अथेदानीमस्य (S2 स्वदेशर्णस्य।)कर्णस्य स्वदेशापादनमितित्तभूतावक्षालम्बकाविति
तयोरुत्पत्तिमुपदिदिक्षुणेष्टमण्डलमध्यस्थशंक्वित्यादि श्लोकत्रयमभिधीयते -
इष्टमण्डलमध्यस्थशङ्कुच्छायाग्रवृत्तयो।
योगाभ्यां कृतमत्स्येन ज्ञेये याम्योत्तरे दिशौ।।1।।
समायां कौ (D दिशामध्ये।)दिशां मध्ये (D जातार्जव।)शंकोर्ज्ञातार्जवस्थिते:।
विषुवद्दिनध्याह्नच्छायाया वर्गसंयुतात्।।2।।
शङ्कुवर्गाद्धि यन्मूलं तेन त्रिज्या विभज्यते।
शङ्कुच्छायां समभ्यस्ता लम्बकाक्षगुणौ फले।।3।।
अत्र तु पुनरक्षावलम्बकनिमित्तं विषुवच्छायाङ्गुलमिति तद्ग्रहणार्थं वृक्षच्छायारहिते मनोरमे भूतले खनित्वा मृत्पिण्डैस्समतलं कृत्वानार्द्रीभूते तस्मिन्मण्डले वंशाखाग्रकीलं मध्ये प्रतिष्ठाप्य तस्मिन् सूत्रस्यैकाग्रं बद्ध्वा प्रक्षिप्य तेन सूत्रे तन्मण्डलसीमान्तरमाश्रित्य वृत्तमेकं लिखित्वा तदन्तर्वृत्तमपि तस्माद् द्व्यङ्गुलान्तरं लिखित्वा तयोर्वृत्तयोरन्तरमृत्तिका द्व्यङ्गुलप्रमाणं खात्वोद्धृत्य तस्मिन् खाते तोयधारां शनैश्शनैरापूर्य तत्समतलं दृढीकृत्य तन्मध्ये द्वादशाङ्गुलशङ्कुमस्तकार्धविष्कंभार्धेन वृत्तं शङ्कुस्थापनार्थं पूर्वमापाद्य तन्मध्यात् बहिरेकं इष्टं मण्डलं तत्कालापछायाङ्गुलाधिकविष्कंभार्धमुखविन्यस्तवर्तिकाङ्कुरशोभिना कर्कटकेन लिखित्वा तन्मध्ये पूर्वविलिखितवृत्ते प्रशस्तदारुमथितं द्वादशाङ्गुलप्रमाणं मूलाग्रान्तरालसमवृत्तङ्गुलरेखाभि: यवरेखाभिश्चालंकृतं शङ्कुं प्रतिष्ठाप्य चतुर्भिस्सूत्रैरवलम्बितैरार्जवस्थितमाज्ञाय गन्धादिभिभिस्सम्पूज्य तथा प्रतिष्ठापितस्य शङ्को: छायाग्रं पूर्वाह्णे यत्र प्रविशतीष्टमण्डले तत्रैकं बिन्दुं कृत्वा पुनरपराह्णे तद्वद्यत्र निर्गछति तत्राप्येकं बिन्दुं कृत्वा ताभ्यां बिन्दुभ्यां दक्षिणोत्तरमुखपुच्छं(T पुच्छमर्त्स्य) मत्स्यं कृत्वा तद्ववत्रपुच्छनिर्गतं चन्दनक्षोदार्द्रं प्रसार्य तस्मि न् सूत्रमध्ये शङ्कुस्थापितवृत्तमध्याद्दक्षिणोत्तरस्तुल्यबिन्दू कृत्वा ताभ्यां पूर्वापरायत मत्स्यं कृत्वा तन्मत्स्यात् पूर्वापरायतं सूत्रं प्रसार्य याम्योत्तरे पूर्वापरे दिशश्चतस्रो ज्ञेया:। तदर्थ-मुक्तं-दिशां मध्य इति। समायां काविति कथनात् समीकरणमुक्तम्।
शङ्कोर्ज्ञातार्जवस्थितेरिति प्रणीतत्वात् चतुर्भिभस्सूत्रैरार्जवस्थितिर्व्याख्याता।
उक्तं च कर्मनिबन्धे बुहति -
'सूत्रैश्चतुर्भिरवलंब्रकसन्निबन्धैः
ज्ञातार्जवरुसमवृत्तहगुरुर्नरः स्यात्।'
इति। नर इति शङ्कुपर्यायः। एवं दिशां मध्ये शङ्कुं विषुवन्मध्यदिने मध्याह्नविषुवत्काले संस्थाप्य याम्योत्तरसूत्रमध्यच्छायाप्रमाणमङ्गुलयवादिभिरवगन्तव्यम्। एवं विषुवच्छायाङ्गुलं स्वदेशे विज्ञाय सवर्णीकृत्य वर्गं कृत्वा शङ्कोर्द्वादशाङ्गुलानि तत्सदृशं सवर्णयित्वा वर्गीकृत्य तद्वर्गद्वयं संयुज्य मूलमादाय मूले सेशेषे सति मूलं प्रतिराश्य तद् द्विगुणं कृत्वा द्विगुणितेन मूलेन मूलशेषेऽर्वाधिके सति सैकेन मूलं हत्वा तस्मिन्मूलं शेषमपि संयुज्य भागहारमूलमिति गृह्यते। पुनस्तेनैव द्विगुणितमूलेन व्यासार्धं हत्वा तद् द्विधाकृत्य सवर्णितविषुवच्छायया हत्वा तथाभूतेन शङ्कुप्रमाणेन चोभयं पूर्वोक्तभागहारेण विभज्य ये फले गृहीते ते अत्रावलम्बकगुणौ भवतः। अथवा शङ्कुच्छायावर्गयोगं वा भागहारत्वेन गृहीत्वा ताभ्यामेव वर्गाभ्या व्यासार्धवर्गं पृथग् संहत्य तेन गृहीत्वा वर्गयोगेन यत्फलद्वयस्यवाप्तस्य सूलं तदगि तदुभयं स्यात्। अथवा मूलद्विगुणं शेषं च पृथगवस्थाप्य परस्परभक्तं कृत्वा परस्परभक्तशेषेण मूलद्विगुणं शेषं च गृहीत्वा मूलद्विगुणाद्यदवाप्यते तदविस्मृत्यं तेन मूलं गृहीत्वा शेषादाप्तमपि तस्मिन् संयुज्य भागहारतया गृह्यते। तेनाविस्मृतफलेन शङ्कुच्छायां शङ्कुं च हत्वा ताभ्यां व्यासार्धवर्गं हत्वा तेन भागहारेणाशनवलम्बकगुणौ ग्राह्यौ भवत:। एवमुत्तरत्र तत्कालशङ्क्वानयने छायया नत्यानयने च मार्गत्रयं गणकै: कल्प्यते।।1-3।।
