अथ देशान्तरविधि:। तत्र लङ्कामेर्वन्तरालगतमध्यरेखास्ति(स्थि)तानि कतिचित्यत्तनान्याह-
लङ्कात: खरनगरं सितोरुगेहं
वाणाटो मिसितपुरी तथातपण्णि।
उतुङ्ग: सितवरनामधेयशैलो
लक्ष्यमीवत्पुरमपि खात्यगुल्मसंज्ञम्।।1।।
विख्याता वननगरी तथा ह्यवन्ति:
स्थानेशो मुदितजनस्तथा च मेरु:।
निन्द्या(विन्ध्या)ख्य[:] करण विधिस्तु मध्यमाना -
मेतेषु प्रतिवसतां न विद्यते स:।।2।।
लङ्कात इति। एतेषु वसतां जनानां देशान्तराख्यं कर्म न भवति।।1।।2।।
अथ कैश्चिदुदितं देशान्तरयोजनावगमनोपायमक्षांशानित्यादिना प्रदर्श्याध्वानमित्यादिना तन्निराकरोति -
स्वाक्षांशा णि(नि)गदितवित्तनाशहीना -
त्संहन्यान्नवनवपक्षपुस्कराख्यै: -
अष्टाभि: शरकृतिहीनभागसंख्यै -
श्चन्द्रांशैरपहृतयोजनानि कोटि:।।3।।
कर्णाख्य: स्वविहितपत्तनान्तरद्धा
तिर्यक्स्थो जनव(प)दभाषितो जगत्याम्।
तत्कृत्योर्विवरपदं वदन्ति केचि -
दध्वानं गणितस्य वेदितारम्।।4।।
अक्षांशानिति। कस्मिन्समरेखागतपत्तेऽक्षांशन् विदित्वा तदक्षांशस्वदेशाक्षांशयोर्विवरभागा-नानीय तैर्भूपरिधियोजनानि नवनवपक्षपुष्कराख्यतुल्यानि निहत्य चक्रांशै: षष्ट्युत्तरशतत्रयैर्विभज्य लब्धं कोटिर्भवति। कोटियोजनानीत्यर्थ:। स्वदेशसमरेखागतपत्तानयोरन्तराले तिर्यग्गतानि जनपदभाषितानि जनपदभाषणसिद्धानि योजनानि कर्णो भवति। एतयो: कोटिकर्णयोर्वर्गान्तरपदं देशान्तरयोजनानि भवन्ति। अत्रोक्तानि ÷भूपरिधियोजनानि योजनत: पञ्चविंशत्युत्तरंशतद्वयांशैरष्टभिर्हीनानीत्याह- अष्टाभिरित्यादिना।।3।।4।।
अस्य पक्षस्य दूषणमाह -
अध्वानं गणितविदो भटस्य शिष्या:
स्थूलत्वाच्छ्र्वणविधेर्न सम्यगाहु:।
अक्षादेरपि च विधेरथापपत्ति -
र्वक्रत्वात्क्षितिपरिधेर्वदन्ति सन्त:।।5।।
अध्वानमित्यादिना। दूषणहेतुमाह- स्थूलत्वादित्यादिना। स्थूलत्वं जनपदभाषणमावसिद्धत्वात्।।5।।
अथ मतान्तरं प्रदर्श्य तदपि निराकरोति -
छायार्थस्फुटदिवसतिग्मरश्म्यो-
रध्वानं विवरकलाग्रमाहुरेके।
नैतत्स्यात्समपरपूर्वदिकस्थितानां
तुल्यत्वात्फलगणितस्य वर्णयन्ति।।6।।
छायाम्ते(र्थे)यादिना। मध्यच्छायया वक्ष्यमाणविधिना मध्याह्नेऽर्कमानीय पुनर्गणितविधिना च मध्याह्ने देशान्तरं विनाऽर्कमानयेत्। तयोर्यद्विवरतलाग्रं विवरकलामानं तत्तद्देशान्तरमित्येक: आहु:। तद्देशान्तरसाधन मित्यर्थ:। तन्निराकरोति-नैतदित्यादिना। दूषणहेतुमाह-समपरेत्यादिना।।6।।
अथ स्वमतमाह -
सूर्येन्द्वोरकृतसमाध्वनोर्विधानात्
