।।श्रीगणेशाय नमः।।
पृथुयशविरचितम्
होरासारः

दशाफलनिरूपणोऽध्याय

अथ दशाफलनिरूपणम्

होरादिनेशशशिनां प्रबलो भवेद्यस्तत्कण्टकादिषु गता कथिता दशेशाः।
पूर्वा दशातिबलिनः सदृशोऽब्दवृन्दो साम्ये भवेच्च शरदां प्रथमोदितस्य।।1।।

वयोमुखेषु त्रिषु च त्रयः स्युर्लग्रार्कचन्द्रा बलसन्नियोगात्।
यथाबलं कालविधानमेत्य त्रिधाऽऽहिता हि त्रिभिरेव विद्यात्।।2।।

स्वोच्चस्थितो मित्रभगः स्ववर्गे स्वर्क्षेऽपि चान्यैरशुभैरदृष्टः।
जन्माधिपस्तद्गुणवीर्यवान् स्यात्तञ्जन्मकालेऽपि शुभप्रदः स्यात्।।3।।

त्रिषट्कलाभेषुगतैः समस्तैः सौम्यैः सुखादीनि भवन्ति बाल्ये।
तत्रैव पापैर्वयसोऽन्त्यकाले जायार्थपुत्रा हि भवन्ति सम्यक्।।4।।

लग्नस्य पूर्वं न भवेद्दशा तु यदा तदा त्वन्यदशा भवेत्सा।
जन्ये तु नेच्छन्ति परे तु केचिद्गुरुप्रसादेन च लभ्यमेतत्।।5।।

उच्चान्निवृत्ते त्ववरोहिसंज्ञा क्रमात् क्षयं यान्ति दृशाफलानि।
आरोहिणी स्वेच्चमुखाभिलाषे क्रमेण सर्वं फलमातनोति।।6।।

तुङ्गसुहृत्स्वगृहांशे नीचे रिपुभेऽस्तसंस्थिते वाऽपि।
तस्य दशा मिश्रफला दशा परार्द्धे शुभप्रदा ज्ञेया।।7।।

सविता दशाफलानां प्रापयिता चन्द्रमाः प्रबोधयिता।
आदित्यचन्द्रवशगाः सर्वे ताराग्रहा ज्ञेयाः।।8।।

चन्द्रावनेयसोमजभृगुसुतगुरुसूर्यमन्दानाम्।
क्रमशो दशापरिग्रह इष्टा नैसर्गिकी शुभा प्रोक्ता।।9।।

कष्टगृहे कष्टांशे मूढेऽपि निसर्गसंस्थिताः शुभदाः।
शस्तगृहे शस्तांशे निसर्गयोगास्तु राज्यफलदाः स्युः।।10।।

यस्य नवांशकहोरा भास्करसंज्ञा प्रवृद्धफलदा स्यात्।
शशिभागांश्चकहोरा सुषुप्तिचिन्तासु फलदा स्यात्।।11।।

पापकतौ लग्नस्थे स्वोच्च स्वर्क्षे त्रिभागदशमे स्वे।
तस्य दशा पुष्टफला तेषु नवांशस्थितेषु मध्यफला।।12।।

चन्द्रस्तु दशारम्भे कुलीरभवनस्थितो यदा भवति।
स्त्रीदोषकृत्पशुघ्नः कुजभवने हन्ति वास्तुपतिम्।।13।।

विद्याशास्त्रज्ञानं मित्रप्राप्तिं करोति बुधराशौ।
सुखगृहमानावाप्तिं जीवगृहे दिशति शीतकरः।।14।।

शौक्रेऽन्नपानमतुलं सौख्यं चन्द्रो विनाशं च।
परिणतवनिताप्रीतिं सौरगृहे प्रेष्यकर्मरतिम्।।15।।

दुर्गारण्यनिवासं कर्षणकर्मसु रतिं महोत्साहम्।
सिंहे शशी प्रकुरुते स्त्रीपुत्रविवादमनिशं वा।।16।।

मित्रोच्चोपचयस्थाने त्रिकोणे सप्तमेऽपि वा।
पाकेश्वरे स्थितश्चन्द्रः कुरुते सत्फलां दशाम्।।17।।

विपरीतगतश्चन्द्रो दशादौ पर्यवस्थितः।
स्वोच्चगस्यापि खेटस्य दशा न प्रतिपूजिता।।18।।

एतैः प्रकारैर्बहुभिरवधार्य विवेकिना।
शुभाशुभपरिज्ञानं पुरुषं प्रतिचिन्तयेत्।।19।।

इति श्रीवराहमिहिरसुतश्रीपृथुयशोविरचिते होरासारे दशाफलनिरूपणाध्यायोऽष्टमः।।