ग्रहणद्वयमुक्त्वेदानीं पौर्णमास्याद्युपदिदिक्षुराह-
विक्षेपज्यां क्षपाभर्तुरक्षज्याक्षुण्णविग्रहाम्।
लम्बकेन हरेल्लब्धं विशोद्ध्यं तत्स्फुटेन्दुत:।।1।।
अनेन दर्शनस्फुटमेकमुच्यते। कथम्। पूर्वपक्षप्रतिपदि चन्द्रस्फुटमपराह्णकरणमुक्तेन प्रकारेण चतुःस्फुटं कृत्वा तदनन्तरं इदं दर्शनस्फुटमारभ्यते। तद्यथा तदानीमेव पातस्फुटं कृत्वा स्फुटचन्द्रात्पात विशोध्य दिशमुपलक्ष्य भुजाज्यामानीतां खत्रिधनेन हत्वा व्यासार्धेन विभज्य यत्फलमवाप्यते तद्विक्षेपज्या नाम सर्वदा भवति। तां विक्षेपज्यां क्षपाभर्तु: निशानाथस्याक्षज्यया हत्वावलम्बकेन विभज्य यत्फलमिह गृह्यते तत्स्फुटेन्दो: शोध्यते क्षिप्यते च।।1।।
कदा शोधनं कदा क्षेपणमित्यत आह –
उदये सौम्यविक्षेपे देयमस्तमये सदा।
व्यस्तं तद्याम्यविक्षेपे कार्य स्यादुदयास्तयो:।।2।।
उदयकरणे सौम्यविक्षेपे सति शोध्यम्, अथापराह्णकरणे सौम्यविक्षेपे सति देयं विक्षेप्यमित्यर्थ:। अथ याम्यविक्षेपे सति व्यस्तं भवति विपरीतं भवतीति यावत्। एवदुक्तं भवीत उदयशोधनक्षेपणद्वयं (S1 क्षेपणक्षेपस्य)क्षेपणशोधनं स्यादिति।।2।। एवमेकं लिप्तादि संस्कारदर्शनस्फुटमुक्त्वेदानीं द्वितीयं दर्शनस्फुटमुपदिदिक्षुराह –
त्रिराश्यूनोत्क्रमक्षुण्णां तत्कालक्षिप्तिमाहताम्।
क्रान्त्या परमया भूयो हरेद्व्यासदलस्य ताम्।।3।।
कृत्या लब्धकला: शोध्या विक्षेपायनयोर्दिशो:।
तुल्ययोर्व्यत्यये क्षेप्यं (B शीताशी)शीतांशौ तत्फलं सदा।।4।।
एवं स्फुटेन्दुं प्रतिराश्य तस्मात् स्फुटेन्दोरयनस्य दिशमुपलक्ष्य पुना राशित्रयमपनीय तस्मात् भुजोत्क्रमज्यामादाय (S1 omits this word)तया पूर्वानीतां विक्षेपज्यां प्रतिराशितां हत्वा तया विक्षेपज्यां गुणितां पुनरपि परमापक्रमज्यया हत्वा व्यासार्धकृत्वा विभज्य यत्फलमवाप्यते तल्लिप्तादिफलं स्फुटेन्दो: शोध्यं क्षेप्यं च भवति। कदा क्षेप्यं कदा शोध्यमिति चेत् विक्षेपायनदिशौ यदि तुल्ये स्यातां तत्र शोध्यं, अथ भिन्ने स्यातां तदा क्षेप्यम्। कस्मिन् शोधनक्षेपणं क्रियत इति चेत् शीतांशावेव। एतदुक्तं भवति दर्शनस्फुटद्वयमकृत्वा द्रष्टुमशक्यमिति। किमिदं दर्शनस्फुटमिन्दो: स्फुटगतिज्ञानार्थमुत (दर्शनार्थम्)। दर्शनार्थमेव। अत एव ग्रहणविषये स्फुटद्वयमिदं न विधीयते। अन्येषामङ्गारकादीनामपि दर्शनस्फुटद्वयसंस्कारः कर्तव्य एव। तदर्थमुत्तरत्र तेषां पाता विक्षेपाश्च पठ्यन्ते।।3-4।।
अथेदानीं दर्शनकालावगमनायाह –
एवं कर्मक्रमात्सिद्धो दृश्यतेऽन्तरित: शशी।
भागैर्द्वादशभिस्सूर्याद्व्यभ्रे नभसि निर्मले।।5।।
