एवं त्रिप्रश्नाध्यायभुक्तवा चन्द्रग्रहणज्ञानमुपदिदिक्षुराह-
पर्वनाड्यो रवौ देयास्ताः सलिप्ता निशाकरे।
एवं प्रतिपदः शोध्याः समलिप्तादिदृक्षुणा।।1।।
पर्वान्तकालमाश्रित्य तत्समीपोदयादिकरणं स्फुटं कृत्वा सूर्यमिन्दुं च स्फुटभुक्ती कर्णौ च भानोश्चरदलं च संरक्ष्य समीकरणमारभ्यते। तद्यथा चन्द्रस्फुटादर्कस्फुटमपनीय पूर्वोक्तन्यायेन गततिथिप्रमाणं विज्ञाय शेषं गन्तव्यं वा क्वचिद्वन्यस्य प्रतिराश्य षष्ठ्यादिभिर्हत्वा भुक्त्यन्तरेणैव विभज्य घटिकादिप्राणान्तं फलं प्राग्वदानीय प्रतिराश्य गन्तव्यात् पर्वघटिका गृहीताश्चेत् अर्कस्फुटे लिप्तास्थाने (Omitt This Word)विलिप्तास्थाने घटिका विघटिकाश्च प्रक्षेप्तव्या:। तत्र प्राणानामर्धाधिकं विनाडीषु युक्त्वा युक्त्या कतर्व्यम्। अथ प्रतिपद्धटिकाश्चेत् तद्वच्छोद्ध्या:। एवमर्के कृत्वा चन्द्रस्फुटे तावत् घटिकाभि: सार्धं गतं गन्तव्यं वा प्रतिराशितं कृत्वा यथान्यायमारोप्य सूर्यस्येव धनशोधने कृते सति चन्द्रादित्यस्फुटयो: समलिप्तत्वं द्रष्टुमिच्छतां समलिप्तौ स्याताम्। अत्र पर्वघटिकाभि: समलिप्तीकरणं कदा प्रतिपद्धटिकाभिर्वा। उच्यते। तत्कालस्फुटादूर्ध्वं यदि पर्व स्यात्। गन्तव्यलिप्ताभि: तस्मात्पूर्वमेव प्रतिपदस्ति चेत् गतलिप्ताभिरेव। एवं समं कृत्वा पर्वप्रमाणमपि सर्वं प्राणीकृत्य क्वचिद्विन्यस्य उत्तरमारभ्यते। (S2, 3 अथ तु पुन:)अत्र पुन: कियत्पर्वप्रमाणमिह गृह्यते। अस्तमयादूर्ध्वं रात्रौ यावत्पर्वास्ति तावद् गृह्यते। तद्यथा चरदलसंस्कृतं रात्रिमानं कृत्वा तदर्धं वा तस्मात्प्रतिपत्प्रमाणं प्राणरूपीकृतं विशोध्य शेषं पर्वेत्यत्र गृह्यते। तस्मादुत्तरत्र स्थित्यर्धशोधनं क्षेपणं च (कथ्यते)कल्प्यते। तस्मादिहैव तदापाद्य स्थातव्यम्।।1।। अथेदानीं भूगोलमध्यात् सूर्याचन्द्रमसोरन्तरयोजनप्रमाणं त्रैराशिकसिद्धं केवलमुपदिदिक्षुराह--
(456585)पञ्चवस्विषुरन्ध्रेषुसागरास्तिग्मतेजसः।
कर्णः (34377)पर्वतशैलाग्निवेदरामा निशाकृतः।।2।।
एवं पठितौ योजनकर्णौ स्याताम्। तत्रापि मध्यमयोजनकर्णौ न स्फुटयोजनकर्णौ।
तदर्थमाह-
अविशेषकलाकर्णताडितौ त्रिज्यया हृतौ।
स्फुटयोजनकर्णौ तौ तयोरेव यथाक्रमम्।।3।।
यावुक्तौ योजनकर्णौ तावतिशेषकलाकर्णाभ्यां ताडितौ व्यासार्धेनैव हृत्वा ये द्वे फले ते स्फुटयोजनकर्णौ रविचन्द्रयोः स्याताम्। तावपि पत्रे लिखित्वा विन्यस्य तदुत्तरमारभ्यते। कः पुनरिह स्फुटयोजनकर्ण इत्युच्यते। घनभूमध्याच्चन्द्रादित्ययोः यदन्तरं तत् स्फुटयोजनकर्ण इत्युच्यते। स पुनरर्कस्य भूगोलादतिदूरयोजनगमनत्वात् सङ्ख्ययातिरिच्यते। चन्द्रस्य भूगोलासन्नगमनत्वात् कर्णसङ्ख्यया हीयते। ननु चन्द्रमास्तावत् सूर्यादुपरि गच्छतीति श्रूयते। नैवम्। रवेरधस्तादेव यतश्चन्द्रमण्डलेनादित्यमण्डलस्य छादनगर्कग्रहणं स्यात्। यदुक्तं सूर्यादुपरि चन्द्रस्य गमनं तद्वेदान्तेतिहासादिषु श्रूयते, न पुनरार्यभटोक्तिः। आर्यभटप्रणीतं विहाय ब(S1 वयं ततः)यमन्यतः प्रविशामः। पौराणिकश्रुत्यादिषु सम्बन्धोऽस्य दर्शनस्यास्तु वा न वा। एतद्दर्शनमन्यथानुपपत्त्या सेत्स्यति। अलमतिप्रसङ्गः।।3।।
अथेदानीमर्कचन्द्रभूमिव्यासप्रमाणमुपदिशति-
पङ्क्तिसागरवेदाख्यो रवेस्तिथिशिखीन्दुजः।
व्यासो वसुन्धरायाश्च व्योमभूतदिशः स्मृतः।।4।।
दशाधिकचतुश्शतयुतं चतुस्सहस्रप्रमाणं योजनानामर्कव्यासः। पञ्चदशाधिकशतत्रयमिन्दुजो व्यासः। चन्द्रबिम्बव्यासयोजनानीति यावत्। पञ्चादशधिकानि सहस्रयोजनानि मेदिनीव्यास:। तदुक्तं-
'व्यासो वसुन्धरायाश्च व्योमभूतदिश: स्मृत:।'
इति। क: पुनरिह व्यास उच्यते। वृत्तपरिणाहस्य मध्यप्रमाणमित्यर्थ:। कथं चन्द्रादर्कस्य बिम्बप्रमाणयोजनामधिकत्वात् चन्द्रबिम्बेनार्कमण्डलछादनम् अतिदूरत्वात्। नन्वेकेन चक्षुस्समीपस्थेन छत्रेण गगनतलप्रच्छादनं दृश्यते। अत एव भूमण्डलेऽर्कग्रहणं क्वचित्सर्वग्रासं क्वचिदर्धं क्वचित्खण्डं क्वचिदभावश्च दृश्यते। किमर्कबिम्बस्वरूपं किं वा चन्द्रमण्डलम्। अग्निमयं गोलाकारमुक्तयोजनप्रमाणं आदित्यमण्डलम्। चन्द्रस्य जलमयं गोलाकारं तद्वत्। इन्द्रोरर्कस्य च कस्माद्गोलाकारावादर्शरूपेण दृश्येते। तदपि दूरत्वादेव। केन कारणेनेन्दोर्मण्डलस्य वृद्धिक्षयौ दृश्येते। नैव मण्डलस्य क्षयवृद्धी। कुत: ज्योत्स्नाया ज्योत्स्ना तावदादित्याभिमुखस्य चन्द्रबिम्बस्योपरि दिने दिने पूर्वपक्षे