।।श्री:।।
भास्कराचार्यविरचि‍तं
लघुभास्करीयम्

शङ्करनारायणकृतविवरणेन समलङ्कृतम्।
अथ सप्तमोऽध्याय:।

अथेदानीं शुक्रादीनामुदयास्तमयं ग्रहयुद्धं चोपदिदिक्षुराह –

कृतदर्शनसंस्कारो भार्गवोऽर्कान्तरस्थितै:।
अंशकैर्नवभिस्तेभ्यो द्व्यधिकैद्वर्यधिकै: क्रमात्।।1।।

दृश्यते सूरिवित्सौरिमाहेया निर्मलेऽम्बरे।
कालभागा दिगभ्यस्ता विज्ञेयास्ता विनाडिका:।।2।।

स्फुटादित्यस्य पृष्ठतोऽग्रतो वा (S1 om अष्टभिः)अष्टभिर्नवभिर्दशभिर्वान्तरितक्षेत्रभागै: शुक्रस्फुटं सकलं कृत्वा शुक्रस्य शीघ्रोच्चमप्यनष्टं क्वचिद्विन्यस्य शुक्रमन्दस्फुटकर्णमविशिष्टमपि गृहीत्वा तस्यैवान्त्यशीघ्रस्फुटकर्णमपि सकृदानीतं च गृहीत्वा तयोर्मन्दशीघ्रकर्णयो: एकेनान्यमभिहत्य व्यासार्धेन हृत्वा फलमिह भूताराग्रहविवरं नाम भागहार: स्यात् ताराग्रहस्य च घनभूमध्यस्य चान्तरमिति यावत्। एवंविधं भागहारमप्यानीय क्वचिद्विन्यस्य (S1 शुक्रनीचोच्चाप) शुक्रशीघ्रोच्चाद्राशिद्वयं पातसंज्ञं विशोद्ध्य सौम्यदक्षिणलक्षणां दिशं चोपलक्ष्यां भुजामौर्वीमादाय विक्षेपलिपताभि: शून्याश्विचन्द्राभिरभिहत्य भूताराग्रहविवरभागहारेण विभज्य तत्कालविक्षेपलिप्ताश्चादाय चन्द्रस्योक्तन्यायेन विक्षेपलिप्ता: प्रतिराश्याक्षज्यया हत्वा लम्बकेन विभज्य लब्धमुदयास्तमयज्ययोरुक्तमार्गेण शुक्रस्फुटे धनर्णं कृत्वा पुन: प्रतिराश्यायनमुपलक्ष्य त्रिराश्यूनोत्क्रमभुजज्यामादाय तया विक्षेपलिप्तां प्रतिराशित, संगुणय्य पुनरपि तदेव परमापक्रमज्यया हत्वा व्यासार्धकृत्या विभज्य फलं शुक्रस्फुटे लिप्तासु विलिप्तासु वा शुक्रायनविक्षेपदिक्साम्ये विशोध्य भिन्नयो: क्षिप्त्वा वा भार्गव: कृतदशर्नसंस्कार: स्यात्। एवमन्येषामपि स्वविक्षेपवशाद्दर्शनस्फुटद्वये कृते सत्ति कृतदर्शनसंस्कारा: स्यु:। पातभागाश्च विक्षेपज्याश्च स्वयमेवोत्तरत्र वक्ष्यति भागहारं च। एवं कृतदर्शनसंस्कारयुक्त: शुक्र: कालभागै: नवभिरन्तरित: सूर्यात्तदानीं द्रष्टुं शक्यो भवति। एतदुक्तं भवति-सूर्यस्य पृष्ठतोऽग्रतो वा कालभागैर्नवभिरुदयास्तमयौ करोति भार्गव इति। तेभ्यो द्व्यधिकैद्वर्यधिकै: क्रमादिति नवभ्यो द्वौ क्षिप्त्वा एकादशत्वमापाद्य कालभागैरेकादशभि: बृहस्पतिरुदयास्तमयौ करोति। तेभ्यो द्व्यधिकै: त्रयोदशभि: बुध: करोति। तेभ्यो द्व्यधिकै: पञ्चदशभि: सौरि:। ततो द्व्यधिकै: सप्तदशभिर्महीपुत्र:। क्व दृश्यत इति चेन्निर्मलेऽम्बरे। शुक्रस्य तु पुन: वक्रनिमित्तोदयास्तमयविषयेऽर्धपञ्चमैरेवोद-यास्तमयमिष्यते। तथा स्वयमेव बृहति कर्मनिबन्धे वक्ष्यति। कथम्।