संप्राप्त: सति दलकाकालदृष्टयोश्च।
विश्लेष: स्फुटतर उच्यतेऽत्र कालो
गोलोक्तैर्विदितभटप्रणीतनेत्र:।।7।।
नित्यं वा शशिनमदेशकालसंख्यं
सूर्यश्च स्फुटमुदयास्तथङ्घ(तद्घ)टीभि:।
कृत्वैव ज्वलविधिना घटीश्च बुद्ध्वा
तत्रस्य(स्थ)द्विपरमुशन्ति देशकालम्।।8।।
सूर्येन्द्वोरिति। अकृतदेशान्तरैसंस्कारयो: सूर्येन्द्वोरन्तरकालेन तदुद्भवैरपक्रमविक्षे पादिसाधनैश्च ग्रहणारम्भकालमानीय पुनर्घटिकया छायया व प्रत्यक्षारम्भकालं चाऽऽनयेत्। तयोर्विवरं +देशान्तरकालो भवति। अथवा नित्यं सर्वस्मिन्नप्यकृतदेशान्तरसंस्काराभ्यां सूर्यशशिभ्यां सूर्यास्त्यमयचन्द्रे सूर्यास्तमयचन्द्रसूर्यस्तमयचन्द्रासतमयर्योऽन्तरकालं वक्ष्यमाणविधिनाऽऽनीयं पुनर्घटिकास्थापनेन च तदन्तरकालमानयेत्। तत्र तयोर्विवरं तन्त्रज्ञा देशान्तरकालमिच्छन्ति। देशान्तरकालस्य साधनमिथ्यर्थ:।।7।।8।।
रेखाया: पूर्वपश्चिमविशेषज्ञानायाऽऽह-
ग्रहोदयो यदा पूर्वं स्पर्शश्चैवोपलक्ष्यते।
पूर्वेण समरेखाया भ्रष्टा स्यात्पश्चिमेऽन्यथा।।9।।
ग्रहादयो यदेति। अस्मिञ्श्लोकेऽपपाठश्च दृश्यते। अत एवा(वं)पठितव्यम् -
ग्रहादयो यदा पूर्वं स्पर्शा(र्श:) पश्चाच्च लक्ष्यते।
पूर्वेण समरेखाया द्रष्टा स्यात्पश्चिमेऽन्यथा।।इति।
यदा गणितसिद्धचन्द्रादेयकालात्प्रागेव प्रत्यक्षीकृतचन्द्रोदयो भवति तथा गणितसिद्धस्पर्शकालमतीत्यं प्रत्यक्षीकृतस्पर्शश्च भवति तदा समरेखाया: पूर्वस्मिन्देशे स्थितो द्रष्टा भवति। अन्यथा पश्चिमे स्थित: स्यात्।।9।।
इदानीं देशान्तरकालेन ग्रहणसिद्धेन ग्रहणान्तरसंस्कारमाह-
कालेनाऽऽहत्य भुक्तिं ग्रहरवितामसां देशजातेन नित्यं
षष्ट्या हृत्वाऽथ लब्ध्वा जलवसुरवयोर्दिग्गतानां धनर्णे।
लम्बेनाभ्यस्य भूमे: सकलगुणहृतो वृत्तसंख्याघटीभि -
र्हृत्वा देशान्तराभिर्गगनरसहृतो योजनाग्रं वदन्ति।।10।।
इति महाभास्करीयं द्वितीयोऽध्याय:।।2।।
- - - - -
कालेनाऽऽहत्येति। देशान्तरनाका(डी)भिर्ग्रहभुक्तिं निहत्य षष्ट्या विभज्य लब्धं तत्तद्ग्रहमध्यमे रेखाया: पश्चिमे धनं कुर्यात्। पूर्वस्मिन्देश ऋणं कुर्यात्। लम्बेनाऽऽहत्येत्युत्तरार्धेन स्वदेशभूवृत्तानयनं तद्गदेशान्तरयोजनानयनं चाऽऽह। लम्बेन भूवृत्तं निहत्य त्रिराशिज्यया विभजेत्। तत्र लब्धं स्वदेशभूवृत्तयोजनमानं भवति। तां वृत्तसंख्यां देशान्तरघटिकाभिर्निहत्य षष्ट्या विभजेत्। तत्र लब्धं देशान्तरयोजनसंख्या भवति।।10।।
इति परमेश्वरकृतायां कर्मदीपिकायां द्वितीयोऽध्याय:।।2।।