गेण निहत्य स्वाहोरात्रलम्बज्ययो: संवर्गेण विभज्य लब्धे दक्षिणोत्तरगोलयोश्चरदलज्यां प्रक्षिप्य संयोज्य च चापीकृत्य तच्चापे चरदलं विशोधयेत्प्रक्षिपेच्च। ते गतगन्तव्यासवो भवन्ति। अक्षकर्णेति प्रकारान्तरम्। अक्षकर्णेन शङ्कु निहत्य पुनर्व्यासार्धेन च निहत्य द्वादशघ्नेन स्वाहोरात्रार्धेन विभज्य लब्धे पूर्ववच्चरदलज्यां प्रक्षिप्य संशोध्य वा चापीकृत्य तच्चापे चरदलं विशोधयेत्प्रक्षिपेच्च। ते गतगन्तव्यासव: स्यु:।।27।।28।।29।।
*उदयलग्नानयनमाह -
सूर्यागतसमभ्यस्ता तद्रासि(शी)ष्टासवो हृता:
राशिभागै: कलाभिर्वा लब्धारव्यगतासव:।।30।।
इष्टासुभ्यो विशोध्यैता रवौ चान्यगत: क्षिपेत्।
राशिप्राणास्ततोऽपास्य देया भानौ च राशय:।।31।।
शेषं त्रिंशत्समभ्यस्तमिष्टराश्यसुभिर्हृतम्।
लब्धभागादिसंयुक्तमिष्टकालोदयं विदु:।।32।।
सूर्यागतेति। सूर्यस्यागतं गन्तव्यं भागीकृतं लिप्तीकृतं वा स्वोदयासुभिर्निहत्य राशिभागै राशिकलाभिर्वा विभज्य लब्धा अगतासवो भवन्ति। तानिष्टासुभ्यो विशोध्य रवौ राशिशेषं क्षिप्त्वा शेषासुभ्यश्च यथालब्धमुदयासून् विशोध्य सुद्धराशीन् रवौ क्षिप्त्वा शिष्टा विंशदा दिगुणिता वर्तमानोदयासुभिर्लब्धान् भागान् सलिप्तन्प्रक्षिप्तराशौ सूर्ये प्रक्षिपेत् स उदयलग्नं भवति।।30।।31।।32।।
अस्तलग्नमाह -
, पूर्वलग्नं संचक्रार्धमस्तलग्नं विधीयते।
उदयस्य वशादस्तमयन्ते राशयो यत:।।33।।
उदयस्य गता भागा: सोदयेन हता हृता:।
त्रिंशता प्राणलब्धि: स्याल्लग्नराश्यसव: पुन:।।34।
आहार्ययावदर्कस्य राशिभिस्तूदयासव:।
ज्ञायन्ते पुनर्स्कस्य गन्तव्यांशासुभिर्युता:।।35।।
प्राणा दिवसशर्वर्योर्विज्ञेया: षड्विभाजिता:।
षष्टया भूयोऽपि ये लब्ध्वा घटीविघटिकासव:।।36।।
पूर्वलग्नमिति। षड्राशियुतमुदयलग्नमस्तलग्नं भवति। तत्र हेतुमाह-उदयस्येति। लग्नविभ्यां द्युगतकालानयनमाह-उदयस्य गता इति। उदयस्यागतभागैस्त्रैराशिकादसूनानी य तथा सूर्यस्य गन्तव्यभागैश्चासूनानीय तदन्तरालगतराशीनामुदयासूंश्च प्रक्षिपेत्। ते द्युगतासवो भवन्ति।।33।।34।।35।।36।।
राशै तु षड्राशियुतोऽर्को(तेऽर्के)ग्राह्यमर्कामानयनं समण्डलशङ्क्वानयनं चाऽऽह -
स्फुटरविभुजनिघ्नां यां परां कान्तिजीवां
हरतु समवलम्बज्याकलापेन भूय:।
