देशान्तरस्फुटोपायं विस्पष्टमुपदिश्येदानी सूर्येस्फुटकरणमाह-
मध्यमं पद्मिनीबन्धो: केन्द्रमुच्चेन वर्जितम्।
पदं राशित्रयं तत्र भुजाकोटी गतागते।।1।।
पद्मिनीबन्धु: आदित्य इति यावत्। तस्य कमलिनीबन्धोरादित्यस्य मध्यममुच्चेन शुद्धं केन्द्रसंज्ञं भवति। एतन्मन्दकेन्द्रं शीघ्रकेन्द्रमित्युत्तरत्र वक्ष्यति। तस्मिन् केन्द्रे राशित्रयं पदसंज्ञं स्यात्। तदपि पदं द्विविधम् ओजपदं युग्मं चेति। तत्रौजे पदे यावत् गतं तावत् भुजासंज्ञं भवति, यावदगतं तत् कोटि: स्यात्। कथमिह तद्गम्यते। गतभागे राशित्रयादपनीते सति शेष: स्यात्। एवमौजे पदे विहितम्। युग्मे पदे पुनरेतद्विपरीतम्। (S1 Omits this word)कथम्। गतागते कोटिबाहू इति। तत्रापि कोटिविशुद्धराशित्रयं भुजा भवति। अपि चैतस्मिन्नेव केन्द्रे मेषादितुलादित्वं कर्क्यादिमकरादित्वं चोपलक्ष्य पश्चात् भुजाकोट्यवगतिरिति। ते कुत:। तथा ह्युत्तरत्र वक्ष्यति।।1।।
अथ भुजाकोटिविषय जीवाग्रहणोपायं दर्शयितुमाह-
ओजे युग्मे क्रमाज्ज्ञेये कोटिबाहू इति स्थिति:।
लिप्तीकृत्य (धनुर्भागे)धनुर्भागै: जैवा: कल्प्या भुजेतरा:।।2।।
वर्तमानाहतं शेषं धनुषाप्तं विनिक्षिपेत्।
ते परिध्याहतेऽशोत्या लब्धे कोटिभुजाफले।।3।।
भुजां कोटि च धनुस्सङ्ख्यया (225)मख्या विभज्य यावत् फलं गृह्यते तावदर्धज्याखण्डात् मख्यादीनिं ग्राह्याणि भवन्ति। का: पुनरत्र जीवा इत्युच्यन्ते। उक्ता ननु गीतकायां आर्यभटेनैव- ‘‘मखि भखि फखि धखि णखि त्रखि ङखि हरक्ष स्ककि किप्ग श्धकि किध्वा। घ्लकि किग्र हक्य धाहा स्त स्ग श्झ ङव स्क प्त फ छ कालार्धज्या:।।’’ इति चतुर्विंशत्यर्धज्याखण्डानि। एतेषां सङ्गधावाचित्य गीतिकायामेबोक्तम्। कुत:।
''वर्गाक्षराणि वर्गेऽवर्गेऽवर्गाक्षराणि कात् ङमो य:।
खद्विनवके स्वरा नव वर्गेऽवर्गे नवान्त्यवर्गे वा।।''
इति वर्गस्थानेषु वर्गाक्षराणि अथवर्गस्थानेष्ववर्गाक्षराणि खद्विनवके स्वरा:। (ख) शब्द आकाशपर्याय: शून्यमित्यर्थं: एतदुक्तं भवति-अष्टादशवर्गावर्गस्थानेषु अजित्ययं प्रत्याहार: स्वरा शून्या इति। कात् ङ्मौ य: इति। ङ्शब्दश्च मशब्दश्च ङमो, ककारात् ङमौ यावत्सङ्ख्या तावत्प्रमाणं यकारस्येत्यर्थ:, त्रिशदित्यर्थ:। तस्माद्रेफादौनामपि चत्वारिंशदादिसङ्खया ग्राह्ये(त्य)र्थायत्तम्। अथ तैर्मख्यादिभि: पिण्डितजीवा कटपयादिसंज्ञया पठ्यन्ते--
शरीरनुद्धी भुवनं कथञ्चनो नृलीजनो मानकृपस्मयालया।
अरामयाधीव्यथायानया धिया बुधोऽग्निररुत्सूक्तखरा कलाभर:।।
महाशरो दूरसरोधमद्दुरो हसद्धुरोवेदनगस्तसङ्कुलम्।
तृणोरगो यत्र नल: प्रसङ्गगीर्धनावली कालभृगुर्जलेपलम्।।
(S1 अथोत्क्रमज्यापिण्डान्यपि।)अथोत्क्रमत: पिण्डान्यपि कथ्यन्ते -
सनज्ञधीरत्नततोनुसायकं प्रदायका तन्त्रविशालनौतवान।
धिसामुनिर्नित्यसनोगुणदनं सुनीनृप: कच्छपकश्शिवालयम्।।
जरामयालिक्कथया दया धिया गुरौ परालोलगुरुर्दिवामुखम्।
सुतस्सुरोधीजधरालयं खलो जले पलं पूर्ववदुत्क्रमं विदु:।।
अत्र पुनर्ज्याशेषस्य मखेरूनस्य गतधनुर्नामसंज्ञा विधियते। तत् गतधनुस्संज्ञं मखेर्विशोध्य यदवशिष्यते तत् गन्तव्यधनुस्स्यात्। तदप्युत्तरत्रेष्यते। तत्र लब्घान्यर्धज्याखण्डान्येकत्र पिण्डीकृत्य शेषं सविलिप्तं (S1 पिण्डेन For खण्डेन)वर्तमानजीवाखण्डेन हत्वा विलिप्ताभ्य: षष्ठ्या विभज्य यावदवाप्यते तदुपरित लिप्तापिण्डे जीवाहते प्रक्षिप्य तच्छैषमप्यनष्टं विन्यस्य पुनरूपरिस्थधनुषा विभज्य यावदवाप्यते तावत्पिण्डीकृतजीवाखण्डेषु प्रक्षिप्य तत्रावशिष्टं षष्ठ्या हत्वा विलिप्ताशेषमपि युक्त्वा पुनरपि मख्या विभज्य यतफलं गृह्यते तत्पिण्डीकृतज्यानां अधस्ताद्विलिप्तास्थानेऽपि न्यसेत्। एवं काटिजीवा अपि ग्राह्या:। किमिह त्रैराशिकम्, उभयं ननु त्रैराशिकमत्र विधियते। कथम्। राश्यष्टमांशस्य मखेर्विलिप्ताभिर्ज्यानां सङ्ख्यैका यदि लभ्यते भुजाकोटिलिप्ताभि: कियती सङ्ख्येत्येकं त्रैराशिकं प्रथममभिधीयते, पुनर्द्वितीयं मखिलिप्ताभिरेकवर्तमानमौर्वीखण्डं यदि लभ्यते मखेरूनलिप्ताभि: कियद्वर्तमानजीवाखण्डस्य खण्डं लभ्यत इति। उभयत्र मखिरेव प्रमाणराशि:, पूर्वत्रैराशिके ज्यासङ्ख्यैका फलराशि:। तस्य पुनरेकत्वात् (S2.3 तद्वगुणकारत्वम्)गुणकारत्वं न प्रदर्श्यते। रूपान्तराभावात्तत्र भुजाकोटिलिप्ता इच्छाराशित्वेन कल्प्यन्ते। द्वितीयत्रैराशिके मखेरूनलिप्ता भुजाराशि: वर्तमाज्याखण्डो गुणकारराशि:, फलराशित्वात्। क्व पुनरिदं गणितमुच्यते। ननु चोक्तमार्यभटेन। कथम्।
‘‘त्रैराशिकफलराशिं तमथेच्छाराशिना हतं कृत्वा।
लब्धं प्रमाणभजितं तस्मादिच्छाफलमिदं स्यात्।।’’
इति। अस्य शास्त्रस्य शेषं (S1 Omits this word.)षड् गोविन्दैरपि गोविन्दकृतौ प्रणीतम्-
‘‘इच्छादौ सच्छेदे सवर्णिते ताडयेत् प्रमाणस्य।
