।।श्री:।।
भास्कराचार्यविरचि‍तं
लघुभास्करीयम्

शङ्करनारायणकृतविवरणेन समलङ्कृतम्।
पञ्चमोध्यायः।

एवं चन्द्रग्रहणमुपदिशेदानीं सूर्यग्रहणविषये विशेषमुपदिदिक्षुराह -

लम्बकाभिहता त्रिज्या परमक्रान्तिसंहृता।

(A F लब्धः स्वदेशजो भ्रूमेः, B लब्धं स्वदेशजं भूमौः।)

लब्धं स्वदेशसम्भूतो व्यवच्छेदः प्रकीर्तितः।।1।।

अवलम्बकेनं त्रिज्या हत्वा परमाक्रमज्ययाः विभज्य यल्लभ्यते तत्स्वदेशलम्बकव्यासार्धोत्पन्नत्वात् स्वदेशजो भूमिव्यवच्छेदो नाम भवति। अनेन पुनरपत्तरत्र मध्यज्यागुणितायाः प्राग्विलग्नभुजाजीवायाः भागहारत्वेनोच्यते।।1।। अथेदानीं (S2 om मध्य।)मध्यलग्नानयनार्थमाह -

लङ्कोदयानुपाताप्तानवगम्य रवेनसूनः।
तिथिमध्यान्तरासुभ्यो हित्वा शोद्ध्यं गतं ततः।।2।।

अत्र तावल्लङ्कोदयप्राणाः पठिताः पूर्वमेव ʽशून्यद्रिरसरूपाणि भूतरन्ध्रमुनीन्दवः, पञ्चाग्निध्रशशिनःʼ इति क्रमोत्क्रमाभ्यां पुनरपि मेषाद्यास्तुलादयश्च। तैरिह मध्यलग्नमापाद्यते। कथम्। यस्मिन् दिने यावत्पूर्वप्रमाणदित्योद्यादूर्ध्वं दृश्यते तत्सर्वं प्राणराशीकृत्य स्फुटतिनार्धप्रमाणप्राणानप्यापाद्य पूर्वाह्णे स्फुटदिनात् पर्वप्राणन् विशोद्ध्यापराह्णे पर्वणो दिनार्धप्रमाणं विशोद्ध्य वा यदन्तरमुभयथावशिष्यते तत्तिथिमध्यान्तरासुराशिर्भवति। तत्सर्वं क्वचिदवस्थाप्य समादित्भुक्तभागाः सर्वा लिप्तीकृत्यादित्याधिष्ठितराशिना लङ्कोदयेन हत्वा पुनरेकराशिलिप्ताभिः खखाष्टचन्द्राभिर्विभज्य यत् गृह्यते तल्लङ्कोदयानुपाताप्तासवो भवन्ति। तानसून् (1800)तिथिमध्यान्तरासुभ्यो हित्वा समादित्यगतभागादिसर्वमपोह्यं पुनरुत्क्रमेण यावन्तो लङ्कोदयराशयः शोद्ध्यन्ते तेषामेकैकं राशिं राशिस्थाने हित्वा शेषं त्रिंशदादिगुणं कृत्वा वर्तमानलङ्कोदयेन विभज्य भागादि सर्वं तस्मादेव राशिस्थानादेकमवरोप्य हित्वा यदवशिष्यते तत्पूर्वाह्णे मध्यलग्नं भवति। कथमिह मध्याह्नासन्नतिथिमध्यान्तरासुभ्यो गतगन्तव्यप्राणविशोधनहीनेभ्यो मध्यलग्नानयनम्। तत्र तिथिमध्यान्तरासूनेव त्रिंशदादिगुणं कृत्वादित्याधिष्ठितलङ्कोदयराशिप्राणसमूहेनैव विभज्य समादित्यभुक्तभागादौ विशोद्ध्य क्षिप्त्वा वा प्रागपरकपालयोः मध्यलग्नं भवति।।2।।
तदर्थमिदमुक्तम् –