स्फुटदिवसकराग्रा सा यदाऽक्षांशहीना
रविरपि यदि गोले चोनरे लम्बकघ्ना:।।37।।
अक्षज्यया हरद्भूय: शङ्कुज्या सममण्डले।
तदृर्गव्यासकृत्योर्यद्विश्लेषे यत्पदं प्रभा।।38।।
स्फुटरवीति। सायनर्कभुजज्यया निघ्नां परमक्रान्तिज्यां लम्बकज्यया विभजेत्। तत्र लब्धमर्काग्रं× भवति। सा यदाऽक्षांशहीनेति। अत्र येतयनेनार्काग्रासाधनभूतापमज्योप्य(च्य)ने। अक्षांशशब्देन चाक्षज्या, उत्तरगोले यदा क्रान्तिज्याऽक्षज्यातोऽल्पसंख्या रयात्तदा तदद्भूतायर्काग्रां लम्बकेन् निहत्याज्यया विभजेत्। तत्र लब्धं सममण्डलशङ्कुर्भवति। भूय इति वचनं प्रथमत्रैराशिकसूचनार्थम्। तस्य सममण्डलशङ्कोव्यासार्धस्य च वर्गविश्लेषपदं छाया भवति।।37।।38।।
राममण्डलप्रवेशकालमध्याहूनकालयोरन्तरालकालामनयनमाह -
भानोर्भुजामविहतां परमावमेन -
द्युव्यामभेदभजिताप्तहताक्षकोटि:।
अक्षज्ययाऽऽप्तकृतिशुद्धकृतेस्त्रिमौर्व्या
मूलस्य काष्ठमसवो गगनावधेर्वा।।39।।
भानोर्भुजामिति। स्फुटारकभुजज्यां परमापमगुणितां स्वाहोरात्रार्धेय विभजेत्। तत्र लब्धेन लम्बकज्यां निहत्याक्षज्यया विभजेत्। तत्र लब्धस्य वर्गे त्रिज्यावर्गाद्विशोध्य शिष्टस्य मूलं चापीकृतं सममण्डलाद्गगगनावधे: कालस्यासवो भवन्ति।।39।।
व्यासार्धताडितवपु: सममण्डलस्य
दृश्या(ग्ज्या)भवा दिवसविस्तरभेदभक्ता।
लब्धस्य काष्ठकविधेरसुनाडिकास्ता
भास्वत्खमध्यविवरप्रभवा भवन्ति।।40।।
व्यासार्धताडितवपुरिति। सममण्डलस्य दृग्ज्या व्यासार्धहता स्वाहोरार्त्रार्धज्याभक्ता चापिता भास्वत्खमध्यविवरकाल: .......त्मको भवति।।40।।
सममण्डलच्छाययाऽऽदित्यानयनमाह -
छायाभिनीतसममण्डलशङ्कुनिघ्न -
मक्षस्य [सं]गुणमुपाहरनित्यमेव।
सर्वापमेन समवाप्ततनुर्विवस्वान्
युज्या(क्त्या)त्रिराशिसहितश्च भटप्रणीतम्।।41।।
छायाभिनीतेति। द्वादशाङ्गुलशङ्को: समच्छायया साधितसमशङ्कुमाऽक्षज्यां निहत्य परमापक्रमेण विभज्य लब्धं चापीकृतमर्को भवति। युक्त्या त्रिराशिसहित इति। उत्तरायणे तच्चापमेवार्क: दक्षिणायने तु तच्चापं राशित्रयाद्विशोध्य शिष्टे राशित्रये क्षिपेत्। सोऽर्क: स्यात्।।41।।
अथ च्छायाभ्रमणरेखां कर्तुं विदितदिग्विभागे वृत्ते बिन्दुत्रयग्रहणमार्याचतुष्टयेनाऽऽह -
अर्काग्राशङ्क्वग्रे छायां च यथेष्टकालिकाम्।
