कलां बिभर्ति क्षणदारकस्य य:
प्रकाशिताशां शिरसा गभस्तिभि:।
नमोऽस्तु तस्मै सुरवन्दिताङ्घ्रये
समस्तविद्याप्रभवाय शंभवे।।1।।
जयन्ति भानो: कमलावबोधिन:
करा हिमांशोर्वनिता(हि)तत्विष:।
ससूरितारास्फुटदीर्घरश्मयो
धरासुतज्ञार्तिसितत्विषं पुन:।।2।।
तपोभिराप्तं स्फुटतन्त्रमाश्यकं
चिरं समभ्येतु जगत्सु सद्गुणै:।
चिरं च जीयासुरपेतकल्मषा
भटस्य शिष्या जितरागशत्रव:।।3।।
किरीटहारमकरकुण्डलाद्यैरलंकृतम्।
नमामि तं हरिं चक्रशङ्खपद्मगदाधरम्।।1।।
व्याख्याने भास्करीयस्य भाष्यस्य प्राक् प्रदर्शिता।
ग्रहकर्मोपपत्तिस्तु सगोदा विस्तरान्मया।।2।।
क्रियामात्रप्रसिद्धयर्थधुना मन्दचेतसाम्।
व्याख्याऽल्पा तस्य मूलस्य क्रियते कर्मदीपिका।।3।।
कलां विभर्तीति शंभुस्तुति: जयन्तीति ग्रहस्तति:। तपोभिरित्यार्यभटतन्त्रस्य तच्छिष्याणां चाऽऽशीर्वचनम्।।1।।2।।3।।
नवाग्नि(द्रि)रूपाग्नियुतं महीभुजां
शकेन्द्रानाम्नां गतवर्षसंग्रहम्।
द्विषट्कनिघ्नं गतामाससंयुतं
युगाधिमासैर्गुणयेद द्विराशितम्।।4।।
नवाद्रीति। नवाद्रिरुपाग्निभि3179र्युतं शकाब्दसमूहं द्यदर्श(द्वादश)निहि(ह)तं वर्तमानवर्षैश्चैवादिभिरतीर्यौसैर्युतं पृथ्वीग्वन्यस्य युगाधिमासैर्गुणयेन। ते चाङ्गपुष्कररामाग्निरन्ध्रेष्विन्दुमिता 1593336 इति।।4।।
युगार्कमासाप्तगताधिमासकै -
र्युतस्तिथिघ्नं गतवासरान्वितम्।।
युगावमैस्तद्गुणयेद् द्विराशितो
निशाकराहैर्विभजेत नित्यश:।।5।।
तिथिप्रणाशाप्तिरतो विशोध्यते
भवत्यथाह्नां निचय: कलेर्गत:।
भवन्ति वारं तिथिसूनुपूजिता -
त्प्रवृत्तिमप्याहुरुदञ्चतो रवे:।।6।।
पुनर्युगार्कमासैर्विभजेत्। ते चायुतहता अब्धिवस्यवेकशरा: 51840000। तत्र लब्धै: पूर्णैरधिमासै(1593336)र्युतं पूर्वं प्रतीराशितं त्रिंशता निहत्य वर्तमानमासे प्रतिपदादिभितीतरितिथिभिर्युक्त्या पृथग्नयिस्य युगावमैर्गुणयेत्। ते च व्योमवस्यक्षिद्व्यष्टखेष्टश्विन (25082280) इति।
पुनर्निशाकराहैर्विभजेत्। ते च-खाष्टव्योमभूम्याभ्राग्निखाष्टय 80301080 इति। तत्र लब्धं पूर्णमेव फलं प्रतिराशिताद्विशोधयेत्। शिष्टं कलेर्द्युगणो भवति। अत्र यदाऽधिमासादुत्तरमासो वर्तमानमासस्तदाधिऽमासोऽपि मासत्वेन ग्राह्य:। अस्मिन्नहर्गणे शुक्रवारादिर्वारो भवति। आरम्भश्चर्कोदयात्।।5-6।।
प्रकान्तरेणापि द्युहगणानयनमाह -
शशाङ्कमासैरभिताडताद्धरे-
दतीतमासानथवाऽर्कसंभवै:।
दिनीकृताद्भूमिदिनाहतान्दिनै-
र्विभज्य लब्ध: शशिजैरहर्गण:।।7।।
शशङ्कमासैरिति। कलेरतीतात् सौरमासाद्युगशशिमासैर्निहत्य युगसौरमासैर्विभज्य लब्धं विंशता निहत्य वर्तमानचान्द्रमासे गततिथिभिर्युक्ता युगभूदिनैर्निहत्य युगशशिदिनैर्विभजेत्। तत्र लब्धं द्युगणो भवति। अस्मिन्द्यगणे कदाचिद्रूपमक्षेप्यमिति वक्ष्यति।।7।।
मध्यमानयनमाह -
उदीरि तान्याद्भगणात्क्षमादिनै-
र्लभामहे लान्कलियातवासरै:।
इति प्रलब्धा भगणास्तत: क्रमाह:
ग्रहांशलिप्ता विकला: सतत्परा:।।8।।
उदीरितान्यादिति। सप्तमाध्याये पठितान् भगणान् क्षमादिनैर्लभामहे। तेषु कान् कलियातपसनैर्लभामह इति त्रैराशिकेन भगणा लभ्यन्ते। स्वस्वैर्भगणैर्द्युहगणान्निहत्यं भूदिनैहृत्वा भगणा लभ्यन्ते। शेषा द्वादशादिगुणाद् भूदिनै राश्यादयश्च भवन्ति।।8।।
कलीकृतं वा(मा)ससमं दिवाकरं
भजेत पक्षैर्युगसंख्ययोदितै:।
स्वगीतिकोक्तैर्भगणै: समाहता
विहंगमानां प्रवदन्ति लिप्तिका:।।9।।
कलीकृतामिति। अतीतवर्षाख्यै: स्वभगणै: सहितामिष्टादिनाऽऽनीतं दिवाकरं कलीकृत्य स्वै: स्वैर्भगणैर्निहत्य युगवर्षैर्विभजेत्। तत्र लब्धा इष्टग्रहस्य कला भवन्ति।।9।।
निशाकरं वा ग्रह मुच्चमेव वा
कलीकृतं तत्सहयातमण्डलै:।
यथेष्टनक्षत्रगणैर्हतं हरे -
त्तदीयनक्षत्रगणैस्तत: कला:।।10।।
निशाकरामीति। चन्द्रं वा इष्टाग्रहं वा चन्द्रोच्च वाऽतीतमण्डलै: तह कलीकृत्य इष्टग्रहस्य भगणैर्विभजेत्। तत्र लब्धा इष्टग्रहकला भवन्ति।।10।।