'प्रपन्नवक: सद्वर्त्म सितो दृश्योऽर्धपञ्चमै:

चतुर्भिर्वांऽशुमालित्वाद्'

इति। चतुर्भिरंशैरपि तजोऽधिकत्वात् कदाचित् करोतीत्युक्तम्। कालभागा दिगभ्यस्ता विज्ञेयास्ता विनाडिका इत्यत्र क्षेत्रभागैर्विना कालभागैरेवोक्त: नवादिभिर्दृश्यन्त इत्येतत् कालभागानां लक्षणमुच्यते। कथम्। दिगभ्यस्ता विनाडिका इति दशभिरभिहता इत्यर्थ:। एतदुक्तं भवति-नवत्या विनाडिकाया: शुक्रो दृश्यत इति। एवमन्येषामपि दशभिस्त्रिंशता पञ्चाशता सप्तत्या प्रत्येकं शतसहिताभिर्विनाडिकाभि: सूरिप्रभृतयो दृश्यन्त इति व्याख्यातम्।।1-2।।

अथेदानीं कालूभागविनाडिकावगमनार्थमाह –

राशेस्तत्यैव पूर्वस्यां सप्तमस्यापरोदये।
स्वदेशभोदयै: कालं ज्ञात्वा दर्शनमाविशेत्।।3।।

आदित्यताराग्रहान्तरप्राणानयनं द्विविधम्। कथम्। प्राच्यां दिश्येकं, पश्चिमस्यां द्वितीयम्। पूर्वं तावत्पूर्वस्यां वक्ष्याम:। यस्मिन् राशावादित्यग्रहौ तिष्ठत: तत्राधिकाद्धीनमपनीय विवरं लिप्तीकृत्य तद्राशिप्राणसमूहेन स्वदेशजेन हत्वा तदेकराशिलिप्ताभिर्विभज्य यत्फलमानीयते तत् पुनष्षड्भिर्विभज्य तारापिते सति विनाडिका भवन्ति। तासां विनाडिकानां नवत्यादिसंख्या शुक्रादीनां सम्भवतीति चेत् तदानीमुदयास्तमयौ स्याताम्। अथ पश्चिमोदयास्तमये भानुताराग्रहान्तरलिप्ता: तत: सप्तमराशिप्राणसङ्ख्यया हत्वा राशिलिप्ताभि: खखाष्टचन्द्राभिरेव विभज्य फलमानीय षड्भिरारोप्य विनाडिकासङ्ख्यया द्व्यधिकद्व्यधिकक्रमोत्पन्नता नवत्या गुणितया पूर्ववदुदयास्तमयौ भवत इत्यर्थ:। उदयस्य वशादस्तमयन्ते राशय इत्युक्तत्वात् पश्चिमदिग्गतस्य सप्तमराशित्रैराशिकमुच्यते। एवं स्वदेशोदयै: त्रैराशिकं (S2.3 कालावगमहमवगम्य)कृत्वान्तर-कालान्तरमवगम्य दर्शनमादेष्टव्यमिति व्याख्यातम्।।3।।

अथेदानीं ग्रहयुद्धस्वरूपमुपदिदिक्षुराह –

इष्टग्रहान्तरं भाज्यं प्रतिलोमानुलोमगम्।
भुक्तियोगविशेषेण दिनादिस्तत्र लभ्यते।।4।।