कृत्वाऽग्रद्वयस्य योगतुल्यांशं नान्यथा विवरः।।42।।
तेन क्षुण्णां छायां भङ्क्त्वा त [द्]द्युगणेन यल्लब्धम्।
कृतदिग्विभागकेन्द्राद्दिग्विगरीतं निधातव्यम्।।।।43।।
तन्मध्यभेदिसूत्रं प्रागपरदिशोः प्रसार्यते दूरम्।
छायाप्रमाणसूत्रं तिर्यक्केन्द्रादिदं ज्ञेयम्।।44।।
अर्काग्रशङ्क्वग्रे इति। इष्टकालेऽर्काग्रां शङ्क्वग्रं महाच्छायां चाऽऽनीयार्काग्रामशङ्क्वग्रयोस्तुल्यदिशोर्योगं कुर्यात्। भिन्नदिशोरन्तरं कुर्यात्। एवमानीतेनार्काग्रशङ्क्वग्रयोर्योगेनान्तरेण वा द्वादशाङ्गुलशङ्कोस्तत्कालच्छायां निहत्य तत्कालमहाच्छायया विभज्य लब्धं कृतदिग्विभागे यथेष्टवृत्ते केन्द्रादग्रदिश्य(शि व्य)त्ययेन दक्षिणोत्तरसूत्रे नीत्वा तत: पूर्वापरं सूत्रं तत्स्थानमध्यमत्स्यानुसारेण कुर्यात्। यथा छायासूत्रं तत्सूत्रे पतति तथा कुर्यात्। पुनस्तत्काले द्वादशाङ्गुलशङ्कोश्छायाप्रमाणसूत्रं वृत्तकेन्द्रात्पूर्वतो पतेश्च तिर्यकृतसूत्रान्तं नीत्वा तत्सूत्रस्य च्छायासूत्राग्रस्य च योगद्वये बिन्दुद्वयं कुर्यात्। पुन: केन्द्रात्तद्दिने मध्यच्छायाङ्गुलप्रमाणं सूत्रं तच्छायादिशि दक्षिणोत्तरसूत्रे नीत्वा तदग्रे तृतीयबिन्दुं कुर्यात्। एवं बिन्दुत्रयं भवति।।42।।43।।44।।
यस्तु दिग्विभागज्ञात्वा छायाभ्रमणरेखां कर्तुमिच्छति तस्य विधिं वक्ष्य इत्याह -
यो वा स्यादभि(विदि)तदिग्विभागकेन्द्रो
दिक्छायाभ्रमणविप्रकर्तुकाम:।
तस्याशास्फुटलिखितोरुवृत्तनेमि -
र्यच्छाया त्यजति यथा तथा प्रवक्ष्ये।।45।।
यो वा स्यादिति।।45।।
तद्विधिमाह-इष्टद्युतेरित्यादिनाऽऽर्यापञ्चकेन।
इष्टद्विके[द्युते]स्तु कृत्वा दृग्ज्याशङ्कुं तथा शङ्क्वग्रम।
विश्लेषो वाऽग्रायुतिं प्राहु: कर्णोऽत्र दृग्जीवा।।46।।
....हबिन्दुद्वयं विरच्यं पूर्वापरयोर्दिशोर्यथायोगम्।
मध्यच्छायाशिरसि ज्ञेयो बिन्दुस्तुतियावत्।।47।।
तत्कृतिविश्लेषपदं दृग्ज्याकर्णस्य कथ्यते कोटि :।
छायाघ्ने कोटिभुजे दृग्ज्याभक्ते तयोर्माने।।48।।
शङ्कोस्तत्समवपुषस्त्रिजवो भुजकोटिसंघटिता:।
वंशशलाकास्ताभि: कोणे कृतशङ्कुसंचारम्।।49।।
चतुरश्चं द्वितीयकर्णत्रिभुजं वा कारयेत्स्फुटं यन्त्रम्।
विन्यस्यैतद्भ्रमयेच्छायाकर्णानुगा यावत्।।50।।
आशाभुजकोटिज्यां छायाकर्णाग्रयोरुभौ बिन्दू।