एवं षड्भि: स्फुटै: संस्कृतश्चन्द्रमा: सूर्याद् द्वादशभि: कालभागै: अन्तरितो विगतघनपटले गगनतले निर्मले दृश्यते। के पुनरिह कालभागा इति कथ्यन्ते। ये नाडिकायामेकायां षड्भागा: प्राच्यामुद्गच्छन्ति ते कालभागा इत्युच्यते। तेषां कथमवगत्तिरिति चेत् अस्तमयकरणानीतस्फुटसूर्यस्याभुक्तप्राणान् पूर्वोक्तमार्गेणानीय चन्द्रस्य पुनर्भुक्तगतभागप्राणानपि तद्वदानीय रव्यभुक्तप्राणसंयोगे कृते सति तान् सर्वान् प्राणान् षड्भि: षष्ट्या च विभज्य या घटिका: षष्ट्या विनाडिकासङ्ख्यया गृह्यन्ते तादृग्विधाभ्यां घटिकाभ्यां द्वाभ्यां सूर्यादन्तरितक्षेत्रगत: चन्द्रमा दृश्यत इत्यर्थ:। एतदुक्तं भवति-दशभिर्विनाडिकाभि: कालभाग एको भवतीति।।5।।
अथेदानीं शृङ्गोन्नतिमुपदिदिक्षु: पूर्व तदर्थं चन्द्रसितासितमानमवगन्तुमाह –
अन्तरांशोत्क्रमां (A B D जीवास्फुटेन्दु।)जीवां स्फुटेन्दुव्यासताडिताम्।
षण्णगाष्टरसैर्हृत्वा सितमानं पदाधिके।।6।।
क्रमज्यामधिकोत्पन्नां त्रिज्ययायोज्य तत्सितम्।
आनयेदसितेऽप्येवमुत्क्रमक्रमतोऽसितम्।।7।।
अस्तमयकालानीतसूर्यं चन्द्रं च स्फुटौ कृत्वा स्फुटेन्दो: स्फुटसूर्यमपोह्य शेषं राशित्रयादर्वागन्तरांशात् लिप्तीकृत्य मख्या विभज्य उत्क्रमज्यामादाय तया स्फुटेन्दुलिप्ताव्यासं पूर्ववदानीतं हत्वा गोलव्यासेन (6876)षण्णगाष्टरस इत्यनेन विभज्य यत्फलमवाप्यते तल्लिप्तादिसितमानं भवति। एवं सितानयनं पदादूनेऽर्कचन्द्रान्तरे पुन: पदाधिके सति राशित्रयं पूर्वं त्यक्त्वा द्वितीयपदात्क्रमज्यां पूर्ववत्पूर्वं गृहीत्वा त्रिज्यया तां संयुज्य तयेन्दुलिप्ताव्यासं हत्वा तेनैव षण्णगाष्टरसेन विभज्य सितमानेतव्यम्। किमिह सितासितमित्युच्यते। चन्द्रस्य (S1 पूर्वपक्षानीत)पूर्वपक्षेऽहरह: शुक्लवृद्धिरित्यर्थ:। तस्मात्पदाधिकेऽन्तरे क्रमज्यया व्यासार्धयुक्तया सितानयनमुच्यते। अर्कात् षड्राश्यन्तरगतस्येन्दो: सितपूर्णबिम्बत्वात्। एतदुक्तं भवति -- अष्टम्या: परत: क्रमज्यायुतत्रिज्यया सितमानीयत इति। एवमपरपक्षेऽप्यसितानयनमिष्यते। कथम्। अपरपक्षे तावत् पूर्वपक्षातीतराशिषट्कं चन्द्रादर्कस्फुटहीनादपोह्य तृतीयपदादुत्क्रमज्यां गृहीत्वा तया चन्द्रबिम्बं हत्वा षण्णगाष्टरसेनैव भक्त्वा यदवाप्यते तदसितं नाम भवति। पुनस्तत्रैव पदाधिके सति तत्रोत्पन्नक्रमज्यायुतत्रिज्यया च तदानीयते। तदर्थमुक्तम् –
"आनयेदसितेऽप्येवमुत्क्रमक्रमतोऽसितम्।''
इति।।6-7।।
एवं पूर्वापरपक्षयो: सितासितानयनमुक्त्वेदानीं चन्द्रशङ्क्वग्रमप्यानेतुमाह –
अन्तरालासुभि: कार्यश्चन्द्रभूज्याचरासुभि:।
शङ्कु: शङ्क्वग्रमप्यस्मात् साध्यते नित्यदक्षिणम्।।8।।