शेषेपि यावतां सन्ति व्युत्क्रमात्तावतस्त्यजेत्।
भागलिप्ताश्च पूर्वाह्णे मध्यलग्नमुदाहृतम्।।3।।

अपराह्णे मध्यलग्नानयनार्थमाह –

अपराह्णे चयः कार्यो गन्तव्यादेर्विवस्वतः।
पातहीनात्ततः कल्प्यो विक्षेपः सौम्यदक्षिणः।।4।।

अपराह्णे तावत् पर्वणो दिनार्धं विशोद्ध्य तिथिमध्यान्तरासूनादाय क्वचिदवस्थाप्य समादित्यस्याभुक्तलिप्तालङ्कोदयप्राणानुपातलब्धासून् तिथिमध्यान्तरासुभ्यो हित्वा राशिशेषमपि समादित्ये प्रक्षिप्य शेषादपि यथाक्रमेण लङ्कोदयराश्यसून् विहाय समभानौ प्रक्षिप्य शेषात् त्रिंशदादिगुणितात् वर्तमानलङ्कोदयलब्धभागादीनपि प्रक्षिप्य मध्यलग्नं भवति। अथापराह्णे चयः कार्य इति भानोर्गन्तव्यादेः प्रक्षेपोऽभिहितः। एतदुक्तं भवति। अपराह्णे तिथिमध्यान्तरासुभ्यः प्राग्विलग्नवल्लङ्कोदयैः मध्यलग्नमानीयत इति। पातहीनात्ततः कल्प्यो विक्षेपः सौभ्यदक्षिणः इति मध्यलग्नाद्विक्षेपानयनमुक्तम्। कथम्। मध्यलग्नादपक्रमसंस्कारसंस्कृतात्तत्कालराहुस्फुटं विशोध्य दक्षिणोत्तरदिशावुपलक्ष्य भुजाजीवामादाय परमविक्षेपज्यया खत्रिघनसंख्यया हत्वा व्यासार्धेन विभज्य लिप्तादिमध्यलग्नविक्षेप आनीयते। कथमिह व्यासार्धेन हरणमुच्यते। ननु चन्द्रकलाकर्णेनाविशिष्टेन हरणमभि‍हितम्। नैष दोष:। कर्णशब्देन व्यासार्धमप्युच्यते। तर्हि चन्द्रग्रहणे कस्माद् व्यासार्धेन विक्षेपग्रहणं नोक्तम्। तत्र चन्द्रकलाकर्णेनैव केचिदाचार्या विक्षेपानयनं कुर्वन्ति। इह तु तथा विक्षेपानयनं न घटते। कुत:। व्यासार्धादधिहीनसंख्यस्य कर्णस्य भागहारकल्पनया परमविक्षेपगुणस्य खत्रिघनसंख्यस्यागमनाभावात्। कथमभाव: कल्प्यते। यदि व्यासार्धस्य खत्रिघनसंख्या लभ्यते व्यासार्धहीनस्य पातो(S2.3 मध्यमलग्न)नमध्यलग्नसमुत्पन्नभुजागुणस्य कियतीति विक्षेपानयनत्रैराशिकमुच्यते। एतत्तु पुन: स्वयमेव बृहति कर्मनिबन्धे वक्ष्यति च। कथम्।

"सैहिकेयविहीनस्य जीवा लग्नस्य ताडिता।
तिथिभिश्चन्द्ररन्धैकैर्विक्षेपज्या विलग्नजा।।"