मध्यच्छायाशिरसि ज्ञेयो बिन्दुसूतियोन्य:।।51।।
इष्टकाले द्वादशाङ्गुलशङ्कुच्छायया महाच्छायां महाशङ्कु शङ्क्वग्रं चाऽऽनीयं पूर्ववदग्रद्वयस्य योगं वियोगं वा कुर्यात्। स बाहुर्भवति। महाच्छायाऽत्र कर्ण:। तयोर्वर्गविश्लेषपदं कोटि:। पुनस्तत्काले द्वादशाङ्गुलशङ्कोश्छायया ते कोटिभुजे निहत्य महाच्छायया विभजेत्। तत्र लब्धे इष्टाभुजाकोटी भवत:। द्वादशाङ्गुलच्छाया तयो: कर्ण: स्यात्। पुन: शङ्कुव्यासतुल्यब्यासास्तिस्रश्चतस्त्रो वा वंशशलाका: संपाद्या:। तासु मध्ये ऋज्वी दीर्घा, एका रेखा च कार्या। पुनस्ताभिरत्रोदितभुजाकोटि- द्युतिकर्णौर्निष्पन्नत्रिकोणसदृशं त्रिकोणं परस्परघटिताभि: कुर्यात्। यथा परस्परघटितस्य शलाकात्रयस्य मध्यगतरेखात्रययोगेन भुजाकोटिद्युतिकर्णैर्निघ्पन्न त्रिकोणसमं त्रिकोणं भवति तथा कुर्यात्। कोणे कृतशङ्कुसंचारमिति कर्णा वसक्ते कोणे प्रतिष्ठितद्वादशाङ्गुलाशङ्कुंयन्त्रं कुर्यादित्यर्थ:। चतुरश्रं यन्त्रं वा कुर्यात्। तत्र कोटिसमे द्वे शलाके भुजासमे द्वे शलाके ताभि: परस्परं घटिताभिश्चतुरश्रं यन्त्रं भवति। तत्राप्येककोणे शङ्कु: स्थाप्य:। तत्र कोण सूत्रं कर्णो भवति। एवं संपादितं यन्त्रं समतले विन्यसेत्। यथा यन्त्रस्यशङ्कोश्छाया यन्त्रकर्णेऽवतिष्ठते तथा विन्यसेत्। पुनश्छायाभ्रण समयन्त्रसमयन्त्रमपि भ्रमयेत्। तत्र यदा यदा यन्त्रस्थशङ्कुच्छाया यन्त्रकर्ण: समप्रमाणा भवति तदा यन्त्रभुजा दक्षिणोत्तरायता भवति। यन्त्रकोटि: पूर्वापरायता भवति। एवं कृतयन्त्रस्थभुजाकोटिवशाद् दिशो विज्ञाय शङ्कुमूलाद्दक्षिणोत्तरसूत्रच्छायाग्रात्पूर्वापरायतं सूत्रं च संपाद्य पूर्ववच्छायाग्रयोर्बिन्दुद्वगं मध्यच्छायाग्रे तृतीयबिन्दुं च कुर्यात्।।46।।47।।48।।49।।50।।51।।
छायाभ्रमणलेखनमाह -
बिन्दुत्रयस्य सकलस्य शिरोवगाहि
संलिख्यते शफरिकाद्वितयेन वृत्तम्।
तन्मण्डलाग्रविनिवेशितमस्तके य -
च्छाया प्रयाति फणिजीवहिमन्त्ररुद्धा।।52।।
बिन्दुत्रयस्येति। बिन्दुत्रयं मध्यं कृत्वा वृत्तत्रयमालिख्य तज्जनितमत्स्यद्वयमुखपुच्छ-निर्गतसूत्रयोर्योगमध्यं कृत्वा बिन्दुत्रयस्पृग्वुत्तैकदेशं धनुराकारमालिखेत्। तच्छायावर्त्म भवति।।52।।
अपकमक्षि[ति]ज्याभ्यामक्षानयनमाह -
इष्ट क्रान्तिक्षितिजावर्गसमासस्य मूलमर्काग्रा।