छेदेन फलं वेच्छां तच्छेदाभ्यां प्रमाणं च।’’
इति। अनयोरार्ययोरयमर्थ:। त्रयो राशयस्समाहृता कारणं यस्यैतत् गणितं त्रैराशिकम्। ते पुनरिच्छाराशि: प्रमाणराशि: फलराशिरिति कथ्यन्ते। सर्वत्रेच्छाफलग्रहणार्थं इदमुच्यते। कथम्। अस्य प्रमाणस्येदं यदि लभ्यते पुनरभीप्सितसङ्ख्याप्रमाणस्य तज्जातीयस्य तस्मात् फलराशे: कियत्तु फलं लभ्यत इति यावत् गृह्यते तदिच्छाफलं नाम भवति। तत्पुन: फलराशिनेच्छाराशिं हत्वा प्रमाणराशिना विभज्य यदवाप्यते तत्त्रैराशिकानीतमिच्छाफलं भवति। एवं सर्वत्र सर्वमूह्यम्। अथेच्छाराश्यादिषु सावयवेषु सछेदेषु फलं त्रैराशिकं कल्प्यत इति शेष इच्छादौ सछेद इत्यनयार्यया कथ्यते। कथम्। इच्छाराश्यादिषु सछेदेषु सत्सु सर्वं सवर्णीकृत्या प्रमाणछेदेन फलमिच्छा वा हत्वा पुनरिच्छाफलयो: छेदाभ्यां प्रमाणं च हृत्वा तै: पूर्वत्रैराशिकेच्छाफलमानेत-व्यमित्यर्थं:। एवं भुजाकोटिभुजाफले वर्तमानाहतं शेषं धनुषाप्तं विनिक्षिपेदिति तद्द्वितीयत्रैराशिकमिति जीवाग्रहणविषये व्याख्यातम्। पुनरुभे कोटिभुजज्ये ते स्वपरिधिगुणिते अशीत्या विभज्य पूर्ववल्लिप्तादिफले भुजाकोटिफले स्याताम्। अयमत्र प्रयोग:-सूर्यस्य परिधिस्त्रिसंख्या, चन्द्रस्य परिधि: सप्तसंख्या। ताभ्यां भुजाकोटिज्ये सविलिप्ते हत्वा विलिप्ताभ्यष्षट्या समारोपितफलसहितं उपरिस्थराशिं कृत्वा शेषमप्यनष्टं विन्यस्य तदशीत्या विभज्य सलिप्ताफलमादाय शेषं षष्ठ्या हत्वा विलिप्ताशेषमपि तत्रैव युक्त्वा पुनरशीत्यैव विभज्य तदप्यधो विन्यसेत्। एवं गृहीतफले भुजाकोटिफले भवत: इति व्याख्यातम्।।2-3।। अथ तत्फलेन स्फुटं कर्तुमाह-
(A C भुजाफलं)
भुजावाप्तं धनर्णं स्यात् केन्द्रे जूकक्रियादिके।
भुजाफलहते भोगे सक्रलिप्ताप्तमेव च।।4।।
इत्थं भुजाफलमानीय स्वमध्यमे देशान्तरस्फुटसंस्कृते जूकाक्रियादिकेन्द्रवशाद्धनमृणं वा कर्तव्यम्। किमिह जूकक्रियादीत्युच्यते। तुलादिमेषादिरिति यावत्। एवं भुजाफलस्फुटं कृत्वा फलमपि क्वचित्संरक्ष्यावस्थाप्य तेनादित्यभुजाफलेनादित्यस्फुटे द्विसंस्कृते चान्येषां चन्द्रादीनां देशान्तरीकृतेषु मध्यमेषु भानुकेन्द्रवशात् ऋणधनमिष्यते। कथम्। सूर्यभुजाफलहतां स्वां स्वां मध्यमभुक्तिं कृत्वा चक्रलिप्ताभिर्द्वादशराशिलिप्ताभि: (A B 21600)खखरसरूपयमलाभि: विभज्य लिप्ताफलमादाय षष्ठ्या समारोप्य लिप्तादिवा केवलं विलिप्ता एव वा स्वे स्वे मध्यमे भानोर्मेषादितुलादिकेन्द्रवशात् शोधनं क्षेपण च कर्तव्यम्। कथमिदमुच्चमध्यमेषु क्रियते। मध्यमसंस्कारत्वात्। तर्हि मध्यमेष्वेव कर्तव्यम्। नैप दोष:। अहर्गणत्रैराशिकानीतानां गतिमतमुच्चमध्यमानां समानत्वात् भुक्तिमत्सूच्चमध्यमेषु भुजाविवरस्फुटं कर्तव्यमेव।।4।।
एवं भुजाविवरस्फुटं सर्वेषां सामान्येन कर्तुमुपदिश्येदानी चन्द्रादित्ययोरेतत् स्फुटकरणोपायान्तरमुपदिदिक्षुराह -
भुजाफलस्य षड्भागस्तिग्मांशोर्वा विलिप्तिका:।
(A B त्रिरभ्यस्वा)
त्रिरभ्यस्य द्व्यशीत्याप्ता लिप्तिकाद्या निशाकृत:।।5।।
भानुभुजाफलं षड्भिर्विभज्य यत्फलं गृह्यते तद्भानुलितास्थाने ऋणं धनं वा कर्तव्यम्। चन्द्रस्य पुनर्मध्यमे भानुभुजाफलं त्रिभिर्हतं कृत्वा द्व्यधिकयाशीत्या विभज्य लिप्तामादाय तच्छेषं षष्ट्या हृत्वा द्व्यशीत्येव विभज्य विलिप्तामप्यादाय पूर्ववद् ऋणधनं कर्तव्यम्।।5।।
अथेदानीं सूर्यन्द्रो: कर्णानयनार्थमाह - -
कोटिसाधनयुक्तोनं व्यासार्धं मृगकर्किमत:।
तद्बाहुवर्गसंयोगमूलं कर्णा: फलाहत:।।6।।
कोटिसाधनमिति कोटिफलमुच्यते। तत्पुनव्यर्यासाधें मकरादौ केन्द्रे सति युक्त्वा कर्क्यादौ शोद्ध्य वा काटिफलमप्यनष्टं विन्यस्य वर्गीकृत्य भुजाफलमपि प्रतिराश्य संरक्ष्य वर्गीकृत्य तद्वर्गयोगं कृत्वा तस्माद्यन्मूलं गृह्यते तत् कर्णे नाम भवति। कोटिफल भुजाफलं च हत्वा व्यासार्धेन विभज्य यत्फलमवाप्यते ते काटिभुजाफले भवत:। ताभ्यां कोटिभुजाफलाभ्यां पूर्ववत्कर्ण आनीते प्रथमानीतं कर्ण परित्यज्य व्यासार्धेन पूर्ववन्मृगादिकर्क्यादिकेन्द्रवशात् कोटिफलेनेदानीमागतेन युक्तोनं कृत्वा वर्गीकृत्य द्वितीयभुजाफलवर्गेण युक्त्वा मूलमादाय तेन मूलेन कर्णाख्येन पुनरपि प्रथमभुजाफलकाटिफले हत्वा व्यमार्धेनैव तत्फलद्वयमदाय पूर्वकर्णं परित्यज्य ताम्यां तृतीयोऽपि कर्ण: पूर्ववदानीयते। एवं यावदविशेषदर्शनं कर्णस्य तावदेवमेव कर्तव्यत्। यदा पूर्वानीतेन समं कर्णो दृश्यते स तावदविशेषकर्णो भवति। स पुनरत्र ग्राह्य: स्यात्।।6।।
एवं शीतांशोरप्यविशेषकर्ण आनीयते। तदर्थमिदमुक्तम्--
व्यासार्धाप्तफलावृत्या कर्ण: कार्योऽविशेषत:।
शीतांशोरप्ययं ज्ञेयो विधि: कर्णाविशेषणे।।7।।