एकस्मिन् राशौ द्वौ ताराग्रहौ यदा प्रविष्टौ प्रतिष्ठत: तदानीं तौ स्फुटौ कृत्वा पुनर्दर्शनसंस्कारमपि तयो: कृत्वा तयो: स्फुटभुक्तिर्द्धे गृहीत्वा क्वचिद्विन्यस्य तत्राधिकाद्धीनमपोह्य शेषं लिप्तीकृत्य तयो: स्फुटभुक्तिविशेषेण च वक्रकाले भुक्तियोगेन वा विभज्य यत्फलं (S1 गृह्यते दिनीदिस्त्रयोदशकाल,S3 ¬गृह्यते दिनादिस्त्र योगकाल।)गृह्यते तत्रापि भुक्तिद्वयमपोह्म दिनादिस्तत्र योगकाल इति पूर्वमवगम्य (S1.3तदानी तेन)पुनस्तदानीन्तनेन कालेन स्फुटौ कृत्वा तत्रापि भुक्तिद्वयमापाद्य तावुभौ समलिप्तौ कार्यौ।।4।।

तदर्थमधुना समकलीकरणमाह –

स्फुटभुक्त्यानुपाताप्तकलेनासन्नयोगिनाम्।
ग्रहाणां शुद्धिकल्पाभ्यां कुर्यात्समकलावुभौ।।5।।

एवं योगकालासन्नस्फुटौ कृत्वा पुनरप्यन्तरलिप्ताभि: पूर्ववद्दिनादि वा घटिकादि वा फलमानीय तत्र दिनानि सन्ति चेत्पुनरप्यहर्गणे तद्दिनानि प्रक्षिप्य मध्यमानयनादिस्फुटं सकलं कृत्वा घटिकादिभिर्भूयोऽपि तत्कालोकृत्य समकलौ कर्तव्यौ। तद्यथा - आसन्नयोगिनामन्तरलिप्ताभि: घटिकादिफलं पूर्व गृहीत्वा सर्वं प्राणपिण्डमापाद्य तदुभयत्र विन्यस्य द्वाभ्यां स्फुटभुक्तिभ्यामुभयं संहृत्याहोरात्रसुना खखषड्घनेन विभज्य लिप्तादि वा विलिप्तादि वा स्फुटभुक्तिवशादादाय तत्तत्फलमुभयो: स्फुटयो: शुद्धिकल्पाभ्यां समकलौ भवत:। क्व शुद्धि: क्रियते क्व वा कल्प इति चेत् अतीतयोगिनो: शुद्धि:, अथ भविष्यद्योगिनो: प्रक्षेप:। कल्प: प्रक्षेप इत्यर्थ:।।5।।

अथेदानीं समकलयो: विक्षेपानयनमाह –

पातभागास्ततश्शोद्ध्या: शीघ्रोच्चात्सितसौम्ययो:।
कृतद्व्यष्टर्तुककुभो दिग्गुणास्ते कुजादिका:।।6।।

अस्य पूर्वमेव व्याख्यातार्थत्वात् विशेष: कथ्यते। कृतद्वि-अष्ट-ऋतु-ककुभ-इत्येतानि पृथग् पृथगवस्थाप्य प्रत्येकं दशगुणं कृत्वा ये भागास्तत्र दृष्टा: तास्त्रिंशद्भिरारोप्य ये राश्यादयो दृश्यन्ते त इह कुजादीनां पञ्चानां पाता भवन्ति। तत्र कुजस्य वृषभराशौ दशभागगत: बुधस्य मेषे विंशतिभागगत:, जीवस्य तावत् मिथुने विंशतिभागस्थिति:, शुक्रस्य वृषभान्त्य:, शनैश्चरस्य कर्कटे दशभागयुत:, एवं कुजादीनां नित्या: पाता: पठिता:। एते ग्रहाणां शोधनीया: स्फुटेभ्य:। अथ सितसौम्ययो: शीघ्रोच्चाभ्यां शोद्ध्यौ। पुनरेतेषां पातानां सप्तमराशावपि स्थितिरेवमेव। एतदुक्तं भवति- यथा चन्द्रस्य पातं चन्द्राद्विशोद्ध्य दिशमुपलक्ष्य भुजाजीवामादाय विक्षेपज्यया हृत्वा व्यासार्धेन विभज्य तद्विक्षेपं गृह्यते तद्वदेतेषामति क्षेपो ग्राह्य इति। अत्रेयान्विशेष: भूताराग्रहविवरो भागहार इति।।6।।

