व्याप्तं मूर्तिभिरष्टभिर्जगदिदं यस्याखिलं दृश्यते
स्त्रष्टा(S2 राजसभावगः स्थितिविधौ)राजसभागवस्थितिविधौ सत्त्वाश्रितश्शार्ङ्गधृक्।
संहारे तमसा युतो हर इति प्रोक्तो य एकस्त्रिधा
स स्थाणुर्जयति त्रिरूपहितोऽलिङ्गोऽपि लोकार्चित:।
आचार्यार्यभटं वराहामिहिरं श्रीमद्गुरुं भास्करं
गोविन्दं हरिदत्तमत्र शिरसा वक्ष्ये प्रणम्य क्रमात्।
बालानामववोधनार्थमधुना व्याख्यानिबन्धं यथा
मुक्त्वा भास्करभाषितस्य पृथुतां शास्त्रस्य संक्षेपत:।।
अत्रादौ किल विश्वसृग्वदनजं बुद्ध्वेह पैतामहं
तस्मादार्यभट: प्रपञ्चरहितं स्वेनैव नाम्नाकरोत्।
तद्व्याख्याननिबन्धनत्रयमलं श्रीभास्करोक्तं पुन-
स्तत्राप्यल्पतरस्य सम्प्रति मया व्याख्येयमारभ्यते।।
अत्र प्रथमतस्तावदार्यभटस्य गणितकालक्रियागोललक्षणशास्त्रस्य भाष्यं कृत्वा पुनर्ग्रहकर्मनिबन्धनं बृहद्भास्करीयं नाम कृत्वा पुनरपि संक्षेपेणाष्टाधिकारकथितग्रहकर्मनिबन्धनं मन्दबुद्वीनामनुग्रहबुद्ध्या गुरुरयं भास्कर: स्वनामसम्बन्धमुपदिदिक्षु: तद्विघ्नोपशमनार्थं भगवते भास्कराय नमस्कर्त्तुमादाविदमाह-
भास्कराय नमस्तस्मै स्फुटेयं ज्योतिषां गति:।
प्रक्रियान्तरभेदोऽपि यस्य गत्यानुमीयते।।1।।
पौलिशरोमशवासिष्ठसौर्यपैतामहशास्त्रेषु पञ्चसु ग्रहगत्युपायदर्शनेषु प्रक्रियान्तरभेदे विद्यमानेऽपि यस्य गत्यविरोधेनान्येषां ज्योतिषां ग्रहादीनां स्फुटगतिरियमनुमीयते तस्मै भास्कराय नम इत्यर्थ:। अपि चानुमीयत इत्युक्तत्वादस्य शास्त्रस्यानुमानमेव प्रमाणमित्युक्तम्। कुत:, त्रैराशिकगणितपूर्वकत्वात्। कीदृशी पुनस्त्रैराशिकस्यानुमानविषयता। उच्यते-यथा कश्चिद्देवदत्तो नियतगति: कन्यातीर्थात् गङ्गातीरं प्रति गन्तुं प्रस्थितश्चतुर्भिर्मासैर्गङ्गातीरं प्रविष्टश्चेत्तस्य देवदत्तस्य पुनस्तस्मिन् मार्गे गतिप्रमाणमेकेन मासेन द्वाभ्यां वा कैश्चिदहोभिर्वा त्रैराशिकादवगन्तुं शक्यम्, तद्वदन्येषामपि तेन मार्गेण गच्छतां देवदत्तादधिकहीनगतीनां देवदत्तगतेरप्यन्तरं पृथग् पृथगवगम्य तैरन्तरैस्त्रैराशिकं कृत्वा देवदत्तगतेश्शोधनक्षेपणे कृत्वा हीनाधिकगतीनां गतिप्रमाणमप्यनुमीयत एव। तथेहादित्यगत्या ग्रहादीनां स्फुटगतिरनुमीयत इत्यर्थ:। अतो ग्रहगतिज्ञानमनुमानप्रमाणेनावगम्यत इत्युक्तं भवति। अपि चादित्यगत्या ज्योतिषां गतिरनुमीयत इत्यादित्यगतेर्ग्रहगतिज्ञानविशेषणत्वप्रतिपादनवचनसामर्थ्यात् ग्रहगतिरस्माभिधीयत इत्युक्तं भवति। श्रोतृणामसम्मोहनार्थ शास्त्रादौ वक्तव्यानि सम्बन्धाभिधेयप्रयोजनानि विशेषतो वेदाङ्गशास्त्रस्य ग्रहगतिज्ञानस्य पुरुषार्थसाधकस्ययोपायोपेयसम्बन्धलक्षणं शास्त्रमस्माभिराभ्यत् इत्युक्तं भवति। कुत:, आदित्यस्तुतेरेतद्विशेषणस्य मान्यत्वात्।।1।।
एवमिष्टदेवतानमस्कारं कृत्वा पुनरार्यभटस्तवनमाह -
काले महति देशे वा स्फुटार्थं यस्य दर्शनम्।
जयत्यार्यभट: सोऽब्धिप्रान्तप्रोल्लङ्घिसद्यशा:।।2।।
महति कालान्तरेऽतीते महति देशान्तरे वा यस्य दर्शनं स्फुटार्थं भवति स तावदार्यभटोऽब्धिप्रान्तप्रोन्लङ्घिसद्यशा: चतुस्सागरसीमान्तारूढसत्कीर्तिर्जयतीत्यर्थः।।2।।
अथेदानीं ग्रहगतिज्ञानविषयशास्त्रेषु आर्यभटीयमेव विशिष्टमित्येतत्प्रदर्शनार्थमाह -
(All Mss. read नातमार्यभ्रटाइ) अलमार्यभटादन्यैर्ज्योतिषां गतिवित्तये।
तत्र भ्रमन्ति तेऽज्ञानबहलध्वान्तसागरे।।3।।
आर्यभटीयशास्त्रादन्यै: शास्त्रान्तरै: ग्रहगतिज्ञानार्थं येऽन्ये यत्नं कुर्वन्ति ते पुनरज्ञानबहलीभूते तमस्सागरे अलं भ्रमन्तीति यावत्। एतदुक्तं भवति। ग्रहगतिज्ञानस्यार्यभटमेव विशिष्टमिति।।3।।