भूगोलस्थानां सुकरदर्शनाद्वर्धत इव दृश्यते। सा पुनरपरपक्षे बिम्बस्योपरिभागसङ्क्रमणत्वाद्धीयत इव दृश्यते। सर्वदा चन्द्रशरीरे यथाक्रमेण पौर्णमास्यामिव वृत्तभावोऽस्त्येव। तत्पुनर्द्रष्टुवशादन्यथा दृश्यते। अमावास्यायामपि सम्पूर्णभावश्चोपरि पितृलोकस्थानां दृश्यते नदीतटाकसङ्क्रान्तसूर्यप्रभेव। अत एव भूच्छाया चन्द्रग्रहणस्य कारणं स्यात्। विक्षेपहीनस्य चन्द्रस्य सूर्याच्चक्रार्धान्तरितस्य मेदिनीच्छायग्रान्तरितस्य यावत्प्रमाणं (S1छायायां अन्तर्गतम्)छायान्तर्गतं तावत: प्रदेशस्य सूर्यप्रभासङ्क्रमणाभावाच्चन्द्रग्रहणमित्युच्यते। अत एव भूच्छाया कारणम्। किमर्थम् असुर: कश्चिद्राहुर्नाम सैहिकेयोऽर्क चन्द्रं च ग्रसत इति श्रूयते। सापि पौराणिकश्रुतिरेव। क: पुनरिह राहुरित्युच्यते। उपचारादिन्दुपात:। क इह पातशब्देनोच्यते। अपक्रममण्डलस्य विक्षेपमण्डलस्य यत्र योगाऽस्ति स पात इत्युच्यते। स पुनरुभयत्र चक्रार्धान्तरितोत्क्रमगत्या त्रैराशिकवशादवगम्यते यथा चन्द्रमन्दोच्चगति:। एवं चन्द्रस्यैव मन्दोच्चपातयो: मध्यमगतिरिव त्रैराशिकं दृष्टं, न पुनरन्येषाम्। तेषामपि पातविक्षेपाश्च नित्यरूपेण पठ्यन्ते। अलमतिप्रसङ्गेन, प्रस्तुतमनुसराम:।।4।।
एवं चन्द्रार्कबिम्बयोजनान्युपदिश्य व्यासार्धमण्डले लिप्ताव्यासार्धानयनार्थमाह -
योजनव्याससंक्षुण्णं विष्कम्भार्धा विभाजयेत्।
स्फुटयोजनकर्णाभ्यां लिप्ताव्यासौ स्फुटौ तयो:।।5।।
व्यासार्धेन योजनव्यासौ हत्वा स्फुटयोजनकर्णाभ्यां विभज्य लिप्ता गृहीत्वा शेषं षष्ट्या हत्वा तभ्यामेव विभज्य विलिप्ताश्च गृहीत्वा ये फले ते सूर्यबिम्बं चन्द्रबिम्बं च भवत:। अत्र पुनश्चन्द्रबिम्बस्यैवाधिकारत्वात्तदनष्टं विन्यस्योत्तरमारभ्यते।।5।।
अथेदानीं भूछायादैर्ध्यानयनार्थमाह -
कर्ण: क्षुण्ण: सहस्रांशोर्मेदिनीव्यासयोजनै:
मेदिन्यर्कविशेषेण भूछायादैर्ध्यमाप्यते।।6।।
भूमिव्यासयोजनै: (1019)व्योमभूतदिक्संख्याप्रमाणैरादित्यस्फुटयोजनकर्णं हत्वा व्योमभूतदिक्संख्याविहीनेनादित्यबिम्बयोजनप्रमाणेन (3360)खरसरामवह्निना विभज्य यत्फलमवाप्यते तद् भूछायादैर्घ्यं नाम भवति। किमिदं भूछायादैर्ध्यमित्युच्यते। यथा वृक्षछायैकापार्श्वस्था सूर्यदिग्विपरीतदिक्स्थिता दृश्यते तथैव भूमण्डलस्य गोलाकारभपञ्जरमध्यप्रतिष्ठितस्य खमध्यस्थस्य छाया भूगोलपरिणाहमूला गोपुच्छाग्रा सूर्यदिग्विपरीतदिगनुसारिणी तत्तुल्यभ्रमणगति: कुम्भस्यातपस्थस्य छायेव यावता दीर्घत्वेन दृश्यते तच्छायादैर्ध्ययोजनप्रमाणमुच्यते। यद्येवं गुरुद्रव्यस्याध:पतनदर्शनात् सप्तद्वीपसप्तसमुद्रलोकालोदिपर्वतपरिवेष्टिताया भूमेराकाशावस्थितिर्न घटते। सत्यम्। तथापि भूमेरवस्थितिराकाश एव। कथम्। दिग्गजानां मस्तकेष्वासक्ता आहोस्विच्छेषाख्यस्य महानागस्य सहस्रफणामण्डललग्ना। नैवम्। तर्हि तेषामप्याधारान्तरान्वेषणवशादनवस्थाप्रसङ्ग आपद्यते। तस्माद्दिग्गजाद्याधारविशेषोऽत्र न कल्प्यते। अन्यदपि यत्त्वयोक्तं भूमे: सप्तद्वीपादि-परिवेष्टन्माचार्यार्यभटप्रणीतभूमिप्रमाणदर्शनत्वादसदिति मन्यामहे। समुद्रोप्येक एव।
'स्वर्मेरू स्थलमध्ये नरको बडवामुखं च जलमध्ये'
इत्युक्तत्वात्। अपि च नवरन्ध्राश्चिवह्नय इति भूपरिधिरानीयते। वसुन्धराव्यासोऽपि व्योमभूतदिश इति कथ्यते। तथाहि गणितानुमानम्। खमध्यावस्थितेरपि तस्य भूमेरूद्वहनार्थं भूवायुरिति 'गियिन्दशकु वायु कक्ष्यान्ता' इति वायो: प्रमाणमुक्तम्। वायोस्तु पुनस्तथाशक्तिमाकाशे समुद्रोपमसलिलसम्पूर्णमेघोद्वहनदर्शनात् अवगच्छाम:। यदुक्तं सप्तद्वीपादि-पृथिवीप्रमाणमाधरविशेषश्च सृष्ट्यन्तरे सिद्धश्चेत्सापि पौराणिकी श्रुतिरेव, न पुनरार्यभटप्रणीतम्।।6।।
एवं छायादैर्घ्यमुक्त्वा तमोयोजनव्यासानयनार्थमाह -
चन्द्रकर्णविहीनेऽस्मिन् भूमिव्यासेन ताडिते।
छायादैर्ध्यहृते व्यास: चन्द्रवत्तमस: कला:।।7।।