इति। तत्र व्यासार्धं परमविक्षेप च भागहारगुणकाराविति परिकल्प्य तावुभौ संक्षिप्तौ चन्द्ररन्ध्रैकाश्च तिथिसंख्या च भागहारगुणकारावुभौ भवत:। अत्रापि किं विक्षेपस्य विपरीतदिग्ग्रहणमिष्यते। नेष्यते। यथागतदिग्वशादेव दिग्गृह्यते। तथा दिग्ग्रहणं चन्द्रग्रहणविषय एव विधीयते नान्यत्र। किमर्थं विक्षेपानयनविषये अपक्रमसंस्कारता विधीयते। ʽशशिविक्षेपोऽपमण्डलार्धम्ʼ इत्युक्तत्वात्। अपक्रममण्डलाद्विक्षेपमण्डलस्यार्धपञ्चमांशप्रमाणविक्षेपत्वादित्यर्थ:। तथाहि गोले दृश्यते। अतोऽपक्रमस्य विक्षेपस्य च समानत्वादुभयोरपक्रमसंस्कारतेष्यते। तर्हि चन्द्रग्रहणविक्षेपानयनं कस्मान्नोक्तत्। मध्यमलग्नविक्षेपस्येति संप्रदाय:, न पुनरन्यत्र।।4।।

अथेदानीं मध्यलग्नात् मध्यजीवाग्रहणार्थमाह –

मध्यलग्नापमक्षेपपलज्यानुषां युति:।
तुल्यदिक्त्वे विदिक्कानां विश्लेषा: शेषदिग्वशात्।।5।।

मध्यलग्नात् भुजाजीवामादाय दिशं चोपलक्ष्य तां परमापक्रमेण सप्तरन्ध्राग्निरूपेण हत्वा व्यासार्धेन विभज्यापक्रमजीवां गृहीत्वा काष्ठीकृत्य विक्षेपज्यामपि काष्ठीकृत्य स्वदेशपलज्यां च नित्यदक्षिणामपि काष्ठीकृत्य तेषां धनुषां तुल्यदिक्त्वे योगं कृत्वा भिन्नदिक्त्वे विश्लेषं वा कृत्वा विश्लेषितस्य दिग्वशात् पुनस्तस्मात्काष्ठात् मख्या जीवा गृह्यते सेह मध्यज्या भवति। तामेकत्र विन्यस्य प्राग्विलग्नभुजज्या पुनर्ग्राह्या।।5।।

तदर्थमथेदानीमाह –

मध्यजीवा तया क्षुण्णां प्राग्विलग्नभुजां हरेत्।
व्यवच्छेदेन यल्लब्धं वर्गीकृत्य विशोधयेत्।।6।।

यस्मिन् दिने यावत् पर्वप्रमाणमादित्योदयात् ऊर्ध्वमवगम्यते तत्सर्वं प्राणराशीकृत्य समादित्यभुक्तप्राणानादाय पर्वणो विशोद्ध्य राशिशेषमपि रवौ क्षिप्त्वा पुन: पुन: स्वदेशोदयराशिभिर्विशोधितांस्तांस्तान् राशीन् प्रक्षिप्य शेषादपि त्रिंशदादिगुणिताद्वर्तमानोदयराशिप्राणलब्धभागादीनपि क्षिप्त्वा प्राग्विलग्नमापाद्य तस्माद् भुजाजीयामादाय तां मध्यज्यया हत्वा पूर्वानीतस्वदेशभूमिव्यवच्छेदेन विभज्य यल्लब्धं तद्वर्गीकृत्य मध्यजीवामपि वर्गीकृत्य तस्माद्विशोधयेत्।।6।।

तदर्थमाह –

मध्यज्यावर्गत: शेषो वर्गो वृक्क्षेपसम्भव:।
तत्कालशङ्कुवर्गेण युक्त्वा तं प्रविशोधयेत्।।7।।