अथेदानीं पातं विशोद्ध्य विक्षेपग्रहणार्थमाह –

नवार्कर्त्वर्करवयो दशघ्ना: (A B F क्षिप्तिलिप्तिका, D क्षेपलिप्तिका)क्षिप्तिलिप्तिका:।
पाताशोनभूजामौर्वी संगुणा: सौम्यदक्षिणा:।।7।।

नव अर्क ऋतु अर्क रवि इत्येता लिप्ता विन्यस्य दशगुणं सर्वासां कृत्वा यावत्यो लिप्ता दृश्यन्ते ता इहैतेषां परमविक्षेपज्या भवन्ति। पातशुद्धस्फुटग्रहसौम्यदक्षिणदिगागतभुजाजीवानां गुणकारा भवन्तीत्यर्थ:। तत्राप्तमिष्टविक्षेपलिप्ता: स्यु:।।7।।

अथेदानीं विक्षेपभागहारं वर्णयितुमाह-

विष्कम्भार्धहृतो घातो मन्दशीघ्रोच्चकर्णयो:।
भूताराग्रहविवरं भागहार: प्रकीर्तित:।।8।।

तृतीयमन्दस्फुटकर्ण चतुर्थशीघ्रस्फुटकर्णेन हत्वा व्यासार्धेन विभज्य लब्धमिह विक्षेपानयनविषये भागहार इति पूर्वमेव प्रसङ्गादुक्तम्।।8।।

अथेदानीं समलिप्ताग्रहयोरन्तरमुपदिदिक्षुराह –

विक्षेपलिप्तिका लब्धास्ताभिरन्तरमिष्टयो:।
एकदिक्त्वे विशिष्टभिर्युक्ताभिर्भिन्नदिक्कयो:।।9।।

चतुर्भागाङ्गुला लिप्ता ग्रहयोरन्तरं स्फुटम्।
वर्णरश्मिप्रभायोगादूह्यं वान्यत्स्वया धिया।।10।।

स्वं स्वं पातं स्वस्माद्विशोध्य शीघ्रोच्चाभ्यां सितसौम्ययोर्विशोद्ध्य वा पूर्वोक्तेन मार्गेण विक्षेपलिप्ताश्चादाय द्वयोर्विक्षेपयोर्दिक्साम्ये सति हीनमविकाद्विशोद्ध्य भिन्नदिक्कयोर्योगं वा कृत्वा पुनश्चतुर्भिर्विभज्य यत्फलं गृह्यते तदङ्गुलानि ग्रहयोरन्तरक्षेत्रस्थानि भवन्ति। चतुर्विंशत्यङ्गुलैरेको हस्तो गृह्यते। एवंविधैर्हस्तादिमानैरन्तमादेष्टव्यम्। तत्र विक्षेपवशादुत्तरदक्षिणस्थितिरादेष्टव्या। कुत:। उत्तरविक्षेपस्योत्तरेणैव अथ दक्षिणस्य दक्षिणेनैव। पुनरेकदिग्विक्षेपयोरधिकविक्षेपस्य तस्यामेव दिशि तावदधिकं विक्षेपं कृत्वा तिष्ठतीति वक्तव्य:। तत्र वर्णरश्मिप्रभायोगादपि स्वधिया स्वप्रज्ञया वाभ्यूह्य तावुभावहरहर्दृष्ट्या चान्यत् सर्वमालोच्य वक्तव्यम्। अत्रापि श्रीरविवर्मदेव:

कदाचित्

ग्रहयुद्धविज्ञानप्रकटनार्थमाह –

चापप्रविष्टगुरुसौरिसमत्वकालं

याम्योत्तरं गमनमन्तरखप्रमाणम्।

आचक्ष्व सर्वमवगम्य भटोक्तमार्गा-

दित्युक्तवान् रविरशेषनृपाभिवन्द्य:।।

तदा पञ्चविंशतिवर्षाण्यतीतानि देवस्य।।9-10।।

इति शङ्करनारायणीये भास्करीयविवरणे

सप्तमोऽध्याय:।।