छायादैर्घ्यं प्रतिराश्य तस्मात् स्फुटयोजनकर्ण चन्द्रकक्ष्यासम्भूतं विशोद्ध्य शेषं छायाग्रचन्द्रविवरं भूमिव्यासेन (1050)व्योमभूतदिक्संख्यापतिमितेन हत्वा छायादैर्घ्येण प्रतिराशितेन विभज्य यदवाप्यते तच्चन्द्रकक्ष्याप्रदेशस्थितभूछायाविष्कम्भयोजनप्रमाणं स्यात्। तत्पुनर्व्यासार्धेन हत्वा चन्द्रस्फुटयोजनकर्णेनैव विभज्य लिप्तव्यासाप्रमाणं सविलिप्तं भवति। तदर्थमिदमुक्तं चन्द्रवत्तसम: कला इति। तदनष्टं विन्यस्य तदुत्तरं कर्तव्यम्। किमर्थं भूमिव्यासयोजनप्रमाणं चन्द्रकक्ष्याप्रदेशवर्तिनस्तमसो न स्यात्। छायावसानसमीपत्वात्। छायावसानमपि कथं सम्भवति। आदित्यबिम्बप्रमाणात् भूमे: प्रमाणस्याल्पत्वात्। आदित्यविम्बस्य परित स्थितप्रदीप्त्या भूछायायास्सूच्यग्रता सम्भवत्येव। एवं तर्हि भूछायाविष्कमध्यस्य पर्वान्तकालसम्बन्ध:। सत्यम्। अत एव पर्वणि चन्द्रस्य ग्रहणे स्पर्शकालो दृश्यते प्रतिपदि मोक्षश्च। अपि च चन्द्रग्रहणस्य बिम्बपूर्वार्ध एवं प्रग्रासदर्शनं छायाप्रवेश: पूर्वभागेनैव सम्भवत्वात् सम्भवत्येव अस्य चन्द्रग्रहणस्य मसृणितश्रृङ्गत्वं भूछाया (प्रवेशादि)ह सम्भवति, अल्पमण्डलस्य बृहन्मण्डलप्रच्छादनं तथा दृश्यते पृथुछत्रेणाल्पछादनवत्। न तथा सूर्यस्य ग्रहणं दृश्यते। चन्द्रस्याल्पत्वात् सूर्यग्रहणे हि श्रृङ्गद्वयमतीव तीक्ष्णाग्रतया दृश्यते।।7।।
अथेदानीं विक्षेपलिप्तानयनार्थमाह -
पातोसमलिप्तेन्दोर्जीवा खत्रिधनाहता।
कर्णेन ह्रियते लब्धो विक्षेपस्सौम्यदक्षिणः।।8।।
पातस्फुटं सम्यग् कृत्वा तत्कालीकृत्य समचन्द्रद्विशोद्ध्य मेषादि विज्ञाय भुजाजीवामादाय तां जीवा परमविक्षेपज्यया (270)खत्रिधनसंख्यया हत्वा चन्द्रकर्णेनाविशिष्टेन कलासंख्येन विभज्य लिप्तादि फलमानीय यत्फलं सविलिप्तं गृह्यते तद्विक्षेपः सौम्यदक्षिणो भवति। अत्र तु पुनः केचिद्विक्षेपं व्यासार्धभागहारेण गृह्णन्ति।।8।। एवं विक्षेपमानीय ग्रहणस्य सदसद्भावं ग्रस्तविशिष्टप्रमाणां चोपदिदिक्षुराह-
इन्दुहीनतमोव्यासदललिप्ताविवर्जिताः।
(A निक्षेपस्य गृह्यन्ते)क्षेपलिप्ता व गृह्यन्ते तमसा शशलक्ष्मणः।।9।।
चन्द्रबिम्बं तमोबिम्बाद्विशोद्ध्य शेषमर्धीकृत्य या लिप्ता दृश्यन्ते ताः पुनर्विक्षेपलिप्ताभ्यो दिशोद्ध्य यच्छेषं तत्र दृश्यते तावत्प्रमाणलिप्ताश्चन्द्रबिम्बलिप्ता न गृह्यते इत्यर्थः। अतोऽन्यथाच्चिन्द्रबिम्बलिप्तातुल्याश्चेत् तल्लिप्ताग्रहणं नास्तीति गम्यते। अतोऽन्यथास्तीति। एतस्मिन्नर्थे आचार्यार्यभटप्रणीतलक्षणमेव स्पष्टा। कुतः।
''तमसो विष्कम्भार्धं शशिविष्कम्भार्धवर्जितमपोह्य।
विक्षेपाद्यच्छेषं व गृह्यते तच्छशाङ्कस्य।।''
इति। किमिह ग्रहणस्य सदसद्भावज्ञानमेतल्लक्षणात् पूर्वमेवाशक्यम्। स्थूलरूपेण शक्यं न सूक्ष्मम्। कथं पुनः स्थूलरूपेण शक्यं ज्ञानम्। राहोरासन्नदूरभावात् समचन्द्रस्य भागसंख्यया तदवगन्तुं शक्यम्। कुत:। समचन्द्रात् पातहीनात् भुजाभागस्य संख्यया गम्यते। कथम्। त्रयोदशभागेभ्य ऊनाश्चेत् सुतरां सद्भावः ततोऽधिकाश्चेदभाव एव चन्द्रग्रहणस्य। सूर्यग्रहणस्य पुनर्द्वादशभागोनभुजाभागेषु सद्भावः ततोऽधिकेष्वसद्भावोऽपि तथैव। अपि चादेश्यग्रहणमनादेश्यग्रहणमित्युभयं च कथ्यते।
''शशिदेहाष्ट्यंशोनं सम्पर्कदलं यदानतेरधिकम्।
भवति तदिन्दुग्रहणं न भवत्यल्पेऽर्धसम्पर्के।।''
शशिदेहस्व षोडशांशग्रासं ग्रहणं द्रष्टुमशक्यत्वादनादेश्यम्। अपि च सूर्यग्रहणस्यदेश्यानादेश्यौ कथ्येते-
''रविभागोनात् सम्पर्कार्धात् यदावनतिरूना।
ग्रहणं तदा रवेः स्यादधिकायामनवनतौ नैवम्।।''
रविदेहस्याष्टमांशग्रहणमनादेश्यमिति यावत्। ततोऽधिकमादेष्टव्यं च। केनेदमार्याद्वयमुक्तमिति चेत् आचार्यैर्भट्टर्गोविन्दकृतौ प्रणीतम्। अपि च खण्डखाद्याशास्त्रे सूर्यग्रहणस्यान्यथा कथितम् -
''द्वादशभागादूनं ग्रहणं तैक्ष्ण्याद्रयेहादेश्यम्।
षोडशाभागादिन्दोः स्वच्छत्वादधिमादेश्यम्।।''
अनेन ग्रहणप्रमाणमपि संक्षेपेण कथितम्।
''विक्षेपं संशोद्धम् प्रमाणयोगार्धमच्छन्नम्।
सर्वग्रहणाग्राह्यदधिके खण्डग्रहणमूते।।''
प्रमाणयोगार्धमिति सम्पर्कार्धमुच्यते। का पुनरिह नतिशब्देनोच्यते। स्फुटविक्षेप इत्यर्थः। अलमतिप्रसङ्गता।।9।।
अथेदानीं स्थित्यर्धानयनायाह-
विक्षेपवर्गहीनायास्सम्पर्कार्धकृतेः पद्म्।
गत्यन्तरहृतं हत्वा षष्ट्या स्थित्यर्धनाडिकाः।।10।।
उक्तेन प्रकारेण विक्षेपं सविलिप्तमानीय सवर्णयित्वा वर्गीकृत्य चन्द्रबिम्बं तमोबिम्बं च संयुज्यार्धीकृत्य सम्पर्कार्धमापाद्य वर्गीकृत्य वर्गं क्वचिदनष्टं विन्यस्य तस्मात्संपर्कार्धवर्गात् विक्षेपवर्गमपनीय मूलमादाय षष्ट्या हत्वा रविचन्द्रस्फुटभुक्तन्तरेण विभज्य घटिका गृहीत्वा शेषं षष्ट्या पुनस्संगुणय्य तेनैव विभज्य विघटिकाश्च गृहीत्वा भूयः षड्भिश्च हत्वा प्राणा अपि ग्राह्यः। एतदुक्तं भवति। तिथिलिप्ताभिर्यथा घटिकादिग्रहणं तद्वत् स्थित्यर्थलिप्ताभिर्घटिकादिग्रहणमिति। अत एव भुक्त्यन्तरेण ग्रहणमुच्यते।।10।।