क्षितिजाव्यासार्धहता सूर्याग्रहृतावलस्य गुण:।।53।।
इष्टक्रान्तीति। इष्टापमक्षितिज्ययोर्वर्गयोगपदमर्काग्रा भवति। क्षितिज्यां व्यासार्धेन निहत्यार्काग्रया विभजेत्। तत्र लब्धमक्षज्या भवति।।53।।
शङ्क्वग्रानयनमाह--
इष्टजीवाहत: शङ्कुरिष्टकालसमुद्भव:।
भाजितो लम्बकेनाथ शङ्क्वग्रं नित्यदक्षिणम्।।54।।
अथ(इष्ट)जीवेति। स्पष्टार्थ:।।54।।
विषुवच्छायाङ्गुलानयनमाह -
शङ्क्वग्रे द्वादशाभ्यस्ते स्वेष्टशङ्कुहृते फलम्।
छाया वैटपतिज्ञेता विस्तरश्चात्र कथ्यते।।55।।
शङ्क्वग्र इति। इष्टशङ्क्वग्रं द्वादशभिर्निहत्येष्टशङ्कुना विभजेत्। तत्र लब्धं विषुवच्छायाङ्लं भवति।।55।।
विस्तरेणेच्यते। तदाह -
दिवो(ग्रीवा)समां भगणभागविभक्तवृतां
कुर्यात्स्थलीं समतलां कृतदिग्विभागाम्।
तस्या जलेशदिशि मण्डलमध्यदृष्टि -
र्विद्या(ध्ये)द्रविं परिधिलग्नमनाकुलात्मा।।56।।
पूर्वरेखाग्रवेधस्य रविवेधस्य चान्तरम्।
अर्काग्राचापनिर्माणं परितौ(धौ)भागलक्षिते।।57।।
अर्काग्राज्या भवेत्तस्य तन्नतिज्याविशेषजा।
लिप्ताशङ्क्वग्रजीवाया दक्षिणे चोत्तरेऽन्यथा।।58।।
दक्षिणाभिमुखी च्छाया यदा भवति भास्वत:।
नतिज्या रहितार्काग्रा शङ्क्वग्रं कथ्यते तदा।।59।।
ग्रीवासमामिति। युक्तितोऽर्काद्यानयनप्रकारमत्रो(त्रमु)च्यते। उन्नत्याग्रीवासमौ स्थलीं समतलां वृत्तामेकैकभागान्तरेऽङ्कैरङ्कितपरिधिं कृतदिग्विभागा पूर्वापरसूत्रदक्षिणोत्तरसूत्रयुतां संपाद्य तस्या: पश्चिमदिशि स्थित्वा मण्डलमध्यदृष्टिर्मण्डलगे(के)न्द्रावगाहिन्या संपाद्य तस्या: परिधिलग्नर्धोदितं सूर्यं विध्येत् मण्डलमध्यगतया दृष्ट्याऽर्धोदितसूर्यबिम्बस्य मध्यभाग: परिधौ यत्र पततीति निरीक्षयेदित्यर्थ:। तत्र भागलक्षिते परिधौ यत्र पूर्वापरसूत्राग्रं पतति यत्र रविबिम्बस्य मध्यं च पतति तयोरन्तरालमर्काग्रायाश्चापप्रमाणं भवति। भागलक्षिते परिधाविति। परिधौ कृतभाविभागवशाद् भागाश्च कल्प्या इत्यर्थ: तस्य चापभागस्य जीवा अर्काग्रा भवति। तन्नतिज्याविशेषजा। लिप्ताशङ्क्वग्रजीवाया दक्षिणे इति। तद्दिनमध्याह्नद्वादशाङ्गुलशङ्कुच्छायां विज्ञाय तया पूर्ववन्मध्यच्छायामानयेत्। सा नतिज्या भवति। दक्षिणगोले नतिज्यार्काग्रयोर्विश्लेष: शङ्क्वग्रं भवति। उत्तारगोले