एवं मध्यज्यावर्गतः शुद्धावशिष्टं दृक्क्षेपसम्भवं नाम भवति। यस्मान्मूलं गृहीतं दृक्क्षेपज्या स्यात् अतो दृक्क्षेपसम्भव इत्युच्यते। कदा पुनस्तन्मूलं दृक्क्षेपज्येति गृह्यते। उत्तरत्राविशिष्टे सति न पुनरिदानीं गृह्यते। इदानीं तु पुनर्दृक्क्षेपसम्भवमेकत्र विन्यस्य पूर्वापराह्नयोर्गतगन्तव्य-प्राणपिण्डाभ्यां स्वाहोरात्रादिभिश्च गोलवशान्महाशङ्कुमानीय वर्गीकृत्य तेन वर्गेण दृक्क्षेपसम्भवं युक्त्वा तत्सर्वं व्यासार्धवर्गाद्विशोद्ध्य शेषान्मूलं ग्राह्यम।।7।।

तदर्थमाह –

विष्कम्भार्धकृतेर्मूलं रूपरन्ध्रनिशाकरै:।
हृत्वा लब्धस्य भूयोंऽशो विज्ञेयो योऽर्धपञ्चमै:।।8।।

एवं मूलमादाय तन्मूलं (191)रूपरन्ध्रनिशाकरैर्विभज्य यत्फलं गृह्यते तदेकत्र विन्यस्य तच्छेषमप्यनष्टं विन्यस्य तदुभयं द्विगुणीकृत्य शेषाद्रूपरन्ध्रनिशाकरेणैवाप्तमन्यस्मिन् द्विगुणिते प्रक्षिप्यं तच्छेषमनष्टं कृत्वा तदर्धपञ्चमैर्द्विगुणितै: नवमिर्विभज्य यत्फलमवाप्यते तल्लम्बनघटिका भवन्ति। पुनस्तच्छेषं पूर्वशेषं च षष्ठ्या हत्वा पूर्वशेषाद्रूपरन्ध्रनिशाकरेणैवाप्तफलसहितं लम्बनघटिकाशेषं कृत्वा नवभिरेव विभज्य फलं विनाडिका भवन्ति। पुनष्षड्भिरुभयं हत्वा तेनैवाप्तमन्यस्मिन् युक्त्वा नवभिरेव प्राणा ग्राह्या:। अत्र तु पुनरर्धपञ्चमैरंशै: हरणे विहिते सति कथं नवभिरुच्यते। अत एव हार्यं द्विगुणीकृत्य हारकमपि नवसंख्यया विभजनमस्माभिरुच्यते। इतरथा हि चतुर्भिर्मार्गै: अर्धसहितै: कथं गृह्यते। अथवात्र पूर्वमूलमेव द्विगुणीकृत्य पूर्वोक्तभागहारसमवर्गेण (1791)नवेन्दुमुनिरूपेण विभज्य घटिकादयो ग्राह्या:। अथवा मूलं षष्ट्या हत्वा (51570)खस्वरेष्वेकभूत इत्यनेन विभज्य घटिकादिफलं ग्राह्यम्। एवं त्रयाणां प्रयोगेणैकेन लम्बनघटिकादिफलं गृहीत्वा यद् दृश्यते तल्लम्बनकालो नाम भवति।।8।।

तदर्थमाह –

लम्बनाख्यो भवेत्कालो नाडिकाद्यो रवेर्ग्रहे।
पर्वणश्शोद्ध्यते प्राह्णे दीयते मध्यतोऽपरे।।9।।