एवं स्थित्यर्धघटिकानयनमुक्तवेदानी स्पर्शमोक्षकालचन्द्रस्फुटस्वरूपानयनार्थमाह -
(F स्फुटभक्त्या नाट्यः)स्फुटभक्तिहता नाड्यः षष्ट्या नित्यं समुद्धृता।
लब्धलिप्ताः क्षयश्चन्द्रे क्षेपश्च स्पर्शमोक्षयोः।।11।।
स्थित्यर्धघटिकादिः सर्व सवर्णयित्वा प्राणपिण्डमापाद्य स्फुटभुक्त्या चन्द्रस्य हत्वा प्राणपिण्डमहोरात्रासुभिर्विभज्य स्फुटभुक्त्यापादनवशात् लिप्ता विलिप्ता वा गृहीत्वा समचन्द्रे विरूपीकृते शोधनं क्षेपणं च कृत्वा यथा दृष्टौ तावुभौ स्पर्शमोक्षचन्द्रौ भवतः। कथं षष्ट्या नित्यं समुद्धृता इत्युक्तत्वात् अहोरात्रासुभिर्ग्रहणमुच्यते। नैष दोषः। केवलं स्थित्यर्धेघटिका गृहीताश्चेत् षष्ट्यैव समुद्धरणं नित्यमुच्यते। न पुनर्विघटिकादिषु, इच्छाराशिसमानत्वात् प्रमाणराशौ लिप्ताक्षयधनकथनात् अस्यायभिप्रायः-स्फुटभुक्तिस्तावल्लिप्तास्वरूपेणनेतव्येति। तत्थूलं न सूक्ष्मम्। विलिप्तास्वरूपेणावस्थानं स्फुटभुक्तेस्सूक्ष्मत्वम्। अतो विलिप्ताफलमेवात्र पूर्व लक्ष्यते। तत् षष्ट्या समरोप्य लिप्तास्थाने विलिप्तास्थाने च शोधनं क्षेपणं च कर्तव्यम्। एवं स्पर्शमोक्षचन्द्राववस्थाप्य पातभुक्त्यापि स्थित्यर्थप्रमाणसमूहं हत्वा अहोरात्रासुना विभज्य यत्फलं लब्धं तत्तकालीकृतपातस्फुटाद् द्विधाकृतात् शोधनक्षेपणविपरीतात् स्पर्शमोक्षपातावपि कृत्वावस्थाप्य स्थित्यर्धाविशेषणमारभ्यते।।11।।
तत्कथमित्यत्राह-
विक्षेपश्चन्द्रतस्तस्मात् नाडिका लिप्तिका शशी।
(A B C F G आवृत्तिकर्मणानेव)आवृत्या कर्मणा तेन स्थित्यर्धमविशेषयेत्।।12।।
अत्र तु पुनः स्थित्यर्धाविशेषणं पूर्वं स्पर्शकालावगमनार्थं, स्पर्शस्थित्यर्धमेव प्रथममविशिष्यते। कथम्। स्पर्शचन्द्रात् स्पर्शपातमपनीय विक्षेपं पूर्वमानीय वर्गीकृत्य पूर्वस्थापितसम्पर्कार्धवर्गाद्विशोद्ध्य मूलमादाय षष्ट्यादिगुणं कृत्वा भुक्त्यन्तरेणैव विभज्य स्थित्यर्धप्राणानानीय तान् प्राणान् चन्द्रस्फुटभुक्त्या हत्वा पुनरप्यहोरात्रातुराशिनैव विभज्य समचन्द्रे शोधनं कृत्वा तस्माच्चन्द्रात्पुनः पातमपि विपरीतकृतं स्पर्शसम्भवं विशोद्ध्य विक्षेपमानीय वर्गीकृत्य सम्पर्कार्धकृतेर्विशोद्ध्य मूलं गृहीत्वा षष्ट्यादिगुणं कृत्वा प्राणानादाय भुक्त्यन्तरेण तान् प्राणान् हत्वा अहोरात्रासुराशिनैव विभज्य फलं समचन्द्रादेव सर्वदा विशोद्ध्य विशोद्ध्य पुनः पुनर्यावदविशेषदर्शनं तावदेवमेव कर्तव्यम्। तदर्थमिदमुक्तम् -
'आवृत्या कर्मणा तेन स्थित्यर्धमविशेषयेद्।' इति। एवं मोक्षचन्द्रात् मोक्षपातमपि विशोद्ध्य स्थित्यर्धमानीयाविशेषणं कृत्वा ताभ्यां स्पर्शमोक्षस्थित्यर्धाभ्यां स्पर्शमोक्षकालावादेष्टव्यौ। कथमिह मोक्षस्थित्यर्धाविशेषकरणमिति चेत् सर्वदा समचन्द्रादेव स्थित्यर्धप्राणलब्धफलं क्षिप्ताविशेषणमारभ्यते। एतावनेव विशेषः। अन्यत्सर्वं पूर्ववत्।।12।।
एवमानीतस्थित्यर्धाभ्यां स्पर्शमोक्षकालावगमनार्थमाह -
स्थित्यर्धेनाविशिष्टेन हीना युक्ता तिथिः स्फुटा।
(A F G स्पर्शमोक्षौ तु तौ स्याताम्)स्पर्शमोक्षौ ततः स्यातां पर्वमध्यं ग्रहस्य तत्।।13।।
रात्रौ यावत्पर्वप्रमाणं घटिकादिरूपेणावस्थितं सर्वं प्राणराशिं कृत्वा तस्मात् समपर्वप्रमाणात् द्विधाकृतादेकस्मात् स्पर्शस्थित्यर्घप्राणपिण्डविशिष्टं विशोद्ध्य शेषं षड्भिः षष्ट्या च समारोप्य यावत् घटिकादि दृश्यते तावता कालेन स्पर्शकाल आदेष्टव्यः। तत्र तु पुनः षोडशांशग्रासकालमतीत्य स्पर्शकालादेसनमिष्यते। तस्मात्पूर्वं द्रष्टुमशक्यत्वात्। तत् कथमवगम्यत इति चेत् पूर्वमेव सम्पर्कार्धमिन्दुषोडशांशोनं कृत्वा वर्गीकृत्य तस्माद्विक्षेपवर्ग विशोद्ध्य स्थित्यर्धाविशेषणं कर्तव्यम्। अथवा तत् षोडशांशलिप्ताभिः षष्टिगुणिताभिः भुक्त्यन्तरभाजिताभिः विघटिकाद्यानयनं कृत्वा कालप्रमाणमवगम्य स्पर्शपर्वणि युक्तवा स्पर्शकालो वक्तव्य:। अथ मोक्षकालावगमनार्थमस्मिन् पर्वणि मोक्षस्थित्यर्धमविशिष्टं क्षिप्त्वा पूर्ववन्मोक्षकाल आदेष्टव्य:। तत्र षोडशांशकालमूनं कृत्वा वक्तव्यम्। पुनरुभयो: स्थित्यर्धयोर्योगं कृत्वा स्थितिकालो घटिकादिभिर्वक्तव्य:। समपर्वप्रमाणं यावत्पूर्वमवगम्यते तमन्धयग्रहणकाल इत्युच्यते। तदर्थमिदमुक्तं-पर्वमध्यं ग्रहस्य तत् इति। कथमस्तमयासन्नपर्वणि स्पर्शस्थित्यर्धप्राणपिण्डादूने सति स्थिस्यर्धशोधनमिति चेत् चरदलसंस्कृतमहर्मानं युक्त्वा पर्वणि तस्माद्विशोद्ध्यम्। एवं निशान्तेऽपि निशामानं युक्त्वा तदुत्तरपर्वणि स्पर्शस्थित्यर्धशोधनमिष्यते। अत्र शङ्कुच्छायामार्ग परिगणय्य छायाप्यादेष्टव्या। षष्ठाध्याये स्वयमेव वक्ष्यति।।13।।