एवमक्षावलम्बकगुणौ प्रदर्श्य ताभ्यां स्वदेशोदयराशीप्रमाणानयनामाह -
राश्यन्तापक्रमै: कार्या: पूर्ववत्तच्चरासव:।
पूर्वशुद्धा: क्रमात्ते स्यु: मेषगोवल्लकौभृताम्।।4।।
शून्यादिरसरूपाणि भूतरन्ध्रमुनीन्दव:।
पञ्चाग्निरन्ध्रशशिनो मेषादीनां निरक्षजा:।।5।।
चरप्राणा: क्रमाच्छोभ्या: दीयन्ते व्युत्क्रमेण ते।
(S2 स्वदेशजोदया।)स्वदेशभोदया मेषाद्व्यत्ययेन तुलादित:।।6।।
राश्यन्तापक्रमा इति ये कथ्यन्ते ते पुनरिह मेषवृषमिथुनान्तापक्रम:। तत्रादौ मेषान्तापक्रमं व्याख्यास्याम:। मेषराशिमकं विन्यस्ये जीवाष्टकं गृहीत्वाष्टमज्यां सप्तरन्ध्राग्निरूपैर्हत्वा व्यासार्धेन विभज्यायक्रममानीयते। तद्वद्राशिद्वयस्य षोडशज्यां राशिवयस्य चतुर्विंतिज्यां च परमापक्रमेण हत्वा व्यासार्धेन विभज्यायक्रमौसव: कार्या: ते पूर्वोक्तनयेन चरप्राणा कार्या: कथमिति चेदपक्रम प्रतिराश्य वर्गीकृत्य व्यासार्धवनदिपोह्य मूलमादोग्र क्वचिद्विन्यस्यायवक्रममक्षज्यया हत्वावलम्बकेन विभज्य क्षितिज्यामादाय तां व्यासार्धेन हत्वा स्वाहोरात्रेण विभज्य वरार्धजोयामादाय चापं कृत्वा चरदलासव: कार्या:। तदर्थमिदमुक्तं -
"राश्यन्तापक्रमै: कार्या पूर्ववत्तच्चरासव:।"
इति। ये रात्रिज्ञयस्य चरदलव्रयमानीय मिथुनचरप्राणाद् वृषभचरप्राणपिण्डं पूर्वं व्यपनीय वृषभचरप्राणान्मेषचरप्राणं व्यषोह्य मेषस्य पूर्वाभावादेव चरासय: पूर्वशुद्धा भवन्ति। तदर्थमिदमुक्तं-
"पूर्वशुद्धा: क्रमात्ते स्युर्मेषगोवल्लकीभृताम्।"
इति। वल्लकीभृदिति मिथुनस्यास्या, वीणाभृदिति यावत्। एवं मेषवृषभमिथुनचरप्राणै: पूर्वशुद्धैर्लद्द्रोदप्राणैश्च स्वदेशराशिप्राणानयनार्थमाह -
"शून्याद्रिरसरूपाणि भूतरन्ध्रमुतीभ्दव:।
पञ्चाग्रिरन्ध्रशशितो मेषादीनां निरक्षजा:।।"
इति यानि कथितानि तानि लङ्कोदयप्राणप्रमाणानि। कथम्। द्वादशानां राशीना त्रिभिरवगन्तव्यानि क्रमोत्क्रमेण गृह्यन्ते। तद्यथा -
(1670)"शून्याद्रिरसरूपाणि (1765)भूतरन्ध्रमुतीन्दव:।
(1635)पञ्चाग्निरन्ध्रशशिन:।।"
इति क्रमेण मेषवृषभमिथुनराशय:। पुन: पञ्चाग्निरन्ध्रशशिनो भूतरन्ध्रमुनीन्दव शून्याद्रिरसरूपाणि व्युत्क्रमेण कर्कटकसिंहकन्याराशयो गृह्यन्ते। पुनरप्येवं क्रमेणोत्क्रमेण तुलादय:। एवं मेषादयो निरक्षराशय: पठिता:। अक्षहीनदेशजा इति यावत्। लङ्कायां विषुवच्छायाङ्गुलाभावात् अक्षज्याभाव:। अत एव लङ्कोदयराशिप्राणा इति गृह्यन्ते। तस्मादेव "चरप्राणा: क्रमाच्छोद्ध्या दीयन्ते व्युत्क्रमेण ते। स्वदेशभोदया मेषाद्व्यत्ययेन तुलादित:।।"
इति पूर्वशुद्धचरप्राणै: क्रमाच्छोधनं व्युत्क्रमेण क्षेपणं च विहितम्। पुनस्त एव षट्सूत्क्रमेण तुलादयोऽपि ग्राह्या:। एवं स्वदेशभोदया भवन्ति। स्वदेशराश्युदया इत्यर्थ:। अत्रैवास्माभि: पैघ्यराष्ट्रे कोल्लपुर्यां विषुवच्छायाया: पञ्चदशसङ्ख्यासम्पादितराशिप्राणा: कटपयाद्यक्षरबद्धा: पठ्यन्ते।
(S2 3 षष्ठ्यभ्यस्ता)"यमाशयाभिन्नकटार्धलिज्जया कथं न्वियं माभजय: पदार्थकम्।
क्रियादय: कोल्लपुरीसमुच्छ्रिता: क्रमोत्क्रमेणेव भवन्ति राशय:।।" इति।।4-6।।