अथ चन्द्रादित्ययोरेव कर्मान्तरमाह -
युगाधिमासैर्द्युगणं हतं हरे -
त्क्षमादिनैर्वा भगणादि लभ्यते।
त्रयोदशघ्ने सवितर्यताक्षिपे -
न्निशीथिनीनां पथिचारसिद्ध्ये।।1।।
युगाधिमासैरित्यादिश्लोकेद्वयेन। युगाधिमासैर्द्युगणं निहत्य भूदिनैर्विभजेत्। तत्र लब्धं भगणादिफलं भवति। तत्फलं तयोर्दशगुणिते सूर्ये क्षिपेत्। तच्चन्द्रो भवति। अथवा तत्फलं चन्द्राद्विशोध्य शिष्टस्य त्रयोदशांशो रविर्भवति।।11।।
अथ द्युगणं विना चन्द्रार्कयोरानयनाय श्लोकसप्तकमाह -
विना द्विराशेरपि चन्द्रभास्करौ
पकुर्वतो वा विधिरेष कथ्यते।
समासु मासीकृतविग्रहासु ये
ह्यतीतमासा विनियोज्य तान्पुन:।।12।।
खरामनिघ्नान्द्रिवसेषु योजये-
द्गतेषु मासस्य ततोधिऽमासकै:।
निहत्य सर्वें विभजेत सर्वदा
युगार्कृमासैर्दिवसत्वमागतै:।।13।।
भवन्ति लब्धास्त्वधिमासका: पुन: -
स्ततोऽपनीयाऽऽशु च भागहारकम्।
भवेदशेषा: शशिमाससंख्यया
ततांशलिप्ताविकला: सतत्परा:।।14।।
ततोऽधिमासं प्रणिहत्य खाग्निभि:
सुयोज्य सभ्यग्गतवासरै: क्रमात्।
युगावमघ्नाच्छशिवासरैर्हरे -
त्तमत्र शेषं प्रवदन्ति चाऽऽह्निकम्।।15।।
हत्वाऽधिमासैरप(व)[म]स्य शेषं
छित्त्वा धराया दिवसै: प्रलब्धम्।
संयोज्य नित्यं त्वाधिमासशेषे
कार्यं पुनस्तत्करणैर्यथोक्तम्।।16।।
युगप्रसिद्धर्धरणीदिनैर्हरे -
न्निहत्य षष्ट्याऽ[व]मशेषमाह्निकम्।
कला विलीप्ता: क्रमश: सतत्परा -
स्त्वतीतमासा दिवसा ग्रहांशका:।।17।।
त्रयोदशाघ्नादपि रूपताडिता -
द्विशोधयेद्यत्त्वधिमासशेषजम्।
निशाकरार्कौ गणकै: प्रकीर्तितौ
भटप्रणीताविति बुद्धिमत्तमै:।।18।।
विना द्युरकशोरिति। अतीतवर्षाणि द्वादशभिर्निहत्य वर्तमानवर्षे गतांश्चन्द्रमासानापि तेषु प्रक्षिप्य त्रिंशता निहत्य वर्तमानमासे गताः सुपूर्णास्तिथिः (थीः) प्रक्षिप्य युगाधिमासौर्निहत्य युगार्कमासौस्त्रिंशद्गुणितैर्विभजेत्। तत्र लब्धा अधिमासा भवन्ति। तानधिमासानधिमासशेषंचैकत्र संस्थाप्य पुनरतीतवर्षाणि मासीकृत्यातीतमासै: संयोज्य त्रिंशता निहत्य वर्तमानमासे गतास्थीश्च संयोज्य तेषु लब्धानधिमासांस्त्रिंशता निहन्ताप्रक्षिप्य युगावमैर्निहत्य युगचन्द्रदिवसैर्विभजेत्। तत्र शिष्टमवमशेषं भवति। तदान्ति(ह्नि)कसंज्ञं च भवति। तदेकत्र संस्थाप्य पुन: पृथग्विन्यस्य युगाधि मासैर्निहत्य युगभूदिनैर्विभज्य लब्धं पूर्वानीताधिमासशेषे प्रक्षिप्य युगचान्द्रमासैर्विभजेत्। तत्र लब्धा अंशा भवन्ति। पुन: शेषात्षष्टिघ्नाद्युगचान्द्रमासैर्लिप्तादशयश्व ग्राह्य:। अत्र यथा प्रथमानीताधिमास शेषो युगाधिकदिनेभ्यो हीनो भवति तदा युगसौरदिवसयुगोऽधिमासशेषो ग्राह्य:। अधिमासाश्च तदा होका भवन्तीति ज्ञेयम्। पुन: पूर्वानीतमवशेषं विन्यस्य षष्ट्या निहत्य युगभूर्दिर्विभजेत्। तत्र लब्धा: कला भवन्ति। शेषात्षष्टिघ्नात्तेनैव हारेण विकलादयश्च ग्रह्या:। पुनरस्यापि लिप्ताया उपरिभागस्थाने वर्तमानमासे गतास्तिथी: संस्थाप्य तस्योपरिराशिस्थाने वर्तमानवर्षे गतान्मासांश्च संस्थापयेत्। एवं राश्यंशकलाद्यात्मकं ग्रहशरीरं भवति। पुनस्तं ग्रहशरीरं त्रयोदशर्भिर्निहस्य तस्मात्पूवर्मधिमासशेषाल्लब्धमंशाधिकं विशोधयेत्। तव शिष्टं चन्द्रो भवति। पुनरेकनिहताद्ग्रह- शरीरादाधिमासशेषजमंशाधिकं विशोधयेत्। तत्र शिष्टं रविर्भवति।।12।।13।।14।।15।।16।। 17।।18।।
अथ मध्यमानयन उपायान्तरमाह -
अम्बरोरुपरिधिर्बिभाजितो
भूदिनैर्दिवसयोजनानि तै:
संगुणय्य दिवसानथाऽऽहरे -
त्कक्ष्यया भगणराशय: स्वया।।19।।