अथेदानीं तदवगमनहेतुभूत: कलियुगातीतोऽहर्ग इति तदानयनार्थं नवाद्येकाग्नीत्यादिश्लोकपञ्चकमभिधीयते-
नवाद्येकाग्निसंयुक्ताश्शकाब्दा द्वादशाहता:।
चैत्रादिमाससंयुक्ता: पृथग्गुण्या युगाधिकै:।।4।।
ते च षट्त्रिकरामाग्निनवभूतेन्दवो युगे।
भागहारोऽब्धिवस्वेकशरास्स्युरयुताहता:।।5।।
अधिमासान् पृथक्स्थेषु प्रक्षिप्य त्रिंशता हते।
युक्त्वा दिनानि यातानि प्रतिराश्य युगावमै:।।6।।
संगुणय्याम्बराष्टेषुद्व्यष्टशून्यशराश्विभि:।
छेद: खाष्टवियद्व्योमखखाग्निखसेन्दव:।।7।।
लब्धान्यवमरात्राणि तेषु शुद्धेष्वहर्गण:।
वारस्सप्तहृते शेषे शुकादिर्भास्करोदयात्।।8।।
(3671)नवाद्रयेकाग्नीति या सङ्ख्या कथ्यते सा शकेन्द्रनरपतिकालात् पूर्वं कलियुगातीतवर्षसङ्ख्या। तत: प्रभृति कलियुगस्य यानि वर्षाण्यतीतानि अनागतानि शेषाणि च शकवर्षाणीति संज्ञा वर्षाणां पूर्वाचार्यैर्विहिता। किमर्थमियमिह विहिता। उच्यते-आसीत् किल तावत्यतीते कलियुगे शकेन्द्रो नाम नरेन्द्रस्सार्वभौम:। तेन कृता समस्तभूमण्डले स्वानामसम्बन्धता तत: प्रभृति कलिवर्षाणामात्मप्रसिद्ध्यर्थम्। अतो ज्योतिर्ज्ञानपारगै: शिष्यप्रशिष्यानुक्रमं परम्परया सा स्मर्यते। एवं शकाब्दा: पुनरिह चन्द्ररन्ध्रमुनिसंख्यया अस्माभिरबगता:। एवंविधाश्शकाब्दा: नवाद्रयेकाग्निसंयुक्ता द्वादशाभिहता: पुनश्चैत्राद्यतीतमासैश्च सहितास्सर्वे कलियुगातीतरविमासा भवन्ति। न केवलं सर्वे रविमासा:। कुत:। चैत्रादीनां मासानां चान्द्रत्वात् सत्यम्। तथापि रविमासाश्चन्द्रमासमिश्चिता:। रविमासा इति सर्वे कथ्यन्ते। छत्रिणौ गच्छन्ति जाटना गच्छन्तीति तैस्सहवर्तिनामपि लोकव्यवहारत्वात् सर्वे रविमासा इत्युच्यन्ते। एवंविधान् रविमासात् प्रतिराश्य युमाधिकमासैर्गुण्या:। ते च युगाधिकमासा: (196336)षट्त्रिकरमाग्नि-नवभूतेन्दव इति पठ्यन्ते। कुत एतेषां (S2 अधिकमासस्यं)अधिकं मासत्वं विधीयते। रविमासेभ्य:। के ते पुनरिह रविमासा: ननु भागहारत्वेनानन्तरमब्धि(5284000.)-वस्वेकशरास्स्युरयुताहता युगरविमासा: पठ्यन्ते। कुत एतेषामुत्पत्ति:। रविभगणे द्वादशगुणे कृते सति रविमासा: स्यु:। कुतोऽधिकमासानां चोत्पत्ति:। उच्यते। चन्द्रभगणाद्रविभागणोऽपनीयते। शिष्टमधिकचन्द्रमासा भवन्ति। ते च (5343336.)षडग्निगुणवह्निगुणवेदगुणेषव:। एतेभ्यो रविमासगणोऽपनीयते शिष्टमधिकमासा भवन्ति। एतैराधिकमासै: कलियुगातितरविमासान् पृथगभिहत्य रविमासैर्विभज्य यत्फलं गृह्यते तत्कालियुगातीताधिकमासा: स्यु:। कथमिह त्रैराशिकम्। यदि युगरविमासै: युगाधिकमासा लभ्यन्ते कलियुगातीतरविमासै: कियन्तोऽधिकमासा इति कलियुगातीताधिकमासा गृह्यन्ते। अस्मिन् त्रैराशिके युगरविमाससा:। प्रमाणराशि: स्यात्। युगाधिकमासा: फलराशि:। कलियुगातीतरविमासा इच्छाराशित्वेन गृह्यन्ते। एवं तर्हीच्छाफलमिह दूष्यते। कुत:, इच्छाराशे: कलियुगातीतरविमाससङ्घस्य चन्द्रमासमिश्रत्वात्। सत्यम्। तथापि सर्वदा न दूष्यते, यतोऽधिकमासपतनकालादन्यत्र न दोषाय स्यात्। कदा पुनरधिकमासपतनकाल: कल्प्यते। एकस्मिन् मासेऽपनीते पुनस्त्रयर्स्त्रिशद्रविमासानामभ्यन्तरे अधिकमासपतनत्वं न सम्भवति। तदा पुन: कथमहर्गणानयनम्। तत्र कलियुगातीताधिकमासानां सङ्ख्यायामभिनवे सङ्ख्याविशेषे दृष्टे सति तच्छेषे युगाधिकमासङ्ख्याहीने अभिनवसङ्ख्याविशेषस्यैकस्यागमनमसत्यं स्यात्। तत्रैकहीनैरधिकमासैरतीतैरुत्तरत्रोक्तमार्गेणाहर्गणनयनमिष्यते। पुनस्तच्छेपेऽधिकमाससङ्ख्यातुल्ये