एतदुक्तं भवति-प्रथमकोटिफलभुजाफलाभ्यां कर्णमानीय तेन प्रथमकोटिभुजाफले हत्वा व्यासार्धेन हृत्वा ताभ्यां प्रथमं(अविशेषत: कर्ण आनेतव्य:)। चन्द्रस्य तु पुनरयं विशेष:-स्वकेन्द्रोद्भवकोटिभुजाफलाभ्यां स्वकेन्द्रवशादानीयत इति। अनेन क्रमेणान्येषामङ्गारकादीनां शीघ्रस्फुटकरणे कर्णानयनमिष्यते। तत्र कर्णाविशेषो नेष्यते। सकृत्कर्णेनैव अनेनाचार्येणैव बृहति कर्मनिबन्धे प्रणीतत्बत्। कथम् ।
‘साद्ध्य: कर्णोऽसकृन्मन्द: सकृत्कर्ण: सशीघ्रज:’
इति। असकृन्मन्दकर्णानयनं सकृत् शीघ्रकर्णानयनं च तस्माद्व्याख्यातम्। तदप्युत्तरत्रेष्यते।।7।।
सूर्यचन्द्रमसौ: कर्णस्फुटभुक्त्यानयनांर्थमाह -
व्यासार्धसंगुणा भुक्तिर्मध्या कर्णेन लभ्यते।
स्फुटभुक्तिस्सहस्त्रांशो: शीतांशोरप्ययं विधि:।।8।।
स्वां स्वां मध्यमभुक्ति व्यासार्धेन हत्वा स्वकीयेन कर्णेन विभज्य यत्फलमवाप्यते तत्स्फुटा कर्णभुक्ति:।।8।। एवं चन्द्रादित्ययो: कर्णभुक्तिमुपदिश्येदानी आदित्यस्य जीवाभुक्त्यानयनार्थमाह -
अन्त्यमौर्वीहतां भुक्तिं मध्यमां धनुषा हरेत्।
लब्धं स्ववृत्तसंक्षुण्णं (D छत्वा For छित्वा)छित्वाशीत्या विशोधयेत्।।9।।
मकरादिस्थिते केन्द्रे कर्कटादौ (All mss. read तु योजर्ज्य)चयो भवेत्।
मध्यभुक्तौ सहस्त्रांशो: स्फुटभुक्तिरुदाहृता।।10।।
अन्तमौर्वीति यदुच्यते सा यातान्त्यमौर्वी गृह्यते। वर्तमानजीवेत्यर्थ:। यया वर्तमानज्यया ज्याशेषो गुण्यते तया पुनरिह मध्यमभुक्ति सूर्यस्य हत्वा मख्यैव विभज्य यत्फलं गृह्यते तत्फलं स्ववृत्तेन त्रिसंख्येन हत्वा पुनरशीत्या विभज्य मकरादौ केन्द्रे सति स्वमध्यमभुक्तौ विशोध्य कर्क्यादौ क्षिप्त्वा वा यथा दृश्यते सहस्रांशोरादित्यस्य जीवाभुक्तिरित्युच्यते। कर्कटकादौ चयो भवेदित्यत्र चिञ् चयन इति धात्वर्थात् प्रक्षेपणमुच्यते।।9-10।।
अथेदानीा चन्द्रस्य जीवाभुक्त्यानयनार्थमाह-
उत्क्रमक्रमतो ग्राह्या: पदयोरोजयुग्मयो:।
वर्तमानगुणादिन्दो: केन्द्रभुक्ते: कलावशात्।।11।।
आद्यन्तधनुषो ज्ञेयं फलं त्रैराशिकक्र मात्।
गतगन्तव्यधनुषी केन्द्रभुक्तेर्विशोधयेत्।।12।।
इत्थमाप्तगुगं हत्वा वृत्तेनाशीतिसंहृतं।
प्राग्वत् क्षयोदयाविन्दो: (D मध्यभागे) मध्ये भोगे स्फुटो: मत:।।13।।
इह चन्द्रस्य जीवाभुक्त्यानयनं द्विविधम् उत्क्रमजीवानयनं क्रमजीवानयनं चेति। कुत: पुनरुत्क्रमक्रमकल्पनेति चेद्वर्तमानजीवाया:। कदा पुनरुत्क्र मक्रमाविति चेच्चन्द्रकेन्द्रोत्पन्नपदयो: ओजयुग्मयो:। केन्द्रभुक्तिरिति योच्यते सा चन्द्रस्य मध्यमभुक्ति: स्वोच्चभुक्तिविहीना। सा पुनरिह (784)वेदवसुस्वरसंख्या। कथमुत्क्रमज्याग्रहणं कथं वा क्रमज्याग्रहणमिति चेत् प्रथममुत्क्रमज्याग्रहणं वक्ष्याम:। यया वर्तमानज्यया भुजाज्या गुण्यते तस्य भुजाज्याया: शेषं पूर्वं केन्द्रभुक्तेर्विशोद्ध्य केन्द्रभुक्तिशेषमप्यनष्टं क्वाचिदवस्थाप्य वर्धयित्वा मख्यैव विभज्य यत्फलमवाप्यते तद्वर्तमानगुणस्य पूर्वं गतभागं स्यात्। तदनष्टं विन्यस्य क्वचिदवस्थापितं केन्द्रभुक्तिविशेषं मख्या विभज्य यावती संख्या गृह्यते तत्संख्यावशात् वर्तमानगुणादध: प्रभृति द्वे त्रीणि वाप्युत्क्रमत: प्रत्येकं मखिभख्यादि-जीवपिण्डानि(S2 खण्डानि) ग्राह्याणि। तान्येकत्र पूर्वं विन्यस्य वर्तमानगुणगतभागफले युक्त्वा पुनरत्रोत्क्रमजीवाविशेषं च तमुत्क्रमवर्तमानज्यया हत्वा मख्या विभज्य कियत्फलं गृह्यते तदपि तत्रैव जीवापिण्डे संयुज्य तत्सर्वं स्वपरिधिना सप्तसंख्येन हत्वा तदशीत्या विभज्य पूर्ववदादित्य-स्योक्तन्यायेन स्वमध्यमभुक्तौ स्वकेन्द्रमकारादिकर्क्यादिवशादृणधने कृत्वा जीवामुक्तिस्तदुत्क्रमतस्सिद्धा भवति।
अथेदानीं क्रमजीवाभुक्त्यानयनमुच्यते। कथमिति चेत् युग्मे पदे सति केन्द्रभुजाज्याशेषं मखेर्विशोध्य गन्तव्यधनुस्संज्ञमापाद्य नदपि पूर्वं केन्द्रभुक्तेर्विशोध्य तत्पूर्ववत् क्वचिद्विन्यस्य गन्तव्यसंज्ञं तद्वर्तमानज्यया हत्वा मख्या विभज्य फलं एकत्रावस्थाप्य केन्द्रभुक्तेरपि पूर्ववन्मख्यानीतजीवाखण्डानि गृहीत्वा तानि वर्तमानगुणादूर्ध्व क्रमेणादाय तानि द्रे त्रीणि वा गन्तव्यवर्तमानजीवाफले युक्त्वा तच्छेषं च क्रमागतवर्तमानगुणेन हत्वा मख्याप्तफलमपि तत्रैव संयुज्य वृत्तेन हत्वाशीत्या विभज्य पूर्वोक्तन्यायेन मध्यमभुक्तौ कृते सति क्रमानयनजीवाभुक्तिरपि सेत्स्यति।
एवं तर्हि जीवाभुक्तिर्जीवाग्रहणयुक्त्यानुपपन्ना स्यात्। कुत:। मख्यादीनां जीवानामादावन्ते च वर्तमानगुणादुत्क्रमतो जीवाग्रणाभावात्। नैष दोष:। तत्रोत्क्रमतो यावच्छक्यं तावत्तावत् गृहीत्वा अन्यदादित एव क्रमेण ग्राह्यम्। एवं अन्ते क्रमज्याग्रहणविषयेऽपि क्रमज्यास्वरूपेण यावच्छक्यं तावत् पूर्वं गृहीत्वा अन्यदुत्क्रमतो ग्राह्यम्। यद्येबं शास्त्रस्य व्यापित्वं स्यान्नाव्यापित्वं कस्मान्नित्यम्। ननु केन्द्रात् जीवाग्रहणं यावद्राशित्रयं वृद्धिश्च पुनरुत्क्रमेण समपदे क्षयश्च किञ्चित्तद्युक्त्या जीवा सेत्स्यति। ज्यानामादावन्ते च तथाविधं जीवासंग्रहणं गणितविद्भिरभ्यूह्यमिति नोपन्यस्तम्।।11-13।।