स्वदेशराशिप्रमाणानुक्त्वा महाछायावगमनायाह -
गतगन्तव्यघटिका दिनपूर्वापरार्धजाः।
(S धमा)षष्ट्याभ्यस्ता: पुनष्षड्भि: प्राणास्तेभ्यश्चरासव:।।7।।
उदग्गोले विशोद्ध्यन्ते क्षिप्यन्ते दक्षिणे तु ते।
तेषां जीवा समभ्यस्ता स्वाहोरात्रदलेन सा।।8।।
व्यासार्धाप्तफले कुर्यात् भूज्यां तस्य विपर्ययात्।
लम्बकेन पुनर्हत्वा त्रिज्यया शङ्कुराप्यते।।8।।
तद्वर्गव्यासकृत्योर्यद्विश्लेषान्तरजं पदम्।
छाया सा द्वादशाभ्यस्ता: शङ्कुभक्ता प्रभा स्फुटा।।20।।
इष्टासुभ्यश्चराश्शुद्धा व्यत्यय: शेषजीवया।
शर्वर्यां शङ्कुरर्कस्य कार्यो व्यस्तेन कर्मणा।।11।।
पूर्वाह्ने तावद्या घटिका उदयात्प्रभृति गतास्ता: ग्राह्या:। अथवापराह्नेऽप्युदयात्प्रभृति या अतीता: ता दिनप्रमाणाद्द्विरभ्यस्तचरप्राणसंस्कृतादपोह्य गन्तव्यघटिका ग्राह्या:। एवं गतगन्तव्यघटिका दिनपूर्वापरार्धजा: विन्यस्य षष्ट्या हतं कृत्वा विनाड्यस्सन्ति चेत्ताश्च संयुज्य पुनष्षड्भिश्च हत्वा प्राणास्सन्ति चेत्तानपि तत्र युक्त्वा सर्वे प्राणा भवन्ति। तेभ्यो वा चरासवश्शोद्ध्या: क्षेप्याश्चाथवा।
भानोर्भोग्यांशलिप्ता रवियुतभवनप्राणपिण्डेन हत्वा
हृत्वा राशे: कलाभि: स्वविषयसमुत्था राशयस्तत्र योज्या:।
ग्राह्यात् प्राक् ग्राह्यराशिं गुणितमभिहतै: पुष्करांशै: खरामै-
र्हत्वा युक्त्वासुपिण्डं गतमगतमपि स्यादहस्तद्विशुद्धम्।।
एवं गतगन्तव्यप्राणानानीय तेभ्यस्तत्कालादित्यस्फुटं कृत्वा तस्मात् भानो: स्वाहोरात्रक्षितिज्याक्षयवृद्धिप्राणानानीय क्वचिद्विन्यस्य भनावुदग्गोलस्थिते चरासव: प्राणपिण्डाद्विशोद्ध्यन्ते। दक्षिणगोले क्षिप्यत्वा वा मख्या विभज्य जीवामादाय पुनस्तां जीवां स्वाहोरात्रदलेन हत्वा व्यासार्धेन विभज्य यत् फलं गृह्यते तस्मिन् क्षितिज्यां चरदलशोधनक्षेपणविपरीतेन क्षेपणशोधनं कृत्वा पुनरवलम्बकेन हत्वा व्यासार्धेन विभज्य यत् फलं अवाप्यते तच्छङ्कुर्नाम भवति। शङ्कुं क्वचिद्विन्यस्य प्रतिराश्य वर्गीकृत्य व्यासार्धवर्गादपोह्य मूलं यद् गृह्यते तन्महाछाया भवति। तां द्वादशभिस्सङ्गुणय्य शङ्कुना विन्यस्तेन विभज्य स्फुटं द्वादशाङ्गुलशङ्कुछायाप्रमाणमङ्गुलानि स्यात्। एतदुक्तं भवति। द्वादशाङ्गुलशङ्कुछायागुलानि सयवानि स्युरिति। एवमादीनि तानि शङ्कुच्छायाङ्गुलानि सयवानि सप्तभिर्हत्वा द्वादशभिर्विभज्य पुरुषच्छायापदसङ्ख्या वाच्या। अथवा पुरुषस्य दैर्घ्येण हत्वा द्वादशभिर्विभज्यछायाप्रमाणं स्यात्। कथमिह त्रैराशिकम्। यदि द्वादशाङ्गुलशङ्को: छाया(ङ्गुला)नि लब्धान्येतानि भवन्ति सप्ताङ्गुलप्रमाणस्य शङ्को: कियति छायेति। कथं पुरुषस्य सप्ताङ्गुलदीर्घत्वम्। नैष दोष:। पुरुषस्तावत् स्वपदैस्सप्तभिर्यतो दीर्घसमयो दृश्यते। यद्येवं त्रैराशिकं पूर्वमेव महाछायां सप्तभिर्हत्वा महाशङ्कुनैव विभज्य पुरुषच्छाया कस्मान्नदीयते। साधूक्तम्। पुरुषच्छायावगमने तथा कार्यम्। शङ्कुछायैवाचार्येणोच्यते। अत एव
'द्वादशाभिहतं भक्तं शङ्कुना लभ्यते प्रभा।'
इति उत्तरत्रापि वक्ष्यति। कथमिह प्राणपिण्डान् गन्तव्यादुत्तरगोले चरासुशोधनमशक्यं चेत् शङ्क्वानयनम्। तत्रोक्तम् -
'इष्टासुभ्यश्चरा: शुद्धा व्यत्यय: शेषजीवया'
इति। चरप्राणसमूहादिष्टासुशोधनं कृत्वा शेषस्य जीवया पूर्ववर्तमानादानयनम्। अपि च 'शङ्कुरर्कस्य कार्यो व्यस्तेन कर्मणा' इति रात्रौ शङ्क्यानयनमुक्तम्। विमुक्तस्य शङ्कुश्शर्वर्यामप्यस्ति। अस्ति लम्बनाविशेषवशात् सम्भव:।।7-11।।
एवं महाछायामुक्त्वेदानीं इष्टकालशङ्कुछायाया गतगन्तव्यप्राणानयनयाह-