तु तयोर्योग: शङ्क्वग्रं भवति। तत्रापि दक्षिणाभिमुख्यां छायायां नतिज्याहीनार्काग्रा शङ्क्वग्रं भवति। तेन पूर्ववत्तद्देशसंभवा विषुवच्छाया साध्यां। द्वादशाहताच्छङ्क्वग्राच्छङ्कुना विषुवच्छाया भवतीत्यर्थ:। पुनर्विषुवच्छायातच्छङ्कुकर्णै: पूर्वदक्षावलम्बकौ साध्यौ पुन पूर्ववदक्षनतभागैरर्कश्च साध्य:। अक्षनतभागयोर्योगविश्लेष-वशादपमसिद्धि:। तद्वशादर्कसिद्धिरिति क्रम:।।56।।57।।58।।59।।
विदितग्रहवेदितव्यग्रहयोरन्तरकालेन तद्विवरभागानयनमाह -
विद्धि तेन विषुवत्प्रभां सती
पूर्ववच्च चललम्बकौ पुन:।
वेदितव्यविदिग्रहान्तरं
नाडिकाभिरवगम्य तत्पर:।।60।।
तद्गुणास्तु घटिकालवास्तु कै:
पूर्वपश्चिमदिशि स्थिते क्षय:।
उच्यते धनमता क्रमेण त -
ज्ज्ञातचारनिचयै: सदा बुधै:।।61।।
वेदितव्येति। रविरन्यो वा यो विदितो ग्रह:, यश्च वेदितव्यस्तयोरन्तरकालमुदयेऽस्तमये मध्याह्ने वा नाडिकाभिरवगम्य तदन्तरनाडिका: षद्भिर्गुणिता विवरभागा भवन्ति। ते भागा विदितग्रहे पूर्वादिशि स्थिते तस्मिञ्छोध्या:। पश्चिमदिशि स्थिते तस्मिन्क्षेप्या:। एवं भागैर्हीनयुक्तो विदितग्रहो वेदितव्यग्रह: स्फुटो भवति। अत्रोक्ता भागा: स्थूला: स्यु:। अतस्ते भागा राशिलिप्ताभिर्निहता ग्रहस्थितराश्युदयासुभिर्भक्ता ग्राह्य:। मध्याहने तु ग्रहस्थितराशेर्लङ्कोदयासुभिर्हर्तव्या:।।60।।61।।
अश्विन्यादिताराणां स्वावस्थितराशिभागोऽप्येवं वेद्य इत्याह -
एवं नक्षत्रताराणां ग्रहैस्ताराभिरेव च।
साधितं क्षेत्रनिर्माणं युक्त्वा सर्वत्र सर्वदा।।62।।
एवं नक्षत्रताराणामिति। साधितमिति। तच्च पूर्वै: साधितमित्यर्थ:।।62।।
तथा साधितस्त(तं त)त्क्षेत्रं प्रदर्शयति -
अष्टौ भानि किये षट् स्युरेकोना विंशतिर्वृषे।
द्वौ दिशौ मिथुने द्वौ च तिथयस्त्व(स्त्र्य)ष्टकं परे।।63।।
अष्टौ सार्धात्रिसप्तैनेवेदा: शैलोनिता: परे।
पञ्चाद्न्येकं तुलाराशौ द्वौ विनाऽष्टादशा: परे।।64।।
एकोऽब्धीन्दुस्त्रिरन्ध्राणि चापे भूतैकषष्ठ्यु(ड्य)मा:।
मृगेऽद्रिर्भूर्निता: कुम्भे पञ्चेद्वन्तेऽश्विभादित:।।65।।