अम्बरेति। अम्बरोरुपरिधिकाराशकक्ष्या तदानयनं वक्ष्यि-"इन्दोर्गणा यय(म) वियद्रसवुन्दनिघ्ना व्योम्नो भवेयुरिह वृत्तसमानसंख्या" इति। अनूना तत्समा नारी साध्वी सर्वप्रिया इत्याकाशकक्ष्या। तां भूदिनैर्विभज्य लब्धानि दिवसयोजनानि भवन्ति। तैर्दिवसयोजनै: कलिदिवसान्निहत्य ग्रहस्य कक्ष्यया विभजेत्। तत्र लब्धा भगणा भवन्ति। शेषाद्वादशादिगुताद्राश्यादयश्च भवन्ति। "इष्टग्रहस्य भगणैर्गनस्य वृत्तं भङ्कक्त्वाऽथ तस्य परिधिं लभते समन्तात्" इति कक्ष्यासिद्धि:। अत्र दिवसयोजनानयने हवशेषस्तदंशो हारकस्तच्छेदस्तावपवर्त्य संस्थाप्यौ कक्ष्यायोजनानयने च हृतशेषस्तदंशो हारकस्तच्छेदस्तावपर्त्य संस्थाप्यौ दिवसयोजननान्यंशीकृत्य कक्ष्याछेदेन च निहत्य तैरिह गणना कार्या। कक्ष्यायोजनानि चांशीकृत्य दिवसयोजनच्छेदेन च निहत्य तैरिह हरणं च कार्यम्।
अथ मध्यमानयनायोपा[या]न्तरमुपादिद्दिक्षु: प्रथमं तत्स्वरूपं दर्शयति -
अदृष्टमन्यैरिदमास्मकीयै:
कर्म ग्रहाणां लघुतन्त्रसिद्धम्।
संचिन्त्य शास्त्रार्णवमास्मकीय -
मुत्पाठ्य(द्य)ते तन्त्ररहस्यभूतम्।।20।।
अदृष्टमिति। आश्मकीया आर्यभटशिष्या। लघुतन्त्रं गणितविशेषं ग्रहाणां कर्म मध्यमानयनमाहु:।।20।।
अधिमासानयनमाह -
रुद्रै: सहस्रहतषट्च(श)कलैश्च हत्वा
वर्षाणि रन्ध्रवसुवह्सिमानसंख्यै:।
मुक्त्वा सदा प्रविगणय्य खरामभक्ता
मासा भवन्ति दिवसाश्च हृतेऽवशिष्टा:।।21।।
रुद्रैरिति। अतीतवर्षाणि गणयित्वा संस्थाप्य रुद्रैर्हन्यात्। ते अधिकाहा भवन्। पुनरपि वर्षाणि रन्ध्रवसुह्निभि(389)र्हत्वा सहसा(खा)हतै: षड्भिर्हरेत्। तत्रमप्यधिकाहा भवन्ति। तद्द्वयं संयोज्य त्रिंज्या 30 बिभजेत्। तत्र लब्धा अधिमासा भवन्ति। हृतशेषा अधिकदिनानि भवन्ति।।21।।
अवमानयनमाह -
संहत्य रन्धरयमलै रसारामभक्तै -
र्भूयोऽग्निवेदगुणितेषु हरेच्च भागम्।
खव्योमवह्निमुनिभि: प्रलयस्थितीनां
संयोज्य भूतयमरुद्रहृते दिनानि।।22।।
संहत्येति। वर्षाणि रन्ध्रयमलै29र्निहत्य रसरामै36र्विभजेत्। तत्रावमा भवन्ति। तत्र शेषमेकत्र संरक्ष्य पुनर्वर्षाण्यग्निवेदैर्गुणयित्वा तेषु पूर्वस्थापितं हृतशेषं सहस्रद्वितयेन 2000 हतं प्रक्षिप्य खव्योमखद्विमुनिभि72000र्हरेत्। तत्र लब्धा अप्यवमा भवन्ति। एतत्फलद्वययोग इहावम इत्युच्यते। पुनरत्र हृतशेषं भूतमयरुद्रै1125र्हरेत्। तत्र लब्धा अवमयातादतीता दिवसा भवन्ति।।22।।
एषां संका(स्का)रमाह -
तेभ्योऽधिकाहान्प्रविशोध्य शेषं
वातारदातो ह्यवमस्त कालम्।
यदा न शुध्येदपमं प्रगृह्य
दत्त्वा चतुष्षष्टितमो विशोध्य:।।23।।
तेभ्योऽधिकाहानिति। तेभ्योय(ऽव)मपतनोत्तरदिनेभ्यो भूतयमरुद्रसिद्धेभ्यो241125 ऽधिकाहान्प्रविशोधयेत्। यदा ते न शुध्येयुस्तदाऽवमदिनेभ्य एकमवमं गृहीत्वा तं चतु:षष्ट्या 64 निहत्य भूतयमरुद्रसिद्धेषु 241125 तेषु दिनेषु क्षिप्रा(प्त्वाऽ)धिकाहान् विशोधयेत्। तत्र य: शेष: स इह कर्मयोग्य: स्फुटोपमस्य पातादतीत: कालो भवति।।23।।
अब्दाधिपावगमनायाऽऽह -
मासाधिमासकगणा गिरिभागशेषा -
स्रिंशद्गुणादपचयोऽयमुदीर्यतेऽत:।
शैलावशिष्टकलियातमिषुप्रणिघ्नं
संयोज्य हीनदिवसेषु नगावशेषम्।।24।।
एकयुक्तदिवसेषु वर्षप:
कीर्तित: स्थितखगादिताद्यदा।
हीनरात्रिगतयुक्तवासरा -
द्वेदवृन्दविहृतास्तदाऽप(व)मा:।।25।।
मासाधिमासकेति। अतीतसौरमासानधिमासयुक्तान् सप्ति7र्विभज्य शिष्टं विंशत्या20 निहत्यैकत्र संस्थाप्य पुनरततिवर्षाणि सप्तभि7र्विभज्य शिष्टं पञ्चभि5र्निहत्य पूर्वानीतावमदिवेषु प्रक्षिप्य सप्तभि7र्विभज्य शिष्टं पूर्वस्थापितात्त्रिंशद्30गुणितदिवसगणाद्विशोध्य शिष्टे सप्तभि7र्हत एकयुक्ते शुक्रवारादिर्वर्षाधिपो भवति। वर्तमानवर्षेऽवमपरिज्ञानायाऽऽह-हीनरात्रेति। वर्तमानवर्षे चैत्रादीतिथिसमूहं तेभ्योऽधिकाहानित्यादिना साधितेष्ववमपातोत्तरदिनेषु प्रक्षिप्त वेदानां घनेन च चतु:षष्ट्या विभज्य लब्धा वर्तमानाब्द् अतीता अवमा भवन्ति।।24।।25।।
अथ वक्ष्यमाणमध्यमानयनसाधनभूतस्य शोध्यराशेरानयनमाह -
वर्षेषु रन्ध्रकृतचन्द्रसमाहतेषु
षट्सप्तपञ्चविहृतेषु दिनादिलाभ:।
ते योजिता दशहतासु समाससंज्ञां
संप्राप्नुवन्ति रविजा इति निश्चलो(यो)मे।।26।।