तदाधिके वा दृष्टे सति सर्वैरधिकमासैरतीतै: कर्म कर्तव्यम्। तत्र तस्मिन्वर्षे चैत्रादिमासयोजनविषये मासानामेकहीनसङ्ख्या गणकै: कल्प्यते। एतत्सर्वं युक्त्यावगन्तुं शक्यमिति नोपन्यस्तम्। एवमधिकमासानतीतानादाय पृथगवस्थापिते रविमासे प्रक्षिप्ते सति सर्वे कलियुगातीतचन्द्रमासा भवन्ति। यतो रविमासचन्द्रमासान्तरस्याधिकत्वम्। एवंविधाश्चन्द्रमासा: त्रिंशता हत्वा वर्तमानमासगततिथिदिनानि युक्त्वा या सङ्ख्या दृश्यते सेह कलियुगातीतचन्द्रदिवससंख्या भवति। तां प्रतिराश्य युगावमै: (3508285)अम्बराष्टेषुद्व्यष्टशून्यशराश्विभि: सङ्गुण्य्य (1903000020.)खाष्टवियद्व्योमखखाग्निखरसेन्दव: इत्यनेन छेदेन विभज्य यत् फलं गृह्यते तत् कलियुगातीतावमदिनानि भवन्ति। किमिह त्रैराशिकमुच्यते। यदि युगचन्द्रदिवसै: युगावमानि लभ्यन्ते, कलियुगातीतचान्द्रै: क्रियन्तीति। अत्र युगचन्द्रदिवसा: प्रमाणं, युगावमानि फलराशि:, अतीतचन्द्रदिवसा: इच्छाराशि:। कीदृशी पुनरनयोरुत्पत्ति:। उच्यते-चन्द्रमासे त्रिंशद्गुणिते दिवसा भवन्ति। त इह भागहारत्वेन कल्प्यन्ते। तेभ्यो भूदिनशोधने कृते तत्रावशिष्टमवमदिनानीति पठ्यन्ते। अतोऽवमरात्राण्यतीतानि प्रतिराशिते कलियुगातीतचन्द्रदिवसे विशोध्य यदवशिष्यते तदहर्गण: कलियुगयात: स्यात्। एवंविधमहर्गणं सप्तभिर्विभज्य तत्रावशिष्टं शुक्रादिवाराद्विगण्य्य तदहर्वार उदयादिर्गण्यते। भास्करोदयादित्युक्तत्वात् उदयकारणभस्माभिरधीयत इत्युक्तं भवति। क: पुनरहर्गण इत्युच्यते। कलियुगातीतसावनदिनानीति यावत्। किं नाम सावनसंज्ञया कथ्यते। बालमूकादिभिर्यंद्यदहोरात्रमित्यवगम्यते तत् सावनमित्यर्थ:। कथम्। उच्यते। अहरहरादित्य: प्राच्यां दिश्यवनेरुत्तिष्ठन्निव दृश्यते। तद्दिनमावनम्। आवनेन सह वर्तत इति सावनम्। एतदुक्तं भवति। भृदिनेषु कलियुगातीतभूदिनानि गण्यन्त इति।।4-8।।
अथेदानीमादित्यादीनां युगभगणगुणकारानुपदिदिक्षु: दस्त्राग्नीति श्लोकत्रयमाह -
दस्नग्निसागरा भानोरयुतघ्ना निशाकृत:।
अङ्गपुष्कररामाग्निशरशैलाद्रिसायका:।।9।।
कौजा वेदाश्विवस्वङ्गनवदस्त्रयमा गुरो:।
सागराश्वियमाम्भोधिरसरामा: प्रकीर्तिता:।।10।।
शनेर(D अथ For अपि)पि च वेदांगभूतषट्कसुराधिपा:।
सावित्रा राजपुत्रस्य भगणा भार्गवस्य च।।11।।
(4320000.) दस्त्राग्निसागरा अयुताहता: सूर्यस्य। (57753336.) अङ्गपुष्कररामाग्नि-शरशैलाद्रिसायका: चन्द्रस्य। (2296824.) वेदाश्विवस्वङ्गनवदस्त्रयमा: कुजस्य। (364224.) सागराश्वियमाम्भोधिरसरामा: गुरो:। (146534.) वेदाङ्गभूतषटकसुराधिपा: शनैश्चरस्य। सावित्रभगणा एव भगणा राजपुत्रस्य भार्गवस्य च। एतदुक्तं भवति। बुधस्य भार्गवस्य च भानुभगणतुल्यत्वप्रर्शनवचनात् आदित्यमध्यममेव तयोरपि मध्यममिति।।9-11।।
अथ चन्द्रोच्चादीनामाह -
इन्दूच्चस्य (488219.)नवैकाश्विवसुप्रकृतिसागरा:।
बौधा: (17637020.)खाश्विखसप्ताग्निरन्ध्रशैलनिशाकरा:।।12।।
भार्गवस्याष्ट(7022388.)वस्वग्नियमदस्त्राम्बराद्रय:।
मध्यमो भास्करश्शीघ्र: शेषाणां पापर्यया:।।13।।
इत्याभ्यां श्लोकाभ्यां बुधसितयो: शीघ्रोच्चमित्युपदिश्य पातपर्ययानाह -
(232226.)अङ्गाश्वियमदस्त्राग्नियमला भूदिनानि तु।
(1577617500.)व्योमशून्यशराद्रीन्दुरन्ध्राद्र्यद्रिशरेन्दव:।।14।।
इति राहुभगणं भूदिनं च कथित्वा सर्वेषां मध्यमोच्चानयनार्थमाह -
पर्ययाहर्गणाभ्यासो ह्रियते भूदिनैस्तत:।
लभ्यन्ते पर्ययाश्शेषाद्राशिभागकलादय:।।15।।
भास्करैस्त्रिंशता षष्ट्या सङ्गुणय्य पृथक् पृथक्।