अथेदानीं विमर्दार्धघटिकानयनार्थमाह -
ग्राह्यग्राहकविश्लेषदलविक्षेपवर्गयोः
विश्लेषस्य पदं प्राग्वद्विमर्दार्धस्य नाडिका।।14।।
ग्राह्यबिम्बं चन्द्रबिम्बं ग्राहकबिम्बात्तमोबिम्बद्विशोद्ध्य शेषस्य दलं वर्गीकृत्य तस्मात्समविक्षेपवर्गं प्रथमानीतं विशोद्ध्य मूलं गृहीत्वा षष्ट्यादिगुणं कृत्वा भुक्त्यन्तरेण विभज्य घटिकाद्यानयनं कृत्वा पूर्ववत् भुक्त्या संगुणय्य अहोरात्रासुलब्धस्य समचन्द्राद्द्विधाकृताच्छोधनक्षेपणे कृत्वा स्थित्यधनियनमार्गाभ्यमेव विमर्दार्धद्वयमनीयाविशेषणं कृत्वा स्पर्शमोक्षविमर्द्दार्धाभ्यां युक्ताभ्यां विमर्द्दकाल आदेष्टव्यः। किमिह विमर्द्दार्धशब्देनोच्यते। सर्वग्रासे ग्राह्यबिम्बे प्रच्छन्ने सति यावत्कालमदर्शनं भवति तावतः कालस्य प्रमाणं विमर्दार्धसंज्ञया कथ्यते। अस्य विमर्दार्धस्य सद्भावस्तावत् ग्राह्यग्राहकविश्लेषपदलवर्गाद्विक्षेपवर्गे विशोधिते सति विक्षेपेन पुनर्विक्षेपेऽधिके दृष्टे। एतावानेवात्रविशेषः ग्राह्यग्राहकविश्लेषार्धवर्गात् सर्वदा विक्षेपवर्गशोधनम्। अन्यत्सर्वं स्थित्यर्धवत्।।14।।
अधुना तावदक्षवलनानयनार्थमाह -
तिथिमध्यान्तरालानामसूनामुत्क्रमज्यया।
विषुवज्ज्याहता भाज्या त्रिमौर्व्या लब्धदिक्क्रमः।।15।।
प्राक्कपाले तु बिम्बस्य पूर्वपश्चिमभागयोः।
उदग्दक्षिणतोऽक्षस्य वलनं पश्चिमेऽन्यथा।।16।।
तिथिशब्देनेह स्पर्शमध्यमोक्षकालत्रयमुच्यते। मध्यशब्देन चरदलसंस्कृतं निशार्धं दिनार्धं च ग्रहणयोरुच्यते। अत्र चन्द्रग्रहणो पूर्वं निशार्धंमापाद्य निशार्धात्त्रिराशीकृतात् स्पर्शमध्यमोक्षकालत्रयं पूर्वरात्रो रात्रिगतं क्रमाद्विशोद्ध्य वापररात्रौ कालत्रयान्निशार्धप्राणसमूहाद्विशोद्ध्य यावदविशिष्टं शेषत्रयं तदिह तिथिमध्यान्तरालासुसंज्ञया कथ्यते। तान् प्राणान् मख्या विभज्य लब्धफलसंख्यया स्वोत्क्रमज्यात्रयं सशेषमादायाक्षज्यया संहत्य त्रिज्यया विभज्य लिप्ताफलं गृहीत्वा शेषं षष्ट्या हत्वा (S1 व्यासार्धेन)व्यासार्धेनैव विभज्य विलिप्ताश्च गृहीत्वा यत्फलत्रयमानीयते तदक्षवलनं नाम भवति। अस्याक्षवलनत्रिकस्य दिग्त्रयं पृथगवगन्तुं प्राक्कपालेत्यादिना कथ्यते। कथम्। प्राक्कपालकसंज्ञयापरकपालसंज्ञया च यदुच्यते तत् खमध्यात् पूर्वापरभागौ गगनतलप्रदेशौ स्याताम्। एतदुक्तं भवति, गगनतलमध्यात् पूर्वस्मिन् भागे स्पर्शमध्यमोक्षा भवन्ति चेत् पूर्वकपालग्रहणमिति तत्सर्वमुदाहरन्ति। अथापरकपाले यदि स्युरेते तदपरकपालग्रहणमिति वर्णयति। अथ च पूर्वकपाले स्पर्शमादौ कृत्वा पुनपरकपाले मोक्षश्चेत्तद्ग्रहणमुभयकपालमिति चोच्यते। इहाक्षवलनस्य पूर्वकपाले बिम्बस्य पूर्वपश्चिमभागयोरानीतस्य यथाक्रममुदग्दक्षिणे दिशौ भवतः। अथापरकपाले बिम्बपूर्वापरभागयोः आनीताक्षवलनद्वयस्य पूर्वोक्तविपरीताद्दक्षिणोत्तरे दिशौ स्याताम्। मध्यवलनस्य दिक्कस्मान्नविधियते। साप्युत्तरत्र स्पर्शवत् केवलं स्फुटमिति स्पर्शवलनदिग्वशादेव मध्यवलनदिक् सर्वदा गृह्यते। चन्द्रस्य तावत् स्पर्शवलनं बिम्बस्य पूर्वभाग एव सर्वदा सम्भवति भूच्छायाप्रवेशत्वात्। मोक्षवलनं बिम्बपश्चिमभाग एव भूछायातो निर्गमनात् तस्य पश्चिमदिक्स्थितत्वात्। अथ सूर्यग्रहणे सूर्यबिम्बपश्चिमार्धपूर्वार्धयोरेव सर्वदा स्पर्शमोक्षवलनद्वयस्य दिग्विधिः। अमावास्यन्ते चन्द्रबिम्बेन पश्चिमदिगागतेन प्रच्छादनत्वात्। एतस्मिन्नर्थे
सुमतिनाचार्चेणैवमुक्तं च -
ʽʽप्राच्यां न रवेर्ग्रहणं वारुण्यां चापि शीतकिरणस्य।
प्राच्यां वृणोति चन्द्रं वृणोति सूर्यः तथापरतः।।ʼʼ
इति कथितत्वात् स्पर्शदिग्विधिरवगन्तव्य एव।।15-16।। अथेदानीमयनवलनप्रर्दशनार्थमाह -
तत्कालेन्द्वर्कयोः कोट्योर्व्युतक्रमज्यापमो गुणः।
अयनाद्विम्बपूर्वार्धे पश्चार्धे व्यत्ययेन दिक्।।17।।