रविजदिवसयोज्याश्चाप(व)मा येऽत्र लब्धा:
सततमधिकमासाञ्शोधयेत्खाग्निघ्नान्।
भवति यदवशिष्टं शोधनीयं समायां
यदि तदधिकशुद्धं क्षेप्यमेवापदिष्टम्।।27।।
वर्षेष्विति 'अतीतवर्षाणि रन्ध्रकृतचन्द्रै 149र्निहत्य षट्सप्तपञ्चभि576र्विभजेत्। तत्र लब्धं दिनं भवति। शेषात्षष्टिघ्नात्तेनैव हारेण नाड्यादयश्च साध्या:। ते दिवसा दशाहतैरतीतवर्षैयोज्यास्मदा रविजदिवसा भवन्ति। तेषु पूर्वानीतानवमदिवसान्प्रक्षिप्त तेभ्य: पूर्वानीतानधिमासांस्त्रिंशद्गुणि तान्विशोधयेत्। तत्र शिष्टं शोधनीयं नाम राशिभर्वति। वक्ष्यमाणावमहीनमधुसितदिवसादिकदिनगणनाच्छो(ध्य)मित्यर्थ:। यदि तदधिकशुद्धं क्षेप्यमेवोपदिष्टामिति। यद्यवमरहितविजदिवसेभ्यस्त्रिंशद्गुणिताधिमासानमाधिक्याद्शोध्यत्व भवति। तत्राधिकादल्पं विशोध्य शिष्टं क्षेप्यराशिहिम् (शिर्भ) वति। पूर्वोक्तदिनगणे क्षेप्यं भवतत्यिर्थ:।।26।।27।।
अथ मध्यमानयनसाधनभूतं ग्रहतनुस्वरूपमाह-
षष्टिशतत्रयनिघ्नो वर्षगणो ग्रहतनु: सदा कथित:।
तेन समेता विहगा ध्रुवका इति कीर्तिता: सद्धि:।।28।।
षष्टीति। षष्टिशतत्रय् 360निघ्नोऽतीतवर्षगणो ग्रहतनुर्भवति। ग्रहतनोरेकदेश इत्यर्थ:। तेन समेता विहगा इति। तेन ग्रहतनुराशिना समेता रविबुधभृग्वाख्या अंशीकृता ध्रुवका भवन्ति। ध्रुवकसंस्थिताश्च भवन्तीत्यर्थ:। षष्टिशतत्रय 360 निघ्नवर्षघ्नगणयुतो भागीकृतस्तत्कालरविश्चन्द्रादीनामानयेन ग्रहतनुर्भवति। इत्यु(क्तं) भवति। रविमध्यमानयने तु मधुसु(सि)तदिवसादिको दिनगणोऽयमहीन: शोधनीयो विशुद्धो ग्रहतनुर्भवति।।28।।
दिनाधिपत्यवगमनायाऽऽह-
मधुसितदिवसाद्यो हीनहीनो गणोह्नां
दिविचरहृतशिष्टो वारमासाब्दवा(पा)दि:।
तत इदमपि शोध्यं शोधनीयं समायां
पतितसमतिरिक्तो गृह्यते नापरोऽत्र।।29।।
मधुसितेति। चैत्रशुक्लप्रतिपदाद्यातीतिथिगणेऽवमहीने सप्तर्भिहते शेषाद्वर्षाधिपादिवारो भवति। तत इदमिति। इष्टवारगताद्विसगणादवमहीनादिदं शोधनीयाख्यं दिनादिकं शोधयेत्। अत्र शोधनीय शोधनेऽवमहीनं एव दिनगणो गृह्यते नतु सप्तहृतावशिष्ट:।।29।।
+रविमध्यमानयनमाह-
सप्तत्या दिवसाद्या: शरभागा द्विगुणिता विवटकाश्च।
तद्रहितो ग्रहदेहो रविबुधभृगवश्च निर्दिष्टा:।।30।।
सप्तत्येति। शोधनयिविशुद्धादहर्गणाद् ग्रहदेहाख्यात्सप्तत्या दिवसादिफलं भवति। पुनरपि तस्मादहर्गणाद्द्विगुणितात्पञ्चभि5र्विनाड्यो भवन्ति। एतद्द्वयं ग्रहदेहाख्यादहर्गणाद्विशोधयेत्। तत्र शिष्टं रविमध्यमो भवति। अर्कोऽयं नातिसूक्ष्म:। एतस्मिन्वर्षे नातीतान्तं भवतीति भाव:। अयमेव - बुधमध्यमो भृगुमध्यमश्च भवति।।30।।
चन्द्रमध्यमानयनमाह-
कुमुदवनसुबन्धो रन्ध्रवर्गो द्वियुक्त:
ग्रहतनुगुणकारी भागहार: प्रदिष्ट:।
शरयमयमलाख्यो भागपूर्वोऽत्र लाभो
ह्युण(द्युय)मविशिखनिघ्नो वेन्द्रियाप्ता विलिप्ता:।।31।।
कुमुदवनेति। अतीतभगण: सह भागीकृतं तत्कालमध्यमरविं ग्रहदेहाख्यं[त्र्य]शीत्या निहत्य शरयमयमलै225र्विभजेत्। तत्र भागादिफलं भवति। पुनरपि ग्रहदेहमेकादशभिर्निहत्य पञ्चाशता 50 विभज्य लब्धा विलिप्ताः पूर्वफलाद्विशोध्य त्रयोदश13हतं ग्रुहतनुं प्रक्षिपेत्। स चन्दो भवति। त्रयोदशहततनुप्रक्षेपणं वक्ष्यति।।31।।
चन्द्रपातानमाह-
भागाः खनिधनाशस्त्रिरुद्रगुणित विलिप्तिका ज्ञेयाः।
षड्भिः शतैर्विभक्ते विंशत्यंशो रवेश्च तमः।।32।।
भागा: इति। ग्रहदेशाच्छून्यादियमलेर्भागा भवन्ति। पुनग्रर्हदेहात्रिशशिरूपहतात्षड्भि: शतैर्विलिप्ता भवन्ति। पुनर्ग्रहदेहाद् विंशत्यंशश्च ग्राह्य: एतेषां त्रयाणां योगो राहुर्भवति।।32।।
÷चन्द्रतुङ्गानयनमाह -
अचलहतनवाशा लिप्तिका रुद्रनिघ्ने
गगनसाविभक्तेर्लिप्तिकास्तापि पूर्वा:।
ग्रहतनुखयमांशास्तत्परा: शोधनीया
दशलवसमुपेतश्चन्द्रतुङ्ग: स भानो:।।33।।