तेनैव भागहारेण लभ्यन्तेऽर्कोदयावधे:।।16।।
पर्यय इति भगणस्याख्या। अभ्यास इति य: कथ्यते स पुनर्गुणकारेण गुणितस्य यस्यकस्यचिद्राशेः संज्ञा भवति। अत्र पुन: पर्ययेणाहर्गणो गुणित: सोऽभ्याससंज्ञया गृह्यते। स तावदत्र भूदिनैर्ह्रियते। तत्र यदवाप्तं फलं कलियुगातीतपर्यया भवन्ति। तै: प्रयोजनाभावत् तानपनीय तच्छेषं भास्करादिभि: संगुणय्य तेनैव भागहारेण राश्यादीनां विलिप्तान्ताः सूर्योदयवधेः पृथङ्मध्यमोच्चानि लभ्यन्त एवं राश्यादीनां भगणावयवत्वात्। के पुनरिह भगणा इत्युच्यन्ते। द्वादशानां राशीनां समुद्राय इत्यर्थ:। एको राशि: त्रिंशद्भागसमुदाय:। भाग: पुनरेकष्षष्टिलिप्तासमूह:। एका लिप्ता पुनष्षष्टिविलिप्तासमुदाय:। एका विलिप्ता षष्टितत्परासमूह:। एवं तत्परा च। कथमिह त्रैराशिकं मध्यमोच्चानयनस्य उच्यते। ननु (S2.3. बृहति भास्करीये) बृहद्भास्करीये उदीरितान् यान् भगणान् क्षमादिनैर्लभामहे तान् कलियातवासरान् इति प्रलब्धा भगणा:। तत: क्रमात् ग्रहांशलिप्ताविकला: सतत्परा इति। कथं पुनरत्र स्वशास्त्रसंज्ञया वक्ष्यमाणानां भागणादीनां संज्ञावगमनं, तर्हि संज्ञावगमनार्थ व्यख्यास्याम:।
चन्द्रश्शीतांशुरिन्दुश्च चन्द्रमा हिमगु: शशी।
एवमादीनि नामानि चन्द्रस्य कथितानि च।।
रूपमित्येतदेकस्य द्वयोरपि च कीर्त्यते।
नयनस्य तु नामानि युग्मं युगलमेव च।।
यमं च यमलं चैव दस्रौ नासत्य एव च।
अश्विनोर्नामधेयत्वात् द्विसंख्येति प्रकीर्त्यते।।
अग्निनामानि यान्यत्र गुणो लोकाश्च पुष्करा:।
रामो व्रतं त्रयाणां तु कीर्तितानि बुधैस्सदा।।
वेदपर्यायशब्दाश्च समुद्रस्य तथैव च।
कृतश्चेति चतुर्णां च संख्या सद्भिरुद्राहृता।।
इन्द्रियाणि च भूतानि कामदेवेषवस्तथा।
वायुपर्यायशब्दाश्च पञ्चानां तु प्रकीर्तिता:।।
ऋत्वङ्गरससंज्ञास्स्यु: षण्णां चापि प्रकीर्तिता:।
मुनयो गिरिनामानि स्वरपर्याय एव च।।
सप्तानां गणितं बिद्याद्वसुश्च प्रकृतिस्तथा।
नागानां चापि नामानि व्याख्यातानि विदुस्तथा।।
अष्टानामथ रन्ध्रश्च सुषिरछिद्रगौरपि।
नन्दशब्दो नवानां तु शास्त्रेऽस्मिन् कथितानि तु।।
दशानां पङ्क्तिसंज्ञा स्यात् दिगित्येतत्तु कीर्त्यते।
रुद्राणां भास्कराणां च विश्वेदेवगणस्य च।।
मनूनां च सुरेशानां तिथीनामपि कीर्तिता:।
एकादशादिपञ्चानामष्टि: षोडश कीर्तिता:।।
अत्यष्टिरिति सप्तानां सदशानां प्रकीर्त्यते।
धृतिरष्टादशाख्या स्यात् एवमत्रोच्यते बुधै:।।
आकाशस्य च नामानि असद्बिन्दुश्च कीर्तिता।
शून्यस्थानेषु सर्वेषु शास्त्रेऽस्मिन् पठिता बुधै:।।
अनुक्तानां तु संख्यानां यद् दृष्टं तद्विचिन्त्य वै।
कल्पनीयं बुधैरत्र प्रसिद्धं बहुषु श्रुतस्।।15-16।।
अथेदानीमुच्चमध्यमानयनविषये विलिप्तान्तमेवानेतव्यामित्येतत्प्रदर्शनार्थमाह -
विलिप्तान्ता ग्रहा मध्या: शश्युच्चे राशयस्त्रय:।
क्षिप्यन्ते षट् तमोमूर्तो चक्रात् स च विशोध्यते।।17।।
शश्युच्चे राहुमध्यमे च राशित्रयं षट्कं च क्षिप्यत इति ध्रुवरूपेणाभिधीयते। कुत:। कलियुगादे: प्रागेवानयोरे(D1.3 एतावदागमनत्वात्)तावता गमनत्वात्। न तु पुनरन्येषां पूर्वागमनम्। अनयोरपि कृतयुगादौ चक्रात् नभस्त: स च विशोध्यत इत्युक्तोऽपि राहुस्फुटे देशान्तरभुजाविवरस्फुटौ पूर्वं मध्यमे कृत्वा पुनर्मण्डलाद्विशोधनमिष्यते। तयोर्मध्यमसंस्कारत्वात् चरदलस्फुटं विशोधन(D2.3 क्षेपणविरीतेन।)क्षेपेण विपरीतत्वेन स्फुटे कर्तव्यमेव। किन्तु फल्गुत्वादुपेक्ष्यते।।17।।
(D has the following verse from Karanapaddhati between Slokas 17 and 18.)