शङ्कुछायाकृतियुते मूलच्छेदेन संहरेत्।
त्रिमौवीं शङ्कुनाभ्यस्तां शङ्कुस्तद्व्यत्ययाद्धटी:।।12।।
इष्टकालशङ्कुछायां वर्गीकृत्य द्वादशाङ्गुलानि शङ्को: प्रमाणानि वर्गीकृत्य वर्गद्वययोगं कृत्वा मूलमादाय पूर्ववत्सशेषं कृत्वा पुनश्शङ्कुप्रमाणेन तज्जातीयेनावलम्बकवत्त्रिमौर्वीं हत्वा तेन सशेषमूलेन हृत्वा यत्फलं गृह्यते तच्छङ्कुर्नाम भवति। एतदुक्तं भवति- यथा गतगन्तव्यप्राणपिण्डान्महाशङ्कुरानीयते स शङ्कुरिहागत इति। एवमानीतेन शङ्कुना तदानयनविपरीतप्रयोगेण गतगन्तव्यप्राणपिण्डौ स्याताम्। तदर्थमिदमुक्तं-तद्व्यत्ययात् घटीरिति। कथम्। व्यत्ययप्रयोगाच्छायानीतशङ्कुं व्यासार्धेन हत्वावलम्बकेन विभज्य तस्मिन् क्षितिज्यामुत्तरगोले सति विशोद्ध्य दक्षिणगोले क्षिप्त्वा पुनरपि व्यासार्धेन हत्वा स्वाहोरात्रदलेन विभज्य चापं कृत्वा चरदलप्राणानुत्तरगोले क्षिप्त्वा दक्षिणगोले विशोध्य वा पूर्वापराह्णयो: गतगन्तप्राणपिण्डौ भवत:। तान् प्राणान् षट्भिर्विभज्य विनाड्यो भवन्ति। पुनष्षष्ट्या विभज्य घटिका भवन्ति। तदर्थं स्वयमेव वक्ष्यति -
व्यासार्धसङ्गुणश्शङ्कुर्लम्बकेन समुद्धृत:।
लब्धे क्षयोदये भानौ क्षितिज्यासौम्यदक्षिणे।।13।।
व्यासार्धनिहते भूय: स्वाहोरात्रार्धभाजिते।
लब्धचापे चरप्राणा: देयाश्शोद्ध्यायश्च गोलयो:।।14।।
सौम्यदक्षिणयो: षट्भि: षष्ट्या भूयश्च नाडिका:।
गतगन्तव्यजा ज्ञेया: दिनपूर्वापरार्धजा:।।15।।
इति। कथमिह शङ्कुना कालानयने स्वाहोरात्रादिसाधनानयनम्। तत्कालादित्यात् यद्येवमितरेतराश्रया: दूषणं स्यात्। नैष दोष:। युक्त्या तत्कालीकृत्य सूर्यं तस्मात् स्वहोरात्रादिसाधनमानीय कर्तव्यं, अन्तरस्याल्पत्वात्। नो चेदविशेषकरणमिष्यते। कुत:। तत्समीकरणसूर्यस्य स्फुटं कृत्वा साधनमानीयते, कालमानीयते, कालेने सूर्यमपि कृत्वा सूर्यात्स्वाहोरात्रादि भूयस्समानीयाविशेषणं (3 स्यात्)कुर्यात्। एवं कालागमनं कस्मादुच्यत इति चेदुक्तम् -
'श्रोतुर्द्विजस्य बहुमानमिहागतस्य
पुत्रप्रसूतिसमये घटिकाप्रमाणम्।'
तुलादशभागे गतेऽपराह्णे छाया। तदा द्विगुणं कृत्वा सप्तभिर्विभज्य शङ्क्वानयनम्। कीदृशी पुनरपराह्णे। गन्तव्यघटिकाप्रमाणे विदिते गतघटिकावगतिरिति चेत् स्फुटदिनप्रमाणात् गन्तव्यघटिकाप्रमाण विशोधिते सति शेषस्तावत् गतघटिकाप्रमाणं स्यात्।। अथेदानीं शङ्कुप्रसङ्गात् शङ्क्वग्रानयनमाह -
अक्षजीवाहतश्शङ्कुर्लम्बकेन समुद्धृत:।
अस्तोदयाग्ररेखाया: शंक्वग्रं नित्यदक्षिणम्।।16।।
उभाभ्यां मार्गाभ्यां छायया कालेन वा शङ्कुमानीयाक्षज्यया हत्वा अवलम्बकेन विभज्य यत्फलं गृह्यते तच्छङ्क्वग्रं नाम भवति। तत् पुनरुदयास्तमयसूत्रात् नित्यदक्षिणं स्यात्। किमर्थमिदमुक्तम्। शंक्वग्रेण षष्ठाध्याये प्रयोजनमुक्तम्। उभयमपि प्रसङ्गात कथितम्।।16।। अथोदयलग्नानयनयाह -
स्वदेशोदयसंक्षुण्णं राशिशेषं विवस्वत:।
राशिलिप्ताहृतं लब्धमिष्टासुभ्यो विशोधयेत्।।17।।
राशिशेषं रवौ क्षिप्त्वा शेषासुभ्योऽपि यावताम्।
प्राणा विशुद्धास्तावन्तो दातय्या राशय: क्रमात्।।18।।
त्रिंशदादिगुणे शेषे वर्तमानोदयाहृते।
लब्धांशलिप्तिकायुक्तं प्राग्विनलग्नं विनिर्दिशेत्।।19।।