अचलेति। सप्तघ्नाद्वग्रहदेहान्नवर्भिर्लिप्ता भवन्ति। पुन: कीदृ (एकाद) शहताद्ग्रहदेहात्षष्ट्या विलिप्ता भवन्ति। तद्द्वयमेकीकृत्य तस्माद्ग्रहत विंशत्या विभज्य लब्धास्तत्परा: संशोध्य ग्रहतनुदशांशं प्रक्षिपेत्। स चन्द तुङ्गे भवति।।33।।
शुक्रशीघ्रोच्चानयनमाह -
भूभृद्रामहतां हरेच्छरगुणै रन्ध्रैर्ग्रहाणां तनुं
भागाद्यस्थिजितोऽपि भौरिकागणा भागे शतेनोदधृते।
रामांशेन युतं रवेश्च सकलं द्विघ्नाद्रवे: शोधये -
त्क्षेप: सोमजसोमयो: कृतगुण: सूर्योऽथ विश्वाहत:।।31।।
भूभृदिति। सप्तत्रिंशद्गुणिताद्ग्रदेहान्नवभि: शतैर्भागाद्या भवन्ति पुनर्भागात्मके ग्रहदेहे शतेनोद्धते विलिप्ता भवन्ति। ग्रहदेहत्र्यशं च गृहीत्व तत्सकलं द्विघ्नाद्रव: (वे:) शोधयेत्। शेषं शुक्रस्य शीघोच्चं भवति। क्षेप हत: सूर्य: प्रक्षेप्य:।।34।।
बुधशीघ्रोच्चानयनमाह -
व्योमशून्यनेत्रभाजिते फलं
राशयोऽष्टभाजितेऽथ लिप्तिकां विदु:।
बिन्दुषड्ढते विलिप्तिकाद्विद:
सर्वमेव योज्यते गण्यते बुध:।।35।।
व्योमशून्येति। ग्रहदेहोच्चैतद्द्वयेन राशयो भवन्ति। ग्रहदेहादष्टभिर्लिप्ताश्च भवन्ति। ग्रहदेहात्षष्ट्या विलिप्ताश्च भवन्ति। एतेषां योगे चतुर्गुण: सूर्य: प्रक्षेप्य:। एष बुधशीघ्रोच्चं भवति।।35।।
बिन्दुशून्यं मन्दमध्यमानयनमाह -
अष्टाहृते शरयमाश्विहृते कला: स्यु -
र्देहे तथा त्रिदशभक्तविलिप्तिकाश्च।
युक्त्वैतदेवमुभयं शनिरत्र गण्या -
स्त्रिंशल्लृवो रविभवो धनमत्र कार्यम्।।36।।
अष्टाहत इति। अष्टाहताद् ग्रहदेहाच्च(च्छ)रयमाश्विभि:22 कला भवन्ति। पुनर्ग्रहदेहाच्च(च्छ)तत्रयेण विलिप्ताश्च भवन्ति। एतत्फलद्वययोगे ग्रहदेहस्य त्रिंशांश: प्रक्षेप्य: स शनिर्भवति। एतत्फलद्वययोगे ग्रहदेहस्य त्रिंशांश: प्रक्षेप्य: स शनिर्भवति।।36।।
*कुजमध्यमानयनमाह -
द्विकनिघ्ने ग्रहदेहे स्वविंशद्भागरहिते च लिप्ताद्या:।
पञ्चाशद्दशविकला: क्षेप्या भौमो रवेरर्धे।।37।।
द्वकनिघ्न इति। द्विघ्नो ग्रहदेहो लिप्ता भवन्ति। पुनर्द्विघ्नाद्ग्रहदेहाद्विंशत्या लब्धा लिप्तास्ताभ्यो लिप्ताभ्य: शोध्या:। पुनर्ग्रहदेहात्पञ्चाशताऽपि कलाश्च भवन्ति। एतत्फद्वयं ग्रहदेयस्यार्धे क्षेप्यं स भौमो भवति।।37।।
गुरुमध्यमानयमाह-
द्वियमघ्ने ग्रहदेहे शरनगरामोद्धृते तु लिप्ताद्या:।
सुरनाथगुरोर्भोगो रविभोगद्वादशांशयुत:।।38।।
द्वियमघ्न इति। द्वियम22घ्नाट् ग्रहदेहाच्छरनगरामैर्लिप्ता भवन्ति। तस्मिन् ग्रहदेहाद्द्वादशांशं 12 प्रक्षिपेत्। स गुरुर्भवति।।38।।
×चन्द्रोच्चपातयोर्ध्रूवमहर्गणे रूपक्षेपं चाऽऽह -
राशित्रयं क्षिप निशाकरतुङ्गमध्ये
वा तन्निपात्य भगणात्क्षिप राशिषट्कम्।
त्रैराशिकागतदिनेषु च रूपमेकं
व्यावर्णयन्ति गणका भटशास्त्रचित्ता:।।39।।
राशित्रयमिति। तुङ्गे राशित्रयं क्षेप्यं राहुं भगणाद्विशोध्य राशिषट्कं प्रक्षेप्यम्। एतदनयो: सर्वदा कार्यम्। त्रैराशिकानीतेऽहर्गणे कदाचिद्रूपं क्षेप्यम्। राहुं भगणाद्विशोध्य राशिषट्कं प्रक्षेप्यम्। एतदनयो: सर्वदा कार्यम्। त्रैराशिकानीतेऽहृर्गणे कदाचिद्रूपं प्रक्षिप्येष्टवार: साध्य:।।39।।
अथ कुट्टाकाराविधि:। तत्र हारभज्ययोरपवर्तनमाह -
भूदिनेष्टगणान्योन्यभक्तशेषेण भाजितौ।
हारभाज्यौ दृढौ स्यातां कुट्टाकारं तयोर्विदु:।।40।।
क्षमा(भू)दिनेति। युगभूदिनं विन्यस्य तस्योपरीष्टग्रहस्य युगभगणं विन्यस्य परस्परं विभजेत्। प्रथमं भगणेन भूदिनं हरेत्। पुनर्हृतशेषेण भगणं पुनस्तच्छेषेण भूदिनशेषम्। एवं भूयोऽपि परस्परं हरेत्। तत्रान्ते यो राशिरविशिष्यते तेन शेषेणं भूदिनं भगणं च हरेत्। तत्र लब्धौ दृढहारो दृढमाज्यश्च भवत:। एवमुपपत्तीन्त(र्तित)योर्हारभाज्ययो: सतो: कु[ट्टा]कारकर्म क्रियते।।40।।
अथ तत्कर्मक्रममाह -
भाज्यं न्यसेदुपरि हारमध्यश्च तस्य
खण्ड्यात्परस्परमधो विनिधाय वल्ल्य:।
केनाऽऽहतोऽर्धमपनीय यथाऽस्य शेषं
भागं ददाति परिशुद्धमिति प्रचिन्त्य।।41।।
आप्तां मतिं तां विनिधाय वल्ल्या