एवं जीवाभुक्त्यानयनमुपदिश्येदानीं जीवाभुक्तेषर्दूणं कैश्चिदाचार्यैरभिहितमपि प्रदर्शयितुमाह -
अभिन्नरूपता भक्तेश्चा(A चापभोग)पभागविचारिण:।
रवेरिन्दोश्च जीवाना(D ऊनभावादिसम्भव।)मूनभावाद्यसम्भवात्।।14।।
(D एवमालोच्यमानायाम्)एवमालोच्यमानेयं जीवाभुक्तिर्विशीर्यते।
कर्णभुक्तिस्फटाह्नोर्वा विश्लेषस्फुयोर्द्वयो:।।15।।
एकस्मिंश्चापांशकवर्तिनो रवेरिन्द्रोश्च यावतान्त्समौर्वीखण्डस्य मध्यमभुक्तिगुणकारस्यैकरूपत्वात् जीवाभुक्तेरूनाधिकभावासंभवात् एवमालोच्यमाना जीवाभुक्तिर्विशीर्यत एव। कुत:। एकस्मिंश्चापविषये पादोनचतुर्भागप्रमाणे प्रविष्टस्य जीवाभुक्तिरेकरूपेण दृश्यते। वर्तमानगुणस्यैकत्वात्। तथा गणितविदो नेच्छन्ति। अहरहरूनभावमधिकं वा भुक्तेरस्तीति। ननु जीवान्तरे भेदोऽस्ति। मन्द मैवं, जीवान्तरभेदे भुक्तिभेदक्रमेण न संभवतीति गम्यते। एवमिन्दोरपि दिने त्रयोदशभागवर्तिनो वर्तमानजीवानेकत्वात् जीवाभुक्तिरनेकरूपेणानीयते। एकस्मिन्दिने तत्कालीकृतचन्द्रस्य भुक्तेरूनाधिकक्रमाभाबाच्चन्द्रस्य विशेषतो दूष्यते। तर्हि कस्मात् (S2.3 बृहति भास्करीये)बृहद्भास्करीये सभुक्तिस्फुटतराह्निसेति जीवाभुक्तिरुच्यते। नैष दोष:। अन्येषामाचार्याणां अभिप्रायमुपदिश्य तदनेनदूषणेनास्माभिर्न गृह्यत इति प्रदर्श्य स्वाभिप्रायमवरथाप्यम्। ननु सर्वत्र कथ्यते अत एव जीवाभुक्तिदूषणं कृत्वा कर्णभुक्तिर्वा द्वयोरह्नोर्विशेषभुक्तिर्वा स्फुटेति कर्णभुक्तिस्फुटाह्नोर्वा विश्लेषस्फुटयो: इति।।14-15।। अथेदानीमिष्टापक्रमानयनार्थमाह -
सप्तरन्ध्राग्निरूपाणि परमापक्रमो गुण:।
तत्स्फुटार्कभुजाभ्यासस्त्रिज्ययेष्टापमो हत:।।16।।
त्रिस्फुटसूर्यात् भुजाज्यामादाय तां जीवां परमापक्रमेण (367)सप्तरन्ध्राग्निरूपेण हत्वा व्यासार्धेन विभज्य यत्फलमवाप्यते तदिष्टापक्रमो भवति। अथवा भूजाज्यां त्रयोदशगुणं कृत्वा द्वत्रिंशाता विभज्यापक्रमो गृह्यते। अत्रापक्रमसंस्कारमिति स्फुटसूर्ये पूर्वं भागत्रयं लिप्ताश्च द्विचत्वारिंशत्क्षिप्त्वा जीवामादायापक्रममानेतव्यमिति केचिद्वाञ्छन्ति।।16।। अथेदानीं स्वाहोरात्रार्धविष्कंभनयनार्थमाह -
तद्वर्गव्यासकृत्योर्यद्विश्लेषस्य पदं भवेत्।
स्वाहोरात्रार्धविष्कंभप(A B D फल For पल)लज्येष्टापमाहता।।17।।
एवमानीतमिष्टापक्रमं प्रतिराश्य वर्गीकृत्य व्यासार्धवर्गाद्वि(11819844.)वाहो धूपदीपाढ्य इत्येतस्मात् कटपयादि संकेतात् विशोध्य मूलमादाय यथा यो दृश्यते स तावत् स्वाहोरात्रार्धविष्कंभ इत्युच्यते। फलज्येष्टापमाहतेति यदुच्यते तदुत्तरार्धम्।।17।। अथ क्षितिज्यां चरजीवार्ध चोपादिदिक्षुराह -
क्षितिज्या लम्बकेनाप्ता व्यासार्धेन हता हृता।
स्वाहोरात्रेण यल्लब्धं चरजीवार्धमिष्यते।।18।।
तच्चापलिप्तिका: प्राणा: स्फुटभुक्त्या समाहता:।
खखषड्घनभागेन लभ्यन्ते लिप्तिकादय:।।19।।
पलज्यामक्षज्यामिष्टापक्रमेण प्रतिराशितेन हत्वा अवलम्बकेन विभज्य यदवाप्यते तत् क्षितिज्या नाम भवति। तां क्षितिज्यां व्यासार्धेन हत्वा स्वाहोरात्रार्धविष्कम्भेन विभज्य यल्लब्धं तच्च जीवार्ध नाम भवति। चरजीवार्ध चापकृत्य तेन (S1 प्रमाण For प्राण)चरप्राणार्धसमूहेन स्फुटभुर्क्तिं हत्वा खखषड्घनेनाहोरात्रप्राण(S1 प्रमाण For प्राण)समूहेन विभज्य स्फुटभुक्तिवशात् लिप्तादि वा गृहीत्वा त्रिस्फुटरवौ करणावशादृणं धनं वा कर्तव्यम्। एवं कृते स्फुटपरिसमाप्ति: स्यात्। एतच्चरदलस्फुटमिति कथ्यते।।18-19।।
उदग्गोलोदये शोध्या देया याम्ये विवस्वति।
व्यत्ययोऽस्तस्थिते कार्यो न मध्याह्नार्धरात्रयो:।।20।।
कथं करणवशादृणं धनं वा कर्तव्यम्। उदयकरणे मेषादिराशिषट्के स्थिते सति सूर्ये, शोध्यं, तस्मिन्नेव करणेऽस्तमयगोलेऽस्तमयकरणं चेत् क्षेप्यम्। एवमुत्तरगोलविषये शोधनक्षेपणं विहितम्। दक्षिणगोले पुनरेतद्विपरीतवशादृणं धनं वा कार्यम्। दक्षिणगोले तुलादिषट्के सवितरि गते उदयकरणे क्षेप्यं, अस्तमयकरणे शोध्यम्। तत्स्फुटकरणमुदयास्तमयकाल एव विधीयते, न पुनर्मध्याह्नेऽर्धरात्रिकरणे च। तदर्थमिदमुक्तम्-न मध्याह्नार्धरात्रयोरिति। तयो: स्फुटत्रयेणालम्, अन्यत्र त्रैराशिकवशादूह्यम्। कथं पुनरुदयादिकरणविधिरुच्यते। उक्तं ननु शुक्रादिर्भास्करोदयादिति। कुत:। उदयकरणं तावत् स्वभावादेव सिद्धम्। अन्येषु करणेषु मध्यमभुक्तिचतुर्भागमर्धं वा क्षिप्त्वा विशोध्यया युक्तिवशात् मध्यममादौ कृत्वा स्फुटं पश्चात् क्रियते। तदन्यत्र त्रैराशिकं कृत्वा मध्यममापाद्यते। कथम्। अहोरात्रासुभिर्मध्यमभुक्ति समस्ता यदि लभ्यते इष्टकालासुभि: कियन्मध्यमभुक्तिखण्डं लभ्यत इति। एवमुक्तं हि हरिदत्तेनाचार्येण-- ʽʽस्फुटभुक्त्या मध्यमेन वा तत्कालीकरणं कथितमिति चेद्--