लम्बनकालं प्राणराशीकृत्य पूर्वाह्णे पर्वणस्तद्दिनोद्भवाच्छोधयेत्। अथापराह्णे पर्वणि दीयते क्षिप्यत इत्यर्थ:। मध्यतोऽपर इत्यत्रापराह्ण इति यावत्। एवं पर्वणि लम्बनसंस्कारं कृत्वा तान् लम्बनप्राणानादित्यस्फुटभुक्त्या हत्वाहोरात्रासुना विभज्य स्फुटभुक्तिवशाल्लिप्ता विलिप्ता वा गृहीत्वा शोधनक्षेपणे कृत्वा समादित्ये पूर्वाह्णापराह्णयो: पुनस्ताभ्यां पर्वार्काभ्यां पूर्ववन्मध्यलग्नप्राग्विलग्नदृक्क्षेपसम्भवतत्कालशंकुभिश्च लम्बनघटिकाद्यानीय ताभिर्घटिकाभि: प्रथमपर्वणि समादित्ये च प्राग्वत्कृत्वा ताभ्यां पर्वार्काभ्यां पुनरपि मध्यमलग्नादिलम्बनान्तं आनीय तल्लम्बनेनापि समपर्वादित्ययोरेव संस्कृत्य भूयोभूयस्तावद्यावदविशेषदर्शनात् प्रागयमेव कार्य:। इयान्विशेष: प्रथमपर्वणि समादित्ये च सर्वदा शोधनक्षेपणकर्म क्रियत इति। क्व पुनरिह लम्बनभोगस्य समादित्याशोधनक्षेपणमिति विधीयते। उक्तं ननु प्रथमाध्यायावसाने देशान्तरयुक्त्यो प्रलम्बनयुक्तिर्भिद्यत इत्यत्र। कथम्।

धनर्णे स्तस्तिथेस्तस्य कालस्येन्द्वर्कयोरपि।

लम्बनस्यैव नात्र स्माद्युक्तिर्देशान्तरस्य सा।।

इति इन्दोरपि सत्यविशेषे अविशिष्टलम्बनेनेष्यते।।1।।

एवं लम्बनाविशेषकरणार्थमाह –

एवं (G क्रमेण)कृतेन भूयोऽपि पर्वणा कर्म कल्प्यते।
कालस्य लम्बनाख्यस्य निश्चतत्वं दिदृक्षुणा।।10।।

निश्चलत्वं नामाविशेषकर्मोच्यते। दिदृक्षणा द्रष्टुमिच्छता देवदत्तेनेति यावत्।।10।।

अथेदानीं अवनतिस्फुटापादनार्थमाह –

दृक्क्षेपष्यामविश्लिष्टां गत्यन्तरहतां हरेत्।
खस्वरेष्वेकभूताख्यैर्लब्धास्ता लिप्तिकादय:।।11।।

तत्कालशशिविक्षे(BH संक्ता।)पसंयुतास्तुल्यदिग्गता:।
भिन्नदिक्का विशेष्यन्ते रवेरवनतिस्फुटा:।।12।।

अविशिष्टदृक्क्षेपसम्भवमूलं दृक्क्षेपज्यां च चन्द्रादित्यस्फुटभुक्त्यन्तरेण हत्वा खस्वरेष्वेकभूत इत्यनेन विभज्य स्फुटभुक्त्यन्तरवशात् लिप्ता वा विलिप्ता वा गृहीत्वा यत् फलमानीयते तस्य दिगपि मध्यजीवावशाद्दक्षिणोत्तरावगन्तव्या। अतो लम्बनाविशेषणकाले दृक्क्षेपसम्भवं प्रतिराश्य विशेषणं कर्तव्यमित्येतदर्थापन्नम्। तत्कालशशीति यो निगद्यते स तावदविशेषणलम्बनप्राणभोगसंस्कृत इत्यर्थ:। तद्यथा लम्बनप्राणं (S चन्द्रभुक्तया)चन्द्रस्फुटभुक्त्या हत्वाहोरात्रासुना विभज्य तेन फलेन पूर्वाह्णापराह्णयो: शोधनक्षेपणसंस्कारयुत इत्यर्थ:। एवं समचन्द्रं संस्कृत्य तस्मात्तत्कालीकृतपातस्फुटं विशोध्य दिशमुपलक्ष्य जीवामादाय तां खत्रिखनेनैव हत्वा व्यासार्धेन विभज्य विक्षेपमानीय पूर्वानीतदृक्क्षेपफललिप्ताभिर्दिग्वशाद्योगो वियोगो वा कृतो विक्षेपस्फुटावनतिर्नाम भवति। एवं रविग्रहणविषयविधानाद्रवेरेव नतिरित्युच्यते स्फुटविक्षेप इति यावत्।।11-12।।