चन्द्रादित्यान्तरासून् पूर्ववदानीय तैश्चन्द्रभूज्याचरासुभिश्च त्रिप्रश्नाध्यायविहितन्यायेनैव शङ्कुशङ्क्वग्र आनेतव्य इत्यर्थ:। कथं शङ्क्वग्रानयनं अष्टम्या: परत: (S2.3 पदाभ्यधिकत्वात्तदन्तरासूनाम्।)पदाधिकत्वात्तदन्तरासूनाम्। तत्रैवं कर्तव्यम्–अस्तमयकालानीतप्राग्विलग्नचन्द्रन्तरासुभि: शङ्कुरानीयते। कुत:। शङ्क्वानयनमुभयकपालविषये गतगन्तव्यासुभिर्विहितत्वात्।।8।।
(S1 चन्द्रभूजज्या)चन्द्रभूज्याचरासूनामानयनं कथमित्यत आह –
विक्षेपक्रान्तिधनुषो: भिन्नतुल्यस्य दिग्वशात्।
विश्लेषयोगजा जीवा सेन्दो: क्रान्तिस्तत: स्फुटा।।9।।
स्वाहोरात्रादयस्साद्ध्या व्यासार्धाभिहतां हरेत्।
लम्बकेन शशिक्रान्ति (Mss. इन्द्रग्रम्।)मिन्द्वग्रा तत्र लभ्यते।।10।।
यस्मिन् काले चन्द्रस्फुटं क्रियते तस्मिन्नेव काले पातस्फुटमपि कृत्वा तस्मादेव चन्द्रात्पातं विशोद्ध्यं दिशमुपलक्ष्य प्राग्वद्विक्षेपज्यामानीय काष्ठीकृत्य पुनस्तस्मादेव चन्द्रादादित्योक्तन्यायेन सौम्यद्विक्षणामिष्टापक्रमजीवां चानीय काष्ठीकृत्य तयो: काष्ठयोर्योगं वियोगं वा कृत्वा तुल्यभिन्नस्वदिग्वशात् पुनस्तस्माज्जीवा या गृह्यते सेह चन्द्रस्यापक्रान्तिरित्युच्यते। अथ तस्मात् स्वाहोरात्रादस्साद्ध्या:। कथमिति चेन् तां चन्द्रेष्टापक्रान्तिंा प्रतिराश्य वर्गीकृत्य व्यासार्धवर्गादपोह्य यन्मूलं गृह्यते स्वाहोरात्रार्धं भवति। पुनस्तामपक्रान्तिमक्षज्यया हत्वा लम्बकेनैव विभज्य क्षितिज्या नाम गृह्यते। पुनस्तामेव क्षितिज्यां प्रतिराशीकृत्य व्यासार्धेन हत्वा स्वाहोरात्रदलेन स्वेनैव विभज्य यत्फलं तच्चरजीवार्धं स्यात्। (S1.2 तत्तकाष्ठीकृतबिन्दोः)तत्काष्ठीकृत्य बिन्दोश्चरासवो भवन्ति। तैरेवं विधै: चन्द्रशङ्कुरानीयत इत्यर्थ:। पुनरिन्द्वग्रापि चन्द्रकान्ति व्यासार्धेन हत्वा लम्बकेन विभज्य यदवाप्यते तेह स्यात्। तस्यास्तावद्दिगपि चन्द्रस्य क्रान्तिवशात् सौम्यदक्षिणा भवति।।9-10।।
एवं चन्द्रशङ्कुशङ्क्वगचन्द्राग्राश्च समानीयानष्टं विन्यस्य बाह्वानयनार्थमाह –
शङ्क्वग्रतुल्यदिक्त्वे स्याद्युक्तं विश्लिष्टमन्यथा।
अर्काग्रा तद्विशेष: स्यात् तुल्यदिक्त्वेऽन्यथा युति:।।11।।
एवं सिद्धो भवेद्बाहुरर्कात्सम्यक् प्रसार्यते।
कोटिसूत्रं तदग्रोत्थमत्स्यपुच्छास्यनिस्सृतम्।।12।।