शतमष्टादशोपेतं द्विशती दशसंयुता।
चक्रार्धभागा नवति: षट्त्रिदस्त्रा: कुजादित:।।18।।
अनेन कुजादीनां पञ्चानां मन्दोच्चांशानुपदिश्य कुजादीनामेव मन्दशीघ्रस्फुटविषये भुजाकोटिसाधनायोत्तरत्र परिधीनिहैवोपदिदिक्षुराह - -
मन्दास्सुराधिपास्यप्त शैला जलाधयो नव ।
अष्टादश च पञ्चाष्टौ द्वौ च युग्मे त्रयोदश।।19।।
पञ्चाशत्त्रिकसंयुक्तास्त्रिशद्रूपेण संयुता:।
षोडशैकोनषष्टिश्च (F G शीघ्ने)शीघ्रा नव च कीर्तिता:।।20।।
द्वाभ्यां द्वाभ्यामथैकेन द्वाभ्यामेकेन वर्जिता:।
त एव स्यु: क्रमाद् युग्मे दृष्टा: परिधयो निजा:।।21।।
सुराधिपा इत्यत्र मनव इत्यर्थ:। मध्यमान्मन्दोच्चेऽपनीते शेषस्य केन्द्रमिति विधीयते। तत्पुनर्द्विविधम् ओजपादं युग्मपादं चेति। ओजपादे कुजादीनां पञ्चपरिधय(14)स्सुराधिपा(7)स्सप्त शैला(7) (4)जलधयो (3)नवेति पठिता:। युग्मपादे च मन्दपरिधय: अष्टादश पञ्च अष्टौ द्वौ त्रयोदश। तथैव शीघ्रस्फुटविषये ओजपादपरिधय:। पञ्चाशत्त्रिकसंयुक्ता: त्रिंशद्रूपेण संयुता: षोडश एकोनषष्टिश्च नव च शीघ्रा: कीर्तिता:। एवमेत एव यथाक्रमेण द्वाभ्यां द्वाभ्यामेकेन च पुनरपि द्वाभ्यां पुनरप्येकेन च शोधिता: शीघ्रस्फुटयुग्मपादपरिधयो भवन्तीत्यर्थ:। निजा: स्वकीया इति यावत्।।19-21।।
एवं स्फुटसाधनान् सपरिधीनुपदिश्य भास्करस्यापि मन्दोच्चांशनपि दर्शयितुमाह --
भास्करस्ययापि मन्दांशा: सप्ततिवंसुसंयुक्ता:।
परिधिश्च त्रिकस्तस्य सप्त चामृततेजस:।।22।।
भास्करस्य मन्दोच्चांशा अष्टाधिका सप्ततिरित्यर्थ:। तस्य परिधिश्च त्रिसङ्ख्य:। चन्द्रस्य परिधिस्सप्तसङ्ख्य। अस्य मन्दोच्च त्रैराशिकानीतं पूर्वमेव। तस्मात् परिधिरेवात्र विधीयते। चन्द्रादित्ययो: मन्दस्फुटेनैकेन सिद्धत्वात् परिध्यन्तरं नोच्यते।।22।।
अथेदानी देशान्तरस्फुटार्थ देशान्तरावगमनार्थम् उपदेष्टुमाह--
लङ्कावात्स्यपुरावन्तीस्थानेश्वरसुरालयान्।
अवगाह्य स्थिता रेखा देशान्तरविधायिनी।।23।।
लङ्कायामेकं शङ्कुकीलं प्रतिष्ठाप्य तेनैकं सूत्राग्रं वद्ध्वा पुनर्मेरोरुपरि तदग्रमन्यत् बध्वा यथा यथा दृश्यते तद्वत् भूमावपि काचिद्रेखा लङ्कात: खरनगरमिति खरपुत: निसितपुरीपर्वत: वास्यगुन्मनगरोज्जयिनीस्थानेश्चरमेरुमस्तकानवगाह्य स्थिता सा पुनरत्र देशान्तरविधायिनी स्यात्।।23।।
कथं तस्यां रेखायां स्थितानां देशान्तरस्फुटं न क्रियते। तस्या: पूर्वपश्चिमदिक्स्थानां स्वदेशरेखान्तरयोजनै: एतत्कर्तव्यमेव। कथं पुनस्तदन्तरालयोजनावगमनमित्यत आह -
लम्बकेनाहतं भूमेर्नवरन्ध्राश्चिवह्नय:।
ध्यासार्धापहृतं वृत्तं स्वदेशे तत् प्रकीर्त्यते।।24।।
(3266)नवरन्ध्राश्चिवह्नय इत्येतत् भूवृत्तमवलम्बकैन हत्वा व्यासार्धेन विभज्य यत्फलं लभ्यते तत्स्वदेभूवृत्तमन्यदिति चोच्यते। गोलकाकारस्य खमध्यस्थस्य भूमृत्पिण्डस्य लङ्कासमपूर्वापरस्य समन्ततो वृत्तस्य प्रमाणं नवरन्ध्राश्चिवह्नय इति यानि योजनानि कथ्यन्ते। तस्माद् भूपरिधेरुत्तरभूभागविषयस्था तद्वत्स्वदेशपरिधि: एवंविधेनानीयते। कथम्। यदि व्यासार्धस्य नवरन्ध्राश्विवह्नय इति लभ्यते भूपरिधि: स्वदेशाबलम्बकस्य क्रियान् लभ्यते। क्व पुनरवलम्बकमुच्यते इति चेत् त्रिप्रश्नाध्यायस्यादावेवाक्षावलम्बकावुच्येते। कथमिह गोलकाकारस्य शैलकाननसमुद्रस्य भूपिण्डस्य खमध्यावस्थितिस्सम्भवति, गुरुद्रव्यत्वात्। नैष दोष:, वायुवशात् गुरुद्रव्यमप्याकाशे दृश्यत एव। यथा सलिलसम्पूर्णमेघादय:। तद्वत् भूमिरप्यांकाशे दृश्यत एव। यथा सलिलसम्पूर्णमेघादयः। तद्वद् भूमिरप्यांकाशे भपञ्चरमध्ये तिष्ठत्येव। भूवायुरपि भूमिमचलमवलम्ब्य तिष्ठति, तथा गोलस्थिति:। अलमतिप्रसङ्गेन।।24।।