इष्टग्रहं स्फुटं कुर्यादव्यपेतोदयद्वये।
स्फुटभुक्तिविशेष: स्यात्तयो: सर्वस्य सर्वदा।।
तयोर्हत्वेष्टकालासूनहोरावासुभिर्भजेत्।
लब्धेन भुक्तिखण्डेन युक्त्या संचारयेद् ग्रहम्।।
एवं मध्यमभुक्त्यापि मध्यमं चारयेत् ग्रहम्।
इति। कथमिह स्फुटभुक्तिवशात् विलिप्ता गृह्यन्ते। खखषड्घनभागेन लभ्यन्ते लिप्तिकादय इत्युकक्तत्वात्। स्फुटभुक्तिर्विलिप्तिकारूपेण आनीता चेदत्रापि विलिप्ता एव गृह्यन्ते। लिप्तारूपेण पूर्वं स्थिता चेत् अत्रापि लिप्ता ह्येव लभ्यन्ते।।20।। अथेदानीं चरप्राणैरहर्मानं रात्रिमानं च सम्पादयितुमाह --
उदग्गोले द्विरभ्यस्तैश्चीयतेऽहश्चरासुभि:।
निशापचीयते तत्र गोले याम्ये विपर्यय:।।21।।
किमुक्तम् चिञ् चयन इति धातु: वृद्धिविषये वर्तते। तस्मात् क्षेपणमित्यर्थ:।।21।। एवमादित्यस्फुटकरणमुक्त्वा चरदलप्रसङ्गेन चरदलेनान्यदपि कार्यमुपदिश्येदानीं चन्द्रस्य विशेषविधिमुपदिदिक्षुराह--
भास्वद्भुजाफलाभ्यस्ता मध्या भुक्तिर्निशाकृत:।
रविवच्चक्रलिप्ताप्तमिन्दुमध्ये धनक्षयौ।।22।।
इन्दोर्मध्यमं पूर्वमानीय देशान्तरस्फुटमपि पूर्वं कृत्वा तदनन्तरं सूर्यस्य भुजाफलेन चन्द्रमध्यमभुक्तिं हत्वा खखषड्घनेन चक्रलिप्तासमूहेन विभज्य यत्फलमवाप्यते तच्च मध्यमे विलिप्तास्थाने सूर्यकेन्द्रवशादृणधनं कर्तव्यम्। ननु चोक्तम् पूर्वमेवेदम्। नैष: दोषः। उक्तमप्यत्र विशेषकथनादन्येषामपीदं स्फुटकरणमिष्यत इति प्रदर्शितम्। त्रिरभ्यस्य द्व्यशीत्याप्ता लिप्तिकाद्या निशाकृत इत्येतत् स्फुटमन्यथा चन्द्रस्य कथितमिहेन्दुमध्ये धनक्षयकथनात् सर्वेषामुच्चमध्यमेषु सूर्यचन्द्रवशादृणं धनं वावश्यं कर्तव्यमिति कथितं भवति। कुत:। मध्यमसंस्कारत्वात्। अन्यदपि मध्यमसंस्कारमाचार्यार्यभटेनैव प्रणीतमिति केचिद्वर्णयन्ति। कथम्।
ʽʽवस्वेकेषुयुगघ्नं मनुयुगमर्कादिमध्यमचतुर्णाम्।
धनमृणमृणमृणमथकृतिगुणितं चकेशभैर्लब्धम्।।
भौमाङ्गिरश्शनीनां देयमृणं देयमब्धिनन्दहृते।
सितबुधयोर्हेयं देयं सप्तहतं बुधस्योक्तम्।।ʼʼ
इति कथितस्यार्याद्वयस्यायमर्थं:-- मनुयुगं पादोनाष्टविंशतिप्रमाणं विन्यस्य सूर्यचन्द्रचन्द्रोच्चपातानां यथाक्रमेण वसु एक इषु युग इत्येतै: संहत्य लिप्तासु च धनादीन्युक्तानि कर्तव्यानि।
अथ भौमदीनां कृतिसंज्ञया विंशत्या मनुयुगमभिहत्य द्वादशैकादशसप्तविंशतिभिर्विभज्य यदवाप्यते तद्भौमबृहस्पतिशनीनां यथक्रमेण देयं ऋणं देयं च भवति।
अथ शुक्रबुधयोस्समुद्रैर्नवभिश्च कृतिगुणितं कृत्वा शुक्रमध्यमे शीघ्रोच्चसंज्ञे हेयम्, बुधोच्चे पुनस्सप्तगुण कृत्वा देयमिति। अत्र मनुयुगं कथमवगम्यत इति चेदुक्तं ननु गीमकासु-
ʽमनुयुगाश्खगतास्ते च मनुयुगा: छ्ना चʼ।
इति। वैवस्वतस्याद्यतनस्य मनो: पादोनाष्टविंशतिचतुर्युगसङ्ख्या गतेति। युगादौ सूर्यादीनां युगपत्सङ्क्रमणवैषम्यादिसंस्कारकरणं ग्रहाणामवश्यमिष्यत एवेति वर्णयन्ति। एवं तार्हि सूर्यस्फुटं मध्यमसंस्कारवशात् सर्वत्र सङ्कान्त्यादिषु न घटते। सत्यम्, न घटते। अत एव तत्रान्तराण्यप्यालोचनीकानीति वराहमिहिरेणाचार्येणोक्तम्। कथम्। पौलिशरोमवा-सिष्ठसौर्यपैतामहाद्येषु पञ्चसु शास्त्रेषु पृथक् पृथग् ग्रहगत्यवगमनं सांवत्सरेणावगन्तव्यम्, इति सांवत्सरसूत्रे पठितम्। अत्र सूर्यस्यापक्रमसंस्कारमित्यस्माकं सम्प्रदाय:। अलमतिप्रसङ्गोक्तम्।।22।।
एवं चन्द्रभुजाविवरस्फुटमुक्त्वेदानी तस्यैव विशेषस्फुटदर्शनार्थमाह --
आदित्यकर्मणा तुल्यं शेषमिन्दोर्विधीयते।
चरप्राणै रवेर्हत्वा स्फुटभुक्तिं निशाकृत:।।23।।
अहोरात्रासुभि(A B D भङ्क्त्वा)हंत्वा यत्फलं लिप्तिकादि तत्।
धनक्षयौ स्फुटे चन्द्रे भास्करस्य वाशात्सदा।।24।।
इन्दो: स्फुटकरणमप्यादित्यकर्मणा तुल्यमित्युपदिष्य शेषमिन्दोर्विधीयत इति चन्द्रस्फुटविषये विशेषत: कथ्यते। कथम्। रवेश्चरप्राणैश्चन्द्रस्फुटभुक्ति हत्वा तामहोरात्रासुभिर्विभज्य स्फुटभुक्तिवशाल्लिप्तादि वा विल्लिप्तां वा गृहीत्वा रविगतगोलवशात् करणवशाच्च चन्द्रस्फुटे धनक्षयौ कर्तव्यौ, न पुनश्चन्द्रगोलवशात्। अत्रापि न मध्याह्नार्धरात्रयोरिति करणमिदं नेष्यते।।23-24।। एवं चन्द्रस्य स्फुटमुपदिश्य चतुस्फुटचन्द्रे नक्षत्रगत्यवगमनायाह-
लिप्तीकृतो निशानाथ: शतैर्भाज्योऽष्टभि: फलम्।
अश्विन्यादीनि भानि स्यु: षष्ट्या हत्वा गतागतम्।।25।।
गतगन्तव्य(A B D नाड्यस्ताः)नाड्य: स्यु: स्फुटभुक्त्योदयावधे:।