इन्द्वग्रायां शंक्वग्रतुल्यदिक्त्वे सति युक्त्वा अन्यथा विश्लेषं वा कृत्वा पुन: स्फुटादित्यात् भुजाज्यामादाय परमापक्रमज्यया हत्वा लम्बकेन विभज्यार्काग्रामानीय दिशं चोपलक्ष्यार्काग्रया तुल्यदिक्त्वे विश्लेषं भिन्नदिक्त्वे सति योगं वा कृत्वा य एवं सिद्धो भवेत् बाहुरिति स उच्यते। अर्कात्सम्यक् प्रासार्यत इत्यादि यदुच्यते तच्छृङ्गोन्नतिस्वरूपपरिलेखनमार्ग इत्यवगन्तव्यम्। तत्कथम्। बाहु: कोटिश्च सितमानं चन्द्रबिम्बं च चत्वारि साधनान्यर्धीकृत्याङ्गुलान्यापाद्य समायामवनौ पूर्वपश्चिमदिग्भागे बिन्दुमेकमर्क इति संकल्प्य (S1.3 omit this word.)ते कृत्वा तस्मादर्कात् दक्षिणेनोत्तरेण वा स्वदिग्वशाद्वाहुप्रमाणपरिकल्पितसूत्रं नीयते। पुनस्तदग्रे बिन्दुं कृत्वा तस्माद्बिन्दोर्दक्षिणोत्तरबिन्दू तुल्यान्तरौ कृत्वा ताभ्यां बिन्दुभ्यां पूर्वापरायतं मत्स्यमालिख्य पुच्छानुसारि सूत्रं दूरतो नीत्वा तस्मिन्सूत्रे कोटिप्रमाणप्रमितं सूत्रं बाह्वग्रबिन्दोरादिपूर्वतो नीत्वा तदग्रे बिन्दुरेको ग्राह्य:। अत इदमुक्तम् –
"कोटिसूत्रं तदग्रोत्थमत्स्यपुच्छास्यनि: सृतम्" इति।।11-12।।
का पुनरिह कोटिरिति गृह्यत इत्यत आह –
चन्द्रशङ्कुमिता कोटि : पूर्वतो नीयते (A B F H स्फुटम्)स्फुटा।
तद्भुजानस्तकासक्तं कर्णसूत्रं विनिर्गतम्।।13।।
चन्द्रस्य य: शङ्कुरानीयते स पुनरिह कोटिरित्युच्यते। सेह बाह्वग्रसस्यादित(S1 स्यग्ध।)मत्स्यमध्यस्थबिन्दुत: पूर्वतो नीत्वा तदग्रे पूर्वापरसूत्रे प्रथमपरिकल्पिते बिन्दु कृत्वा पुनरर्कबिन्दो: कोट्यग्रबिन्दुप्रापि तिर्यक्कर्णसूत्रं प्रसार्य कर्णकोट्यग्रसंयोगबिन्दु कृत्वा तस्माद्विन्दोस्समन्तत: चन्द्रबिम्बमालिख्यते।।13।।
तदर्थमाह –
कर्णकोट्यग्रसम्पाते केन्द्रेणालिख्यते शशी।
कर्णानुसारतस्तस्य सितमन्त: प्रवेश्यते।।14।।
एवं कर्णकोट्यग्रयोगबिन्दु पूर्व कृत्वा चन्द्रबिम्बव्यासलिप्तार्धाङ्गुलप्रमाण-विदारितकर्कटकैकशृङ्गं तस्मिन् बिन्दौ विन्यस्य (S1 वृत्तमालिख्य तच्चचन्द्रबिम्ब भवति। तच्च द्रबिम्बकर्णानुसारि।)वृत्तामालिखितं चन्द्रबिम्बं भवति। तस्मिन् चन्द्रबिम्बं कर्णानुसारि सितमानं बाह्यवृत्तादन्त: कर्णसूत्रं प्रवेश्य तदग्रे बिन्दु कृत्वा पुन: शृङ्गद्वयबिन्दुग्रहणार्थमाह –
(A D कर्णात् पूर्वापरे।)कर्ण: पूर्वापरे काष्ठे (C H
तन्मस्तयास्सौम्यदक्षिणे।)तन्मत्स्याद्दक्षिणोत्तरे।
दक्षिणोत्तरयो(C Dबिन्दुस्तृतीयः)र्बिन्दू तृतीयस्सितमानज:।।15।।
सितमानबिन्दुयुतं कर्णसूत्रे यथा चन्द्रबिम्बं दृश्यते तत्तस्मिन् पूर्वापरकाष्ठे स्याताम्। काष्ठाशब्दोऽत्र दिक्पर्याय:, पूर्वापरदिशाविति यावत्। कथं पुनश्चन्द्रबिम्बे तिर्यगवस्थितस्य कर्णस्य पूर्वापरदिग्विधानम्। उपचारादुच्यते। तन्मत्स्याद्दक्षिणोत्तरे इति यदुच्यते तदेवं गृह्यते। कुत:। कर्णसूत्रस्य वृत्तस्य च यत्र योगद्वयं दृश्यते तत्र बिन्दुद्वयं कृत्वा ताभ्यां बिन्दुभ्यां चन्द्रबिम्बमध्ये दक्षिणोत्तरायते मत्स्यमालिख्य तन्मत्स्यमुखपुच्छानुसारि सूत्रं बाह्यवृत्तान्तं प्रसार्य बाह्यवृत्तयोगद्वयबिन्दू कृत्वा यौ बिन्दू एवं गृहीतौ तावुभौ शृङ्गाग्रबिन्दू स्याताम्। तयोस्तृतीयो बिन्दु: सितमानजो भवति। तैस्त्रिभिर्बिन्दुभि: शृङ्गोन्नतिरालिख्यते।।15।।