समरेखास्वदेशाक्षविश्लेषान्तरसङ्गुणम्।
वृत्तं (B H स्ववेशजा)स्वदेशजं भूमेर्बाहुश्चक्रांशकोद्धृत:।।25।।
समरेखायां खरनगरप्रभृतिषु नगरेष्वैकस्मिन् अक्षप्रमाणमवगम्य स्वदेशजाक्षेण विश्लेषं कृत्वा यो विशेष:, स तावदिह समरेखास्वदेशाक्षविश्लेषान्तरमित्युच्यते। तेन अन्तरेण स्वदेशभूमिपरिधि संगुणय्य चक्रांशकै षष्ठिशतत्रयगुणितैर्विभज्य यदवाप्तं (S1. Omit this word.)फलं तत् बाहुर्नाम भवति। भुजेत्यर्थ:। कथं पुनश्चक्रांशकै: आहरणमत्र विधीयते। लिप्तीभूताक्षज्याविशेषेण गुणिते सति स्वदेशभूवृत्ते चक्रलिप्ताभिराहरणं नन्विष्यते। सत्यमेतत्। अक्षविशेषं षष्ट्या समारोप्यांशीभूतेन गुणिते सति चक्रांशक एव भागहार:। प्रमाणराशितुल्यत्वात् इच्छाराशे:। अक्षशब्देन यदुच्यते भागौभूतस्वाक्षज्याकलाविकलास्वस्य प्रसिद्धि:। जीवारूपस्याक्षज्येति कथ्यते। तद्विशेषेण गुणितस्य चक्रकला एव भागहार:।।25।।
एवं बाहुस्वरूपमुक्त्वा (S1 कर्णाद्यवगमनार्थ। )कर्णावगमनार्थमाह -
कर्णस्वदेशतस्तिर्यक् समरेखावधे: स्थित:।
तद्बाहुवर्गविश्लेषमूलं देशान्तरं स्मृतम्।।26।।
यस्मिन् देशे समरेखाक्षमवगम्यते तस्मान्नगरादीशाननैर्ऋते सूत्रस्वरूपेण वायव्याग्नेयसूत्रस्वरूपेण तिर्यग्वा स्वदेशालयानि योजनान्यवगम्यन्ते। जानपदैस्तेषां योजमानां प्रमाणं कर्ण इति अत्रोच्यते। तादृग्बिधं कर्ण जनपदभाषितं वर्गीकृत्य पूर्वापनीतबाहुमपि वर्गीकृत्य कर्णवर्गात् बाहुवर्गमपनीय शेषस्य यन्मूलं गृह्यते तत् समरेखायां स्वदेशस्य च ऋजुरूपेणान्तरालयोजनानां प्रमाणं स्यात्।।26।।
एवमनेनोपायेन देशान्तरयोनान्युपदिश्य योजनान्येवंविधानि केचित् गणितविदो नेच्छन्तीत्यत आह -
इत्याहु: (B C आचार्यो)केचिदाचार्य नैवमित्यपरे जगु:।
स्थूलत्वात् कर्णसख्याया वत्रत्वात् परिधेर्भुव:।।27।।
जनपदभाषितस्य कर्णस्य भुव: परिधेर्वकत्वाच्चैवं न भवतीति जगुराचार्या:। कथमितिचेत्, समभूमौ सूत्रैश्चतुरश्रमायामचतुरश्रं वा कृत्वा कर्णसूत्रमपि प्रसार्य तस्मिन्नर्धायतचतुरश्रेऽर्धचतुरश्रे वा कोटिभुजाकर्णकल्पाना भवति। कथं, तत्र तिर्यग्स्वरूपेण यत् सूत्रं दृश्यते तत् कर्णसूत्रम् अन्ये पुन: एकपार्श्वस्य द्वे सूत्रे भुजाकोटीत्युच्येते। तेषु कर्णकोटिभुजासंज्ञेषु सूत्रेषु द्वाभ्यां सूत्रप्रमाणाभ्यां तृतीयस्य प्रमाणकम् गन्तु शक्यम्। तद्यथा कर्णवर्गात् कोटिवर्गमपनीय शेषस्य मूलं भूजा प्रमाणं, भुजावर्गं कर्णवर्गादपनीय तस्य मूलं कोटिरित्यवगन्तव्यम्। पुनर्भुजाकोटिवर्गसंयोगमूलं कर्णप्रमाणं स्यात्। एवं समभूमौ विहितया गणितयुक्त्या (एकं?) निम्नोन्नतविषमभूमौ जनपदभाषितस्य कर्णस्याप्रमाणत्वात् गोलकाकारस्य भूपरिधेरुपरि योजनानामृजुभावासम्भवाच्चैवं न भवतीत्यपरे नेच्छन्तीत्यर्थं:।।27।।
अथेदानीं देशान्तरावगमणर्थं अन्यदुपायान्तरमन्यैरुक्तं त्विदमुपदिश्य पुनस्तन्निराकर्तुमाह -
मध्यच्छायदिनार्धोत्थतिग्मरश्म्योर्यदन्तरम्।
न (CFGH त पलस्य)तत्फलस्य तुल्यत्वात् समपूर्वापराशयो:।।28।।