स्फुटचन्द्रं कलीकृत्याष्टशतैर्विभज्य यदवाप्यते तदश्विन्यादीनिगतानि नक्षत्राणि भवन्ति। तत्र शेषो गतसंज्ञ: स्यात्। गतं भागहारादष्टशतादपोह्य यदवशिष्यते तद्गन्तव्याख्यम्। तौ गतगन्तव्यौ पृथक् पृथक् षष्ट्या हत्वा चन्द्रस्फुटभुक्त्या विभज्य घटिका ग्राह्या:। पुनरपि षष्ट्या हत्वा तथैव स्फुटभुक्त्या विभज्य विनाड्यो ग्राह्या:। पुनस्तच्छेषं षड्भिर्हत्वा प्राणा अपि ग्राह्या:। उदयावधेरिति यदुच्यते तदुदयकरणत्वात् यल्लभ्यते इत्यर्थ:। मध्याह्नादिषु करणेष्वप्येवमेव तदवधिका लभ्यन्त इत्येतदप्यर्थापन्नम्। एवमश्विन्यादीनां सावनघटिकादिग्रहणे लभ्यन्ते षष्ट्या हत्वा गतागतम्।।25।।
अर्कहीनो निशानाथो लिप्तीकृत्य विभज्यते।।26।।
शून्याश्विरपर्वतैर्लब्धास्तिथयो वा गता: क्रमात्।
गत्यन्तरेण लभ्यन्ते षष्ट्या हत्वा (C D गतागते)गतागतम्।।27।।
अर्कस्फुटं निशानाथस्फुटादपनीय लिप्तीकृत्य प्रतिराश्य (720)शून्याश्विपर्वतैर्विभज्य यत्फलं गृह्यते तत्प्रतिपदादिगततिथिप्रमाणं स्यात्। अत्रापि पूर्ववत् गतगन्तव्यपरिज्ञानम्। स्फुटभुक्त्यन्तरं भागहारत्वेन गृह्यते। कुत:। अर्कचन्द्रयोर्गत्यन्तरस्य तिथित्वात्। कथमिह चन्द्रादित्यस्फुटौ विलिप्तान्तौ चेद्विलिप्तीकृत्याष्टशतैर्विभज्यते। तन्मैवम्। ननु लिप्तीकरणमुपलक्षणम्। लिप्तीकृतस्य भागहारमपि षष्ट्या हत्वा तेनैव भागहारेण विलिप्तीकृतेन हरणं तत्र गणितविद्भिरुच्यते। स्फुटभुक्तिमपि विलिप्तीकृत्य विलिप्तीभूतस्य तत्र तत्रेष्यते। किं पुन: प्रतिराशिततिथिलिप्ताभिरिह प्रयोजनम्। करणज्ञानार्थम्। क्व पुन: करणावगतिरुच्यते। नेनैवाऽचार्येण वृहति कर्मनिबन्धे कथितम्। कथम्।।
तिथ्यर्थहारलब्धानि करणानि वबादित:।
विरूपाणि सिते पक्षे सरूपाण्यसिते विदु:।।28।।
अत्रैवं कर्तव्यम्। प्रतिराशिततिथिलिप्ता: (360)खरसगुणैस्तिथ्यर्थविलिप्ताभिर्विभज्य यत्फलं गृह्यते तद्वबादीनि करणान्यतीतानि भवन्ति। तत्र सप्तभिरपोह्य शेषाद् वबादीनि गृह्यन्ते। एवं कृष्णचतुर्दश्याद्यार्धादर्वागवगम्य तदुत्तरं चत्वारि करणानि प्रत्येकमवगन्तव्यानि। तस्मादिह विरूपाणि सिते पक्षे सरूपाण्यसिते विदुरित्युक्तम्। पुन: करणशेषमपि षष्ट्या हत्वा भुक्त्यन्तरेणैव विभज्य घटिकादयो ग्राह्या:। एतस्मिन्नर्थे केनचिदाचार्येणैवमुक्तम् -
‘‘व्यर्केन्दुकला भक्ता: खरसगुणैर्लब्धमूनमेकेन।
करणानि ववादीन्याहृतशेषे तिथिवदन्यत्।।
कृष्णचतुष्पदं प्रथमे.. .. .. .. .. ..
तिथ्यर्धेऽन्त्ये नागं किं स्नुग्यं प्रतिपदाद्यर्थे’’।।28।।
एवं तिथिकरणान्युपदिश्येदानीं व्यतीपाताद्यवगमनायाह --
सूर्येन्दुयोगे चक्रार्धे व्यतीपातोऽथ वैधृत:।
चक्रे च मैत्रपर्यन्ते विज्ञेयस्सार्पमस्तक:।।29।।
र्स्येन्दुस्फुटयोगे कृते सति चक्रार्ध सस्भवति चेत्तत्र व्यतीपातः स्यात्। अथ चक्रे सति वैधृतव्यतीपातश्च स्यात्। कुतः। चशब्दोच्चारणात्। अथ मैत्रपर्यन्ते योगे सार्पमस्तको नाम भवति। चित्रार्धेरेवत्यन्ते मैत्रान्ते च व्यतीपाता ये अर्कचन्द्रस्फुटयोगात् सम्भवन्तीति। अत्र पुनश्चक्रार्धव्यतीपातस्फुटो नाभिहितः, तदुद्देशविज्ञानमेवोक्तम्। कथं पुनर्व्यतीपातकालावगमनम्। यदा चन्द्रादित्ययोरपक्रमतुल्यत्वं सम्भवति तदा सम्भवतीति गणितविदो वाञ्छन्ति। कीदृशी पुनरपक्रमयोस्तुल्यत्वकालावगतिः। तर्हि पुनश्चक्रार्धसम्भवकाल एवावगन्तव्यः। कथम्। स्फुटयोगे चक्रार्धोनाधिके दृष्टे सति तत्राधिकमूनं वा लिप्तीकृत्य भुक्तियोगेन विभज्य दिनादिफलमानीय तेन कालेनोत्तरत्र पूर्वत्र वा सूर्येन्दू तत्कालीकृत्य तत्रोत्पन्नस्फुटाभ्यासयोगे तेन चक्रार्धराशित्वं सम्भवति। तदा ताभ्यामुभयोरपक्रमावानेतव्यौ। तत्रोभयोरपक्रमत्वे यदि दृष्टे तदानीमेव व्यतीपातः स्यात्। तत्र न भवति चेत्तयोरपक्रगतिं दिनद्वयगत्यन्तरेणावगम्य पृथक् पृथगपक्रमगतेर्वृद्धिं हानिं च निरीक्ष्य स्वबुद्ध्या सम्यगूह्य तत्रैकदिनापक्रमगत्यन्तरमुभयोरापाद्य तत् षष्ट्या हत्वा पुनरेकदिनापक्रमगतियोगेन विभज्य घटिकाफलमानीय घटिकातत्कालेन स्फुटमुभयोः कृत्वा पुनरप्येवमेव यावत्तुल्यत्वं तावत् कर्तव्यम्। एतदुक्तं भवति-- स्वबुद्ध्योभयोरपक्रममूह्य कर्तव्यमिति। कथमिह चन्द्रापक्रमानयनम्। उच्यते ननु षष्ठाध्यायेऽपक्रमानयनं चन्द्रस्य। तद्यथा -
ʽʽविक्षेपक्रान्तिधनुषोर्भिन्नतुल्यस्वदिग्वशात्।
विश्लेषयोगजा जीवा सेन्दोः क्रान्तिस्ततः स्फुटा।।ʼʼ
इति। तथेहापि चन्द्रस्येष्टापक्रमानयनम्। कथम्। चन्द्रस्फुटात् राहुस्फुटमपनीय दिशमुपलक्ष्य भुजाज्यामादाय तां (270)खत्रिघनेन हत्वा व्यासार्धेन विभज्य विक्षेपज्यामादाय काष्ठींकृत्य चन्द्रस्फुटादेव सूर्योक्तन्यायेनापक्रममप्यानीय काष्ठीकृत्य विक्षेपापक्रमयोर्दिक्साम्ये काष्ठयोर्योगं असाम्ये विश्लेषं कृत्वा तस्माद्योगाद्विश्लेषाद्वा मख्या जीवा गृह्यते। सा चन्द्रस्य सर्वत्रेष्टापक्रान्तिरित्युच्यते। अपि चैतस्मिन्नर्थे आचार्येणैवमुक्तम्। कथम्। ʽनानायने व्यतीपातस्तुल्यापक्रमयोरुद्देशस्य चक्रार्धं विक्षेपमाद्यधिकोनम्ʼ इति। अत्र सूर्येन्दुस्फुटयोगजान्महादोषाख्यानाचार्यः प्रभाकरोऽप्युपदिष्टवान्। वयमिह व्याख्यास्यामः। कुतः।