तदर्थमाह –
त्रिशर्कराविधानोत्यमत्स्यद्वयविनिस्सृतम्।
बिन्दुत्रयशिरोग्राहि पद्मवृत्तं समालिखेत्।।16।।
(D वृत्तानतरे।)वृत्तान्तरसितोद्भासि शृङ्गोन्नत्या (C प्रदर्श्यते।)प्रदृश्यते। ज्योत्स्ना(A B H प्रसर C Dप्रसर।)प्रकरनिर्धूतध्वान्तराशिर्निशाकर:।।17।।
त्रिशर्कराविधानमिति यदिहोच्यते तत्पूर्वमेवोपदिष्टं चन्द्रग्रहणे। कथम्।
'प्रग्रासमध्यमोक्षाणां बिन्दूनां मस्तकानुगम्।
मत्स्यद्वयोत्थवृत्तं यद्वर्त्म स्यात् ग्राहकस्य तद्।।'
इति यथा ग्राहकवर्त्मपथ उपदिष्ट: तद्वदिहापि मत्स्यद्वयमालिख्य मत्स्यद्वयसूत्रयोगात् बिन्दुत्रयशिरोग्राहि यदालिख्यते तस्य बिम्बपरिधेरपि यदन्तरं यस्मिन् भागे यावत्योन्नत्या यथा दृश्यते तस्मिन्दिने तथा पश्चिम: स्यात्। पूर्वपक्षेऽपरकपाले निर्मलेऽम्बरे ज्योत्स्नाप्रकरनिर्धूत-ध्वान्तराशिर्निशाकरश्चन्द्रो दृश्यत इत्यर्थ:।।16-17।।
एवं पूर्वपक्षेऽपरकपाले शृङ्गोन्नतिस्वरूपं प्रदर्श्य प्राक्कपाले शृङ्गोन्नति(S1 विशेष)विशेषप्रदर्शनार्थमाह –
प्राक्कपाले शशाङ्कस्य लग्नेन्द्वर्कादिभि: (C H स्फुटः)स्फुटम्।
साध्यो बाहुरनादिष्टमपराभिमुखं स्मृतम्।।18।।
अष्टम्या ऊर्ध्वमपराह्णकाले प्राक्कपालविषयस्थे चन्द्रे अपराह्णकालानीतसूर्यै राशिषट्कं प्रक्षिप्योदयलग्नमापाद्य तस्मादुदयलग्नभुक्तभागाच्चन्द्रलग्नभुक्तभागावधिक: प्राणानुत्क्रमेण गृहीत्वा तै: शङ्कुमानीय तत: शङ्क्वग्रमपि नित्यदक्षिणमानीय राशिक्रान्त्या पुनरिन्द्वग्रामप्यानीय पूर्ववद्योगं विश्लेषं वा कृत्वा तत्कालादित्यादर्काग्रामादाय तया पुनर्भिन्नतुल्यस्वदिग्वशात् योगं विश्लेषं वा कृत्वा बाहु: साध्यते। अनेन तदानीतसितमानशङ्कुभ्यां च पूर्ववत् प्राक्कपाले श्रृङ्गोन्नतिरवगन्तव्या। अनादिष्टमपराभिमुखं स्मृतमिति यदुच्यते तदसितेनापरपक्षे सितवृद्धिरिव श्रृङ्गवृद्धिरुच्यते। कथमिति चेत्तदपराभिमुखं स्मृतमित्युक्तम्। तद्यथा - मण्डलार्घयुतार्काच्चन्द्रस्य चान्तरांशै: पूर्ववदसितमानीयास्तलग्नचन्द्रान्तरप्राणै: शङ्कुं शङ्क्वयं चादाय तत्कालार्काग्रया चन्द्राग्रया च बाहुमापाद्य पुनस्समायामवनौ गोमयानुलिप्तायां प्राच्यां पूर्वमर्कबिन्दुं कृत्वा तस्माद्दक्षिणेनोत्तरेण वा बाहुसूत्रं प्रसार्य तदग्रोत्पन्नमत्स्यात् पश्चिमाभिमुखं