अथेदानीं स्थित्यर्धनाडिकाद्यानयनार्थमाह –

अर्केन्दुबिम्बसम्पर्क(A B दलेयानतिस्फुयात, C दलेनाननतेः, DF दलादवनतेः स्फुटातः ) दलावैनतित: स्फुटा:। स्थित्यर्धनाडिकास्साध्या: प्राग्वद्वलनकर्म च।।13।।

प्रग्रासमोक्षयोरेवं लम्बनावनती सकृत्।
लम्बनान्तरसंयुक्ते स्थित्यर्थे निर्दिशेत्स्फुटे।।14।।

यथा चन्द्रग्रहणे स्थित्यर्धवलने कथिते तथेहापि तदुभयं विधीयते। कथम्। अर्कचन्द्रबिम्बावेकीकृत्यार्धीकृत्य वर्गीकृत्य तस्मात्सम्पर्कार्धवर्गात् अपनीतिवर्गं विशोध्य शेषान्मूलमादाय षष्ट्या हत्वा भुक्त्यन्तरेण विभज्य घटिकादिप्राणान्तं फलं गृहीत्वा सर्वं सवर्णीकृत्या प्रतिराश्याविशेषलम्बनसंस्कृतपर्व द्विधा कृत्वा स्थित्यर्धमेकस्मिन् संशोध्यान्यस्मिन् प्रक्षिप्य स्पर्शमोक्षपर्वद्वयमेवमापाद्य पुन: स्थित्यर्धमुभयत्र विन्यस्य चन्द्रादित्यस्फुटभुक्तिभ्यां हत्वा खखषट्धनेन हृत्वा यदवाप्तं फलद्वयं तदपि लम्बनकालसंस्कृतचन्द्रादित्ययोरेव द्विधाकृतयो: शोधनक्षेपणे कृत्वा यथा तावुभौ चतुर्विधा भवन्ति तेषु चतुर्विधेषु द्वौ शोधितौ स्पर्शार्कचन्द्रौ भवत:। प्रक्षिप्तौ मोक्षचन्द्रार्कौ स्याताम्। तत्र पूर्वं स्पर्शपर्वार्कचन्द्रै: स्पर्शस्थित्यर्धं पूर्वोक्तन्यायेनैव लम्बनान्तरं युक्त्वा सकृदानीयाविशेषलम्बनसंस्कारविशिष्टे पर्वाणि लम्बनान्तरसंयुतं कृत्वा विशोधिते सति स्पर्शकालो भवति। एवं मोक्षपर्वार्कचन्द्रै: स्थित्यर्धमानीय लम्बनान्तरयुतं कृत्वा विशिष्टपर्वण्येव प्रक्षिप्ते सति मोक्षकालोऽप्यादेष्टव्य:। तत्रोभयकपालग्रहणे लम्बनं समस्तं स्थित्यर्धे युक्त्वा शोधनक्षेपणमिष्यते। कुत:। मध्याह्णे लम्बनस्य मान्द्यत्वात्। उभयकपालमिति किमिहोच्यते। ननु चोक्तं पूर्वाह्णे स्पर्शं कृत्वा मध्याह्नमतीत्य मोक्षश्चेत् तदुभयकपालग्रहणमिति। क्व पुनर्लम्बनान्तरं विहाय लम्बनेन समस्तेन स्थित्यर्धे युक्त्वा स्पर्शमोक्षकालसाधनमुच्यते। अनेनैव शास्त्रान्तरेप्युक्तम्। कथमिह स्थित्यर्धं योजयितुं लम्बनान्तरं गृह्यते। स्पर्शपर्वणो भानोश्च मध्यलग्नादिसर्वं पूर्ववत् कृत्वा लम्बनप्राणानादाय तान् क्वचिद्विन्यस्य पूर्वानीताविशिष्टलम्बनप्राणानप्येकत्र पूर्वमेव विन्यस्य तयोरेकस्मान्महतो विशोध्य