ʽʽसूर्येन्दुयोगनक्षत्रे रूपपस्वर्कपञ्चभिः।
अत्यष्ट्या चैव धृत्या च पङ्क्त्या युक्त्वा पृथक् पृथक्।।
निरोधं परिघं वज्रं दण्डं खण्डं च चूलकम्।
व्यतीपातं च सप्तैतान् महादोषान् विदुः क्रमात् ।।ʼʼ
इति। अत्रापि सूर्येन्दुस्फुटयोगं पूर्वं कृत्वा लिप्तीकृत्याष्टशतैर्विभज्य नक्षत्राण्यवगम्य शेषान् षष्टिहतान् भुक्तियोगेन विभज्य घटिकाद्यानीय तस्मिन्नक्षत्रे रूप वसु अर्क पञ्च अत्यष्टि धृति पङ्क्ति इत्येतान् सप्त युक्त्वा तेषां पृथक् पृथक् स्थितिरश्विन्यादिषु नक्षत्रेष्ववगन्तव्येति व्याख्यातम्। एवमेव विष्कम्भादयो योगाश्च सप्तविंशतिः सूर्येन्दुयोगादेवावगन्तव्याः। अपि च व्यतीपाता बहुधा बहवः श्रूयन्ते, किं व्यतीपाताश्च तथा बहवस्सन्ति आहोस्वित्तत्सदृशगुणदोषदाः। एते अत्र वयमपि न विदुः, तद्विदः प्रष्टव्याः। आर्यभटप्रणीतव्यतीपातावुभावेव, अन्ये दश व्यतीपातान् वदन्ति। एके पुनस्सप्तमहादोषेषु विष्कम्भादिषु च धूपादिषु व्यतीपाताः श्रूयन्ते। तेषामपि व्यतीपातदोषफलत्वात्तन्नाम संज्ञा विधीयते। अलं प्रसङ्गवादः। प्रस्तुतमनुसरामः ।।29।।
अथेदानीमङ्गारकादीनां स्फुटगत्यवगमनायाह -
केन्द्रकोटिभुजामौर्वोतत्फलर्णधनादयः।
भास्करकदवबोद्धव्यां ग्रहाणां मन्दशीघ्रयोः।।30।।
भास्करस्य यथा केन्द्रादिकथनं तथा सर्वमङ्गारकादीनामुपदिश्य तेषां परिधिस्फुटं कर्तुमाह-
क्रमोत्क्रमभवां जीवां पदयोरोजयुग्मयोः।
वृत्तान्तरेण संक्षुण्णां हरेद्वयासदलेन ताम् ।।31।।
लब्धमूने क्षिपेद्वृत्ते शोध्यमप्यधिके फलम्।
स्फुटवृत्तमन्यथा स्यात् मण्डूकप्लुतिवद्गतिः।।32।।
ओजयुग्मपदयोः भुजज्यां कोट्युत्क्रमज्यां वा परिध्यन्तरेण हत्वा व्यासार्धेन विभज्य लिप्तामादाय वर्तमानपरिधौ हीने सति तस्मिन् प्रक्षिपेत्। अथाप्यधिके वर्तमानपरिधौ सति विशोधयेत्। एवं कृते स्फुटपरिधिः स्यात्। एवं कृते सति स्फुटपरिधौ मण्डूकस्य प्लुतिरिव क्वचित् स्पृशति क्वचित् स्पृशति। तस्मादवश्यं स्फुटवृत्तं कर्तव्यमित्यर्थः।
अङ्गारकस्फुटवृत्तयोगमुदाहरिष्यामः। कथम्। अङ्गारकस्य मन्दस्फुटौजपरिधिश्चतुर्दशसङ्ख्या। तत्र युग्मपदपरिधिरष्टादशसङ्ख्या। तेन भुजाज्यां भुजाज्याविहीनव्यासार्धशेषं वा पदयोरुभयोः वर्धयित्वा व्यासार्धेन विभज्य यत्फलं ग्रहीतुं शक्यं चेल्लिप्ता भवति, नो चेत् षष्ट्या कला हत्वा गृहीतं चेद्विलिप्ताफलं स्यात्। तद्वर्तमानपरिधेरूनमधिकं वा कृत्वा विलिप्तीकृत्य तेन भुजाज्यां कोटिज्यां च हत्वा अशीत्या विभज्य पुनष्षष्ट्या संगुण्य्य तया विभजेत्। एवं शीघ्रस्फुटेऽपि पदवशात्कर्तव्यम्। कथम्। ओजपादपरिधिस्त्र्यधिकपञ्चाशत्सङ्ख्यः, युग्मपादपरिधिस्तमाद् द्वाभ्यां हीना एकपञ्चाशदित्यर्थः। तयोरन्तरं द्विसङ्ख्यम्। तेनापि मन्दस्फुटन्यायेन स्फुटवृत्तं कल्प्यते। एवं बुधादीनामपि व्याख्यातम्।
एवमादिपरिधिपक्षः। अन्तपरिधिपक्षोऽपि विद्यत इति केचिद्वदन्ति। कथमिति चेत् मन्दास्सुराधिपास्सप्त इत्यादि ये पठ्यन्ते ते पादान्ते ग्राह्या इति। तद्विचार्यम्। कस्मात्पुनर्मण्डूकप्लुतिवद्गतित्वं परिधेः। ओजयुग्मपादपरिधिसद्भावात्। कुतः। ओजपादे चतुर्दशसङ्ख्यस्य परिधेः पदान्ते अष्टादशत्वमन्यथा न सम्भवतीति क्रमाद्वृद्धिर्हानिर्वावश्यमिष्यत इति।।31-32।।
परिधिस्फुटमुपदिश्य मन्दस्फुटभुजाफलेन स्फुटकरणार्थमाह --
मन्दोच्चफलचापार्धं प्राग्वन्मध्ये धनक्षयौ।
कृत्वा शीघ्रोच्चतश्शोध्यं शीघ्रकेन्द्रं तदुच्यते।।33।।
मध्यमान्मन्दोच्चमपनीय केन्द्रमुपलक्ष्य भुजाजीवामादाय चोक्तमार्गेण पदवशात् स्फुटमापाद्य तेन भुजाज्यां हत्वा अशीत्या तथाभूतया विभज्य यत्फलं गृह्यते तन्मदोच्चफलमित्युच्यते। तत्काष्ठीकृत्यार्धीकृत्य देशान्तरभुजाविवरसंस्कृतं मध्यमं प्रतिराश्य तस्मिन् प्राग्वत् जूकक्रियादिकेन्द्रवशाद्धनं क्षयं वा कृत्वा क्वचिदवस्थाप्यं तं पुनश्शीघ्रोच्चद्विशोध्य शीघ्रकेन्द्रमापाद्यते। तदर्थमिदमुक्तं शीघ्रकेन्द्रं तदुच्यत इति।।33।।
शीघ्रस्फुटकरणार्थमाह --
तस्माद् बाहुफलं हत्वा व्यासार्धेन विभज्यते।
कर्णेनाप्तस्य चापार्धं धवर्णे मेषतौलितः।।34।।
शीघ्रोच्चाद् द्विसंस्कृतात्त्रिसंस्कृतं विशोद्ध्यं (S2 पूर्ववत्।)पूर्वं मेषादितुलादिकेन्द्रमुपलक्ष्य भुजाज्यां कोटिज्या चापनीयं स्फुटपरिधिमापाद्य तेन भुजाज्यां कोटिज्या च हत्वा अशीत्या विभज्य भुजाकोटिफलं गृहीत्वा ताभ्यां सकृत्कर्णमापाद्य क्वचिद्विन्यस्य भुजाफलं सविलिप्तं व्यासार्धेन हत्वा विलिप्ताभ्यष्षष्ट्या समारोपितफलमुपरि राशिं कृत्वा सकृत्कृतेन कर्णेन विभज्य चापं कृत्वा पुनरर्धीकृत्य त्रिसंस्कृतमध्यमे मन्दस्फुटविपरीतेन मेषतौलितो धनर्णं कल्पयेत्। एवं शीघ्रस्फुटं सिद्धं भवति। तस्मादिह कर्णाविशेषं चन्द्रादित्ययोरिव नेष्यते। 'असकृत् मन्दस्सकृत् कर्णश्शीघ्रज:' इति बृहति कर्णनिबन्धे स्वयमेव कथितवान्। कथं असकृन्मन्दकर्णसाधनं सकृच्छीघ्रकर्णसाधनं च। ननु प्रतिमण्डलविधानविषये कर्णकल्पनैवम्। नैष दोष:। तत्राप्येवादिदमेव गृह्यते।।34।।