सूत्रं दूरं नीत्वा तस्मिन् कोटिसूत्रमुन्नीय तदग्रे बिन्दुं कृत्वा तस्य समन्ततो बिम्बमिन्दो: कृत्वा कर्णसूत्रमपि बिम्बपर्यन्तं प्रसार्य तत्पूर्वापरवशाद्दक्षिणोत्तरसूत्रं कृत्वा श्रृङ्गद्वयबिन्दू कृत्वा तत्रासितमानं कर्णसूत्रे पश्चिमतस्तन्मण्डले प्रवेश्य तदग्रे बिन्दु कृत्वा त्रिशर्कराविधानेनासितश्रृङ्गोन्नतिरालिख्यते। एवमपरपक्षे पश्चिमकपाले निशावसाने कथितम्। अथ तस्मिन्नेव पक्षे प्राक्कपालस्थे चन्द्रे अष्टम्या: परत: श्रृङ्गोन्नतिरुच्यते। कथम्। प्राग्विलग्नचन्द्रान्तरप्राणै: शङ्कुं शङ्क्वग्रं चादाय तत्कालचन्द्राग्रया शङ्क्वग्रस्य च दिग्वशाद्योगं विश्लेषं वा कृत्वा तत्कालार्काग्रया च पूर्ववद्विश्लेषं योगं या कृत्वा बाहुमानीयान्यत्सर्वं पूर्ववदालिख्यासितश्रृङ्गोन्नतिरालिखितव्येति प्राक्कपालेप्येऽवमुक्तं भवति।।18।।
अथेदानी पूर्वपक्षे दिवा कियता कालेन चन्द्र उद्गच्छतीत्येतत्प्रदर्शनार्थमाथ –
मण्डलार्धयुतार्केन्दुविवरीत्पन्ननाडिका:।
कृताविशेषकर्माणो दृश्यकालास्सिते स्फुट:।।19।।
मण्डलार्धशब्देन राशिषट्कमुच्यते। अपराह्णादित्यस्फुटे मण्डलार्धं प्रक्षिप्य प्राग्विलग्नमापाद्य चन्द्रमपि तत्काले कृत्वा चन्द्रप्राग्विलग्नान्तरालासूनादायाविशेषणं कृत्वा तावत्कालेनास्तमयकालात् पूर्वं अहन्युदेतीत्यवगन्तव्यम्। कथमन्तरालासुग्रहणं कथं-वा विशेषकरणमिति चेद्वक्ष्याम:। अस्तमयकालानीतप्राग्विलग्नभुक्तप्राणान् पूर्ववदानीय तत्कालचन्द्रस्याभुक्तप्राणानपि तद्वदानीय तदन्तरालराशिप्राणानपि सर्वानेकीकृत्य प्राणपिण्डमापाद्य प्रतिराश्य चन्द्रादित्यस्फुटभुक्तिभ्यां हत्वा तत्तदहोरात्रानुराशिना विभज्य चन्द्रप्राग्विलग्नयो: लिप्तादिफलं विशोद्ध्यं पुनरपि तयोरन्तरप्राणपिण्डमादाय तेन प्राणपिण्डेन प्राग्वदिन्दुलग्नौ कृत्वा पुन: पुनरेवं यावदविशेषस्तावत् कृत्वा विशिष्टोरिन्दुलग्नयोरन्तरप्राणपिण्डविशेषं कृत्वा तेनाविशिष्टेन दिनमानमूनं कृत्वा विशेषप्राणसङ्घान् षड्भि: षष्ट्या च विभज्य घटिकादिकालश्चन्द्रोदयकाल इत्युक्तं भवति। अथवात्राविशिष्टप्राणपिण्डमप्येव षड्भि: षष्ट्या च विभज्यारोप्यास्तमयकालात् प्राक् चन्द्रदर्शनकालस्तावदादेष्टव्य:। स एव स्फुटकाल इत्युच्यते। अथवा चन्द्रोदयकालमुदयकरणानीतार्केन्द्रो अन्तरप्राणपिण्डमानीय तयो: स्फुटभुक्तिभ्यां हत्वा तदहोरात्रासुराशिना विभज्य फलद्वयमुभयो: स्फुटयो: लिप्तादि प्रक्षिप्याविशिष्टयोरन्तरप्राणपिण्डेन षड्भि: षष्ट्यारोपितेन विज्ञायादेष्टव्य:।।19।।
अथेदानीं पौर्णमास्यां चन्द्रोदयकालमुपदिदिक्षुराह –
अर्केन्दुसमलिप्तात्वे पौर्णमास्यासमोदय:।