तत्कालेन्दुरिति स्पर्शमध्यमोक्षकालत्रयेण तत्कालीकृतस्फुटत्रयरूपयुक्त उच्यते। एतदुक्तं भवति। अविशिष्टस्थित्यर्धाभ्यां चन्द्रभुक्तिं हत्वा षष्ठ्यादिभिर्विभज्य लब्धफललिप्तादिभ्यां शोधनक्षेपणसंस्कृतस्समचन्द्रे चेति। एवविधं चन्द्रस्फुटं स्पर्शजं पूर्वं विन्यस्य मकरकर्क्यादिलक्षणाभ्यां उत्तरदक्षिणानयनत्वमवगम्य कोट्युत्क्रमज्यामादाय तां जीवां परमाक्रमेण गत्वा व्यासार्धेन विभज्य इष्टापक्रमगुणं गृहीत्वा पुनः समचन्द्रादेवमिष्टापक्रमगुणमादाय मोक्षचन्द्रादपि पुनरानीय यथाक्रमं विन्यस्य तेषां काष्ठीकरणं त्रयाणां कृत्वा तेषामयनवलनसंज्ञा विधीयते। तस्यायनवनत्रयस्य दिग्विधिरभियधीयते। कथम्।
ʽअयनाद्बिंबपूर्वार्धे पश्चार्धे व्यत्ययेन दिक्ʼ
इति। अयनवलनदिग्यथागता तथैव ग्राह्या। बिम्बस्य पूर्वार्धे स्यात्। अथापरार्धे चेदयनवलनदिग्विपरीतेन ग्राह्यः। कथं विपरीतग्रहणम्। उत्तरायणं चेद्दक्षिणदिग्ग्राह्य। अथ दक्षिणायनं चेदुत्तरदिग्ग्राह्य। अयनवलनस्य कपालाश्रयदिग्ग्रहणाभावात् पूर्वापरकपालयोरपि बिम्बस्य पूर्वार्धपश्चिमार्धयोरुक्तेनैव मार्गेण दिग्गृह्यते।।17।।
एवमयनवलनत्रयमुक्त्वेदानीं स्फुटवलहप्रर्दशनार्थमाह -
योगस्तद्धनुषोः साम्ये दिशोर्भेदे विपर्ययः।
सम्पर्कार्धहता तज्जया त्रिज्याप्तं वलनं हि तत्।।18।।
एकदिक्कं क्षिपेत् क्षेपे विदिक्कं तद्विशोधयेत्।
वलनं तत्स्फुटं ज्ञेयं सूर्याचन्द्रमसोर्ग्रह।।19।।
अक्षवलनत्रयं च काष्ठीकृत्य तेषां दिशः पूर्वोक्तन्यायेनावहगम्य पुनरयनवलनानां दिशश्चोपलक्ष्य पूर्वं तावत् स्पर्शाक्षायनवलनकाष्ठयोः तुल्यदिग्त्वे सति तयोर्योगं कृत्वा भिन्नदिग्तवे विश्लेषं वा कृत्वा तस्माज्जीवामादाय तया जीवया सम्पर्कार्धं सविलिप्तं हत्वा षष्ट्या विलिप्ताभ्यो विभज्य यदवाप्तं फलं तदुपरिस्थे गुणिते प्रक्षिप्त व्यासार्धेन विभज्य लिप्ताफलमादाय पुनस्तच्छेषमपि षष्ट्या हत्वा त्रिज्ययैव विभज्य विलिप्ताश्च गृहीत्वा यत् स्थानद्वयसंस्थितं वलन् दृश्यते तदपि वलनं नाम भवति। एवं मध्यमोक्षवलनद्वयमप्यानीय स्वदिग्वशात् स्फुटवलनत्रयमापादयितुं एकदिक्कं क्षिपेत क्षेप इत्यादिना कथ्यते। कथम्। स्पर्शमध्यर्मोक्षवलनत्रयं स्वदिग्वशादानीय क्रयाद्विन्यस्य स्पर्शमोक्षवलनद्वये स्पर्शमकोक्षविक्षेपद्वयं स्वदिग्वशाद्योगविश्लेषं कृत्वा यथा दृश्यते ते स्पर्शमोक्षस्फुटवलने भवतः। अत्र मध्यमवलनस्य मध्यमविक्षेपेण संयोगः। वियोगत्वं नेष्यते। तत्केवलं स्फुटवलनं भवति। तदुत्तरत्र वक्ष्यति।
ʽअसंयुक्तमविश्लिष्टं स्पर्शवत् केवलं स्फुटम्ʼ
इति। मध्यवलनस्य दिगपि स्पर्शवलनदिगेव ग्राह्येति कथितं भवति। कथम्। स्पर्शवदित्युक्तत्वात्। अत्र चन्द्रग्रहणे विक्षेपस्य या दृश्यते दिक् सैव न गृह्यते। का पुनरत्र दिग्गृह्यते विपरीता। कुतः। उत्तरे दक्षिणा दक्षिणे चोत्तरा। एतदुक्तं भवति। विक्षेपस्यागतदिग्विपरीतेन वलनद्वये क्षेपपणशोधनकर्म कर्तव्यमिति।।18-19।।
अथेदानीं स्फुटवलने सम्पर्कार्धाधिके सति कथं स्फुटवलनग्रहणोपाय इत्यत आह-
सम्पर्कार्धाधिकं तद्धि संख्यया (A C D G यत्र लक्ष्यते)यत्र लभ्यते।
सम्पर्कात्सकलाद्धित्वा वलनं तत्र (A शिष्यते)निर्दिशेत्।।20।।
सम्पर्कार्धाधिके दलने सति यदि सम्पर्काधात् द्विगुणितात् विशोध्य यच्छेषं तत् स्फुटवलनमिति ग्राह्यं भवति। तस्यापि दिक् पूर्वोक्तैव।।20।।
अथेदानीं (S2 मध्यवलनस्परूपं।)मध्यमवलनस्वरूपं विक्षेपदिक्स्वरूपं च दर्शयितुमाह -
असंयुक्तमविश्लिष्टं स्पर्शवत्केवलं स्फुटम्।
विक्षिप्त्या ग्रहमध्यस्य (A D F H व्यस्तस्स्य तु दिक्क्रमः)तस्य स्याद्वयस्तदिक्क्रमः।।21।।
अस्य श्लोकस्य व्याख्यातं प्रसङ्गात्पूर्वमेवोक्तम्।।21।। अथेदानीं वलनदीनां अङ्गुलाद्यानयनार्थमाह -
भास्करेन्दुतमोव्यासविक्षेपवलनीद्भवाः।
अङ्गुलान्यर्धिता लिप्तास्ता एव हरिजस्थितेः।।22।।
भास्करेन्तु इति भास्करेन्द्वोर्लिप्ताव्याद्वयमुच्यते। तमसोऽपि तथैव विक्षेप इति मध्यमविक्षेपः। बलनमिति स्पर्शमध्यमोक्षकालानीतस्फुटवलनत्रयम्। अत्र चन्द्रग्रहणे सूर्यबिम्बस्याधिकाराभावात् तदन्यत्सर्वं पृथक् पृथगवस्थाप्यर्धीकृत्य यद्रूपं दृश्यते तत्तेषामङ्गुलानीति ता लिप्ताः परिगृह्यन्ते। पुनस्ता एव लिप्ताः हरिजस्थितौः ग्राह्यः हरिजस्थितौ तावत् बिम्बादीनामतिप्रमाणदर्शनत्वात्। का पुवरत्र हरिजस्थितिरित्युच्यते। भूगोलस्याकाशस्य च यद्विवरं वलयस्वरूपेण दृश्यते तद्धरिजं नाम मण्डलं स्यात्। तस्मिन् ग्रहणं यदि भवति बिम्बादीनां यादत्प्रमाणं लिप्ताव्यासादि तावतैव प्रमाणेन ग्राह्यम्। (S2 यदुक्तं भवति)एतदुक्तं भवति-उदयास्तमयकालयोरर्धीकरणं नेष्यत इति।।22।। एवमङ्गुलमापाद्य तैस्तैरङ्गुलैरालेखनस्वरूपमुपदिदिक्षुराह -