नित्यं ह्यधोऽध: क्रमशश्च लब्धम्।
मत्याहतं स्यादुपरि स्थितं य -
ल्लब्धेन युक्तं परतश्च तद्वत्।।42।।
हारेण भाज्यो विधिनोपरिस्थो
भाज्येन नित्यं तदध:स्थितश्च।
अहर्गणोऽस्मिन्भगणादयश्च
तष्ट्वा भवेदस्य समीहितं च।।43।।
भाज्यं न्यसेदिति। उपरि स्थाने दृढभाज्यं न्यस्य तस्याधो दृढहारं च विन्यस्य पूर्ववत्परस्परं विभजेत्। तत्र लब्धं फलं चाधोऽध: क्रमेण वल्लीरूपेण स्थापयेत्। यावद्विभक्ते शेषयोरल्पत्वं मतिकल्पना च सुकरा भवति तावदेवं परस्परं विभज्य तत्तत्फलं चाधोऽध: क्रमेण विन्यसेत्। तत्र भाज्यशेषे हारशेषादल्पे सति यत्संख्यया गुणिते....भवति तया संख्यया भाज्यशेषं निहत्य भगणादिशेषं तस्माद्विशोध्य हारशेषेण हरेत्। तत्र लब्धं नि:शेषं फलं भवति। प्रतिप्रति संख्यया स्वोर्ध्वे गतं स्थानं निहत्य त्तस्मिन्नत्यगतं लब्धं विनिक्षिपेत्। पुनरपि शिष्टपदानामुपान्त्ये स्वोर्ध्वे निहत्य प्रक्षिपेत्। एवं पुन: पुन: कुर्यात्। यावद्द्वावेव राशी भवत:। तत्र तयोरुपरिस्थं राशिं दृढहारेण सहाध:स्थितं दृढभाज्येन हरेत्। उभयत्र शिष्टं ग्राह्यम्। तत्रोपरिस्थो द्युगणो भवति। अव:स्थितं तस्माद्घुणाल्लब्धं भगणादि भवति। भगणशेष: पूर्वं शुद्धश्चेद् भगणो राश्यादि: शेष: शुद्धश्चेद् राश्यादिरित्यर्थ:। तदुक्तं-तद्वा भवेद्यस्य समीहितं यदिति। यथाऽहर्गणश्च घटिकारूप: कदाचिदुद्देशकवच नवशाद् भवति।।41।।42।।43।।
रूपं शेषं प्रकल्प्य च कुटाकारकर्म कार्यमित्याह -
रूपमेकमपास्यापि कुट्टाकार: प्रसाध्यते।
गुणकारोऽथ लब्धं च राशी स्यातामुपर्यध:।।44।।
रूपमेकमिति। भगणादिशेषेकमिति प्रकल्प्यैतद्वशाद् मतिं च प्रकल्प्य पूर्ववदहर्गणं भगणादिं चाऽऽनयेत्। पुनस्तेनार्हणेनाभीष्टशेषं निहत्य दृढहारेण हरेत्। तत्र शिष्टमिष्टाहर्गणो भवति। तथा तत्र लब्धं भगणादिसंज्ञितं चाभीष्टाशेषेण निहत्य दृढभाज्येन हरेत्। तत्र लब्धमभीष्टाभगणादिर्भवति।।44।।
उद्दिराश्यादिमानाद्भगणशेषानयनमाह -
इष्टेन शेषमभिहत्य भजेद्दृढाभ्यां
शेषं दिनादि भगणादि च कीर्त्यतेऽत्र।
राश्यादयो निरपवार्जि(र्ति)तवासरघ्ना
राश्यादिमानभजितां प्रवदन्ति शेषम्।।45।।
राश्यादय इति। राशिरुद्दिश्चेतं राशिं दृढवासरेण निहत्य द्वादशभिर्विभजेत्। तत्र लब्धं भगणशेषो भवति। राशिभागश्चोद्दिष्टश्चेद्राशिं भागीकृत्य दृढहारेण निहत्य चकांशैर्विभजेत्। तत्र लब्धं भगणशेषो भवति। राश्यो भागा लिप्ताश्चोद्दिष्टाश्चेत्सर्वं लिप्तीकृत्य दृढहारेण निहत्य चक्रलिप्ताभिर्विभजेत्। तत्र लब्धं भगणशेषो भवति। एवमन्यत्राप्यूह्यम्। अत्रोद्देशक:--
मध्यं रवेर्मृगपतौ धनुरंशकार्घे
दृष्टं मया दिनकरोदयकालजातम्।
आगण्यतां दिनगणो भटतन्त्रसिद्धो
याताश्च तस्य भगणा: कलियातसिद्धा:।।
अत्र राशयश्चत्वार:। भागा अष्टाविंशति: 28। लिप्ता विंशति: 20। एतत्सर्वं कलीकृत्य दृढवासरेण निहत्य चक्रलिप्ताभिर्विभजेत्। तत्र लब्धं भगणशेषो भवति। ते च वस्वष्टरसाङ्गवसव: 86688। एतस्य भगणशेषत्वात्। दृढमगणमुपरि न्यस्य परस्परहरणेन वल्लीमुत्पाद्य भगणशेशवशान्मतिं च प्रकल्पयोक्तिविधिना द्युगणं भगणाख्यं च लब्धं चाऽऽनयेत्। पञ्चवेदत्रिपञ्चाभ्रशशाङ्क 105345 तुल्यो द्युगण:। तत्राऽऽनीतभगणानिव स्पष्टयमलतुल्यानि। अत्र रूपापचयेऽहर्गणदस्त्रखाङ्गाब्धिरन्ध्र94602 तुल्य:। तत्र लब्धं रन्धेषुनेत्र259तुल्य:।।45।।
यत्र राश्यादिमानाभ्यस्तो भाज्यो दृढवासरादिधिको भवति तत्र विशेषमाह-
भाज्योऽधिको यदि भवेत्खलु हारराशे -
स्तत्राधिकं समपनीय तथैव कर्म।
तेनाधिकेन गुणितो गुणकारराशि -
र्युक्तोऽधरेण स भवेत्पृथगत्र लब्धम्।।46।।