एवं शीघ्रस्फुटकरणमुक्त्वा पुनरपि मन्दस्फुटकरणार्थमाह -
शोधयित्वा ततो मन्दं बाहो: कृत्स्नं (A B कृत्स्नफलम्)फलं तत:।
काष्ठितं मध्यमे कुर्यात् स्फुटमध्यस्स उच्यते।।35।।
एवं द्विस्फुटीकृतान्मन्दोच्चमपि पूर्ववद्विशोध्य मन्दन्यायागतं फलं कृत्स्नं सकलं काष्ठितं द्विसंस्कृतमध्यमे जूकक्रियादिकेन्द्रवशाद्धनर्णं कल्पयेत्। एवं कृतं स्फुटमध्यमं उच्यते।।35।।
पुनश्शीघ्रस्फुटं चतुर्थं कर्तुमाह -
(A B D पतयित्वा तु तम्।)शोधयित्वा कृतं शीघ्रात् शीघ्रन्यायागतं फलम्।
चापितं सकलं कुर्यात् स्फुटमध्ये स्फुटो भवेत्।।36।।
स्फुटमध्यमनष्टं विन्यस्य शीघ्रोच्चाद्विशोध्य शीघ्रस्फुटकथितं मापाद्य व्यासार्धगुणितं तद्भुजाफलं कर्णेन विभज्य काष्ठीकृत्य सकलफलं स्फुटमध्यमे कृते सति स्फुटो भवति। किं पुनरिह चरदलस्फुटं विहितम्। अत्रापि विहितमेव। कुत:। उक्तं ननु पूर्वमेव -
'केन्द्रकोटि भुजामौर्वीतत्फलर्णधनादय:।'
इत्यत्र भास्करादवबोद्धव्या इत्यादिग्रहणात्। कथं स्फुटभुक्त्यापादनम्। करणयुक्त्या मध्यमभुक्तिं स्फुटीकृत्य स्फुटभुक्तिमापादयितु ननु शक्यम्। कथमिति चेत् - चतुर्थस्फुटे वर्तमानजीवाचतुष्टयमनष्टं विन्यस्य स्फुटपरिधिचतुष्टयं च कर्णावपि स्मृत्वा मध्यमभुक्तिं वर्तमानज्यया हत्वा मख्या विभज्य जीवा गृह्यते। तां परिधिना हत्वा अशीत्या विभज्यार्धीकृत्य मध्यमभुक्तौ मकरादिकेन्द्रे कर्कटकादौ च यो भवेदित्युक्तन्यायेन कृत्वा शीघ्रोच्चभुक्तेस्तद्विशोध्य शीघ्रस्फुटवर्तमानज्यया हत्वा मरव्या विभक्तं तत्स्फुटपरिधिना हत्वाशीत्या विभज्य व्यासार्धेन गुणं कृत्वा कर्णेन तदीयेन विभज्य चापं कृत्वार्धीकृत्य तत्रैव पूर्वविपरीतेन कृत्वा तृतीयवर्तमानज्यया हत्वा पूर्ववदानीय सकलं मध्यमभुक्तौ कृत्वा स्फुटमध्यमभुक्तिमापाद्य शीघ्रोच्चभुक्तेरपोह्य शीघ्रन्यायगतं सकलं स्फुटमध्यमभुक्तौ कृत्वा स्फुटभुक्तिरापाद्यत एव। अत्र चतुर्थस्फुटायातं फलं स्फुटमध्यमभुक्ते: शोधनत्वाय शक्यं चेत्तस्यादपोह्य स्फुटभुक्तिर्गृह्यते। अथवा द्वयोरह्नोरव्यपेतयो: स्फुटयो: विशेषभुक्तिर्वा स्फुटभुक्तिर्वा स्यात्। एवमुभयो: तेन मार्गेण स्फुटभुक्तिमानीय तां स्फुटभुक्तिं रविचरप्राणैर्हत्वा-होरात्रासुभिर्विभज्य आदित्यगोलवशात् करणवशाच्च धनर्णे कृत्वा स्फुटग्रहो भवति। एवं सप्तभिस्संस्कारै: भौमजीवार्कजा: स्फुटा भवन्ति।।36।।
एतदर्थमुक्त्वा बुधशुक्रयोरपि स्फुटकरणोपायमुपदिदिक्षुराह -
(All mss. read कुजकैसुतसुरौण)कुजाकिंशक्रसूरीणामेवं कर्म विधीयते।
बुधभार्गवयोश्चाथ प्रक्रिया परिकीर्त्यते।।37।।
कुजार्किशक्रपूज्यानां स्फुटकरणस्य तुल्यात्वादेवं कर्म विधीयत इत्युक्त्वात् बुधभार्गवयो: स्फुटकरणतुल्यता विधीयत इत्युपदेष्टुमाह -
प्रागेव चलकेन्द्रस्य फलचापदलं स्फुटम्।
व्यक्तं स्वकीयमन्दोच्चे धनर्णे परिकल्पयेत्।।38।।
तेन मन्देन यल्लब्धं सकलं तत्स्वमध्यमे।
स्फुटमध्यश्चलोच्चेन संस्कृतस्स स्फुटो ग्रह:।।39।।
पूर्वमेव बुधशुक्रयो: मध्यमं द्विसंस्कृतं द्विसंस्कृतशीघ्रोच्चाद्विशोध्य शीघ्रन्यायागतं फलमर्धीकृत्य स्वमन्दोच्चे केन्द्रविहिते धनर्णे विपरीतं कृत्वा तेन मन्दोच्चेन मध्यमाच्छोधनं कृत्वा मन्दन्यायगतफलचापं सकलं द्विसंस्कृतस्वमध्यमे कल्पयित्वा पुनश्शीघ्रोच्चाद्विशोद्ध्य शीघ्रन्यायानीतभुजाफलचापं सकलं स्फुटमध्यमे कृत्वा चरदलस्फुटमपि कृत्वा बुधशुक्रावपि स्फुटौ भवतः। किमिदं मन्दोच्चधनर्णे विपरीतकरणं मन्दोच्चसंस्कारमाहोस्वित् स्फुटकरणम्। न मन्दोच्चसंस्कारं, स्फुटकरणमेव। कुतः। मध्यमे धनर्णम्। केन्द्रावशात् कृतस्यास्य च विशेषाभावात्।।38-39।।
एवं ग्रहस्फुटमुपदिश्येदानीं वक्रगत्यवगमनार्थमाह -
वर्तमानो ग्रहस्तुल्यश्वस्तनेन यदा भवेत्।
वक्रारंभस्तदा तस्य निवृत्तिर्वाथ कीर्तिता।।40।।
श्वस्तनेऽद्यतनाच्च्छुद्धे वक्रभोग: प्रकीर्तित:।
विपरीतविशेषोत्थ: चारभोगस्तयो: स्फुट:।।41।।
शीघ्रस्फुटकरणविषये द्वितीयपादे केन्द्रे सति वक्रप्रारंभ:, तृतीये पादे वक्रस्योपरति:। तत्र कथमिति चेत् यदा द्वयोरह्नो: स्फुटद्वयं तुल्यं स्यात्तदा तस्मिन्नहनि वक्रारंभ:। तथैव तृतीयपादे केन्द्रतुल्यत्वे वक्रोपरति:। नाद्यतनस्फुटात्श्वस्तनस्फुटे शुद्धे सति वक्रगतिर्वर्तत इति ज्ञेयम्। पुनर्विपरीतवशेषे सति चारभोग:। अनुलोमेन गच्छतीत्यर्थ:। श्वस्तनादद्यतने शुद्धे यथाक्रमेण स्वगत्या यान्तीति प्रकीर्तित:।।40-41।।
इति लघुभास्करीयविवरणे शङ्करनाराणीये
द्वितीयोऽध्याय:।।