ग्राह्याङ्गुलार्धविस्तृत्या वृत्तं सूत्रेण लिख्यते।
ग्राह्यग्राहकसम्पर्कदलसङ्ख्येन चापरम्।।23।।
ग्राह्यशब्देनेह चन्द्रस्यैवाधिकारत्वात् चन्द्रबिम्बाङ्गुलप्रमाणमत्र गृह्यते। ग्राहक इति तमोबिम्बङ्गुलप्रमाणं च। अथ समायामवनौ गोमयानुलिप्तायां मनोरमायामेकं सूत्रं वंशशलाकां च मुखविन्यस्तसुश्लक्ष्णवर्तिकाङ्कुरैकश्रृंगं कर्कटकं चानीयालेखनकर्म परिकल्पयेत्। तत्र सौकार्यार्थमेकस्यां वंशशलाकायां यवद्वयप्रमाणेन द्वात्रिंशदङ्कितायामङ्गुलानि भवन्तीति परिकल्प्य तामपि शलाकां च समीपे सङ्गृह्य पुनस्तस्यामवनौ प्रथमं तावदेकं बिन्दु कृत्वा तस्मिन् बिन्दौ कर्कटकैकश्रृङग विन्यस्य अपरेण वर्तिकाङ्कुराग्रेण ग्राह्यङ्गुलप्रमाणं वंशशलाकायां द्वात्रिंशदिङ्कतायां तदङ्गुलप्रमाणं परिकल्प्य तदर्धप्रमाणेन विदारितास्येन ग्राह्यबिम्बं भ्रमयित्वा पूर्ववत्तद् बिन्दावेक श्रृङ्गं विन्यस्य ग्राह्यग्राहकसम्पर्कदलसङ्ख्याप्रमाणमपि शलाकायामेव परिपकल्पय तावद्विदारितास्येन बहिर्वृत्तमपि लेखयेत्। ननु कर्कटकेनालेखन न विधियते, वृत्तं सूत्रेण लिख्यत इत्युक्तत्वात्। नैष दोषः। कर्कटकादन्यत् कुशलैः शिल्पनिर्वृत्तपरिलेखनविषये न गृह्यते।।23।।
एवं वृत्तद्वयमालिख्य तद्वृत्तमध्ये पूर्वापरसूत्रं दक्षिणोत्तरसूत्रं च कृत्वा स्पर्शमोक्षवलनद्वयेन स्पर्शमोक्षप्रदेशद्वयमुपदिदिक्षुराह -
पूर्वापरायतं सूत्रं (C D तन्मध्याद्दक्षिणोत्तरे।)तन्मत्स्यात्सौम्यदक्षिणे।
कृत्वा यथादिशं केन्द्रात् वलनं नौयते स्फुटम्।।24।।
वृत्तद्वयमध्ये पूर्वापरायतं सूत्रं चन्दनक्षोदार्द्रं स्पष्टं सम्प्रसार्यं पुनस्तस्मिन् सूत्रे मध्यबिन्दोरुभयोः पार्श्वयोः उभौ तुल्यबिन्दू कृत्वा तयोरेकस्मिन् बिन्दौ कर्कटकस्यैकं श्रृङ्गं विन्यस्य तयोः बिन्दोरन्तरालप्रमाणर्धाधिकप्रमाणविदारिताङ्कुरेण कर्कटकेन दक्षिणोत्तरायतं तिर्यक्सूत्रस्य कार्मुकाकारं वृत्तार्धमालिख्य तावता प्रमाणेनापरबिन्दौ तच्छृङ्गविन्यस्य पूर्ववदर्धवृत्तं कृत्वा यथा तत्र वृत्तद्वयसंश्लेषण मत्स्यरूपेण दृश्यते तन्मत्स्यमध्यम्। केन्द्रं नाम वृत्तयोर्मध्यस्थबिन्दुरुच्यते। तस्मिन् केन्द्रमध्ये मत्स्यमुखपुच्छनिस्सृतं सूत्रं दक्षिणोत्तरसूत्रं भवति। अन्यथा मत्स्यमन्तरेण पूर्वापरसूत्रस्य दक्षिणोत्तरसूत्रमन्यद्भवति। एवं सूत्रद्वयं वृत्तमध्ये कृत्वा पुनर्यथादिशं स्पर्शवलनं केन्द्रकद्दक्षिणेनोत्तरेण वाङ्गुलविभागाङ्कितशलाकापरिकल्पितं मानमुन्नीय बिन्दुं तदग्रे कृत्वा तस्य बिन्दोर्दक्षिणोत्तरस्तुल्यबिन्दू कृत्वा ताभ्यां बिन्दुभ्यां पूर्ववत् पूर्वापरायतं मत्स्यमालिख्य (S1.3 मत्स्यमुख।)तन्मत्स्यमुखपुच्छानुसारि तत् सूत्रं बाह्यवृत्तान्तं स्पर्शदिग्वशात् प्राच्यां चन्द्रग्रहणे सूर्यग्रहणे प्रतीच्यां वा नीत्वा तत्रैकं बिन्दुं कृत्वा तस्माद् बिन्दोः सूत्रमाकेन्द्रं नीत्वा तेन सूत्रेण ग्राह्यबिम्बस्य यत्र योगो दृश्यते तत्र स्पर्शप्रदेश इत्यादेष्टव्यः। एवं मोक्षवलनमपि केन्द्रतो नीत्वा तदग्रे बिन्दुं विरच्य प्राग्वत् मत्स्यमापाद्य तन्मध्यान्मोक्षवलनदिग्वशात् बाह्यवृत्तान्तं नीत्वा बिन्दुं तदग्रे कृत्वा ततः केन्द्रामानीय तत्सूत्रग्राह्यमण्डलयोगप्रदेशस्तत्र मोक्षप्रदेश इत्यादेष्टव्यः।।24।।
एवं स्पर्शमोक्षप्रदेशावगमनार्थं श्लोकद्वयमुक्तम् - -
(A C विन्यस्य मत्स्यमध्येन।)विन्यस्तमत्स्यमध्येन सूत्रं पूर्वापरे दिशौ।
नीत्वा तु बा(C बाह्ये वृत्ताभ्तं।)ह्यवृत्तान्तं (G केन्द्र तत्र समानयेन्।)ततः केन्द्रं समानयेत्।।25।।
ग्राह्यमण्डलतद्योगो व्यक्तं यत्रोपलक्ष्यते।
प्रग्रासग्रहमोक्षौ स्तः तत्र देशे निशाकृतः।।26।।
इति। व्याख्यातम्।।25-26।।
अधुना मध्यवलनप्रयोगमुपदेष्टुमाह -
तुल्यदिग्वलनक्षित्योर्वलनं वारुणी नयेत्।
अन्यथैन्द्रीं रवेर्व्यस्तं सूत्रं तन्मत्स्यतो बहिः।।27।।
मध्यवलनस्य विक्षेपस्य च दिशोस्तुल्यत्वे सति वलनं मध्यजमङ्कितशलाकागतप्रमाणं केन्द्रात्पूर्वापरसूत्रे दिशं वारुणीं नेयत्। अथ तयोर्दिग्भेदे सति केन्द्रादेव पूर्वाभिमुखं नेयत्। अत इदमुक्तं अन्यथैन्द्रीमिति। एवं मध्यमवलन(S1. 2 Ommit सूत्र।)सूत्रप्रसारणं चन्द्रस्यैव, न तु पुनरर्कस्य विधीयते। तस्य कथमिति चेदुक्तं हि रवेर्व्यस्तमिति। कुतः तुल्यदिग्वलनक्षित्योर्वलनं पूर्वतो नयेत्। तयोर्भिन्नत्वे सति प्रतीचीं नयेदित्यर्थः।।27।।