यद्विशेषं दृश्यते तल्लम्बनान्तरं स्यात्। तत्रानीतदृक्क्षेपज्यया स्पर्शचन्द्रेण चावनतिस्फुटमपि कृत्वा वर्गीकृत्यार्केन्दुबिम्बसम्पर्कदलवर्गादेव विशोध्य मूलमादाय षष्ठ्यादिगुणं कृत्वा भुक्त्यन्तरेणैव विभज्य घटिकादिप्रणान्तं फलमानीय वर्गीकृत्य तस्मिन् लम्बनान्तरं युक्त्वा शोधनपर्वण्यविशिष्टे कृते स्पर्शकालो भवतीति। मोक्षकालोऽप्येवं मोक्षभागगै: पर्वाकेचन्द्रै: मध्यलग्नादिस्थित्यर्धान्तं कृत्वा अविशिष्टपर्वणि क्षिप्त्वा मोक्षकाल आदेष्टव्य इति। तत्र स्थित्यर्धाविशेषणं नेष्यते। कुत: सकृदानयनमेव विधीयते लम्बनावनती सकृदिति। अत्र वलनमपि पूर्ववदिह कर्तव्यमिति विहितम्। कथमिति चेत् प्रग्रासमध्यमोक्षकालत्रयं प्राणरूपीकृतं स्फुटदिनार्धप्रमाणात् प्राणरूपीकृताद्विशोद्ध्य पूर्वाह्णे तिथिमध्यान्तरालासूनादाय अक्षवलनलयमानीयते। अथापराह्णे प्रग्रासमध्यमोक्षपर्वभ्यो दिनार्धमानं विशोध्य तत्रपि तिथिमध्यान्तरालासूनवगम्य तेभ्यो वलनत्रयमानेतव्यम्। पुनरयनवलनमपि प्रग्रासमध्यमोक्षकालतत्कालीकृतसूर्यस्फुटत्रयं विन्यस्य तेभ्य: कोट्युत्क्रमज्यापक्रमत्रयमानीय काष्टीकृत्याक्षवलनकाष्ठत्रयसंयोगवियोगं दिग्वशात् कृत्वा तेभ्यो जीवामादाय सम्पर्कार्धहतां कृत्वा त्रिज्यया विभज्य तस्मिन् विक्षेपाभ्यां दिग्वशाद्योगं वा वियोगं वा कृत्वा मध्यवलनविक्षेपयोरपि पूर्ववत्कृत्वा वलनस्फुटत्रयमानीय वलनं सम्पर्कार्धाधिकं चेत् सकलसम्पर्काद्विशोद्ध्य तत्र परिशिष्टं स्फुटवलनमिति परिकल्प्य वा यद्विहितं तत्रापि सूर्यग्रहणेऽपि प्रकीर्तितं प्राग्वद्वलनकमं चेति। अत्र तु पुन: परिलेखनविधि: पूर्वोक्तवत्। सर्वमविस्मृत्य कर्तव्यम्। अत्र ग्राह्मबिम्बं सूर्यबिम्बं ग्राहकबिम्बं चन्द्रबिम्बम्।।13-14।।

अथेदानीं ग्रहणसद्भावासद्भावप्रदर्शनार्थमाह – सम्पर्कार्धकलातुल्यकलासङ्ख्यानतौ शशी।
न रुणाद्धि रवेर्बिम्बं ध्वान्तविध्वंसदीधिते:।।15।।

मध्यग्रहणकालानीतस्फुटावनतौ सम्पर्कार्धकलातुल्यायां सत्यां रवेर्बिम्बं शशी न रुणद्धि न स्थगयतीत्यर्थ:। अष्टामांशं सम्पर्कार्धस्य परित्यज्य यच्छेषं तस्माद्धीनाधिकत्वमालोच्यते।।15।।

इति भास्करीये विवरणे शङ्करनारायणीये सूर्यग्रहणाध्याय:।।

पञ्चमोध्यायः।।