प्रागेवाभ्युदितो हीन: (A B पश्चास्तमयो)पश्चादभ्यधिको रवे:।।20।।
पौर्णमास्यां मण्डलार्धयुतार्कस्येन्दोरपि केवलस्यास्तमयकरणनीतस्यान्तरं यदा न भवति तदा तयोस्मलिप्तात्वम्। तस्मिन् समलिप्तात्वे सति समोदयमिन्दोर्भवति। पौर्णमास्यां मण्डलार्धयुतात् अस्तमयकरणानीतचन्द्रस्फुटं हीनं चेदस्तमयात् प्रागेवाभ्युदित इत्यवगन्तव्यम्। अथ तस्मादभ्यधिकस्फुटचन्द्रश्चेदस्तमयकालभतीत्य रात्रौ निशाकरोदय: सम्भवति। एतदुक्तं भवति–अर्कान्मण्डलार्धान्तरितस्य चन्द्रस्य पौर्णमासित्वात् मण्डलार्धयुतरविस्फुटादूनाधिकाभोव सति समोदय: सम्भवतीति। समोदय इति किमुक्तं भवति। अर्धास्तमितेऽर्के तदानीमेव चन्द्रस्याप्यर्धोदय इति यावत्।।20।।
अथेदानीं पौर्णमस्यामस्तमयकालात् पूर्वं पश्चाद्वा कियता कालेन चन्द्रोदयस्तथाविध: सम्भवतीत्येतत्प्रतिपादनार्थमाह –
ऊनाधिककलाक्षुण्णास्तद्ग्रहेष्टासवो हृता:।
राशिलिप्तासमूहेन लब्ध: कालोऽविशेषित:।।21।।
मण्डलार्धयुतार्कादूनश्चेत् चन्द्र: तस्माद्विशोद्ध्य तं चन्द्रं तत्राविशेषं लिप्तीकृत्य तद्राशिप्राणपिण्डेन स्वदेशजेन हत्वा राशिलिप्तासमूहेन विभज्यान्तरासूनादाय पूर्ववद्रविचन्द्रस्फुटभुक्तिभ्यां हत्वाऽत्राप्यहोरात्रासुराशिनैव फलद्वयं गृहीत्वा लग्नचन्द्रौ पूर्वानीतावेवाविशेषितौ कृत्वा पूर्ववदविशिष्टयो: विवरसम्भवप्राणै: अस्तमयात्पूर्वमेव चन्द्रोदयकाल आदेष्टव्य:। अथ मण्डलार्धयुतार्कात् अधिके चन्द्रस्फुटे सति चन्द्रात्तद्विशोद्ध्य तत्राधिककलाभिरेवमेवान्तरप्राणानानीय रविचन्द्रस्फुटभुक्तिभ्यां फलमपि लिप्ताभि: पूर्ववद्गृहीत्वा तयोरसकृत्प्रक्षिप्याविशेषणं कृत्वा तत्रान्तरप्राणै: अस्तमयकालमतिक्रम्य रात्रौ तावता कालेनोदेतीत्यादेष्टव्य:।।21।।
अथेदानीं रात्रौ चन्द्रस्य महच्छायामुपदिदिक्षुराह-
उदयेन्द्वन्तरप्राणैरस्तचन्द्रान्तरैरपि।
(H gives h variant स्वारोत्रासुभिः)स्वाहोरात्रादिभिश्चान्द्रै: शङ्कुदश्ये तत: प्रभा:।।22।।
रात्रौ तावद्यस्मिन् काले छायामवगन्तुं बुद्धिरुत्पद्यते तस्मिन् काले रविचन्द्रस्फुटद्वयं कृत्वा तस्मिन्नहोरात्रे रव्युदयात्प्रभृति या अतीता घटिकास्ता: सर्वा: प्राणीकृत्य तस्मादादित्याच्च तदानीं प्राग्विलग्नमागण्य प्राक्कपालस्थे शशाङ्के सति प्राग्विलग्नचन्द्रान्तरप्राणराशिं पूर्ववदानीय पुनरपरकलास्थे सति प्राग्विलग्ने राशिषङ्कं प्रक्षिप्यास्तलग्नमवगम्य तस्मादिन्दोश्चान्तरप्राणरशिमपि पूर्ववदादाय क्वचिद्विन्यस्य तदानीं पातस्फुटमपि कृत्वा तस्माद्विक्षेपापक्रमावानीय काष्ठीकृत्य तयोर्दिग्वशात् योगं वियोगं वा कृत्वा