इष्टघटिका विन्यस्य षष्ट्या षड्भिश्च हत्वा प्राणपिण्डमापाद्य भानुमपि तात्कालिकीकृत्य तासामुदयलग्नमवगन्तव्यम्। कथम्। यस्मिन् राशौ भानुस्तिष्ठति तस्य भानुना गतांशादि सर्व त्रिशद्भागेभ्यो विशोद्ध्य यदवशिष्यते तद्वाशिशेषमित्युच्यते। तद् गन्तव्यमित्यर्थ:। एवविधं राशिशेषं लिप्तीकृत्यादित्याधिष्ठितस्वदेशराशिप्रमाणपिण्डेन हत्वा पुनस्तमेव राशिलिप्तासमूहेन खखाष्टरूपेण हृत्वा यल्लब्धं तदिष्टसुभ्यो विशोद्ध्य भानावपि राशिशेषं क्षिप्त्वा समारोप्य पुनरपि तच्छेपात् प्राणसमूहात्तत: प्रभृति ये राशय: स्वदेशसम्भवाश्शोद्ध्यन्ते तावतां राशीनां संख्या: तत्रैव राशिस्थाने भानो: प्रक्षेप्तव्या:। पुनस्तच्छेषं त्रिंशता हत्वा वर्तमानराशिप्रामाणसङ्घेन हृत्वा भागा लभ्यन्ते। तान् भागानपि तत्र भागस्थाने प्रक्षिप्य भूयष्षष्ट्या हत्वा तेनैव विभज्य लिप्ता अपि गृहीत्वा लिप्तास्थाने संयुज्य यथा दृश्यते तत्प्राग्विलग्नं नाम भवति। एतदुक्तं भवति - उद्यद्राशेरुदितप्रमाणमिति। प्राच्यामुदयत्वात् प्राग्विलग्नमित्युच्यते। प्राग्विलग्नेन किमिह साध्यमिति चेत् उत्तरत्र सूर्यग्रहणे विद्यते। अन्यच्च राशौ यथार्थमुक्तम्।
'रिपुमथनं कर्तुकामेन राज्ञा'
चारैर्वार्तां विदित्वा रविकुलपतिना रामदेवेन लग्नम्।
आगण्याचक्ष्व भानुस्स्वभवनदलगः शर्वरी चापि याता
बालक्रौडेश्वरस्थैरधिकृतघटिकास्ताडिताः पञ्चविंशत्।
अपि च -
'पुत्र श्रीरविवर्मदेवनृपतेर्दीप्ताशुवंशोदितः
प्रासादाधिकृते महोदयपुरे तत्रापि सेनामुखे।
भेर्यां विंशति ताडितातु घडिकास्वाविर्बभूवाथ किं
लग्नं मेषदशांशके सवितरि प्राच्या दिशो भूपते'।।17-19।।
एवमुदचलग्नभुक्तवेदानीं यथाकथंचिद्वितेनोदचलग्नेन कालानयनार्थमाह -
प्राग्विलग्नगतान् प्राणान् संपिण्ड्य व्युत्क्रमाद्रवैः।
अभुक्तांशावधेः कालः कल्प्यते कालकांक्षिणा।।20।।
उदयलग्नतराशिभागलिप्ताः क्वचिद्विन्यस्य तद्भागादीन् सवर्णयित्वा तद्राशिस्वदेशोदयेन हत्वा खखाष्टरूपेण हृत्वा यद् गृह्यते, तदुदयगतप्राणपिण्डः स्यात्। तान् प्राणाननष्टं विन्यस्य उदयलग्नस्य गतभागादि सर्वमपोह्य पुनरुत्क्रमेण राशिं त्यक्त्वा तत्रैव युक्त्वा स्वदेशाराशि-प्राणांस्तांस्तान् पुनरादित्यरभुक्तभागादीनपि सवर्णयित्वा तद्राशिप्राणसङ्घेन हत्वा खखाष्टरूपेणैव विभज्य तदपि तत्रैव युक्त्वा यावद् दृश्यते तदादित्योदयकालादूर्ध्वं गतकालसमूहप्राणो भवति। तान् षड्भि: षष्ट्या च विभज्य घटिकादयो वक्तव्या:। एतदुक्तं भवति - उदयलग्नोक्तलक्षणविपरीतात् घटिकादिकालावगतिरिति। किमर्थमिदमुक्तमिति चेत् उक्तं ननु - श्रवणादिषु खमध्यस्थेषु रात्रौ सप्तविंशतितारासु मेषादीनां राशीनामुदयलग्नास्सप्तविंशत्। कथम्। 'गुरोर्धियाज्ञासकलेनयज्ञे'त्यादि-कटपयादिप्राग्विलग्नमुपायान्तरेणोक्तम्। कुत:।
गोलान्महोदयपुरे रविवर्मदेव!
सम्बन्धयन्त्रवलयाङ्कितराशिचक्रात्।
भानोः कुलीरदशभागगते तुलान्त्यं
लग्नं मया विदितमाशु वदेह कालम्।।
अपि च -
सुरपतिदिशि दृष्टं गोलयन्त्राद्विलग्नं
घनपटलनिरुद्धे भास्करे सिंहराशौ।
गतवति दशभागांश्चपराश्यर्धयातं
वेद झटिति रवे! त्वं नित्यकर्मोक्तकालम्।।20।।
एवमादित्योदयलग्नभ्यां कालानयनमुक्तवा इदानीमर्काग्रानयनमाह -
क्षुण्णां परमया क्रान्त्या भुजाज्यामुष्णदीधिते:।
लम्बकेन विभज्याप्तामर्काग्रां तां प्रचक्षते।।21।।
तत्कालसूर्यात् भुजाज्यामादाय तां परमापक्रमाज्यया हत्वा स्वदेशलम्बकेन विभज्य यत्फलमवाप्यते तदर्काग्रेति कल्प्यते। अनयार्काग्रया प्रयोजनमुत्तरत्र वक्ष्यति। संख्यया प्राग्विलग्ना: पठिता:। एवंविधं प्राग्विलग्नमेकस्मिन्नेव देशे ननु गृह्यते तस्मिन्नेव देशे ग्राह्यम्। न मया सर्वत्रैवंधिमुदयलग्नं ग्राह्यमित्युक्तम्। अपि चान्यत्।।2।।
अथेदानीं सममण्डलशङ्कुछायामुपदिदिक्षुराह -
पलज्योनामुदक्क्रान्तिं विष्कम्भार्थहतां हरेत्।