उत्तरत्र त्रिप्रश्नाध्याये मध्यह्नशङ्कुच्छायया नतिमानीय नत्यक्ष-काष्ठाभ्यामपक्रममानीयापक्रमानयनविपरीतात् स्फुटादित्यस्तावदानीयते। तेनप्रकारेणादित्य आनीतो मध्याह्नकाले तत्कालीकृतस्फुटतिग्मरश्मिर्भवति। अथ मध्याह्नकाले मध्यमावेव खण्डित्वा देशान्तरकरणेन स्फुटीकृततिग्मरश्मि:। सोऽपि दिनार्धजनिततिग्मरश्मिर्भवति। एवमुभयो-स्तिग्मरश्म्योर्यद्विशेषं तद्देशान्तरं भवति। कैश्चिद् दूष्यते। तन्न घटते। कुत:। समपूर्वापरदिक्स्थानां (BC पलस्य।)फलस्य तुल्यत्वात्। किं पुनरिह (BC पत्रमित्यच्यते)फलमित्युच्यते। साक्षज्येत्यर्थः।।28।।
(S3 स्थितपातदेशान्तरे।) पूर्वपश्चिमदिविस्थतदेशान्तरशोधनक्षे (S1 क्षेपणादूनधिक) पणवंशादूनाधिक (S2भावात् भागात्।) भागादनेनोपायेन देशान्तरमुपगन्तुं शक्यमित्येतन्निराकृत्य सम्यग्देशान्तरमुपदिदुक्षुराह--
गुणितप्रक्रियावाप्तप्रत्यक्षीकृतकालयो:।
(G विश्लेषो ग्रहणयोर्यः)विश्लेषो यो प्रहणयो: कालो देशान्तरस्य स:।।29।।
देशान्तरस्फुटमन्तरेण गणितप्रक्रियया चन्द्रादित्ययो: स्फुटं कृत्वा समीकृत्या यथौक्तमर्गेण चन्द्रादित्यग्रहणस्पर्शकाले विदिते सति तस्मात् कालात् पूर्वं पश्चाद्वा यावत्काले तत्स्पर्शदर्शनं सम्भवति तदन्तरं देशान्तरमित्युच्यते। एतदुक्तं भवति-गणितानीतकालस्य प्रत्यक्षीकृतकालस्य चान्तरालभूतै: यावद्भिर्घटिकाभि: प्रग्रासो दृश्यते तदन्तरालकालो देशान्तरकाल इति।।29।।
अथेदानीं समरेखाया: पूर्वेण स्थितोऽहमथवा पश्चिमेन स्थितोऽहमिति पूर्वमथ पुनस्तस्यामेव रेखायां स्थितोऽहमित्युक्तवान्। तदन्यत्र तदपगमनोपायं दर्शयितुमाह --
अतीत्य गणितानीतं यदा स्यातामुपप्लुती।
पूर्वेण समरेखाया दृष्टा स्यात्पश्चिमेऽन्यथा।।30।।
गणितानीतं कालमतीत्य चन्द्रादित्ययोरूपप्लुती यदा स्यातां तदा समरेखाया: पूर्वस्मिन् देशे स्थित्वा पश्यति द्रष्टा, अन्यथा चेत् गणितातीतकालात् पूर्वमेव पश्यति चेत् समरेखाया: पश्चिमे देशे द्रष्टा स्थित्वा पश्यतीत्यवगन्तव्यम्। यत्र पुनस्तदानीमेघ दृश्यते स तावत्समरेखायामेव स्थित्वा पश्तीत्यर्थ:। उपप्लुति: ग्रहणिमिति यावत्।।30।।
देशान्तरघटीक्षुण्णां मध्या भुक्तिर्द्यु(BDE विचारिणां)चारिणाम्।
षष्ट्या भक्तमृणं प्राच्यां रेखाया: पश्चिमे धनम्।।31।।
देशान्तरघटिकाभिरेवंविधाभिर्विवर्धिता सूर्यादीनां पातान्तानां यस्य यस्य या या मध्यभुक्तिस्तस्या: पुनष्षष्ट्या विभज्य यत्फलं लिप्तादि वा गृह्यते तत्फल समरेखाया: पूर्वपश्चिमविषयस्थैस्तस्य मध्यमे लिप्तास्थाने विलिप्तास्थाने वा ऋणधनं कर्तव्यम्। का: पुनरिह सूर्यादीनां नवानां पातान्तानां मध्यमभुक्तय:। एकेन दिनेन यन्मध्यममानीयते तद्विलिप्तीकृता मध्यमभुक्तिरित्युच्यते। अथवा श्वस्तनाद्यतनमध्यमविशेषो मध्यमभुक्तिरित्युच्यते। ता: पुनरेता: पठ्यन्ते --
वसुदेवेषुहव्याशा: पञ्चाग्न्यब्धिमस्वराब्धय:।
रसाष्टवसुरूपाणि द्वयग्न्यद्रिमनवस्तथा।।
छिद्रद्वारयमाश्चापि वसुषट्कस्वरेषव:।
खयुग्मशशिनश्चापि चन्द्रशून्याब्धयस्तथा।।
चन्द्रद्वारेन्दव: प्रोक्ता विकला मध्यभुक्तय:।
सूर्यादीनां नवानां तु पातान्तानां यथाक्रमात्।।
कथं पुनर्देशान्तरघटिकाभि: विनाडिकाप्रमाणसहिताभि: गुणिते सति भागहार इति चेत् तथाविधाभिष्षष्टिघटिकाभि: ग्राह्या स्यात्। घटिकागुणितस्य घटिकैव भागहारो विघटिकागुणितस्य विघटिकैव प्राणैरहोरात्रासवो ननु भागहारत्वेन कल्प्यन्ते।।31।।
एव देशान्तरस्फुटकरणमुपदिश्य पुनर्देशान्तरघटिकाभिरेव स्वदेशसमरेखान्तरयोजनावगमार्थमाह --
स्वदेशभूमिवृत्तेन हत्वा देशान्तरा घटी:।
षष्ट्या विभज्य लभ्यन्ते योजनानि स्वदेशत:।।32।।