तस्माज्जीवामादाय तामिष्टापक्रमसंज्ञां प्रतिराश्य वर्गीकृत्य व्यासदलवर्गाद्विशोद्ध्यं मूलं स्वाहोरात्रार्धसंज्ञामादाय क्वचिद्विन्यस्य पुनरक्षज्यया विन्यस्तेष्टापक्रान्तिं हत्वाऽवलम्बकेन विभज्य क्षिनतिज्यमानीय प्रतिराशीकृत्य व्यासार्धेन हत्वा स्वाहोरात्रेण विभज्य काष्ठीकृत्य तैश्चन्द्रभूज्याचरासुभि: उभयो: कपालयोरुक्तान्तरप्राणैश्च स्वगोळवशाच्चन्द्रस्य शङ्कुच्छायां चानीय द्वादशाङ्गुलशङ्कुप्रभा पुरुषप्रभा वादेष्टव्येत्यर्थ:।।22।।
अथेदानीमपरपक्षे रात्रौ कियता कालेन चन्द्रोदयस्सम्भवतीत्येतत् प्रदर्शनार्थमाह –
दिनान्तोदयलग्नस्य (D शङ्कोर्त्रा लिप्तिकाहताः)गन्तव्या लिप्तिकाहता:।
स्वभोदयासुभिर्लब्धा: प्राणराशिकलाहृता:।।23।।
संपिड्या: शशिनो यावद्भुक्तिलिप्तावधेरिति।
स्फुटभोगानुपाताप्तमिन्दो: क्षिप्त्वा(A B विशोधयेत्)विशेषयेत्।।24।।
अविशिष्टेन कालेन शर्वर्यां दृश्यते सिते।
विध्वस्तध्वान्तसङ्घातधामराशिर्निशाकर:।।25।।
दिनान्तोदयलग्नमिति यदुच्यते तदिहास्तमयवेलायां मण्डलार्धयुतार्कस्तस्माच्चन्द्रस्य च यदन्तरं प्राणात्मकं स्वदेशराश्युदयवशादानीय रवीन्दुभुक्तिभ्यां अभिहत्य पृथगहोरात्रासुलब्धफलमुभयोर्दिनान्तोदयलग्नचन्द्रयो: क्षिप्त्वा पुन: पुनरविशिष्ट्योन्तरासुभि: अस्तमयकालादूर्ध्वं रजन्यां चन्द्रोदयस्सम्भवतीति वक्तव्यम्। अपि चात्राविशेषकरणविषये सर्वत्रायं प्रयोग: स्मर्तव्य:। एवमविशिष्टकालेन शर्वर्यां विध्वस्तध्वान्तसङ्घातधामराशिर्निशाकर: दृश्यत इत्यर्थ:। यद्यपरपक्षे दिवा कियता कालेन गगनतले स्थित्वा चन्द्रोऽस्तं गच्छतीत्यवगन्तुं बुद्धिरुत्पद्यते तदानीमुभयकरणानीतरवेर्मण्डलार्धं क्षिप्त्वाऽस्तलग्नमापाद्य तत्कालचन्द्रभुक्तभागात् उत्क्रमत: प्राणपिण्डमस्तलग्नात् भुक्तावधिकमादाय पृथग् स्फुटभुक्तिभ्यां हत्वाहोरात्रासुराशिना विभज्य लब्धं फलद्वयमस्तलग्नचन्द्रयो: क्षिप्त्वाविशिष्टयोरन्तरासुभिरवगन्तव्यम्। एवमन्तरासुग्रहणमपरकपालेन भवतीति मन्यामहे। कतु: --
'उदयस्य (S1 दस्तमयान्ते)वशादस्तमयन्ते राशयो यत:।'
इत्युक्तवात्। सत्यम्। अत एव राशे: तस्यैव पूर्वं स्यात्। सप्तमस्यापरोदय इत्यत्र विहितमत्र व्याख्यातम्। श्रृङ्गोन्नतिमवगन्तुं
कदाचित् केरलेश्वर: कुलशेखर इदमाह –
आदित्येऽस्तादिश्रृङ्गं गतवति नृपतिर्गोत्रमल्लेश्वरस्य-
प्रासादाग्रप्रविष्टो रविरवनिरविर्द्रष्टुमेवं ह्यवोचत्।
मासे स्यान्नैव चैत्रे जननमिह कथं श्रृङ्गयोरुन्नतित्वं
कस्मिन् स्यात् पार्श्वयोर्वा सवितुरिह वदालिख्य सर्व समेति।।23-25।।
इति लघुभास्करीयविवरणे शङ्करनारायणीये
षष्ठोऽध्याय:।।