समपूर्वापरश्शङ्कु: लब्धोऽर्कस्य पलज्यया।।22।।
शङ्कुयर्गविहीना विष्कम्भार्धकृते: पदम्।
द्वादशाभिहतं भक्तं शङ्कुना लभ्यते प्रभा।।23।।
अक्षज्यासंख्याहीनसंख्यामुदग्गोलेष्टापक्रमज्यां व्यासार्धेन हत्वा पुनरक्षज्यया विभज्य यत्फलं गृह्यते तत् सममण्डलारोहणकाले महाशंकु: स्यात्। तदिदमुक्तम्-समपूर्वापरश्शङ्कुरिति। एवंविधेन शङ्कुना पूर्ववद् द्वादशाङ्गुलशङ्कुछाया नेतव्या। तदापि मन्दबुद्ध्यग्रहार्थं स्वयमेवात्रोपदिशति। शंकुवर्गं व्यासार्धवर्गादपोह्य शेषान्मूलमादाय द्वादशगुणं कृत्वा तेनैव महाशंकुना विभज्याङ्गुलादिछाया विज्ञेया। सेह सममण्डलछायेत्युच्यते। गोले तावदुपर्यधो: वा स्थितमेकमण्डलं भूमे: सममण्डलमिति कल्प्यते। तत् पूर्वापरकालयो: तत्सम्भव:। दक्षिणगोले सममण्डलप्रवेश: सदाभाव एव सम्भवति। तदर्थमुक्तम् - पलज्योनामुदक्क्रान्ति इति। उत्तरगोलेऽपि पलज्याधिकायामिष्टापक्रमजीवायामभाव एव। अत एव पलज्योना गृह्यते। एतदुक्तं भवति - अपक्रमस्य बृद्धौ हानौ च पूर्वषट्के पलज्योनेष्टापक्रमज्यायां सममण्डलप्रवेशस्सूर्यस्यास्तीति। एवं तर्हि सूर्यगति: प्रदक्षिणगतिरिव दृश्यते। सत्यं, अत एव मेरुप्रदक्षिणमहरह: करोतीति गोलविद्भिरुच्यते। इयमेव सूर्यगति: रुमस्तकस्थानां प्रदक्षिणगतिरिति गम्यते। सा पुनरिह छायाग्रहणगत्यानुमीयते। किमर्थमिदमुच्यत इति। चेत्। उच्यते -
श्रीमन्महोदयपुरे कुलशेखरेण
कुर्तुं सभां कुशलशिल्पिभिरद्य राज्ञा।
आज्ञप्तमाशु सममण्डलरूढसूर्य- छायावशात् कथय शक्रजलेशसूत्रम्।।22-23।।
एवं सममण्डलप्रवेशकालछायामुपदिश्येदानीं तच्छाययादित्यगत्यवगमनायाह -
छायाविधान(ACF सम्प्राप्तशङ्कु:)सम्प्राप्त: शङ्कु: क्षुण्ण: पलज्यया।
क्रान्त्या परमया भक्तो लब्धजीवाकला धनु:।।24।।
तिग्मांशुर्मण्डलार्धाच्च परिशुद्धोऽभिधी(F विधीयते For अभिधीयते)यते।
सममण्डलदिङ्मार्गशङ्कुच्छायाप्रसाधित:।।25।।
यथा पूर्वमिष्टछायया द्वादशाङ्गुलशङ्कुना च महाशङ्क्वानयनमुक्तं तदिह छायाविधानसम्प्राप्तशङ्कुरित्युच्यते। एवं छायां सममण्डलोत्थां सवर्णीकृत्य शङ्कुमपि तत्सदृशवर्णं कृत्वा वर्गीकृत्य योगं कृत्वा मूलमादाय मूलं सशेषं चेन्मूलद्विगुणेन मूलं हत्वा शेषमपि तदैव युक्त्वा मूलछेदमापाद्य मूलेन द्विगुणेन सवर्णीकृतशङ्कुना च व्यासार्ध हत्वा मूलछेदेन हत्वाप्तं महाशङ्कु: स्यात्। तं महाशङ्कुमक्षज्यया हत्वा परमापक्रमेण हृत्वा या जीवाकला लभ्यन्ते ता: काष्ठीकृत्य षष्ट्या त्रिंशता च विभज्यारोप्य यद्रूपं दृश्यते तत् सममण्डलदिङ्मार्गशङ्कुच्छायानीत-तिग्मांशुर्भवति। चक्रार्धविशोधितश्च वा स्फुटसूर्यो भवति। तदर्थमुक्तम्-मण्डलाधच्चि- परिशुद्धोऽभिधीयत इति। क: पुनस्तत्केवलस्तिग्मांशुर्भवति। क्व वा मण्डलार्धान् विशुद्धश्च। मेषात् प्रभृति मिथुनात् प्राक् केवलमानीत एवं पुन: कर्कटकादारभ्य कन्यान्तात् प्राक् चक्रार्धविशुद्ध: यतोऽपक्रमानयने स्फुटसूर्यात् समपदे राशिन्नयात् कोटिशोधनमिष्यते।
किमर्थमिह सममण्डलछायाकनियनमुक्तिमिति चेदुच्यते -
कश्चिद्विद्वान् गणितषटुमतिर्म्लेच्छदेशं प्रविष्टो
विस्मृत्यैतद्गतदिनगणं व्याधिना पीड्यमान:।
दु:खान्मुक्तो दिनकरवशात्सर्वमागण्य भूयो
ज्ञातु प्रोक्तो मरुतलविदितछाययार्कस्फुटोऽत्र।।
अन्यदपि विवेकिमुमुच्यते -
छायार्कयो: स्वे विषयेन्तरं यत्
तज्ज्ञातुकामोऽस्य विधानमार्गम्।
प्रोक्तं स्वतन्त्रस्फुटरक्षणार्थं
प्रायेण नो चेदुपदेशरूपम्।।
एतमुत्तरत्राणि सर्वदा छायार्कानयनं महता यत्नेन वक्ष्यति।।24-25।।(?)