एवं वलनं पूर्वापरसूत्रे प्राच्यां प्रतीच्यां वा केन्द्रमुन्नीय तदग्रे बिन्दुं कृत्वा तस्य बिन्दो: पूर्वापरयोः प्राग्वत् तुल्यबिन्दू कृत्वा ताभ्यां दक्षिणोत्तरायतमत्स्यमुत्पाद्य तन्मुखपुच्छनिस्सृतं सूत्रमावाह्य मण्डलं विक्षेपदिग्वशान्नीत्वा बाह्यमण्डलसंयोगात् केन्द्रप्रापि सूत्रं प्रसार्य तस्मिन् सूत्रे विक्षेपप्रमाणोन्नयनार्थमाह -
विक्षेपस्य वशात् केन्द्रमानयेत्तद्यथादिशम्।
विक्षेपं केन्द्रतो नीत्वा बिन्दुं तत्र प्रकल्प्येत्।।28।।
विक्षेपस्य वशान्मध्यवलनाग्रमत्स्यनिस्सृतसूत्रप्रसारणदिशमुपदिश्य तदग्रकेन्द्रान्तरसूत्रमपि ततः केन्द्रं समानेदिस्युक्त्य केन्द्रादेव पुनर्विक्षेपमप्यङ्कितशलाकाङ्गुलप्रमाणपरिकल्पितं तस्मिन् सूत्रे नीत्वा तदग्रे बिन्दुरेको ग्राह्यः। स पुनरिह मध्यमबिन्दुः स्यात्। तस्मिन् बिन्दौ कर्कटैकश्रृङ्कं विन्यस्य ग्राहकाङ्गुलप्रमाणपरिकल्पितविदारितास्येन ग्राह्यबिम्बं खण्डेयेत्। तथा खण्डितमर्धं पादं त्रिभागं पादोनं समस्तं वा विक्षेपस्यासन्नदूरभावादिवशाद्यत्र यत्र यावद्यावत् खण्डितं दृश्यते, तत्स्पर्शमोक्षयोर्मध्ये मध्यग्रहणकाले ग्राह्यबिम्बं ग्राहकस्य मध्ये तथावतिष्ठते। ग्राहकमध्य इति ग्रासपरिसमाप्तिरुच्यते स्पर्शमोक्षयोर्मध्यत्वात् ग्रासपरिसमाप्तेर्ग्राहकमध्यत्वम्। केचिदत्रैवं पाठं पठन्ति ʽग्राहकस्येव तिष्ठतʼ इति। तन्न घटते। कुतः ग्राहकस्य मुखाभावात्। ननु चोक्तं भूछाया चन्द्रश्च छादनं ग्रहणयोरिति। एतस्मिन्नर्थे श्लोकमिदमुक्तम् -
ग्राहकङ्गुलविष्कम्भदलकङ्ख्येन खण्डयेत्।
ग्राह्यबिम्बं तथा मध्ये (D ग्राहकस्तावदिष्यते)ग्राहकस्यावतिष्ठते।।29।।
अथेदानीं ग्राहकवर्त्मप्रदर्शनार्थमाह -
प्रग्रासमध्यमोक्षाणां बिन्दूनां मस्तकानुगम्।
मत्स्यद्वयोत्थवृत्तं यत् वर्त्म स्याद्ग्राहकस्य (D F तु।)तत्।।30।।
स्पर्शमोक्षबिन्दूनां मस्तकानुगं मार्गमापादयितुं पूर्वं तावन्मत्स्यद्वयमापाद्य तयोर्मत्स्ययोरास्यपुच्छनिर्गतसूत्रद्वयसंयोगबिन्दौ कर्कटकाग्रं विन्यस्यन्यदग्रमेकस्मिन् बिन्दौ कृत्वान्यद्विन्दुद्वयमस्तकावगाहिनी रेखा धनुराकृतिवदलेखे कृता सती तद्ग्राहकवर्त्स स्यात्। क्व पुनरिह पूर्वं तावत् मत्स्यद्वयमापाद्यते। स्पर्शमध्यबिन्द्वोर्मध्ये पूर्वमेकं मत्स्य ताभ्यामेव बिन्दुभ्या कल्प्येत्। पुनर्मोक्षमध्यबिन्दोर्मध्ये चापिताभ्यमेव बिन्दुभ्यां द्वितीयमत्स्यम्। एवमालिखितमत्स्ययोरग्रद्वयस्य परस्पराभिमुखसन्नतया मत्स्यद्वयनिस्सृतसूत्रद्वयस्यापि शकटाग्रयोगवत् सूत्रद्वयसयोगोऽप्यस्त्येव। किमर्थमिह ग्राहकवर्त्मप्रदर्शनमिति चेत् इष्टकालग्रासप्रमाणवगनार्थम्।।30।।
कथं पुनस्तदवगम्यत इत्यत आह -
स्थित्यर्धेनेष्टहीनेन हत्वा गत्यन्तरं हरेत्।
षष्ट्या लब्धकृतिं युक्त्वा विक्षेपस्य कृतेः पदम्।।31।।
तन्नयेत् केन्द्रतो वर्त्म यत्र सम्यक् तयोर्युतिः।
तत्रेष्टकालजो ग्रासो ग्राहकार्धेन लिख्यते।।32।।
स्पर्शस्थित्यर्धे मोक्षस्थित्यर्धे वा स्वेष्टकालप्रमाणं विशोद्ध्य स्थित्यर्धानयनविपरीतेन स्थितिलिप्ताश्चानीय ता लिप्ता वर्गीकृत्य विक्षेपकृतिमपि कृत्वा तयोर्वर्गयोर्योगं कृत्वा तस्मान्मूलमादाय तत्पदं पुनरर्धीकृप्याङगुलमापाद्य तदप्यङ्कितशलाकायामङ्कितप्रमाणवगम्य तेन प्रमाणेन प्रमितां वंशशलाकां केन्द्रतो ग्राहकवर्त्म यावत् गत्वा स्पृशति तथा शलाकां केन्द्रतो नीत्वा तदग्रे बिन्दु कृत्वा तत्रैकमर्ग्र कर्कटस्य विन्यस्य ग्राह्यबिम्बं खण्डयेत्। तत्र यावत्खण्डितं तथा दृश्यते तावत्तदानीं ग्रासप्रमाणं भवति। कथं पुनः स्थित्यर्धानयनविपरीतेन स्थितिलिप्तानयनम्। ननु स्वेनैवोक्तमिष्टकालविहीनेन स्थित्यर्धेन चन्द्रादित्यगत्यन्तरं हत्वा षष्ट्यादिभागहारेण विभज्य यत् फलं गृह्यते तदिष्टकालविहीनस्थित्यर्धविलिप्ता भवन्तीति। तासां वर्गं विक्षेपवर्गेण युज्यते। गत्यन्तरमिति यदुच्यते तदिहानि स्फुटभुक्त्यन्तरमेव गृह्यते। अस्मिन्नर्थे राज्ञा केरलवंशप्रदीपेन कदाचित् कुलशेखरेणदमुक्तम् -
अङ्गर्त्वम्बरनन्दवेदमनुभिर्याते दिनानां गणे
ग्रस्ते तिग्ममयूखमालिनि तमोभूतेऽपराह्णे दिवि।
पृष्टं प्रग्रहणाद्द्वितीयघटिकाग्रासप्रमाणं रवे -
र्भत्रा श्रीकुलशेखरेण विलसद्वेलावृताया भुवः।।31-32।।
इति शङ्करनारायणीये विवरणे भास्करीये चन्द्रग्रहणाध्यायश्चतुर्थः।।
चतुर्थोऽध्यायः।।