अष्टौ भानीत्यादि। नक्षत्राधिष्ठितराशौ तद्भुक्तभोगांश्च क्रमेणात्र दर्शयति। मेषेऽष्टौ भागा अश्विनीनक्षत्रेण भुक्ता:। भरण्या भानि सप्तविंशति:। एवं परेषु च ज्ञेयम्। शैलोनकन्यका। कन्यायन्त्रयोर्विंशतिभागा इत्यर्थ:। त्र्यम्कं चतुर्विंशति:। अद्र्येकं सप्तदश। अब्धीन्दुश्चतुर्दश। त्रिरन्ध्राणि सप्तविंशति:। भूतैका: पञ्चदश। षड्य्मा: षडिंशति:। द्यूनकुम्भे कुम्भेऽष्टाविंशतिरित्यर्थ:। पञ्चेन्दु: पञ्चदश। अन्त्ये मीनान्त्ये योगभागा ग्रहयोगे मानां दृष्टा भागा इहोक्ता इत्यर्थ:।।63।।64।।65।।
अथ नक्षत्राणां विक्षेपभागानाह -
योगभागक्रमेणैते बोद्धव्याश्चाश्विभादिषु।
उदगाशार्गभूतानि दक्षिणे बोधानयनं च दिग्भवा:।।66।।
उदग्रसास्तथाकाशदक्षिणे पर्वतां वरम्।
उदगर्थाश्चतस्रैका दक्षिणे सप्त याश्विनौ।।67।।
सप्तत्रिंशदुदग्भावा याम्ये सार्धांशकास्त्रय:।
अद्न्यब्धयोऽद्रिभागाश्च स्वरास्ते सत्रिभागका:।।68।।
उदक्त्रिंशत्कृति: षण्णां याम्ये लिप्तास्त्रिषट्कका:।
उदग्जिनाश्विलिप्ते च विहाय: कीर्त्यते वरा।।69।।
विक्षेपांशा: क्रमेणोक्ता बोद्धव्यास्तेऽश्विभादिषु।
योगभगसमा: सर्वे दृश्यन्ते योगजा ग्रहा:।।70।।
उदगाशेति। सप्तत्रिंशदुदग्भागे याम्ये सार्धांशकास्त्रय इति पाठ:। केषुचित्सार्धाशंकासूय: इति। पाठे स्वरो इत्याप्यस्यते। सत्रिभागता इति विश्वभास्य इति योज्यम्। द्विविश्वे षड्विंशतिरित्यर्थ:। रेवत्या: शून्यं सर्वे ग्रहा नक्षत्रयोगमानसमास्तत्संयुक्तां उपदृश्यन्ते। यदि तयोर्विक्षेपो भवति तदा विक्षेपवशात्तयोरन्तरं ज्ञेयमित्याह-योगविभागसमा इति।।66।।67।।68।।69।।70।।
कुत्रचित्क्वचित्क्वचिदिन्दोर्वषम्यदर्शात्तद्वैषम्यमाह -
विक्षिपांसैस्तयोः साध्यमन्तरं ग्रहतारयोः।
उच्यते क्षितिलुताभिर्हन्तीन्दुर्दक्षिणागतः।।71।।
रोगिणपशकटं षष्ट्यास्त्वर्गेण तारकाः।
नवत्या सार्धया चित्रां विंशत्या शक्रतारकम्।।72।।
शतेन सार्धयुक्तेन मैत्रं शतभिषा जिनैः।
नवत्या द्व्यूवयैन्द्राग्रं पौष्णं विक्षिप्तवर्जितः।।73।।
उत्तरेण शतेनाष्टौ बहुलं भेद उच्यते।
दृष्टियुक्तकलास्त्वेता ग्रहैर्नक्षत्रभेदने।
इति महाभास्करीये तृतीयोऽध्यायः।।3।।
- - - - -
उच्यते क्षितिलिप्ताभिरिति। अत्रोच्यत इति योज्यम्। नवत्या सार्धया पञ्चोनशतेन शते षष्टो षष्ट्यधिकशतेनेर्त्यः। दृष्टियुक्ता विक्षेपकला एता उक्ताः।।71।।72।।73।।74।।
इति परमेश्वररचितायां कर्मदीपिकायां तृतीयोऽध्यायः।।3।।