अथेदानीं चापीकरणार्थमाह -
पिण्डत: प्रविशुद्धानां ज्यानां सङ्ख्या समाहता।
तिथिवर्गेण शेषं च स्वान्त्यज्याप्तयुतं धनु:।।26।।
यतो जीवानयनमार्ग उक्त: तद्विपरीतं काष्ठीकरणम्। कुत:। यस्मात्पिण्डन्मख्यादयो जीवा विशोद्ध्यन्ते तासां जीवासङ्ख्यया मखिसङ्ख्यज्या हत्वा जीवाशेषमपि मख्या हत्वा वर्तमानज्यया विभज्य तदपि फलं वर्तमानधनु:खण्डं भवति। तदपि धनुस्सञ्चय एव युज्यते। तत्सर्वं चापितं भवति। तिथिवर्गशब्देन मखिसङ्ख्येहोच्यते।।26।। एवं चापकरणमुक्त्वेदानीं मध्याह्नछायानयनार्थमाह -
पलापक्रान्तिचापानां योगविश्लेषजो गुण:।
छाया याम्योत्तरे भानौ नभसो मध्यसंस्थिते।।27।।
तद्वर्गहीनसंख्यस्य त्रिज्यावर्गस्य यत्पदम्।
शङ्कोर्द्वादशसंख्यस्य छाया ज्ञेयानुपातत:।।28।।
अक्षज्यां स्वदेशजां काष्ठीकृत्य मध्याह्नस्फुटसूर्यापक्रमचापमध्यानीय दक्षिणगोले तयो: योगं कृत्वा पुनरुत्तरगोले विश्लेषं वा कृत्वा नते: काष्ठं भवति। तस्मात् काष्ठाज्जीवामादाय यावद् दृश्यते सा जीवा मध्याह्नछाया स्यात्। तदर्थमिदमुक्तं भानौ नभसो मध्यसंस्थित इति। पुनस्तां छायां वर्गीकृत्य व्यासार्धवर्गादपोह्य यन्मूलं गृह्यते तन्मध्याह्नमहाशंकुर्भवति। पुनर्द्वादशाङ्गुलशङ्कुप्रमाणस्य शङ्को: छायाप्रमाणं त्रैराशिकवशाज्ज्ञेयम्। तदर्थमुक्तं-द्वादशसंख्यस्य छाया ज्ञेयानुपातत इति। अनुपातशब्देन त्रैराशिकमुच्यते। कथं त्रैराशिकमिति चेत् उक्तं ननु पूर्वमेव 'छाया सा द्वादशाभ्यस्ता शंकुभक्ता प्रभा स्फुटा' इति। अथवा मध्याह्नशङ्कुरेवं वानेतय्यः। पूर्व नतिकाष्ठमानीय राशित्रयकलाभ्यः (5400)खखवेदभूतेभ्यो विशोद्ध्य शेषस्य जीवा, महाशङ्कुनतिकाष्ठस्य जीवामध्याह्नछाया। ताभ्यां वा त्रैराशिकवशात् द्वादशाङ्गुलशङ्कुछाया ज्ञेयां। अत्रोदाहरणमुच्यते-
उक्तं केरलवंशकेतुरविणा मध्याह्नशङ्कुप्रभा
देशेऽस्मिन् क्रियतीति राशिषु गते भानौ क्रियाद्यादिषु।
प्रत्येकं विगणय्य वत्सरगतं छायाप्रमाणं क्रमात्
प्रत्यक्षं हि दिनद्वयेन गणितं पत्रे लिखित्वानय।।27-28।।
एवं मध्याह्नछायामुपदिश्य पुनरपि मध्याह्नछायया सर्वदा न्त्यानयनायाह -
शङ्कुवर्गेण युक्ता या मध्यछायाकृतेः पदम्।
छेदस्त्रिराशिजीवायां छायाघ्नायाः फलं नति।।29।।
यथा विषुवच्छाययाक्षज्यानीयते तथा नतिरपीष्टमध्याह्नछाययानीयते। एतदुक्तं भवति -- विषुवद्दिने मध्याह्नछाययाक्षज्या नाम ज्यास्यात्। अन्यत्र मध्याह्नछायया नतिरिति। केह पुनर्नतिरिति कथ्यते -- खमध्याद्दक्षिणेनोत्तरेण वा यस्मिन् प्रदेशे मध्याह्नकाले सूर्यस्तिष्ठतीव प्रतिभाति तयोरन्तरकाष्ठस्य जीवा नतिशब्देनोच्यते। यद्येवं न घटते। कुतः खमध्याभावात्। नैष दोषः यस्मिन् यस्मिन् देशे येन देवदत्तेनाम्बरतलस्य मध्यमिदमित्यूर्घ्वदृष्ट्या लक्ष्यते तन्मध्यमित्युच्यते। नतिरपि द्विधा। कथम्। उत्तरनतिर्दक्षिणनतिरिति। किं नतेर्गोलवशादुत्तरदक्षिणत्वं गम्यते। नैवम्। उत्तरगोलेऽपि दक्षिणनतिरस्ति। उत्तरगोले कदा दक्षिणनतिः। यावता कालेनोत्तरत्र शङ्कुछाया मध्याह्ने तिष्ठति। ननु विन्ध्यपर्वतादुत्तरत्र दक्षिणछायाभावान्नतिरपि सदा दक्षिणदिक्स्थैव। अतो नतिः। तस्माद्दक्षिणत एव द्विविधा। अपि चाक्षज्येति चोच्यते। सा स्वदेशलंकाखमध्यान्तरज्या। ताभ्यां छायार्कानयनार्थमाह -
नतभागाः पलान्न्यूनाः पलाच्छोद्ध्या रवेरुदक्।
दक्षिणेन यदा छाया योगः क्रान्तेर्धनुस्तदा।।30।।
विपर्यये पले शोध्यं नतभागसमूहत:।
अपक्रमधनु: शेषो दक्षिणेन विवस्वत:।।31।।
तज्जीवा त्रिज्ययाभ्यस्ता क्रान्त्या परमया हृता।
लब्धचापो रविर्ज्ञेय: चक्रार्धाच्च विशोधित:।।32।।
उदग्गोले बिधिर्ज्ञेयो दक्षिणे चोच्यते (C F G क्रमात्)क्रम:।
चक्रार्धसहितं चापं द्वादशभ्यश्च पातितम्।।33।।