भाज्योऽधिक इति। दृढवासराख्याद्धारकाल्लिप्ताद्यात्मके भाज्येऽधिके सति प्रथमं हारेण लिप्तात्मकं भाज्यं हत्वा जातं फलमेकत्र संलक्ष्य पुनर्भाज्यशेषमुपरि न्यस्य तदधो हारं च विन्यस्य पूर्ववत्परस्परहरणं कृत्वा वल्लीं संस्थाप्य मतिं च लब्धं च तदधो विन्यसेत्। पुनरुपान्त्यहननादि कृत्वा राशिद्वयमानीय तयोरुपरि पूर्वमन्यत्र स्थापितं प्रथमफलं विन्यसेत्। तेषु त्रिषु राशिषूपान्त्येन स्वोर्धं(र्घ्वं) निहत्य तस्मिन्नन्त्यं प्रक्षिपेत्। तत्रोर्ध्वगतं लिप्ताद्यात्मकेन भाज्येन हरेत्। तत्र शेषं लिप्ताद्यात्मकं फलं भवति। अध:स्थितं दृढहारेण हरेत्। तत्र शिष्टामहर्गणो भवति। एवं भाज्याधिके विशेष:। उद्देशक: -
नीता रवेर्बलवता मरुता समस्त -
राश्यादयोऽत्र गणिता: सह तत्पराभि:।
शेषो मया परिगत: खलु तत्पराणां
सैकं शतं कथय भानुमहर्गणं च।।
अत्र तत्परा: शेषस्य उद्दिष्टत्वात्तत्परीकृतदृढभगणो भाज्य:। दृढंवासरो हार:। तत्र भाज्यस्याधिकसंख्यत्वात्। प्रथमं भाज्यं दृढहारेण विभज्य तत्र लब्धं फलमेकव निधाय पुनर्भाज्यशेषं दृढहारेयो: परस्परहरेण वल्लीमुत्पाद्य मतिं लब्धं च संपाद्य पुनरुपान्त्यगुणमा(ना) कृत्वा राशिद्वयमुत्पाद्य तयोरुपरि प्रथमहरणेन लब्धं फलं व्योमाद्र्यष्टमयैकयमलै:212870 संकृत्वा (स्कृत्य) राशीनामुपन्त्येन स्वोर्ध्यं निहत्य तस्मिन्नत्यं प्रक्षिपेत्। तत्रोपरिस्थितं तत्परीकृतभाज्यख्यं विन्यस्य तेषां त्रयाणां रा.......न हरेत्। तत्र शेषो भगण:। तत्रैकाब्ध्येकरसव्योमचन्द्र106141तुल्यो द्युगण:। एकरन्ध्रेषुखाष्टानिषनेवषुयमाद्वक 9229480191तुल्यो रवि:। एकावाये तु(?)काङ्गद्व्यष्टगाब्ध्यब्धिचन्द्रतुल्यो द्युगण:। एकनवाब्ध्येकागाङ्गद्व्यष्टखाग्नि3082671491तुल्यं फलम्।।46।।
[1]अथ वारकुट्टाकारे विशेषामाह -
अपवर्तितवासरादिशेषा-
त्क्रमशस्तानपनीय रूपपूर्वम्।
कृतकुट्टनलब्धराशिमेषां
गुणकारं समुशन्ति वारहेतो:।।47।।
अपवर्तितेति। दृढवासरं स्य(स)प्तभिर्विभज्य तत्र शिष्टभाज्यं प्रकल्प्य हारसप्तसप्तसंख्यं प्रकल्प्य दृष्टवारसंख्याहीनामिष्टवारसंख्यां शोध्यं प्रकल्प्य पूर्ववत्कुट्टनकर्माणि कृते यो राशिरहर्गणत्वेन सिद्धो भवति तेन गुणितं दृढवासरं भूताहर्गणे प्रक्षिपेत्। स इष्टवारेऽहर्गणो भवति। अत्र वल्लया अभावे मतिरेव द्युगणराशिर्भवति। उद्देशक: -
धन्वन्यंशा: शरकृतिसमा: षट्कृतिर्मौरिकाणां
भानोर्मध्यं दश च विकलासंयुतं वर्णयन्ति।
रात्रि: पातुस्तनुजदिवसे केन कालेन तुल्यो
भावी सूर्य: कथय विशदं जीवशुकज्ञवारे।।
अत्र भानो राश्यदिकं लिप्तीकृत्य दृढवासरेण सावयवं निहत्य चक्रकलाभिर्विभज्य भगणशेषमानीय तेन दृढवासरभाज्यां च कुट्टाकारकर्म कुर्यात्। तत्र लब्धोऽहर्गण: सहस्रसंख्य:। अस्मिन्नहर्गणे बुधवार:। अतो जीवावासरार्थमेकं शोध्यम्। दृढवासरे सप्तिभिर्भक्ते चत्वारो लब्धा:। अतश्चतु:संख्यो भाज्य:। सप्तसंख्यो हार:। एतै: कुट्टनकर्मणि कृते द्विसंज्ञो राशिर्लभ्यते। तेन द्विसंख्येन गुणितं दृढवासरे पूर्वानकि(त)बुधवासरद्यगुणे प्रक्षिपेत्। तदा जीववारेऽहर्गणो भवति। शुक्रवारविशुध्यं तु द्विसंख्य: शोध्यराशि:। ऊर्ध्वबुधवारसिद्ध्यर्थं सप्तसंख्य: शोध्यराशि:। अन्यत्पूर्ववत।।47।।
÷अथ वेलाकुट्टाकारे विशेषमाह -
छेदभाज्यापवर्तेन यच्छेदस्यातिरिच्यते।
तेन हारं समभ्यस्य वेलाकुट्टस्तु पूर्ववत्।।48।।
प्रक्षिप्य भागहारं कुट्टाहारे पुन: पुन: प्राज्ञै:।
योज्यं च भागलब्धं भाज्ये प्रस्तारयुक्त्यैव।।49।।
छेदेति। उदयादन्यकालजो ग्रहो यदोद्दिष्टो भवति, तत्र वेलाकुट्टाकार्य:। तत्र दिनांशस्य सच्छेद एतावत्यां नाड्यामेवं ग्रह इत्युक्ते नाडिकांशस्य च्छेद: षष्टिसंख्य:। एतावति यामे गत एवमित्युक्ते यामस्य दिनाष्टांशत्वादष्टसंख्यश्छेद:। एवमन्यत्रापि कल्प्यम्। अत्र नाडि कायामुद्दिष्टत्वात्वात्षष्टीसंज्ञो(ष्टिसंख्यो) तं षष्ठी(ष्टि)संज्ञं(ख्यं) दिनांशच्छेद: दृढभाज्यं च परस्परं हृत्वा तत्र शिष्टेन द्वादशसंख्यौ तौ दिनांशच्छेदभाज्यौ हर्तव्यौ। तत्राष्टाचत्वारिंशत्संख्यो भाज्य:। पञ्चसंख्यो भाज्य:। पञ्चसंख्यो