पूर्वोक्तस्वदेशभूपरिधिदेशान्तरं घटिकादिभि: संगुणय्य षष्ट्यादिर्भिविभज्य यत् फलं लभ्यते तत् स्वदेशसमरेखान्तरयोजनानि भवन्तीत्यर्थ:।।32।।
पुनरेवविधै: स्वदेशयौजनैरपि स्वदेशान्तरस्फुटं कर्तुमाह -
योजनैर्मध्यमां भुक्तिं हत्वा तद्देशजै: सदा। स्वभूवृत्तेन यल्लब्धं शोध्यं क्षेप्यं च(AEFH स्वेपद्यते) मध्यमे।।33।।
भुक्तिं सगुणय्य स्वभूमिवृत्तेन यदवाप्तं फलं स्वे स्वे मध्यमे रेखाया: पूर्वापरदिवस्थै: शोधनक्षेपणं पूर्ववत् कर्तव्यमिति यावत्।।33।।
अथेदानी पूर्वापरिदिक्स्थितानां गणितानीतं कालमतीत्य तत्पूर्वं वा दर्शनं सम्भवतीत्य आह-
देशान्तरघटीभोगप्रक्षेपापचयो विधि:।
ऊनाधिकतिथेर्हेतुस्तेन वृष्टं न हीयते।।34।।
देशान्तरघटिकाभिर्योजनैर्वा यत् फलमादाय चन्द्रमध्यमे स्वदेशदिग्वशादृणधनं कर्तव्यमिति यो विधिरत्नाभिधीयते स तावत्तिथेरूनाधिकत्वस्य कारणं स्यात्। तस्मात् प्राच्यां दिशि स्थितानां गणितानीतोपप्लुतिकालमतीत्य दर्शनं पश्चिमदिक्स्थितानां पूर्व सम्भवति दर्शनमिति यदुक्तं तच्चात्र न हीयत इत्यर्थः। कुत:। अकृतदेशान्तरात् चन्द्रस्फुटाद्भानुस्फुटमपनीय यावता प्रमाणेन पर्वतिथिरवगम्यते तस्यास्थिते: देशान्तरशोधनक्षेपणवशात्तावत्प्रमाणस्योनाधिकत्वं सम्भवत्येत्र। तस्मात् सर्वसन्धौ गणितानीतकालमतीत्य तत्पूर्वं चोभयतो ग्रहणदर्शनमस्त्येव।।35।।
इतरथा हि भूगोलस्य पूर्वपश्चिमविषयस्थानां विपरीतदर्शनमनुपपन्नं स्यात्। तदर्थमिदमाह-
मोक्ष्यमाणे तु शीतांशौ नाडिकायामिहास्तगे।
मुक्त्वास्तं पश्चिमे यात्रा: प्राच्यां प्रहुस्तथा(EFH तदा।) ग्रह:।।35।।
समरेखायां ये स्थितास्तेषां चन्द्रग्रहणस्य गृहीतं यावत्प्रमाणं (S2 दर्शनामन्तर) तावद्दृर्शनान्तरं रोमकविषयस्याधोलम्बनत्वात् दर्शनविषयमस्तमयतीति मन्यमानास्ते तदानीमेवास्तमयामासीदित्याहु: किल। अन्ये पुन: पश्चिमदिक्स्थितास्तद्ग्रहणं मुक्त्वैवास्तमुपगत इत्यूचु:। पुन: प्राच्यां ये स्थितास्ते तदानीं स्पर्शकाल एवास्तमयमापन्न इति प्रोक्तवन्त: किल। यथा ह्याचार्येणार्यभटेनैवोपदिष्टम्-
उदयो यो लङ्कायां सौऽस्तमयस्सवितुरेव सिद्धपुरे।
मध्याह्ने यवकोट्यां रोमकविषयेऽर्धरात्रं स्यात्।।35।।
एवं भूगोलोपरिस्थितानां दर्शनक्रममनुक्रमेण व्याख्याय देशान्तरस्फुटम् अवश्यं कर्तव्यमेव। एतत् प्रदर्शनार्थमाह -
विपरीतधनर्णत्वे यथा दृष्टा तिथिर्न सा।
अन्यथा प्रक्रियाप्राप्तिर्गत्यन्यत्वं ग्रहस्य च।।36।।
यस्मिन् देशे शोधनं क्षेपनं चोक्तं तद्विपरीतधनर्णत्वं स्यात्। अथवा विपरीतशब्देन देशान्तरस्फुटस्याकरणात्वमभिधीयते। उभयथा या तिथिरुच्यते, सा पुनरिष्ट्यादिषु कर्मसु शुद्धो तिथिर्गृह्यत इत्यर्थः। ग्रहगतिरपि देशान्तरकरणेन विनान्यथा स्यात्।।36।।
इति देशान्तरस्फुटं सर्वेषां कर्तव्यमित्युपदिश्य लम्वनयुक्त्या देशान्तरयुक्तिर्न घटत इत्यत आह -
धनर्णे स्तस्तिथेस्तस्य कालस्येन्द्वर्कयोस्तत:।
लम्बनस्येव नात्र स्याद्युक्तिर्देशान्तरस्य सा।।37।।
उत्तरत्र सूर्यग्रहणेनाविशेषलम्बनमानीय पर्वणि सूर्येन्द्वोश्च पूर्वाह्ने शोधनमपराह्ने क्षेपणं च यदुच्यते तत्पुनस्समरेखाया: प्राच्यां पश्चिमायां च दिशि तुल्यम्। न तु पुन: पूर्वस्यां दिशि नित्यत्वेन शोधनं पश्चिमायां दिशि नित्यत्वेन क्षेपणमपि देशान्तरस्फुटाकरणमिव क्रियते। एतदुक्तं भवति-लम्बनस्य कालवशाद्या युक्तिरभिधीयते सा पुनर्द्देशान्तरवंश न गृह्यत इति यावत्।।37।।
इति शङ्करनारायणीये लघुभास्करीयविवरणे
प्रथमोऽध्याय:।।