उक्तेन प्रकारेण नतिज्यामानीय काष्ठीकृत्य स्वदेशाक्षज्यामपि काष्ठीकृत्य यथा पलभागसंख्याहीना मेषादिगोले तदा पलभागेभ्यः शोद्ध्याः, शेषस्तावदपक्रमकाष्ठं स्यात्। पुनस्तस्मिन्नेव गोले यथा शङ्कुछाया मध्याह्ने दक्षिणदिक्स्था स्यात् तदा नत्यक्षकाष्ठयोः योगः क्रान्तिकाष्ठं स्यात्। एवमुत्तरगोले अवक्रमकाष्ठानयनमुक्तम्। अथ दक्षिणगोले सर्वदा नतभागसमूहतः पलभागाश्शोद्ध्याः। एवं शेषोऽपक्रमधनुर्भवति। तदर्थमुक्तम् ---
'दक्षिणेन विवस्वतः
विपर्यये पलं शोद्ध्यं नतभागसमूहतः।'
इति। एवमुभयगोलेऽपक्रमकाष्ठानयनमुक्तवा तेनापक्रमकाष्ठेनापक्रमानयनविपरीतात् अर्कानयनमुच्यते। तद्यथा तस्मात् काष्ठात् जीवाग्रहणेनेष्टापक्रमजीवा स्यात् तदर्थं तज्जीवेति कथ्यते पुनस्तां जीवां त्रिज्यया हत्वा परमापक्रमेण यल्लब्धं तत्काष्ठीकृत्य षष्ट्या त्रिंशता च हृत्वा अरोप्य राशिभागविलिप्ताभिः केवलं मिथुनान्तात् अर्वाक् स्फुटसूर्यः स्यात्। तदुत्तरं तद्धीनं चक्रार्धं स्फुटसूर्यः स्यात्। एवमुत्तरगोले विधिरुक्तः। दक्षिणगोले तुलादेर्धनुरन्तात् प्राक् सहितं चक्रार्धमादित्यस्फुटं भवति। ऊर्ध्वं चक्रविशुद्धं भानुस्फुटं भवति। तदुक्तं 'दक्षिणे चोच्यते क्रमः' इति। किमर्थमिह चक्राद्विशोधनं। चक्रार्धसहितं चक्रार्धाद्विशोधनं च केवलं आदित्यस्फुटो भवतीति बहुधा कथ्यते। अपक्रमानयनविषये यस्मात् भुजाकोटीति राशित्रयमपनीय भुजाज्यैव गृह्यते। क्व पुनरिह तथापक्रमानयनम्। ननु चोक्तं नत्यक्षकाष्ठभ्यां गौलयोरपक्रमकाष्ठम्। कुतस्तावदप्रमोस्पत्तिः कुतो वा आनीयतेऽपक्रमः। उच्यते भूगोलमध्यस्था लङ्का, तत्पूर्वापरसूत्रं किषुवत्सूत्रं, तत्सूत्रान्मेषादिमिथुनान्तं उत्तरगोलेऽपक्रमस्य वृद्धिः स्यात्, कर्क्यातिकन्यान्तं तत्रैवापक्रमस्त-वद्धीयते। एवं दक्षिणगोलेऽपि तुलादिधनुरन्तं वृद्धिः, मकरादिमीनान्तं हानिः। तत्रैदं त्रैराशिकम् यदि व्यासार्धस्य सर्वजीवासमूहस्य परमाक्रमाज्या लभ्यते पुनरभीष्टजीवासमूहस्य कियतीः क्रान्तिज्येति। तत्रैच्छाराशिः स्फुटार्कभुजाज्या परमक्रान्तिहृता त्रिज्यया विभज्यते। तत्फलमिष्टापक्रमं नाम भवति। तत्पुनरिह नत्यक्षकाष्ठाभ्यां उपायान्तरेणानीयते तद्विपरीतादर्कावगतिः। अतस्तज्जीवा त्रिज्ययाभ्यस्तेत्यादि विपरीतकरणमुक्तम्। इदं तावद्विपरीतकरणमार्यभटेनैवोक्तम् - 'गुणकारा भागहारा भागहारा ये भवन्ति गुणकाराः'
इत्यादिना, तर्हि नत्यक्षकष्ठाभ्यामपक्रमचापानयनमेवं ननु कथनीयम्। कुतः।
'शङ्कोर्याभ्योत्तरस्थायां नत्यक्षधनुषोः क्रमात्।
छायया योगविश्लेषौ क्रान्तिकार्मकसंज्ञितौ'।।
इति। साधूक्तम्। तथाप्येवमाचार्यप्रणीतमनवद्यम्। अत्राप्युदाह्रियते -
रूपाग्निभूतगतदितोऽक्षगुणो दिनार्धे
छाया रवेः षडृतुभिः प्रमितप्रमाणा।
छायार्कमाशु विगणय्य गतं वदेति
प्रोक्तं नृपेन्द्ररविणा कुलशेखरेण।।30-33।।
अथेदानीमक्षज्यानयनोपायान्तरसुपदिदिक्षुराद्-
नतापक्रान्तिभागानां योगो भानावदुक्रियते।
विश्लेषो व्यत्यये कार्यः छायायां च पलं भवेत्।।34।।
इष्टकाखस्फुटसूर्यात् मध्याह्नकरणादिष्टापक्रममानीय काष्ठीकृत्य मध्याह्नछायया नतिमप्यानीय काष्ठीकृत्य ताभ्यामुत्तरगोले छायामुत्तरदिक्स्थायां योगे कृते सति पलभागा भवन्ति। अथोत्तरगोले दक्षिणच्छायायां दक्षिणगोले च विश्लेषः पलभागा भवन्ति। तेषां जीवाक्षज्येत्युच्यते। तामक्षज्यां वर्गीकृत्य व्यासार्धवर्गादपोह्य यन्मूले गृह्यते तदवलम्बकं भवति। तदर्थादापन्नं किमर्थंमिदमुच्यते इत्यत्रोच्यते।
देशान्तरे क्वापि गतस्य यस्य तद्देशसम्भूतपलादलम्बौ।
ज्ञेयौ कथं तद्दिवरो वदेति श्रीमानवोचद्रविवर्सवेवः।।
इति भास्करीयविवरणे शङ्करनारायणीये तृतीयोऽध्यायस्समाप्तः।।
तृतीयोऽध्याय:।।