दिनांशच्छेद:। सोऽत्र च्छेदातिरिक्त इत्युच्यते। तेन दृढहारं गुणयेत्। सोऽत्र हार: स्यात्। तथा तेन लिप्ताशेषोऽपि हन्तव्य:। सोऽत्र शेष:। अष्टाचत्वारिंशत्संख्यो भाज्य:। अत्र लिप्ताशेषस्योद्दिष्टत्वात्। भाज्योऽपि लिप्तीकृतो ग्राह्य:। तत्र भाज्यहारयो: पुनरप्यपवर्तनसंभवात्। तौ पञ्चभिर्भर्त्त(क्त)व्यौ। तत्र भाज्य: पञ्च5हृत: शून्यरसाग्निसप्तयम 927360संख्यै:। हारो नवाष्टाग्निशून्यकैयम9210389संख्यशेष:। पूर्वगुणेन गुणित उत्तरहारेण हृतश्च प्राग्वदेकसप्तति71संख्य एव। एतै: पूर्ववदहर्गणरवी साध्यौ। न तत्र घटीभूतोऽहर्गणो रामखाक्ष्यग्निसागर 43203तुल्य:। लिप्तीकृतो रविरेकाष्टीष्वक्षिसागर42516112 तुल्य:। अत्र लब्धेऽहर्गणे भगणाद्यात्मके फले च स्वस्वहारं यथेष्टगुणं प्रक्षिप्योद्देशकोक्ताहर्गणभगणाद्या: साध्या:। यावत्प्रक्षिप्यते मया दृष्टोयमित्युद्देशको ब्रवीति तावत्स्वस्वहारं प्रक्षिपेदित्यर्थ:। प्रस्तारयुक्त्या यत्संख्यागुणितो हारोऽहर्गणे प्रक्षिप्यते तत्संख्यागुणित एवहार: फले च प्रक्षेप्य इत्यर्थ:।।48।।49।।
गन्तव्य उद्दिष्टे तत्र विशेषमाह -
गन्तव्यमिष्टं यदि कस्यचित्स्या -
द्गन्तव्ययोगाद्दिमेव कर्म।
रूपेण वा योऽन्यविधिर्विचिन्त्य
सर्व समानं खलु लक्षणेन।।50।।
गन्तव्यमिति। गन्तव्य उद्दिष्टे सति भगणादेर्गव्यं शेषं प्रकल्प्य पूवर्वद्वल्लीमुत्पाद्य तत्र भाज्यशेषे यत्संख्यया गुणिते गन्तव्यशेषं तस्मिन्प्रक्षिप्य हारशेषेण भक्ते विशेषं फलं भवति तत्संख्यां मतिं प्रकल्प्य तत्राऽऽप्तं लब्धं च प्रकल्प्य पूर्ववत्कुट्टारकारकर्म कृत्वाऽहर्गणं फलं चाऽऽनयेत्। तत्र फलमेकहीनं स्फुटं भवति। अन्यत्सर्वं पूर्ववदेव। उद्देशक: -
गन्तव्यं रविणाऽष्टमस्य भवनस्याऽऽहु: का(क)लानां शतं
संचिन्त्याऽऽशु पदात्मकस्य गणितं ज्ञातं त्वया चेदिह।
यावन्त्यत्र कलेर्गतानि मतिन्सर्वाणि वर्षाणि मे
त्वंहा(त्वह्नां) यश्च गण: स चैव विशदं वाच्य: कलेर्यो गत:।।
अत्र पूर्ववदानीतं मण्डलं गन्तव्यं वेदव्योमशशाङ्कैकाद्रि7111040तुल्यम्। तत्रैकहीनो भगणो गतभगण: स्यात्। अत्रापि पूर्ववद्रूपसंख्यं क्षेप्यं प्रकल्प्य राशिद्वयमानीय पुनरिष्टगन्तव्यशेषेण निहत्य स्वस्वहारेण विभज्य शेषौ वाऽहर्गणभगणौ भवत:। तदुक्तं रूपेण वेति।।50।।
ग्रहयोगे तदन्तरे वोद्दिष्टविशेषमाह -
योगेषु तेषां भगणादियोगै: -
र्विशेषितैर्वाऽपि तथा विशेषे।
अन्योऽन्यशेषादपि चिन्तनीय -
मिष्टग्रहस्पष्टगणैर्विधानम्।।51।।
इति महाभास्करीये कर्मनिबन्धे प्रथमोऽध्याय:।।1।।
-----------
योगेषु तेषामिति। यत्र ग्रहयोर्ग्रहाणां वा योग उद्दिष्टस्तत्र तयोर्ग्रहयोस्तेषां वा भगणयोगो भाज्य:। भूदिवस: एव हार:। भगणादिशेषयोग: शेषग्रहाना(न्त)र उद्दिष्टे भग[णा]न्तरं भाज(ज्यं) भूदिवसो हार: कर्तव्य:। योग उद्देशक: -
पञ्चसप्तनवभौमशशङ्कौ राशिपूर्वगणितौ समवेतौ।
उच्यतां दिनगमाशशिभौमौ कीदृशौ च भटतन्त्रविदाशु।।52।।
अत्र राशियोग: पञ्चसंख्य:। भागयोग: सप्तसंख्य:। लिप्तायोगेऽत्र भाज्य:। भूदिवसो हार:। ताभ्यामपवर्तिताभ्यामिह कर्म क्रियते। तत्र जातो द्विगुणशून्यरन्ध्रकृताद्रीषुचन्द्रव्योमेन्दु 1015749032संख्यक:।
विशेष उद्देशक: -
भौमश(शु)क्रगुरुमध्यविशेष पञ्चराशिगणित: परिपूर्ण:।
उच्यते दिनगण: कलियातो देवमन्त्रिरुधिरौ च कि(कि)यतौ(न्तौ)।
कुजजीवभगणोर्वि(णवि)शेषोऽत्र भाज्य:। भूदिवसो हारक:। तस्मामपवर्तिताभ्यामत्र कर्म कार्यम्। अत्र जातोऽहर्गण: षध्यो(पञ्चव्यो)मषट्रात्रिरा मेन्दुचन्द्र (1133605)तुल्य:। अन्योन्यशेषादित्यादिना साग्रकुट्टाकार विधानं चिन्तनीयमिति इह सूचितम्। स कुट्टाकारविधिर्गोविन्दस्वामिकृते भाष्ये द्रष्टव्य:। तद्भाष्यस्य व्याख्यायां तत्प्रयोगो मया व्याख्यातश्च।।52।।
इति परमेश्वरकृतायां कर्मदीपिकायां
प्रथमोऽध्याय:।।1।।